Adhikarana 1 (1-2) · Śloka 2
अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पारिशेष्यादेवोत्तरबस्तिसिद्धिरभिधीयते| उत्तराणां श्रेष्ठानां बस्तीनां सिद्धिरुत्तरबस्तिसिद्धिः||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पारिशेष्यादेवोत्तरबस्तिसिद्धिरभिधीयते| उत्तराणां श्रेष्ठानां बस्तीनां सिद्धिरुत्तरबस्तिसिद्धिः||१-२||
Adhikarana 2 (3-5) · Śloka 5
अथ स्वल्वातुरं वैद्यः संशुद्धं वमनादिभिः| दुर्बलं कृशमल्पाग्निं मुक्तसन्धानबन्धनम्||३|| निर्हृतानिलविण्मूत्रकफपित्तं कृशाशयम्| शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत्||४|| यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथैव च| गोपाल इव दण्डी गाः सर्वस्मादपचारतः||५||
🔊 Audio coming soon
वक्ष्यमाणबस्तीनां विषयं मिथ्योपचारजनितव्याधिसमूहं दर्शयितुं सम्यगुपचारमेव तावदाह- अथ स्वल्वित्यादि| वमनादिभिरिति वमनविरेचननिरूहशिरोविरेचनैः; किन्तु निरूहशिरोविरेचनयोर्न सर्वं वक्ष्यमाणं पेयादि सम्बध्यते, तेनायं क्रम एतयोर्न भवति| मुक्तसन्धानबन्धनमिति मुक्तसन्धिबन्धनम्| कृशाशयमिति दोषशून्यामाशयम्| प्रतीकारासहिष्णुमिति उच्चैर्भाष्यादिक्रियाक्षमं; किंवा वमनादिप्रयोगासहिष्णुम्| परिपालयेत् सर्वस्मादपचारत इति सम्बन्धः| तरुणाण्डादिदृष्टान्तत्रयाभिधानं कस्यचित् किञ्चित् प्रसिद्धं भविष्यतीत्यभिप्रायेण||३-५||
Adhikarana 3 (6-8) · Śloka 8
अग्निसन्धुक्षणार्थं तु पूर्वं पेयादिना भिषक्| रसोत्तरेणोपचरेत् क्रमेण क्रमकोविदः||६|| स्निग्धाम्लस्वादुहृद्यानि ततोऽम्ललवणौ रसौ| स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः||७|| अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः| व्यत्यासादुपयोगेन प्रकृतिं गमयेद्भिषक्||८||
🔊 Audio coming soon
रसोत्तरेणोपचरेदित्यत्र रसः मांसरसरूप उत्तरे यस्मिन् तेन पेयादिना रसोत्तरेण क्रमेण; किंवा वमनविरेचनयोरन्तरे पेयादिना क्रमेणोपचरेत्, निरूहे तु रसोत्तरेणेति व्यवस्था| तत्र च निरूहे स्तोकाग्निमान्द्यापेक्ष्या रसादिरेव क्रमो भवतीति प्रतिपादितमेव प्राक्; किंवा रसाभ्यासक्रम उत्तरकालं यस्मिन् तेन पेयादिना रसोत्तरेण| रसाभ्यासक्रममेवाह- स्निग्धाम्लस्वादुहृद्यानीत्यादि| पेयाक्रमोत्तरकालं यदा विरेचनादिकर्मान्तरं न कर्तव्यं तदा संशोधनमूलशरीरस्य प्रकृतिभोजनार्थं बलाप्यायनार्थं चायं रसाभ्यासक्रमो ज्ञेयः; अन्ये तु पेयादिक्रमे एव रससंस्कारार्थं स्निग्धाम्लसिद्धादिक्रमं वर्णयन्ति| अत्र चाम्लस्वादू प्रथमं पक्वाशयस्थितवातप्रशमनायोपयुज्येते, तथाऽम्ललवणै तदूर्ध्वस्थिताग्निसन्धुक्षणार्थं, ततः पित्तप्रशमनार्थं स्वादुतिक्तौ, ततः पित्तोर्ध्वस्थितकफप्रशमनार्थं कषायकटुकौ, इत्येष क्रमः| अत्रापि च यौ रसौ प्रत्यनीकभूतौ तावेव मिश्रितावुपयुज्येते| एषां चतुर्णां रसयुग्मानामुपयोगः पेयादिक्रमे एव| एवं द्वादशान्नकालैः सर्वरसभोजनप्राप्तिरुत्तमविधया ज्ञेया| अन्योन्येत्यादि| अन्योन्यप्रत्यनीकानामिति परस्परमभिभावकानाम्| व्यत्यासादुपयोजयेदिति एकं युग्ममुपयुज्यापरस्य युग्मस्योपयोगः| प्रकृतिं गमयेदिति प्रकृतिभोजनं गमयेत्| प्रकारान्तरं रसाभ्यासे प्राह- स्निग्धरूक्षयोरिति| स्निग्धरसमुपयुज्य रूक्षो योज्यः, रूक्षं वोपयुज्य स्निग्ध इत्यनेन क्रमेण प्रकृतिभोजनं गमयेदित्यर्थः| स्निग्धरूक्षौ चात्रोदाहरणार्थमुपातौ, तेन गुरुलघ्वादियुग्मरसव्यत्यासाभ्यासोऽप्यत्र बोद्धव्यः| किंवा कषायकटुकौ तत इत्यनेन युग्मरसाभ्यास उपदर्शितः, अन्योन्यप्रत्यनीकानामित्यादिना तु प्रत्येकं प्रत्यनीकानामन्योन्यव्यत्यासेनाभ्यास उच्यते||६-८||
Adhikarana 4 (9) · Śloka 9
सर्वक्षमो ह्यसंसर्गो रतियुक्तः स्थिरेन्द्रियः| बलवान् सत्त्वसम्पन्नो विज्ञेयः प्रकृतिं गतः||९||
🔊 Audio coming soon
पेयादिक्रमरसाभ्यासाभ्यामुपपादितस्वास्थ्यस्य पुंसो लक्षणमाह- सर्वक्षम इत्यादि| सर्वक्षम इति सर्वरसाभ्यासक्षमः| असंसर्ग इति असक्तवेगः; किंवा ‘निरासङ्ग’ इति पाठः, निरासङ्गः प्रतिनियतविषयापराहतः सर्वचेष्टाक्षमः||९||
Adhikarana 5 (10-12) · Śloka 12
एतां प्रकृतिमप्राप्तः सर्ववर्ज्यानि वर्जयेत्| महादोषकराण्यष्टाविमानि तु विशेषतः||१०|| उच्चैर्भाष्यं रथक्षोभमविचङ्क्रमणासने| अजीर्णाहितभोज्ये च दिवास्वप्नं समैथुनम्||११|| तज्जा देहोर्ध्वसर्वाधोमध्यपीडामदोषजाः| श्लेष्मजाः क्षयजाश्चैव व्याध्यः स्युर्यथाक्रमम्||१२||
🔊 Audio coming soon
तज्जा इत्यादि यथाक्रमं उच्चैर्भाष्यादिजा देहोर्ध्वपीडादयो ज्ञेयाः| उच्चैर्भाष्यादूर्ध्वदेहे पीडा, रथक्षोभात् सर्वदेहपीडा, अतिचङ्क्रमणादधः पीडा, अत्यासनाद्देहमध्यपीडा, अजीर्णभोजनेनामजाः, अहितभोजनेन दोषजाः, दिवास्वप्नेन श्लेष्मजाः, मैथुनेन क्षयजा इति||१०-१२||
Adhikarana 6 (13-14) · Śloka 14
