Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

3. bastisūtrīyā siddhiḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो बस्तिसूत्रीयां सिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये वमनादिप्रवृत्तिविषयादिकमभिधाय कल्पनासिद्ध्युक्तबस्तिकल्पनायाः प्रपञ्चेनाभिधानार्थं बस्तिसूत्रीया सिद्धिरुच्यते| बस्तेरितिकर्तव्यताभिधायकसूत्रमधिकृत्य कृता सिद्धिर्बस्तिसूत्रीयसिद्धिः||१-२||

Adhikarana 2 (3-5) · Śloka 5

कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे| महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत्||३|| बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्| कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः||४|| निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः| के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः||५||

🔊 Audio coming soon

धनेशायतनस्येति हिमालयस्य| बस्तिर्नरेभ्य इत्यादयो दश प्रश्नाः| नेत्रं नलिका| किंयोनिगुणश्च बस्तिरित्यत्र बस्तिः बस्तिपुटकः, योनिः प्रभवस्थानम्| स्नेहस्य वा केति अनुवासनस्य का प्रणिधानमात्रा| अनुवासनस्य चात्र प्रपञ्चोऽभिधातव्यः; तेनानुवासनस्य कल्पमात्रप्रश्नोऽत्र बोद्धव्यः; यदा तु ‘स्नेहस्य वा कः’ इति पाठः, तदा स्नेहस्य निरूहदिनदीयमानस्य को विधिरित्यर्थः, स चोत्तरग्रन्थेन सङ्गतार्थ एव| के बस्तयः केषु हिता इति केभ्यः पुरुषेभ्यः किंयोनया हिता बस्तय इत्यर्थः||३-५||

Adhikarana 3 (6) · Śloka 6

समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि| बस्तिः प्रयुक्तो नियतं गुणाय स्यात् सर्वकर्माणि च सिद्धिमन्ति||६||

🔊 Audio coming soon

समीक्ष्येत्यादि| अत्र दोषादयो ये दश परीक्षणीयाः प्रोक्तास्तेष्वेव उपकल्पनीयोक्तदोषभेषजाद्येकादशकस्य तथा रोगभिषग्जितीयोक्तदशपरीक्ष्यस्यावरोधो व्याख्येयः; अनुक्तावरोधश्चायं योनिव्यापत्तिक एवास्माभिरुक्तोऽनुसरणीयः| समीक्ष्येति ज्ञानपूर्वकमवेक्ष्य| सर्वकर्माणि चेति वमनादीनि च दोषादीनपेक्ष्य प्रयुक्तानि गुणकराणि भवन्ति||६||

Adhikarana 4 (7) · Śloka 7

सुवर्णरूप्यत्रपुताम्ररीतिकांस्यास्थिशस्त्रद्रुमवेणुदन्तैः | नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सु(त्रि)कर्णिकानि ||७||

🔊 Audio coming soon

किम्मयमस्य नेत्रमित्यस्य प्रश्नस्योत्तरं- सुवर्णेत्यादि| त्रपु वङ्गं, रीतिः पित्तलम्| विषाणैरिति महिषादिशृङ्गैः| सुकर्णिकानीति सुसमाहितकर्णिकानि; ‘त्रिकर्णिकानि’ इति केचित् पठन्ति, त्रिकर्णिकत्वं चाग्रे वक्ष्यमाणम्||७||

Adhikarana 5 (8-9) · Śloka 10

षड्द्वादशाष्टाङ्गुलसम्मितानि षड्विंशतिद्वादशवर्षजानाम्| स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव||८|| यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति| ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि||९|| स्यात् कर्णिकैकाऽग्रचतुर्थभागे मूलाश्रिते बस्तिनिबन्धने द्वे|१०|