तेषां विस्तरतो लिङ्गमेकैकस्य च भेषजम्| यथावत्सम्प्रवक्ष्यामि सिद्धान् बस्तींश्च यापनान्||१३|| तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक- हनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयः स्युः (१)| रथक्षोभात् सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध- स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनासन्धिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः (२)| अतिचङ्कमणात् पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोद- पिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः (३)| अत्यासनाद्रथक्षोभजाः स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः (४)| अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः(५)| विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रसादवातादिप्रकोपजाश्च ग्रहण्यर्शोविकारादयः (६)| दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्रा- प्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः (७)| व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजानुजङ्घापादशूलहृदयस्पन्दननेत्रपीडाङ्गशैथिल्य- शुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसादकटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथु- वातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयः स्युः; अवलुप्यत इव गुदः, ताड्यत इव मेढ्रम्, अवसीदतीव मनो, वेपते हृदयं, पीड्यन्ते सन्धयः, तमः प्रवेश्यत इव च (८)| इत्येवमेभिरष्टभिरपचारैरेते प्रादुर्भवन्त्युपद्रवाः||१४||
🔊 Audio coming soon
अत्रोच्चैर्भाष्यादिको ग्रन्थः प्रायो व्यक्त एव| अतिभाषितस्यासूत्रितस्योच्चैर्भाष्येण समानत्वादुदाहरणम्| पिण्डिकोद्वेष्टनं जङ्घापिण्डिकयोरुद्वेष्टनाकारा वेदना| सिराधमनीहर्षः सिराधमन्योरुच्छूल(न)त्वम्| रथक्षोभजा इत्युक्ते सन्धिशैथिल्यादीनामपि प्रसक्तिः स्यादतस्तन्निरासार्थमाह- स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः स्युरिति| अजीर्णाध्यशनाभ्यामित्यत्र अजीर्णाशनस्यामजविकारकर्तृत्वादध्यशनस्यासूत्रितस्योपादानम्| एवमहिताशनजविकारसमानविकारकारित्वाद्विषमाशनस्याप्यसूत्रितस्योपादानम्| अवलुप्यत इव छिद्यत इव||१३-१४||
Adhikarana 7 (15) · Śloka 15
तेषां सिद्धिः- तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाहधूमनस्योपरिभक्तस्नेहपानरसक्षीरादिर्वातहरः सर्वो विधिर्मौनं च (१)| रथक्षोभातिचङ्क्रमणात्यासनजानां स्नेहस्वेदादिवातहरं कर्म सर्वं निदानवर्जनं च (२)| अजीर्णाध्यशनजानां निरवशेषतश्छर्दनं रूक्षः स्वेदो लङ्घनीयपाचनीयदीपनीयौषधावचारणं च (३)| विषमाहिताशनजानां यथास्वं दोषहराः क्रियाः (४)| दिवास्वप्नजानां धूमपानलङ्घनवमनशिरोविरेचनव्यायामरूक्षाशनारिष्टदीपनीयौषधोपयोगः प्रघर्षणोन्मर्दनपरिषेचनादिश्च श्लेष्महरः सर्वो विधिः (५)| मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगः, तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनाबस्तयोऽनुवासनं च; मूत्रवैकृतबस्तिशूलेषु चोत्तरबस्तिर्विदारीगन्धादिगणजीवनीयक्षीरसंसिद्धं तैलं स्यात्||१५||
🔊 Audio coming soon
तेषां सिद्धिरिति तेषामुक्तविकाराणां साधनं भेषजमित्यर्थः| निरवशेषतश्छर्दनमिति अजीर्णान्नस्य निरवशेषतश्छर्दनम्| मूत्रवैकृतेत्यादि यदा मैथुनान्मूत्रवैकृतादि भवति तदा विदारिगन्धादिजीवनीयगणाभ्यां क्वाथकल्कीकृताभ्यां सक्षीरं तैलं साधयित्वोत्तरबस्तिर्देयः||१५||
Adhikarana 8 (16-17) · Śloka 17
यापनाश्च बस्तयः सर्वकालं देयाः; तानुपदेक्ष्यामः- मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूचीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः क्लृप्तान्यष्टौ च मदनफलानि प्रक्षाल्य जलाढके परिक्वाथ्य पादशेषो रसः क्षीरद्विप्रस्थसंयुक्तः पुनः शृतः क्षीरावशेषः पादजाङ्गलरसस्तुल्यमधुघृतः शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः ससैन्धवः सुखोष्णो बस्तिः शुक्रमांसबलजननः क्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)- कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा- जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायनश्चेति (१)| एरण्डमूलपलाशात् षट्पलं शालिपर्णीपृश्निपर्णी बृहती कण्टकारिका गोक्षुरको रास्नाऽश्वगन्धा गुडूची वर्षाभूरारग्वधो देवदार्विति पलिकानि खण्डशः क्लृप्तानि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत्| पादशेषं कषायं पूतं शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात्| सर्वेषां प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च (२)| तद्वत् सहचरबलादर्भमूलसारिवासिद्धेन पयसा (३)| तथा बृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेन पयसा मधुकमदनपिप्पलीकल्कितेन पूर्ववद्वस्तिः (४)| तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेन पयसा मधुकमदनकल्कितेन मधुघृतसौवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च (५)| बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानां च जलद्रोणसिद्धं निरूहप्रमाणावशेषं कषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्किकृतं गुडघृततैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं बस्तिं दद्याच्छुक्रमूत्रवर्चःसङ्गेऽनिलजे गुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसञ्ज्ञानाशबलक्षयेषु च (६)| हपुषार्धकुडवो द्विगुणार्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृततैललवणयुक्तः सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितो वातहरो बुद्धिमेधाग्निबलजननश्च (७)| ह्रस्वपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमधुकमदनकल्कीकृतः सगुडघृततैललवणः क्षीणविषमज्वरकर्शितस्य बस्तिः (८)| बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः सगुडघृततैललवणयुक्तः पूर्ववद्बस्तिःस्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः (९)| बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजेन पयसा पक्त्वा मधुकमदनकल्कितं समधुघृतसैन्धवं ज्वरार्तेभ्यो बस्तिं दद्यात् (१०)| शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सिद्धः कषायः पिप्पलीमधुकोत्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियविषमज्वरकर्शितस्य बस्तिः शस्तः (११)| स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन छागं पयः शृतं पादशेषं कुक्कुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चलयुक्तो वस्तिर्वृष्यतमो बलवर्णजननश्च | इति यापना बस्तयो द्वादश||१६|| कल्पश्चैष शिखिगोनर्दहंससारसाण्डरसेषु स्यात्||१७||
🔊 Audio coming soon
प्रतिज्ञातान् यापनबस्तीनाह- यापनाश्चेत्यादि| सर्वकालं देया इत्यनेन पूर्वनिरूहाणामसार्वकालिकत्वं दर्शयति; एतेषां च सर्वस्मिन् काले दानमविरुद्धम्| आयुषो यापनं दीर्धकालानुवर्तनं कुर्वन्तीति यापना बस्तयः| मुस्तेत्यादौ खण्डशः क्लृप्तानीति खण्डं खण्डं कृतानि| पादजाङ्गलरस इति यथोक्तक्षीरकृतक्वाथपादिकजाङ्गलरस इत्यर्थः| तुल्यं मधुना घृतं यस्मिन् स तुल्यमधुघृतः; एतेन पूर्वं बस्तौ यथानियमितस्नेहमानेन यावद् घृतं देयं भवति तावन्मानं मध्वप्यत्र देयम्| अस्मिंश्च बस्तौ पूर्वोक्तबस्तिमानविभागेनैव बस्तिः कल्पयितव्यः| अत्र क्षीरं कषायस्थाने भवति| शतकुसुमा शतपुष्पा| ससैन्धवमिति ईषत्सैन्धवम्| एरण्डमूलेत्यादिर्द्वितीयः| तद्वत् सहचरेत्यादिकस्तृतीयः| तद्वदिति पूर्ववद्बस्तिविधानेन| तथा बृहतीत्यादिकश्चतुर्थः| अत्र च बस्तौ फलश्रुतिर्नास्ति, सामान्येन ‘इत्येते बस्तयः स्नेहाश्चोक्ता’ इत्यादिना वक्ष्यमाणा फलश्रुतिर्ज्ञेया| बलातिबलाविदारीत्यादिकः पञ्चमः| बलातिबलारास्नेत्यादिकः षष्ठः| शुष्कमूलकाणां चेत्यत्र ‘द्विप्रसृतं’ इत्यनुवर्तते| निरूहप्रमाण्शेषं कषायमिति निरूहपुटकत्रययोग्यप्रमाणं कषायम्; एवं पुटकत्रयदेयाः पञ्चकषायप्रसृताः स्थाप्या भविष्यन्ति| क्वाथपरिभाषयैव कर्तव्योऽत्र च क्वाथः| निरूहप्रमाणशेषं कषायं मधुकमदनादिना युक्तं सिद्धं बस्तिं दद्यादिति योजनीयम्| हपुषेत्यादिकः सप्तमः| स्तिमिताः शुष्काः पुनः कण्डिताः क्षुण्णा उच्यन्ते| पूर्वपठितं मुस्तादिकमत्र प्रदेशे काश्मीराः पठन्ति| ह्रस्वपञ्चमूलीत्यादिकोऽष्टमः| बलातिबलापामार्गेत्यादिको नवमः| बलामधुकेत्यादिको दशमः| अत्र बलादिकषायस्य पुनराजेन पयसा पाकात् क्षीरशेषः पाकः कर्तव्यः| शालिपर्णीत्यादिक एकादशः| स्थिरेत्यादिको द्वादशः| एरका होग्गलः| कल्पश्चेत्यादिना आतिदेशिकास्त्रयोऽभिधीयन्ते||१६-१७||
Adhikarana 9 (18) · Śloka 18
सतित्तिरिः समयूरः सराजहंसः पञ्चमूलीपयः सिद्धः शतपुष्पामधुकरास्नाकुटजमदनफलपिप्पली कल्को घृततैलगुडसैन्धवयुक्तो बस्तिर्बलवर्णशुक्रजननो रसायनश्च (१)| द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलीमधुकरास्नामदनकल्कं शर्करामधुघृतयुक्तं स्त्रीष्वतिकामानां बलजननो बस्तिः (२)| मयूरमपित्तपक्षपादास्यान्त्रं स्थिरादिभिः पलिकैः सजले पयसि पक्त्वा क्षीरशेषं मदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतं मधुघृतसैन्धवयुक्तं बस्तिं दद्यात् स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरम् (३)| कल्पश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यात्, अक्षीरो रोहितादिषु च मत्स्येषु (४)| गोधानकुलमार्जारमूषिकशल्लकमांसानां दशपलान् भागान् सपञ्चमूलान् पयसि पक्त्वा तत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तो बस्तिर्बल्यो रसायनः क्षीणक्षतस्य सन्धानकरो मथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणां हिततमश्च (५)| कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टो बस्तिर्वृद्धानामपि बलजननः (६)| कर्कटकरसश्चटकाण्डरसयुक्तः समधुघृतशर्करो बस्तिः; इत्येते बस्तयः परमवृष्याः उच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात् स्त्रीशतगामिनं नरं कुर्युः (७)| गोवृषबस्तवराहवृषणकर्कटचटकसिद्धं क्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तः किञ्चिल्लवणितो बस्तिः (८)| दशमूलमयूरहंसकुक्कुटक्वाथात् पञ्चप्रसृतं तैलघृतवसामज्जचतुष्प्रसृतयुक्तं शतपुष्पामुस्तहपुषाकल्कीकृतः सलवणो बस्तिः पादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः (९)| मृगविष्किरानूपबिलेशयानामेतेनैव कल्पेन बस्तयो देयाः (१०)| मधुघृतद्विप्रसृतस्तुल्योष्णोदकः शतपुष्पार्धपलः सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तवातहरः (११)| सद्योघृततैलवसामज्जचतुष्प्रस्थं हपुषार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तव्याधिहरो रसायनः (१२)| मधुतैलं चतुःप्रसृतं शतपुष्पार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्दीपनो बृंहणो बलवर्णकरो निरुपद्रवो वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः (१३)| तद्वन्मधुघृताभ्यां पयस्तुल्यो बस्तिः पूर्वकल्केन बलवर्णकरो वृष्यतमो निरुपद्रवो बस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरो रसायनश्च (१४)| तद्वन्मधुघृताभ्यां मांसरसतुल्यो मुस्ताक्षयुक्तः पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः (१५)| सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतो मुस्तशताह्वाकल्कितः सलवणो बस्तिः सर्ववातरोगहरः (१६)| द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायो गोमूत्रसिद्धः कुटजमदनफलमुस्तपाठाकल्कितः सैन्धवयावशूकक्षौद्रतैलयुक्तो बस्तिः श्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु देय इति||१८||