🔊 Audio coming soon

‘कीदृक्प्रमाणाकृति’ इत्यस्योत्तरं- षडित्यादि| तत्र षडङ्गुलमेकवर्षात् प्रभृति यावत् षड्वर्षं, द्वादशवर्षस्याष्टाङ्गुलं नेत्रं भवति, विंशतिवर्षस्य द्वादशाङ्गुलं नेत्रं भवति| अत्र व्युत्क्रमाभिधानेन षड्वर्षादर्वाग्विंशतिवर्षादूर्ध्वं च नेत्रमानविकल्पो नास्ति, षड्वर्षादूर्ध्वं नेत्रमानविकल्पोऽस्तीति दर्शयति; तेन षड्वर्षादूर्ध्वं प्रत्यब्दमङ्गुलतृतीयभागवृद्धिर्भवति, द्वादशादूर्ध्वं प्रत्यब्दमर्धाङ्गुलवृद्धिः, एवमुक्तमानपूरणं भवति| सुश्रुते नेत्रमानभेद उक्तः, स नातिविरोधकारितया उपेक्षणीय एव| उक्तं हि तत्र- “सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलं नेत्रं, पञ्चविंशतिवर्षादूर्ध्वं द्वादशाङ्गुलम्” (सु.चि.अ.३५) इति| मुद्गादिवाहिच्छिद्रत्वं यथासङ्ख्यं षड्द्वादशाष्टाङ्गुलनेत्रेषु ज्ञेयम्| कर्कन्धुशब्देनेह शृगालबदरी स्वल्पा गृह्यते; उक्तं हि सुश्रुते- “कोलास्थिमात्रच्छिद्रं” (सु.चि.अ.३५) इति| बृहद्बदरीग्रहणे तु कनिष्ठाप्रमाणाग्रं तद्वहनं नार्हति; केचिदेवं विरोधं पश्यन्तो बदरास्थिमज्जानमिह कर्कन्धूशब्देन ग्राहयन्ति| सतीनः वर्तुलकलायः| वर्त्याऽपिहितानीति द्रव्यान्तरप्रवेशनिरासार्थं वर्त्याऽपिहितमुखानि कर्तव्यानि| यथावय इति यस्मिन् वयसि नेत्रं विहितं, तद्वयःस्थस्यैवाङ्गुष्ठकनिष्ठाभ्यां यथासङ्ख्यं मूलेऽग्रे च तुल्यपरिणाहं नेत्रं कर्तव्यम्| ऋजूनीत्यादिना नेत्रगुणानाह| श्लक्ष्णानीति अकर्कशानि| गुटिकामुखानीत्यनेन वर्तुलमुखतयाऽतीक्ष्णमुखतां दर्शयति| एका कर्णिकाऽग्रे कर्तव्या नेत्रस्यान्तःप्रवेशनिरासार्थं, बस्तिनिबन्धने द्वे इति बस्तिनिबन्धनप्रयोजनके द्वे||८-९||-

Adhikarana 6 (10-11) · Śloka 11

जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि||१०|| दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः | नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः||११||

🔊 Audio coming soon

केभ्यश्च किंयोनिगुणश्च बस्तिरित्यस्योत्तरं- जारद्गव इत्यादि|- जारद्गवः वृद्धगोभवः| बस्तिरिति मूत्राशयपुटकम्| नष्टसिर इति समुद्धृतसिरासन्ततिः | विगतः पूतिगन्धो यस्य स विगन्धः| कषायरक्त इति कषायभावनया रक्तीकृतः | वयो वीक्ष्य यथानुरूपमिति वयोभेदेन यथोक्तेन यो बस्तिर्यस्योचितप्रमाणो भवति, स तस्य नेत्रे निबन्धनीयः| एतेन ‘केभ्यः को बस्तिः’ इत्यस्योत्तरं भवति||१०-११||

Adhikarana 7 (12) · Śloka 12

बस्तेरलाभे प्लवजो गलो वा स्यादङ्कपादः सुघनः पटो वा|१२|

🔊 Audio coming soon

बस्त्यप्राप्तावनुकल्पविधिमाह- बस्तेरलाभे इत्यादि| प्लवज इति प्रसेवकगलः पक्षी ‘प्लव’ इति ख्यातः| अङ्कपादः चर्मचटकः, तस्य चर्म ग्राह्यं बस्त्यर्थम्|१२|

Adhikarana 8 (12) · Śloka 13

आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपक्षे||१२|| प्रशस्तनक्षत्रमुहूर्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत |१३|

🔊 Audio coming soon

‘निरूहकल्पः’ इत्यादिप्रश्नस्योत्तरम्- आस्थापनार्हमित्यादि| शुक्लपक्षे इति शुक्लपक्षस्य सर्वारम्भेषु प्रशस्तत्वात्, हारीतेन तु कृष्णपक्ष एवात्र विहितः; उक्तं हि- “कृष्णपक्षे कार्यं, जन्मनि सर्वरोगा हताः सुहता भवन्तीति वदन्ति शास्त्रज्ञाः; शुक्ले देवा जाताः, कृष्णेऽसुराश्च सर्वरोगाश्च; तस्माद्रोगचिकित्सा कृष्णे सदैव कर्तव्या” इति| एकाग्रमिति बस्तिप्रयोगैकमनसम्||१२||-

Adhikarana 9 (13-19) · Śloka 20

बलां गुडूचीं त्रिफलां सरास्नां द्वे पञ्चमूले च पलोन्मितानि||१३|| अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्| पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम्||१४|| कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः| गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं च||१५|| प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलीकम्| अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम्||१६|| तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्| समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपपन्ने||१७|| सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्| सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम्||१८|| स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वन पृष्ठवंशम्| अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम् ||१९|| प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत्|२०|