🔊 Audio coming soon
सतित्तिरिरित्यादिक एकैकयोगेन वक्ष्यमाणानामेकोनत्रिंशतां बस्तीनां मध्ये त्रयोदशः| द्विपञ्चमूलीत्यादिकश्चतुर्दशः| मयूरमपित्तपक्षेत्यादिकः पञ्चदशः| कल्पश्चैष इत्यादिनाऽऽतिदेशिकं पञ्चदशाधिकं शतमाह| तत्र विष्किरैः “लावो वर्तीरकश्चैव” इत्यादिनोक्तैस्तथा “वर्तको वर्तिका” (सू.अ.२७) इत्यादिनोक्तैर्विंशतिर्योगा भवन्ति; मयुरश्चात्र विष्किरपठितोऽपि पूर्वोक्तत्वान्नेह गण्यते; प्रतुदैश्च ‘शतपत्र...’ (सू.अ.२७) इत्यादिनोक्तैस्त्रिंशद्भवन्ति; तथा प्रसहैश्च ‘गोखराश्वतर...’ (सू.अ.२७) इत्यादिनोक्तैरेकोनत्रिंशत्; अम्बुचराश्च हंसादयः सप्तविंशतिरुक्ताः, एतैः सप्तविंशतिर्भवन्ति; रोहितादिभिर्मत्स्यैर्नव; एवं पञ्चदशोत्तरं शतं भवति| अक्षीर इति रोहितादिषु सम्बध्यते| गोधानकुलेत्यादिभिः प्रत्येकं गणनीयेषु षोडशः| कूर्मादीनामन्यतमेत्यादिकः सप्तदशः| अत्र कूर्मकर्कटादय एकादश पठिताः| तत्र यः प्रायः कूर्मेण क्रियते स प्रत्येकं गणनायां प्रविशति| कर्कटादिभिस्त्वादिग्रहणगृहीतैर्ये दश बस्तयो भवन्ति ते अतिदेशिका ज्ञेयाः| गोवृषबस्तादिरष्टादशः| गोवृषः पुंवृषः| कर्कटादिरेकोनविंशतितमः| इत्येते बस्तय इत्यनेन कूर्मादीनामन्यतममित्यादिग्रन्थोक्ता बस्तयः प्रत्यवमृश्यन्ते| उच्चटकेत्यादि उच्चटा स्वनामख्याता, इक्षुरकः कोकिलाक्षः| दशमूलीत्यादिको विंशतितमः| मृगविष्किरेत्यादिना आतिदेशिका ऊनषष्टिर्योगाः| तत्र मृगैः ‘पृषतः शरभो रामः’ (सू.अ.२७) इत्यादिनोक्तैः सप्तदश, सप्तदशभिर्विष्किरैश्च सप्तदश, लावादिभिश्च मयूरकुक्कुटवर्जितैरुनविंशत्या ऊनविंशतिः, आनूपैश्च सृमरादिभिर्नव, बिलेशयैः श्वेतश्यामचतुर्दंष्ट्रादिभिश्चतुर्दश| मधुघृतेत्यादिक एकविंशतितमः| सद्योघृततैलेत्यादिको द्वाविंशतितमः| मधुतैलमित्यादिकस्त्रयोविंशतितमः| तद्वन्मधुघृताभ्यामित्यादिकश्चतुर्विंशतितमः| एतदन्ताः षट् प्रयोगा उक्ता मधुतैलप्रधानत्वान्माधुतैलिका ज्ञेयाः| द्विपञ्चमूलीत्यादिकं केचिन्न पठन्ति, स च सङ्ख्यातिरेकाद्बस्तिसूत्रीयसिद्धिपठितत्वाच्चेह न पठनीय इति च वदन्ति||१८||
Adhikarana 10 (19(1)) · Śloka 19
अत ऊर्ध्वं वृष्यतमान् स्नेहान् वक्ष्यामः| शतावरीगुडूचीक्षुविदार्यामलकद्राक्षाखर्जूराणां यन्त्रपीडितानां रसप्रस्थं पृथगेकैकं तद्वद्घृततैलगोमहिष्यजाक्षीराणां द्वौ द्वौ दद्यात्, जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटापिप्पलीपुष्करबीजनीलोत्पलकदम्बपुष्प- पुण्डरीककेशरकल्कान् पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ताक्षबर्हिजीवञ्जीवकुलिङ्गहंसाण्डरसवसामज्जादेश्च प्रस्थं दत्त्वा साधयेत्| ब्रह्मघोषशङ्खपटहभेरीनिनादैः सिद्धं सितच्छत्रकृतच्छायं गजस्कन्धमारोपयेद्भगवन्तं वृषध्वजमभिपूज्य, तं स्नेहं त्रिभागमाक्षिकं मङ्गलाशीः स्तुतिदेवतार्चनैर्बस्तिं गमयेत्| नृणां स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वरार्तानां व्यापन्नयोनीनां वन्ध्यानां रक्तगुल्मिनीनां मृतापत्यानामनार्तवानां च स्त्रीणां क्षीणमांसरुधिराणां पथ्यतमं रसायनमुत्तमं वलीपलितनाशनं विद्यात् (१)|१९|
🔊 Audio coming soon
स्नेहबस्तित्रयार्थं स्नेहत्रयं दर्शयन्नाह- अत ऊर्ध्वमित्यादि| मत्ताक्षः कोकिलः| जीवञ्जीवः विषदर्शनमृत्युः| पुष्कराक्षः हंसविशेषः| ब्रह्मघोषः वेदध्वनिः| एते च ब्रह्मघोषादयोऽदृष्टद्वारा उपकारका रक्षःप्रभृतिवीर्यापहरणार्थं क्रियन्ते||१९(१)||
Adhikarana 11 (19(2)) · Śloka 19
बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणां शतं शतमापोथ्य जलद्रोणशते प्रसाध्यं, तस्मिन् जलद्रोणावशेषे रसे वस्त्रपूते विदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुटबर्हिहंसकारण्डवसारसाण्डरसानां घृततैलयोश्चैकैकं प्रस्थमष्टौ प्रस्थान् क्षीरस्य दत्त्वा चन्दनमधुकमधूलिकात्वक्क्षीरीबिसमृणालनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकी- कण्टकारीजीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पत्रकल्कांश्च दत्त्वा साधयेत्| ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्| तेन स्त्रीशतं गच्छेत्; न चात्रास्ते विहाराहारयन्त्रणा काचित्| एष वृष्यो बल्यो बृंहण आयुष्यो वलीपलितनुत् क्षतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापन्नयोनीनां च पथ्यतमः (२)|१९|
🔊 Audio coming soon
बलेत्यादिकं द्वितीयं तैलम्||१९(२)||
Adhikarana 12 (19) · Śloka 19
सहचरपलशतमुदकद्रोणचतुष्ट्ये पक्त्वा द्रोणशेषे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरं घृततैलप्रस्थं बलामधुकमधूकचन्दनमधूलिकासारिवामेदामहामेदाकाकोलिक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनख- शटीसहचरसहस्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैः कल्कैः साधयेत्| बह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्| एष सर्वरोगहरो रसायनो ललितानां श्रेष्ठोऽन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदनाश्वासकासहरस्त्रिभागमाक्षिको वलीपलितनुद्वर्णरूपबलमांसशुक्रवर्धनः (३)| इत्येते रसायनाः स्नेहबस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति||१९||
🔊 Audio coming soon
सहचरपलशतमित्यादिकः स्नेहस्तृतीयः| सहस्रवीर्या दूर्वा| वराङ्गं गुडत्वक्| शतपाकाः सहस्रपाकाश्चेत्यत्र स्नेहापेक्षया शतगुणेन सहस्रगुणेन वा द्रवेण एकदैव पाकं मन्यन्ते केचित्||१९||
Adhikarana 13 (20-22) · Śloka 22
भवन्ति चात्र- इत्येते बस्तयः स्नेहाश्चोक्ता यापनसञ्ज्ञिताः| स्वस्थानामातुराणां च वृद्धानां चाविरोधिनाः||२०|| अतिव्यवायशीलानां शुक्रमांसबलप्रदाः| सर्वरोगप्रशमनाः सर्वेष्वृतुषु यौगिकाः||२१|| नारीणामप्रजातानां नराणां चाप्यपत्यदाः| उभयार्थकरा दृष्टाः स्नेहबस्तिनिरूहयोः||२२||
🔊 Audio coming soon
उभयार्थकरा दृष्टा इति स्नेहबस्तिनिरूहयोरिपि साध्यमर्थं स्नेहनं शोधनं च कुर्वत इति भावः||२०-२२||
Adhikarana 14 (23) · Śloka 23
व्यायामो मैथुनं मद्यं मधूनि शिशिराम्बु च| सम्भोजनं रथक्षोभो बस्तिष्वेतेषु गर्हितम्||२३||
🔊 Audio coming soon
यापनबस्तिषु वर्जनीयमाह- व्यायाम इत्यादि||२३||
Adhikarana 15 (24-28) · Śloka 29
तत्र श्लोकाः - शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः| विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैः प्रसहैर्नव||२४|| विंशतिश्च तथा सप्तविंशतिश्चाम्बुचारिभिः| नव मत्स्यादिभिश्चैव शिखिकल्पेन बस्तयः||२५|| दश कर्कटकाद्यैश्च कूर्मकल्केन बस्तयः| मृगैः सप्तदशैकोनविंशतिर्विष्किरैर्दश ||२६|| आनूपैर्दक्षशिखिवद्भूशयैश्च चतुर्दश| एकोनत्रिंशदित्येते सह स्नेहैः समासतः||२७|| प्रोक्ता विस्तरशो भिन्ना द्वे शते षोडशोत्तरे| एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्||२८|| नातियोगं न वाऽयोगं स्तम्भितास्ते च कुर्वते|२९|
🔊 Audio coming soon
शिखिगोनर्देत्यादिना उक्तबस्तिसङ्ग्रहं करोति| सङ्ग्रहार्थश्च पूर्वमेव व्याहृतः| एकोनत्रिंशदित्येते इति प्रत्येकं निर्दिष्टा बस्तयः स्नेहैः सममेकोनत्रिंशद्भवन्तीत्यर्थः| समाहारसङ्ख्यामाह- द्वे शते षोडशोत्तरे इति| तच्च यथाऽस्माभिर्व्याख्यातं तथा व्यक्तमेव पूर्यते| अतिवृषमिति शुक्रोपचयवन्तम्| स्तम्भिताश्चेति मधुना स्तम्भिताः||२४-२८||-
Adhikarana 16 (29) · Śloka 30
मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः||२९|| समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः|३०|
🔊 Audio coming soon
यापनाबस्त्यप्रवृत्तौ कर्तव्यमाह- मृदुत्वादित्यादि||२९||-
Adhikarana 17 (30) · Śloka 31
शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः||३०|| स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्|३१|
🔊 Audio coming soon
यापनाबस्त्यतिप्रयोगे दोषमाह- शोफेत्यादि||३०||-
Adhikarana 18 (31-32) · Śloka 33
अरिष्टक्षीरसीध्वाद्या तत्रेष्टा दीपनी क्रिया||३१|| युक्त्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः| इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः||३२|| विस्तरेण पृथक् प्रोक्तास्तेभ्यो रक्षेन्नरं सदा|३३|
🔊 Audio coming soon
एतच्छोफादिषु चिकित्सामाह- अरिष्टेत्यादि| तस्मादिति यापनात्यर्थप्रयोगे शोथादिदर्शनात्| न प्रसङ्गत इति न अभ्यासतः सेवेत| तेभ्यो रक्षेदिति उच्चैर्भाष्यादिजन्यव्यापभ्द्यो रक्षेत्||३१-३२||-
Adhikarana 19 (33) · Śloka 34
कर्मणां वमनादिनामसम्यक्करणापदाम्||३३|| यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते|३४|
🔊 Audio coming soon
सम्प्रति सिद्धिस्थानशब्दस्य निरुक्तिं दर्शयन् सिद्धिस्थानाभिधेयं वाक्यार्थं सङ्गृह्णन्नाह- कर्मणामित्यादि| असम्यक्करणापदामिति वमनादीनामसम्यक्प्रयोगे जनितानामापदां; वमनादिव्यापत्प्रतिकारश्च सिद्धिस्थानार्थः प्रधानतयोपदर्शितः; तेन वमनादिकल्पनाद्यभिधानमपि अनागतवमनादिव्यापन्निषेधप्रयोजनकं सिद्धिस्थाने युक्तमेव||३३||-
Adhikarana 20 (34) · Śloka 35
इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम्||३४|| हितार्थं प्राणिनां प्रोक्तमग्निवेशेन धीमता|३५|
🔊 Audio coming soon
सिद्धिस्थानं समाप्य कृत्स्नं तन्त्रमुपसंहरति- इत्यध्यायेत्यादि| आत्रेयमुनिवाङ्मयमिति अनुकृतात्रेयवचनभयम्||३४||-
Adhikarana 21 (35) · Śloka 36
दीर्घमायुर्यशः स्वास्थ्यं त्रिवर्गं चापि पुष्कलम्||३५|| सिद्धिं चानुत्तमां लोके प्राप्नोति विधिना पठन्|३६|
🔊 Audio coming soon
एतत्तन्त्राध्ययने फलमाह- दीर्घमायुरित्यादि| त्रिवर्गमिति धर्मार्थकामान्| पुष्कलमिति मोक्षं; किंवा पुष्कलमिति त्रिवर्गविशेषणम्| सिद्धिमिति चिकित्साप्रयोगसाध्यनिष्पादकत्वम्| विधिना पठन्निति रोगभिषग्जितीयोक्तेन पाठविधिना| एतत्सविंशमध्यायशतं पठतः दीर्घायुर्लाभादयश्च एवम्भूतपाठजनितधर्मवशादेव तथा पाठजनितशास्त्रावबोधपूर्वकशास्त्रानुष्ठानाच्च भवन्ति||३५||-