🔊 Audio coming soon

बलामित्यादिना बस्तिविधानमाह| पलोन्मितत्वमिह त्रिफलापञ्चमूल्योरपि प्रतिद्रव्यम्| फलानीति मदनफलानि, तानि चाकृत्यैवाष्टाविह| अत्र बलादीनामौषधानामौत्सर्गिकक्वाथविधिनाऽष्टमदनफलाधिकषट्षष्टिपलत्वं “क्वाथः क्वाथ्यसमः” इतिवचनाद् बहुक्वाथो भवति; बस्तौ च पुटत्रयदानेऽपि प्रतिपुटके दशपलक्वाथदाननियमात् त्रिंशत्पलानि परमुपयुज्यन्ते, शेषस्तु यद्यपि निष्प्रयोजनस्तथाऽपि महर्षिवचनाद्यावत्प्रमाणमुक्तं तावतैव क्रियमाणः क्वाथोऽत्र गुणवान् भवतीति, तेन न मीमांस्यमेतत्; उक्तं हि- “यथा कुर्वन्ति, स उपायः” (सू.अ.२६); इति किंवा, उपयुक्तक्वाथ्यद्रव्यमानविभागोदाहरणार्थमेतदुक्तं , तेन तदनुसारेणोपयुक्तक्वाथसाधनयोग्यमानमेव क्वाथ्यं ग्रहीतव्यम्| यवान्यादीनां प्रत्येकं प्रतिनिरूहं पिचुमानत्वं; पिचुः कर्षः| स्नेहस्येति घृततैलस्य, उक्तत्वात् | एतच्च स्नेहमानं प्रकृतिस्थे पुरुषे वक्ष्यमाणव्यवस्थया ज्ञेयम्| ‘युक्त्या मधुसैन्धवे च’ इत्यनेन मधुसैन्धवयोः प्रकृत्याद्यपेक्षयाऽनियतं मानं दर्शयति; चकारो मांसरसक्षीरगोमूत्रादीनां चानियतं मानं दर्शयति; एषां च मानव्यवस्थामग्रे कषायमानप्रस्तावे दर्शयिष्यामः| उच्छ्वास्येति उच्छ्वासनेन द्रव्याभिघातजनितवातनिर्गममिच्छति| निर्वलीकमिति क्रियाविशेषणम्| नेत्राग्रसंस्थामिति प्रथमं द्रवनिर्गमादिप्रतिषेधार्थं नलिकाग्रमुखदत्तां वर्तिम्| तैलाक्तगात्रमिति अभ्यङ्गसाहचर्यात् स्वेदोऽपि ज्ञेयः, तेनाभ्यक्तस्विन्नमित्यर्थः; उक्तं ह्यन्यत्र “अनुवासितमास्थापयेदभ्यक्तस्विन्नशरीरम्” (सु.चि.अ.३८) इति| प्रस्तावागतशयनविधिमाह- शयने मनुष्यमित्यादि| समेऽथवेषन्नतशीर्षके वेति विकल्पद्वयमातुरेच्छया कर्तव्यं; किंवा, उन्नतकटीदेशस्य पुरुषस्य समं, तुच्छकटीकस्योन्नतशीर्षं शयनं विधेयम्, एवं हि तयोः सम्यग्बस्तिर्देहानुसारी भवति| सव्येनेति वामेन; वामपार्श्वशयनप्रयोजनं ‘वामाश्रये हि’ इत्यादिना वक्ष्यमाणम्| मनुष्यं यथोक्तसर्वगुणं कृत्वा तं प्रणयेदिति सम्बन्धः| स्वभुजोपधानं यथा भवति तथा शयानम्; उपधानं गण्डुः| सव्येतरद् दक्षिणम्| सक्थि जङ्घा| वामं सक्थि प्रसार्य, तदुपरि दक्षिणं सक्थि सङ्कोच्य, विसृतसव्यसक्थिसङ्कुचितदक्षिणसक्थीत्यर्थः| स्निग्धे गुदे नेत्रचतुर्थभागमिति कर्णिकावच्छिन्नं सर्वं चतुर्थभागमिति| अनु पृष्ठवंशमिति पृष्ठवंशमनुगतं कृत्वा| अकम्पनेत्यादौ कम्पनं चलनं, वेपनं वेपथुः, लाघवं शीघ्रक्रियता; आदिशब्देन बस्तिग्रहणपीडनादि गृह्यते| विदर्शयन्निह सम्पादयन्| प्रपीड्य चैकग्रहणेन दत्तमित्यनेन विश्रम्य पुनः पीडनं वायुजनकं निषेधयति||१३-१९||-

Adhikarana 10 (20-22) · Śloka 23

तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे||२०|| दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यतिपीडितश्च| शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः||२१|| स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्| करोति मात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति||२२|| दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्|२३|

🔊 Audio coming soon

तिर्यक्प्रणिधानादिदोषमाह- तिर्यगित्यादि| न याति धारेति तिर्यक्प्रणिधाने सति गुदवलीरोधो भवति, तेन धारा न याति| अतिस्तम्भकर इति बस्तिर्देहस्य स्तम्भं करोति| जाड्यमिति शरीरजडता| तन्वल्पमात्रालवणस्त्वयोगमिति तनुर्वा, अल्पमात्रलवणो वा| सान्द्रः तनुविपरीतः, क्षामं पुरुषं कुर्यात्| लवणोऽतीति अतिमात्रलवणः| तस्मादिति यथोक्तविधानेषु दोषनिदर्शनात्| सुयुक्तमिति तिर्यक्प्रणिधानादिरहितं, शीतत्वादिरहितं च||२०-२२||-

Adhikarana 11 (23) · Śloka 24

पूर्वं हि दद्यान्मधु सैन्धवं तु स्नेहं विनिर्मथ्यं ततोऽनु कल्कम्||२३|| विमथ्य संयोज्य पुनर्द्रवैस्तं बस्तौ निदध्यान्मथितं खजेन|२४|

🔊 Audio coming soon

‘पूर्वं हि दद्याद्’ इति ग्रन्थं केचिदनार्षमाहुः; तन्त्रान्तरेषु त्वस्यार्थस्य दृष्टत्वाद्युक्त एवायं पाठः; उच्यते हि सुश्रुते “दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनश्च पलद्वयम् | पात्रे तलेन मथ्नीयात्” (सु.चि.अ.३८) इत्यादि| पुनर्द्रवैस्तमित्यत्र द्रवशब्देन क्वाथस्य ग्रहणम्||२३||-

Adhikarana 12 (24) · Śloka 25

वामाश्रये हि ग्रहणीगुदे च तत् पार्श्वसंस्थस्य सुखोपलब्धिः||२४|| लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽर्हति बस्तिदानम्|२५|

🔊 Audio coming soon

वामपार्श्वशयनं यदुक्तं तस्य प्रयोजनमाह- वामाश्रये इत्यादि| वामाश्रये यस्माद् ग्रहणीगुदे, तेन वामपार्श्वसुप्तस्य ग्रहणीगुदे प्रकृतिस्थे भवतः, प्रकृतिस्थे च गुदे गुदस्य बस्तिना सम्यगुपश्लेषाद् व्याप्तिर्भवति, तथा वलयश्च लीना भवन्ति, तेन सुखं बस्तिर्याति, ग्रहणीगुदयोः प्रकृतिस्थतया च बस्तिर्व्याप्य सुखं ग्रहणीं भावयतीति बोद्धव्यम्||२४||-

Adhikarana 13 (25) · Śloka 26

विड्वातवेगो यदि चार्धदत्ते निष्कृष्य मुक्ते प्रणयेदशेषम् ||२५|| उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथाऽस्य देहम् |२६|

🔊 Audio coming soon

विड्वातेत्यादौ निष्कृष्य मुक्ते इति नलिकामाकृष्य विड्वातवेगे मुक्ते| दत्ते तु बस्तौ उत्तानदेहः कृतोपधानश्च स्यात्| एतत्करणप्रयोजनमाह- वीर्यमाप्नोतीत्यादि||२५||-

Adhikarana 14 (26) · Śloka 26

एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः||२६||

🔊 Audio coming soon

एकोऽपकर्षतीत्यादि| एतद्वातादिभेदेन एकादिबस्तिदानविधानं; न तु त्रिदोषे प्रथमो वातं जयति, द्वितीयः पित्तं जयति, तृतीयः कफमित्यादि व्याख्येयं; यतः, “स्निग्धोष्ण एकः पवने समांसः” इत्यादिना पवनादिभेदेनैव सङ्ख्यानियमं करिष्यति| एवं स्वमार्गाच्चानिलमेको बस्तिरपकर्षति, पित्तं द्वितीयस्तु स्वमार्गादिति पित्तं द्वावेव जयतः , कफं त्रय एव जयन्तीति ज्ञेयं; स्वमार्गादिति स्वस्थानात्| यद्यपि च बस्तिः पक्वाशयगतमेव दोषं जयतीत्युक्तं, तथाऽपि पित्तादिस्थानेऽपि विशेषबस्तिविधिसामर्थ्याद्दोषहरणमुच्यते; तेन, उत्सर्गतस्तद्गतदोषहरणं विशिष्टविधानेन च स्थानान्तरगतदोषहरणं भवति| अयमर्थो जतूकणेऽप्युच्यते- “बस्तिः कार्यः सकृद्बस्तिस्थानशक्त्याऽनिलादिषु” इति| अत्र द्वितीयः पित्तमपकर्षति, तृतीयः कफमपकर्षतीत्युच्यते; तथाऽपि प्रथमद्वितीययोरपि पित्तकफापहत्वमस्त्येव , परं द्वितीयेन पित्तापहरणं, तृतीयेन च कफापहरणं स्थानप्रत्यासत्त्या क्रियत इति कृत्वा द्वितीयः पित्तं हरति, तृतीयः कफं हरतीति चोक्तम्| पित्तकफयोश्च यद्यपि सुखं चिकित्सितं बस्तिर्न भवति, तथाऽपि वातावरके वातानुबन्धे वा पित्ते कफे चैतद्बस्तिदानं ज्ञेयम्; उक्तं हि सुश्रुते- “बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते” (सु.चि.अ.३५) इति||२६||

Adhikarana 15 (27-29) · Śloka 30

प्रत्यागते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन| जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम्||२७|| निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन| दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम्||२८|| ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्| स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः||२९|| तांश्चावमद्गीत सुखं ततश्च निद्रामुपासीत कृतोपधानः|३०|