Adhikarana 22 (36-40) · Śloka 41
विस्तारयति लेशोक्तं सङ्क्षिपत्यतिविस्तरम्||३६|| संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्| अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना||३७|| संस्कृतं तत्त्वसम्पूर्णं त्रिभागेनोपलक्ष्यते| तच्छङ्करं भूतपतिं सम्प्रसाद्य समापयत्||३८|| अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे| कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोञ्छशिलोच्चयम्||३९|| सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्| इदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितम्||४०|| षड्विंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः|४१|
🔊 Audio coming soon
एतच्छास्त्रसंस्कारोपपत्युपदर्शनपूर्वकं शास्त्रस्य संस्कारकौ चरकदृढबलौ दर्शयन्नाह दृढबलः- विस्तारयतीत्यादि| यस्माच्छास्त्रे प्रथममतिविस्तारतया क्वचिल्लेशोक्त्या च प्रतिपादितेषु न सम्यगर्थावगमः, तेन तदतिविस्तरलेशोक्तदोषनिरासार्थं संस्कर्ता युज्यते, अतः तन्त्रोत्तममिदं चरकेण संस्कृतम्| पूर्वग्रन्थस्य चातीव विस्तरत्वादिना तन्त्राभिधानं पूर्वश्रोतृजनाभिप्रायादेव बोद्धव्यम्; इदानीन्तनश्रोतृपुरुषाभिप्रायेण तु संस्कर्तुः संस्कारो ज्ञेयः| उक्तं च- “सङ्क्षेपोक्तमतिहन्ति विस्तरोक्तं न गृह्यते| सङ्क्षेपविस्तरौ हित्वा संस्कुर्याच्छास्त्रमादितः” इति| पुराणं च पुनर्नवमिति विस्तारसङ्क्षेपादिना पुनर्नवं कुरुते| चरकसंस्कारापूर्णतां दर्शयन् दृढबल आह- तत्वित्यादि| तृतीयो भागस्त्रिभागः| त्रिभागासम्पूर्णता चेयमदूरान्तरतयोक्ता, तेन दृढबलप्रतिपादितैकचत्वारिंशदध्यायानां न सविंशाध्यायशतत्रिभागता युज्यते इति नोद्भावनीयम्| आत्मनः पञ्चनदपुरभवत्वेन श्रेष्ठप्रदेशभवत्वं दर्शयति| आत्मनः संस्कारे तन्त्रान्तरानीतार्थेन संस्कारं दर्शयन्नाह- कृत्वा बहुभ्य इत्यादि| तन्त्रेभ्यः सुश्रुतविदेहादितन्त्रेभ्यः| विशेषस्य चरकोक्तार्थादतिरिक्तरूपस्य उञ्छशिलरूप उच्चयो विशेषोञ्छशिलोच्चयः; तमन्यतन्त्रेभ्यः कृत्वा सप्तदशौषधाध्यायसिद्धिकल्पैरिदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितं षड्विंशत्तन्त्रयुक्तिभिर्भूषितमपूरयदृढबल इति योजना| तत्र भूमिपतितानामणूनां धान्यादिबीजानां शोधन्या संहरणमुञ्छः; प्रविरलस्य तु कणिशादिरूपतया पतितस्य चयनं शिलः| एतेन तन्त्रेषु यत्सारभूतं तच्चरकाचार्यैः सङ्गृहीतं; मया तु उर्वरितं परिशिष्टं कृत्वा पूरितमिति दर्शयति| अन्यूनशब्दमन्यूनार्थं चेति अन्यूनशब्दार्थम्| तन्त्रदोषाश्चतुर्दश “पुनरुक्तं दुष्प्रणीतसूत्रसङ्ग्रहमक्रमं” (वि.अ.८) इत्यादिना रोगभिषग्जितीयोक्तास्तैर्वर्जितम् | तन्त्रयुक्तिभिरिति वक्ष्यमाणतन्त्रयुक्तिभिः| विचित्राभिरिति विचित्रार्थन्याययुक्ताभिस्तन्त्रयुक्तिभिः||३६-४०||-
Adhikarana 23 (41-44) · Śloka 45
तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च||४१|| प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्| उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः||४२|| प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः| पूर्वपक्षविधानानुमतव्याख्यानसंशयाः||४३|| अतीतानागतावेक्षास्वसञ्ज्ञोह्यसमुच्चयाः| निदर्शनं निर्वचनं सन्नियोगो विकल्पनम्||४४|| प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः|४५|
🔊 Audio coming soon
तन्त्रयुक्तीरेवाह - तत्रेत्यादि| अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता; यथा “विघ्नभूता यदा रोगा” (सू.अ.१) इत्यादि| अत्र रोगादिकमधिकृत्यायुर्वेदो महर्षिभिः कृत इति ‘रोगाः’ इत्यधिकरणम्| योगो नाम योजना व्यस्तानां पदानामेकीकरणम्| उदाहरणं तावद्यथा- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि; तत्र प्रतिज्ञा- मातृजश्चायं गर्भः, हेतुः- मातरमन्तरेण गर्भानुपपत्तेः, दृष्टान्तः- कूटागारः, उपनयः- यथा नानाद्रव्यसमुदायात् कूटागारस्तथा गर्भनिर्वर्तनं, तस्मान्मातृजश्चायमित्येषां प्रतिज्ञायोगः; एवमन्येऽपि योगार्था व्याख्येयाः| हेत्वर्थो नामयदन्यत्राभिहितमन्यत्रोपपद्यते; यथा- “समानगुणाभ्यासो हि धातूनां वृद्धिकारणम्” (सू.अ.१२) इति वातमधिकृत्योक्तं, तत्र वातस्येति वक्तव्ये यदयं समानशब्दं धातूनामिति करोति, तेन यथा वायोस्तथा रसादीनामपि समानगुणाभ्यासो वृद्धिकारणमिति गम्यते| पदार्थो नाम पदस्य पदयोः पदानां वाऽर्थः पदार्थः| तत्र द्रव्यमितिपदेन खादयश्चेतनाषष्ठा उच्यन्ते; पदयोरर्थो नाम यथा- ‘आयुषो वेद’ इति पदयोरायुर्बोधकं तन्त्रमित्यर्थः; एवं पदानामप्यर्थ उदाहार्यः| प्रदेशो नाम यद्बहुत्वादर्थस्य कार्त्स्न्येनाभिधातुमशक्यमेकदेशेनाभिधीयते; यथा- “अनुपानैकदेशोऽयमुक्तः प्रायोपयोगिकः’ (सू.अ.२७) इत्यादि| उद्देशो नाम सङ्क्षेपाभिधानं; यथा- “हेतुलिङ्गौषधज्ञानं” (सू.अ.१), अनेन सर्वायुर्वेदाभिधेयोद्देशः| निर्देशो नाम सङ्ख्येयोक्तस्य विवरणं; यथा- हेतुलिङ्गौषधस्य पुनः प्रपञ्चनं “सर्वदा सर्वभावानां” इत्यादिना “इत्युक्तं कारणं”(सू.अ.१) इत्यन्तेन कारणप्रपञ्चनमित्यादि| वाक्यशेषो नाम यल्लाघवार्थमाचार्येण वाक्येषु पदमकृतं गम्यमानतया पूर्यते; यथा “प्रवृत्तिर्हेतुभावानां” (सू.