🔊 Audio coming soon

शाल्यन्नमित्यादौ जीर्णे इति आस्थापनोपलेपे कोष्ठस्थे जीर्णे| तनुमांसरसादिभोजनं चेह निरूहेण मनागुपहतस्य वह्नेः परिपालनार्थम्| पेयादिक्रमस्त्वत्र न क्रियते, विरेचनवदिहामस्याभावात्; अत एव सुश्रुते पेयादिक्रमं त्यक्त्वा रसादिक्रम उक्तः| परिबृंहणार्थमित्यनेन लेखनार्थं क्रियमाणे निरूहे परिबृंहणार्थमनुवासनं तदहः कर्तव्यमिति दर्शयति| अत एव कल्पनासिद्धावपि- “नरस्ततो निश्यनुवासनार्हः” (सि.अ.१) इत्यनेन तदहरनुवासनस्यावश्यकत्वमुक्तं ; जतूकर्णेऽप्युक्तं- “जीर्णे सायं कृतान्नं च पुष्ट्यर्थमनुवासयेत्” इति| निरूहपादांशसमेन तैलेनेति निरूहपादप्रमाणेन, चतुर्विंशतिपले निरूहे षट्पलेन स्नेहेनेत्यर्थः; इयं चोत्तमा मात्राऽनुवासनस्य; उक्तं ह्यन्यत्र- “उत्तमा षट्पली प्रोक्ता मध्यमा त्रिपली भवेत्| कनीयसी सार्धपला त्रिधा मात्राऽनुवासने” इति; सुश्रुतेऽप्येतावन्मानमेव स्नेहस्यानुवासन मात्राबस्तिविभागेनानुवासने उक्तम्| स्नेहशीघ्रागमनरक्षार्थं विधानमाह- ईषदित्यादि| तच्च पादाङ्गुल्योत्तानदेहस्य मात्राशतं स्थापनं कर्तव्यम्| निरूहे तु त्रिंशन्मात्राकालं यावदुत्तानस्य स्थापनं मन्यन्ते| पादाङ्गुलियुग्ममिति पर्वसन्धिः| आञ्छेदिति आकर्षेत्| निद्रामुपासीतेति वचनं क्रियान्तरस्य निषेधार्थम्||२७-२९||-

Adhikarana 16 (30) · Śloka 31

भागाः कषायस्य तु पञ्च, पित्ते स्नेहस्य षष्ठः प्रकृतौ स्थिते च||३०|| वाते विवृद्धे तु चतुर्थभागो, मात्रा निरूहेषु कफेऽष्टभागः|३१|

🔊 Audio coming soon

सम्प्रति त्रिविधो यो द्वादशप्रसृतो निरूहस्तस्य कषायस्नेहमात्रां निरूपयन्नाह - भागा इत्यादि| भागाः कषायस्य पञ्चेत्यनेन सर्वत्रैव दोषे स्वस्थे च पुरुषे द्वादशप्रसृतभागरूपे निरूहे पञ्चभागाः कषायस्य भवन्ति, तेन पञ्च प्रसृताः कषायस्य| स्नेहस्य च दोषभेदेन स्वस्थे च मानभेदमाह- पित्ते इत्यादि| पित्ते स्नेहस्य षष्ठः, तथा प्रकृतौ स्थिते च पुरुषे स्वस्थे षष्ठ इत्यर्थः; तत्र षण्णां पूरणः षष्ठः, तेन द्वादशप्रसृतस्य षष्ठो भागो द्विप्रसृतं भवति| स्नेहशब्देन घृततैलादिग्रहणम्| वाते तु वृद्धे चतुर्थो भागः; स्नेहचतुर्थो भागः प्रसृतत्रयम्| अष्टभाग इति सार्धः प्रसृतः| अस्मिन्नर्थे हारीतः- “क्वाथस्य पञ्चप्रसृता विभागाः, स्नेहस्य षष्ठो ह्यधिके तु पित्ते| स्वस्थे च तावत्, पवने चतुर्थः, कफेऽष्टमोऽत्यन्तगते(?) विकल्पः” इति| एषा स्नेहमात्रा हीनमात्रेऽपि निरूहे क्वाथस्नेहयोरुक्तमात्रानुसारेण योजनीया; शेषणां तु मधुकल्कसैन्धवानामिह मात्रानियमो नोक्तः, तेषामपि प्रकृत्यादिभदेनानियतत्वात्; तेन मध्वादीनां प्रकृत्याद्यनुसारेण प्रसृतमानेन द्वादशप्रसृतत्वं पूरणीयम्| तत्र जतूकणप्रत्ययात् सर्वत्र कल्कस्य पलद्वयं भवति| उक्तं हि तत्र “चतुर्विंशतिके पुटके पेष्याणां द्विपलं, किञ्चिच्च मधुसैन्धवात्, स्नेहो वक्ष्यमाणः, शेषं कषायस्य; वाते तैलषट्पलं स्वस्थे च; चत्वारि पित्ते घृतस्य, कफे त्रीणि तैलस्य” इति; सैन्धवं तु कर्षप्रमाणमस्ति; यतः सुश्रुते- “सैन्धवाक्षं समादाय मधुनः प्रसृतद्वयम्” (सु.चि.अ.३८) इत्याद्युक्तम्; हारीत तु- “क्षौद्रं तु देयं प्रसृतप्रमाणं द्वितीयमाहुर्लवणस्य चाक्षम्” इत्युक्तं; तेनानया दिशा सैन्धवमधुकल्पना| यथोक्तकषायस्नेहकल्कमधुसैन्धवापूरितांशपूरणं चावापेनैव कर्तव्यम्; आवापश्चात्रानुक्तोऽप्युत्तरत्र वक्ष्यमाणो वातादिभेदेन मांसरसक्षीरगोमूत्रादिको ज्ञेयः| वक्ष्यति हि- “स्निग्धोष्ण एकः पवने निरूहो, द्वौ स्वादुशीतौ पयसा च पित्ते| त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः” इति| हारीतऽप्युक्तं “स्नेहं गुडं मांसरसं पयश्च ह्यम्लानि मूत्राणि च सैन्धवं च| एतानि सर्वाण्यपि योजयीत निरूहयोगे मदनात् फलं च” इति| यत्तु तन्त्रान्तरे- द्वादशप्रसृतपूरणं प्रति प्रतिद्रव्यविभागेनोक्तं; यथा- “दत्त्वाऽऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्| विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतत्रयम्| एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत्| सम्मूर्च्छिते कषायं तु चतुःप्रसृतसम्मितम्|| वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्| एवं सुकल्पितो बस्तिर्द्वादशप्रसृतो भवेत्” (सु.चि.अ.३८) इति; तद्वातविषयमेव, स्नेहस्य वातघ्नत्वात्; किन्त्वत्र यच्चतुःप्रसृतं कषायस्य मन्यते, तदस्मत्तन्त्रानुमतमेव | यत्त्वन्ये पठन्ति- “मधुस्नेहनकल्काख्यकषायावापतः क्रमात्| त्रीणि षट् द्वे दश त्रीणि पलान्यनिलरोगिणाम्|| पित्ते चत्वारि चत्वारि द्वे द्विपञ्च चतुष्टयम् | षट् त्रीणि द्वे दश त्रीणि कफे चापि निरूहणम्” इति; तदस्मत्तन्त्रानुगतत्वादनुमतमेव||३०||-