अ.१६) इत्यत्र ‘अस्ति’ इति पदं पूर्यते, तथा “जाङ्गलजै रसैः” इत्यत्र मांसशब्दः पूर्यते| वाक्येषु चैत एव पदाः शेषाः क्रियन्ते, येऽनिवेशिता अपि प्रतीयन्ते| प्रयोजनं नाम यदर्थं कामयमानः प्रवर्तते; यथा- “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू.अ.१)| उपदेशो नामाप्तानुशासनं; यथा- “स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्” (सू.अ.१३) इत्यादि| अपदेशो नाम यत्प्रतिज्ञातार्थसाधनाय हेतुवचनं; यथा- “वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः| विद्याद्दुष्परिहार्यत्वात्” (वि.अ.३) इत्यादि, तत्र प्रतिज्ञातार्थस्य हेतुवचनं- दुष्परिहार्यत्वादिति| अतिदेशो नाम यत्किञ्चिदेव प्रकाश्यार्थमनुक्तार्थसाधनायैव एवमन्यदपि प्रत्येतव्यमिति परिभाष्यते; यथा- “यच्चान्यदपि किञ्चित् स्यादनुक्तमिह पूजितम्| वृतं तदपि चात्रेयः सदैवाभ्यनुमन्यते” (सू.अ.८) इति| अर्थापत्तिर्नाम यदकिर्तितमर्थादापद्यते साऽर्थापत्तिः; यथा- नक्तं दधिभोजननिषेधः, अर्थाद्दिवा भुञ्जीतेत्यापद्यते| निर्णयो नाम विचारितस्यार्थस्य व्यवस्थापनं; यथा- चतुष्पदभेषजत्वादि विचारं कृत्वाऽभिधीयते- “यदुक्तं षोडशकलं पूर्वाध्याये भेषजं तद्युक्तियुक्तमलमारोग्याय” (सू.अ.१०) इति| प्रसङ्गो नाम पूर्वाभिहितस्यार्थस्य प्रकरणागतत्वादिना पुनरभिधानं; यथा- “तत्रातिप्रभावतां दृश्यानातिमात्रदर्शनमतियोगः” (सू.अ.११) एवमाद्यभिधाय, पुनः “अत्युग्रशब्दश्रवणाच्छ्रवणात् सर्वशो न च” (शा.अ.१) इत्यादिना पूर्वोक्त एवार्थोऽभिधीयते| एकान्तो नाम यदवधारणेनोच्यते; यथा- निजः शरीरदोषोत्थः, त्रिवृद्विरेचयतीत्यादि| अनैकान्तो नाम अन्यतरपक्षानवधारणं, यथा- “ये ह्यातुराः केवलाद्भेषजादृते म्रियन्ते, न च ते सर्व एव भेषजोपपन्नाः समुत्तिष्ठेरन्” (सू.अ.१०) इत्यादि| अपवर्गो नाम साकल्येनोद्दिष्टस्यैकदेशापकर्षणं; यथा- “न पर्युषितान्नमाददीतान्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः” (सू.अ.८) इति| अत्र हि सामान्येन पर्युषितभक्षणनिषेधं कृत्वा मांसादेः पर्युषितस्यापि भक्षणमपकृष्य विधीयते| विपर्ययो नाम अपकृष्टात् प्रतीपोदाहरणं; यथा- “निदानोक्तान्यस्य नोपशेरते विपरीतानि चोपशेरते” (नि.अ.३) इति| पूर्वपक्षो नाम प्रतिज्ञातार्थसन्दूषकं वाक्यं; यथा- “मत्स्यान्न पयसाऽभ्यवहरेत्” इति प्रतिज्ञातस्यार्थस्य “सर्वानेव मत्स्यान्न पयसाऽभ्यवहरेदन्यत्र चिलिचिमात्” (सू.अ.२६) इति| विधानं नाम सूत्रकारश्च विधाय वर्णयति; यथा- “मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः” इत्यत्र दुष्टिशब्देन मलानां हीनत्वमधिकत्वमाचार्यगृहीतमाचार्यो वर्णयति- “मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्| मलायनानां बुध्येत सङ्गोत्सर्गादतीव च” (सू.अ.७) इति; केचित्तु प्रकरणानुपूर्व्याऽर्थाभिधानं विधानमाहुः, यथा- रसरुधिरमांसमेदोस्थिमज्जशुक्राणामुत्पादक्रमानुरोधेनाभिधानम्| अनुमतं नाम एकीयमतस्यानिवारणेनानुमननं; यथा- “गर्भशल्यस्य जरायुःप्रपातनं कर्म संशमनमित्येके” (शा.अ.८) इत्याद्येकीयमतं प्रतिपाद्याप्रतिषेधादनुमन्यते| व्याख्यानं नाम यत् सर्वबुद्ध्यविषयं व्याक्रियते, यथा- “प्रथमे मासि सम्मूर्छितः सर्वधातुकलुषीकृतः खेटभूतो भवत्यव्यक्तविग्रहः” (शा.अ.४) इत्यादिनाऽस्मदाद्यविदितार्थव्याकरणम्| संशयो नाम विशेषाकाङ्क्षानिर्धारितोभयविषयज्ञानं, यथा- “मातरं पितरं चैके मन्यन्ते जन्मकारणम्| स्वभावं परनिर्माणं यदृच्छां चापरे जनाः||” (सू.अ.११) इत्यादिनोक्तः संशयः| अतीतावेक्षणं नाम यदतीतमेवोच्यते; यथा- “सा कुटी तच्च शयनं ज्वरं संशमयत्यपि” (चि.अ.३) इत्यत्र स्वेदाध्यायविहितकुट्यादिकमतीतमवेक्षते अनागतावेक्षणं नाम यदनागतं विधिं प्रमाणिकृत्यार्थसाधनं; यथा- “अथवा तिक्तसर्पिषः” इत्याद्यनागतावेक्षणेनोच्यते| स्वसञ्ज्ञा नाम या तन्त्रकारैर्व्यवहारार्थं सञ्ज्ञा क्रियते; यथा- जेन्ताकहोलाकादिका सञ्ज्ञा| ऊह्यं नाम यदनिबद्धं ग्रन्थे प्रज्ञया तर्क्यत्वेनोपदिश्यते; यथा- “परिसङ्ख्यातमपि यद्यद् द्रव्यमयौगिकं मन्येत तत्तदपकर्षयेत्” (वि.अ.८) इति| समुच्चयो नाम यदिदं चेदं चेति कृत्वा विधीयते; यथा- ‘वर्णश्च स्वरश्च’ (इ.अ.१) इत्यादि| निदर्शनं नाम- मूर्खविदुषां बुद्धिसाम्यविषयो दृष्टान्तः; यथा- “विज्ञातममृतं यथा” (सू.अ.१) इत्यादि| निर्वचनं नाम पण्डितबुद्धिगम्यो दृष्टान्तः; यथा- “ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्” (सू.अ.१६) इति| निदर्शननिर्वचनयोरयं विशेषः- यन्निदर्शनं मूर्खविदुषां बुद्धिसामान्यविषयं, निर्वचनं तु पण्डितबुद्धिवेद्यमेव; किंवा निर्वचनं निरुक्तिः- यथा- “विविधं सर्पति यतो विसर्पस्तेन सञ्ज्ञितः” (चि.अ.२१) इत्यादि| नियोगो नाम अवश्यानुष्ठेयतया विधानं; यथा- “न त्वया स्वेदमूर्च्छापरीतेनापि पिण्डिकैषा विमोक्तव्या” (सू.अ.१४) इत्यादि| विकल्पः पाक्षिकाभिधानं; यथा- “सारोदकं वाऽथ कुशोदकं वा” (चि.अ.६) इत्यादि| प्रत्युत्सारो नाम उपपत्त्या परमतनिवारणं; यथा वार्योविदः प्राह- “रसजानि तु भूतानि रजसा व्याधयः स्मृताः” (सू.अ.