Adhikarana 17 (31-32) · Śloka 33

निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततोऽर्धप्रसृताभिवृद्धिः||३१|| आद्वादशात् स्यात् प्रसृताभिवृद्धिरष्टादशाद् द्वादशतः परं स्युः| आसप्ततेस्तद्विहितं प्रमाणमतः परं षोडशवद्विधेयम्||३२|| निरूहमात्रा प्रसृतप्रमाणा बाले च वृद्धे च मृदुर्विशेषः|३३|

🔊 Audio coming soon

इदानीं वयोभेदेन निरूहप्रमाणं दर्शयन्नाह- निरूहेत्यादि| आद्ये वर्षे बालस्य पलमाने निरूहे क्वाथादि यथोक्तमानानुसारेण वक्तव्यम्; अर्धप्रसृताभिवृद्धिः ततः प्रतिवर्षं भवति; तेन द्वादशवर्षे षट्प्रसृतो बस्तिर्भवति; द्वादशादूर्ध्वमष्टादशवर्षपर्यन्तं प्रतिवर्षं प्रसृतवृद्ध्या द्वादशप्रसृतपूरणं भवति; ‘द्वादशतः परं स्युः’ इत्यनेनाधिकप्रमाणबस्तिमानं महात्ययकरं कैश्चिदनुमतं निषेधयति; यथा हारीते एकीयमतं पठ्यते- “अर्धाढकं परमतमं प्रमाणम्” इति ; तथा सुश्रुतेऽपि (?)- “द्वादशप्रसृतं केचित् त्रिंशत्पलमथाऽपरे” इत्यादि| बस्तिमानं दर्शयितुमाह- आसप्ततेरित्यादि| आसप्ततेस्तदिति द्वादशप्रसृतमानं सप्ततिं यावद्भवति| षोडशवदिति दशप्रसृतप्रमाणम्| बालवृद्धयोर्यथोक्तप्रसृतमानविषयं दर्शयन् तत्रान्यं विशेषमाह- निरूहमात्रेत्यादि| बालवृद्धयोर्यथोक्तैव निरूहमात्रा प्रसृतप्रमाणा कार्या, विशेषेण तयोर्बस्तिर्मृदुः कार्यः| तीक्ष्णत्वमार्दवकरं च विधानं वक्ष्यति; यथा- “तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः| प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा” (सि.अ.७) इति||३१-३२||-

Adhikarana 18 (33) · Śloka 34

नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम्||३३|| प्रधानमृद्वास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम्|३४|

🔊 Audio coming soon

सम्प्रति ‘शयने विधिः कः’ इति प्रश्नस्योत्तरमाह- नात्युच्छ्रितमित्यादि| पूर्वं यः शयनविधिरुक्तः स तात्कालिकः, अयं तूत्तरकालिक इति विशेषः| प्रधानं महन्मृदु चास्तरणं प्रधानमृद्वास्तरणं, तेनोपपन्नं युक्तम्| प्राक्शीर्षकमिति “प्राच्यां दिशि स्थिता देवास्तत्पूजार्थं च प्राक्शिराः” (सु.सू.अ.१९) इति वचनात्||३३||-

Adhikarana 19 (34) · Śloka 35

भोज्यं पुनर्व्याधिमवेक्ष्य तद्वत् प्रकल्पयेद्यूषपयोरसाद्यैः||३४|| सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान्|३५|

🔊 Audio coming soon

यूषादि भोज्यविधानं यथाक्रमं कफे, पित्ते, वाते; किंवा, अग्न्यपेक्षं यथायोग्यतया व्याख्येयम्| यथोक्तविधानं वक्ष्यमाणविधिषु कर्तव्यतया दर्शयन्नाह- सर्वेष्वित्यादि| एतदाद्यमिति प्रधानम्, औत्सर्गिकमिति यावत्; तेन विशेषविधानेनापवादोऽप्यस्य भविष्यतीति सूचयति||३४||-

Adhikarana 20 (35-45) · Śloka 45

द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः||३५|| त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः| स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य||३६|| प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमस्तु यावत्| प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च||३७|| स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चापि ददाति बस्तिः | एरण्डमूलं त्रिपलं पलाशा ह्रस्वानि मूलानि च यानि पञ्च||३८|| रास्नाश्वगन्धातिबलागुडूची पुनर्नवारग्वधदेवदारु| भागाः पलांशा मदनाष्टयुक्ता जलद्विकंसे क्वथितेऽष्टशेषे||३९|| पेष्याः शताह्वा हपुषा प्रियङ्गुः सपिप्पलीकं मधुकं बला च| रसाञ्जनं वत्सकबीजमुस्तं भागाक्षमात्रं लवणांशयुक्तम्||४०|| समाक्षिकस्तैलयुतः समूत्रो बस्तिर्नृणां दीपनलेखनीयः| जङ्घोरुपादत्रिकपृष्ठशूलं कफावृतिं मारुतनिग्रहं च||४१|| विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे च| आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्तिः शमयेत् प्रयुक्तः||४२|| चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धो दधिदाडिमाम्लः| रसः सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्यशिरोर्तिशस्तः ||४३|| जलद्विकंसेऽष्टपलं पलाशात् पक्त्वा रसोऽर्धाढकमात्रशेषः| कल्कैर्वचामागधिकापलाभ्यां युक्तः शताह्वाद्विपलेन चापि||४४|| ससैन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी| आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्तरुजं च हन्यात्||४५||

🔊 Audio coming soon

‘के बस्तय’ इत्यादिप्रश्नस्योत्तरं- द्विपञ्चमूलस्येत्यादि| अत्र मांसं दशमूलसमम्| रसः क्वाथः| अम्लं काञ्जिकादि| सपूर्वपेष्य इति बलाद्युक्तकल्कयुक्तः| त्रिस्नेहयुक्त इत्यनेन, मज्जपरित्यागं सर्वबस्तिसिद्धं स्मारयति; उक्तं ह्यन्यत्र- “विज्ञेयस्त्रिविधः स्नेहो बस्त्यर्थ मज्जवर्जितः” इति| स्थिरादिवर्गस्येत्यादौ मधुसैन्धवे यद्यपि सामान्येनोक्तबस्तिविधानलब्धे, तथाऽपि तैलादीनामत्राप्रकर्षार्थं पुनस्तयोरभिधानं, किंवा सामान्यविधिस्मरणार्थमत्राभिधानम्; एवमन्यत्रापि सामान्यविधिप्राप्तस्य पुनरभिधाने व्याख्येयम्| एरण्डमूलमित्यादौ पलाशा शटी| ह्रस्वानि मूलानीति स्थिरादिपञ्चमूलम्| कंस आढकः| भागाक्षमात्रमिति भागेनाक्षमात्रम्| छागाच्छतार्ध इति पञ्चाशत्पलो भवति| सपेष्य इति बलादिकस्य कल्कयुक्तः||३५-४५||

Adhikarana 21 (46-55) · Śloka 55

यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः| युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः||४६|| यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च| सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम्||४७|| द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च| सलोध्रमञ्जिष्ठमथाप्यनन्ताबलास्थिरादितृणपञ्चमूलम् ||४८|| तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्| जीवन्तिमेदर्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः||४९|| सितोपलाजीवकपद्मरेणु प्रपौण्डरीकैः कमलोत्पलैश्च| लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च||५०|| पिष्टैर्घृतक्षौद्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्| प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः||५१|| दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च| सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति||५२|| द्राक्षादिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः| पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः||५३|| गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः| पथ्याविदारीक्षुरसैर्गुडेन बस्तिं युतं पित्तहरं विदध्यात्||५४|| हृन्नाभिपार्श्वोत्तमदेहदाहे दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे| क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे च नृणां प्रशस्तः||५५||

🔊 Audio coming soon

यष्ट्याह्वयस्येत्यादिकाश्चत्वारः पित्ते, पूर्वं तूक्ताः पञ्च वाते| अत्र पयःसाधनं क्षीरपाकपरिभाषयैव| यष्ट्याह्वलोध्रेत्यादिना जीवनीयमित्यन्तेनैको योगः| जीवनीयानामत्र कल्कः| सुशीतत्वमिहौत्सर्गिकं मृदुकोष्ठेष्वधिकं पित्तहितत्वात्; अनया च दिशाऽपरपित्तहरबस्तावपि शीतत्वं ज्ञेयम्| द्विकार्षिकमित्यादौ अनन्ता उत्पलसारिवा| तृणपञ्चमूलं- “शरेक्षुदर्भकाशानां शालीनां मूलमेव च” (च.चि.अ.१पा.१) इत्यादिनोक्तम्| अम्बुहीनमिति क्षीरावशेषपर्यन्तं शृतम्| राजकशेरुः कशेरुरेव| ससैन्धवमिति ईषत्सैन्धवम्| ससारिवेत्यादौ शीतपाकी शीतली| मधुयष्टितैलं मधुयष्टिसाधितं तैलम्| उत्तमदेहः मस्तकम्||४६-५५||

Adhikarana 22 (56-64) · Śloka 64

कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः | पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः||५६|| तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्| फलाह्वतैलस्य समाक्षिकस्य क्षारस्य तैलस्य च सार्षपस्य||५७|| दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे च| पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ||५८|| द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः| कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः||५९|| निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्| हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि घोरम्||६०|| रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः| शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः||६१|| त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः| यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः||६२|| कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः| अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः||६३|| रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः| निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति||६४||

🔊 Audio coming soon

कोषातकेत्यादिकाश्चत्वारः कफे बस्तयः| शार्ङ्गेष्टा गुञ्जा| अत्र क्वाथदशप्रसृतेन तथा कल्केन क्षौद्रादिना च यद्यपि मानमधिकं भवति, तथाऽप्येवमेव द्रव्यसंयोगं कृत्वा द्वादशप्रसृत एव बस्तिर्देयः, तदधिकमानस्य निषिद्धत्वात्| पटोलेत्यादौ पटोलादिपिप्पल्यन्तैस्तोयं साधयित्वा पूर्ववद् द्वितीयः, कफरोगिणे द्विपञ्चमूल्यादिभिस्तृतीयः कर्तव्यः| क्षारः यवक्षारः| रास्नेत्यादौ शम्पाकः चतुरङ्गुलः| तिक्ता कटुरोहिणी| अत्र पिण्डीतकक्वाथोऽप्यावापकल्पो येन प्रविशति; पिण्डीतकः मदनः| रूक्षौषधैरत्यपतर्पितेभ्योऽप्येतेषु कुष्ठादिरोगेष्वयं दत्तो बलं करोतीति योजना||५६-६४||

Adhikarana 23 (65-68) · Śloka 68

पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः | द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि फलानि चाष्टौ||६५|| बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि| पयोजलद्व्याढकवच्छृतं तत् क्षीरावशेषं सितवस्त्रपूतम्||६६|| वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम् | कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम्||६७|| क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च | दद्यान्निरूहं विधिना विविज्ञः स सर्वसंसर्गकृतामयघ्नः||६८||

🔊 Audio coming soon

पुनर्नवेत्यादिकः सर्ववातादिसंसर्गविषयः| वृश्चीरः श्वेतपुनर्नवा| धान्यानि फलानि चेति धान्यफलानि| पयोजलद्व्याढकवदिति समजलक्षीरद्विप्रस्थयुक्तम्||६५-६८||

Adhikarana 24 (69) · Śloka 69

स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते| त्रयः समूत्राः कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः||६९||

🔊 Audio coming soon

उक्तानां वातादिहरबस्तीनां सङ्ख्याकल्पनां विशिष्टां दर्शयन्नाह- स्निग्धोष्ण इत्यादि| एक इति एक एव पुटकः| पयसा चेति पयोयुक्तौ| कटुकोष्णतीक्ष्णत्वं कफहरद्रव्ययोगादेव ज्ञेयम्| न परं विधेया इत्यनेन तन्त्रान्तरविहितं चतुर्थबस्तिदानमत्यर्थशरीरहिंसकं निषेधयति; यथा सुश्रुते- “द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्हतः| सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवर्तयेत्” (सु.चि.अ.३२) इत्यनेनोक्तं चतुर्थदानमिति||६९||

Adhikarana 25 (70-71) · Śloka 71

रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः| तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च||७०|| इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्| योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम्||७१||

🔊 Audio coming soon

सम्प्रति वातादिभेदेन प्रतिभोजनं विशिष्टं तथाऽनुवासनं चाह- रसेन वाते इत्यादि| प्रतिभोजनं निरूहानन्तरभोजनम्| वाते बिल्वतैलानुवासनं, पित्ते जीवनीयसाधितं, कफे च मदनफलसाधितम्| अत्र बिल्वतैलादीनि वक्ष्यमाणानि व्याख्यानयन्ति; तेन स्नेहव्यापत्सिद्धौ यद् वक्ष्यति “दशमूलं” (सि.अ.४) इत्यादिना बिल्वतैलं, जीवनीयं च “जीवन्ती मदनं” (सि.अ.४) इत्यादिना वक्ष्यमाणयमकं, तथा “मदनैर्वाऽम्लसंयुक्तैः” (सि.अ.४) इत्यादिना वक्ष्यमाणं मदनतैलं ज्ञेयम्||७०-७१||

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने बस्तिसूत्रीयसिद्धिर्नाम तृतीयोऽध्यायः||३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तप्रणीतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने बस्तिसूत्रीयसिद्धिर्नाम तृतीयोध्यायः||३||