२५) इत्यादि, हिरण्याक्षो निषेधयति- “न ह्यात्मा रजसः स्मृतः” इत्यादि| उद्धारो नाम परपक्षदूषणं कृत्वा स्वपक्षोद्धरणं; यथा- “येषामेव हि भावानां सम्पत् सञ्जनयेन्नरम्| तेषामेव हि भावानां विपद्व्याधीनुदीरयेत्” (सू.अ.२५) इत्यादिना स्वपक्षोद्धरणम्| सम्भवो नाम यद्यस्मिन्नुपपद्यते स तस्य सम्भवः; यथा- मुखे पिप्लुव्यङ्गनीलिकादयः सम्भवन्तीत्यादि| इत्येताः षट्त्रिंशत्तन्त्रयुक्तयो व्याहृताः| भट्टारहरिचन्द्रेण त्वन्याश्चतस्रस्तन्त्रयुक्तयः परिप्रश्न-व्याकरण-व्युत्क्रान्ताभिधान-हेत्वाख्या व्याहृताः; ताश्च तन्त्रेऽपठितत्वादेता स्वेवान्तर्भावनीयाः| तत्र परिप्रश्न उद्देशेऽन्तर्भवति, व्याकरणं तु व्याख्याने, व्युत्क्रान्ताभिधानं निर्देशप्रभेदः, हेतुशब्देन यानि प्रत्यक्षादीनि प्रमाणान्युक्तानि तानि हेतावन्तर्भवन्ति| व्याख्या पञ्चदशप्रकारा, सप्तविधा कल्पना, एकविंशतिरर्थाश्रयाः, सप्तदश ताच्छील्यानि, चतुर्दश च तन्त्रदोषा भवन्ति, तदुत्तरतन्त्रे प्रतिपादितत्वान्नेह विलिखिता आचार्येण (?)||४१-४४||-
Adhikarana 24 (45) · Śloka 46
तन्त्रे समासव्यासोक्ते भवन्त्येता हि कृत्स्नशः||४५|| एकदेशेन दृश्यन्ते समासाभिहिते तथा|४६|
🔊 Audio coming soon
सम्प्रति तन्त्रयुक्तीरुद्दिश्य तासां तन्त्रे एवानुसरणमाह- तन्त्रे समासव्यासोक्ते इत्यादि| समासाभिहिते इत्यनेन अतिसङ्क्षिप्ते तन्त्रे नावश्यं सर्वास्तन्त्रयुक्तयो भवन्तीति दर्शयति, किंवा समासाभिहिते एकदेशेन दृश्यन्ते इति सम्बन्धः||४५||-
Adhikarana 25 (46) · Śloka 47
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा||४६|| प्रबोधनप्रकाशार्थास्तथा तन्त्रस्य युक्तयः|४७|
🔊 Audio coming soon
तन्त्रयुक्तीनां कार्यं दृष्टान्तेन दर्शयन्नाह- यथेत्यादि| यथाऽम्बुजवनस्य सङ्कुचितस्य विस्तारकोऽर्कस्तथा तन्त्रे सङ्कुचितस्यार्थप्रदेशस्य विस्तारकास्तन्त्रयुक्तयः; प्रवोधनाद्विस्तारका भवन्तीत्यर्कदृष्टान्तेन दर्शयति; दीपदृष्टान्तेन तु यथा दीपः सन्तमेव तमसा पिहितं प्रकाशयति तथा हेत्वादिकास्तन्त्रयुक्तयः सन्तमर्थं गूढं प्रकाशयन्तीति दर्शयति| एतदेवार्थद्वयं तन्त्रयुक्तीनां सम्पाद्यमभिप्रेत्योक्तं प्रबोधनप्रकाशार्था इति||४६||-
Adhikarana 26 (47-48) · Śloka 48
एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः||४७|| स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात् प्रबुध्यते| अधीयानोऽपि शास्त्राणि तन्त्रयुक्त्या विना भिषक्| नाधिगच्छति शास्त्रार्थानर्थान् भाग्यक्षये यथा||४८||
🔊 Audio coming soon
सम्यक्शास्त्राभ्यासफलमाह- एकस्मिन्नपीत्यादि||४७-४८||
Adhikarana 27 (49-50) · Śloka 50
दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्| सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति||४९|| (तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः| तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः)||५०||
🔊 Audio coming soon
शास्त्रे दुर्ज्ञानसम्यक्ज्ञानयोर्दोषगुणानाह- दुर्गृहीतमित्यादि| दुर्गृहीतं शस्त्रं यथाऽऽत्मन एव करच्छेदादिकमापादयति, तथा दुर्गृहीतं शास्त्रं मिथ्याभेषजप्रयोगादात्मनोऽपि व्यापदमावहति, यथा वा शस्त्रं सुगृहीतं तस्करादिभ्यो रक्षां करोति, तथा सुगृहीतं शास्त्रमात्मन आतुरस्य च रक्षामापादयतीति| तस्मादेता इत्यादिकं श्लोकमुत्तरे तन्त्रे तन्त्रेयुक्तिव्याकरणे प्रतिपादकं पठन्ति, तं चानार्षं वृद्धा वदन्ति, अग्निवेशतन्त्रे उत्तरतन्त्रास्यैवानार्षत्वात्||४९-५०||
Adhikarana 28 (51) · Śloka 51
इदमखिलमधीत्य सम्यगर्थान् विमृशति योऽविमनाः प्रयोगनित्यः| स मनुजसुखजीवितप्रदाता भवति धृतिस्मृतिबुद्धिधर्मवृद्धः||५१||
🔊 Audio coming soon
तन्त्राध्ययनफलमाह- इदमखिलमित्यादि| अविमना इति तन्त्रार्थाविचलितमनाः| प्रयोगनित्य इति नित्यं चिकित्सा कर्तव्यतया यस्य सः| सुखस्य जीवितस्य च प्रदाता; किंवा सुकारूपस्य जीवितस्य प्रदाता सुखजीवितप्रदाता| धृत्यादीति उपचिता धृतिस्मृतिबुद्धिधर्मा यस्य स धृतिस्मृतिबुद्धिधर्मवृद्धः||५१||
Adhikarana 29 (52-55) · Śloka 55
(यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता| सोऽर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः||५२|| रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते| चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति||५३|| यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्| अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते||५४|| सिद्धिस्थानेऽष्टमे प्राप्ते तस्मिन् दृढबलेन तु| सिद्धिस्थानं स्वसिद्ध्यर्थं समासेन समापितम्)||५५||
🔊 Audio coming soon
यस्य द्वादशसाहस्रीत्यादिश्लोकत्रयं केचित् पठन्ति; तच्चाप्रस्तुतमिति||५२-५५||
Adhikarana puShpikA · Śloka 12
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने उत्तरबस्तिसिद्धिर्नाम द्वादशोऽध्यायः||१२|| इति चरकसंहितायां अष्टमं सिद्धिस्थानं सम्पूर्णम्| समाप्तेयं चरकसंहिता|
🔊 Audio coming soon
गौडाधिनाथरसवत्यधिकारिपात्रनारायणस्य तनयः सुनयोऽन्तरङ्गात्| भानोरनु प्रथितलोध्र्रवलीकुलीनः श्रीचक्रपाणिरिह कर्तृपदाधिकारी|| इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां सिद्धिस्थाने उत्तरबस्तिसिद्धिर्नाम द्वादशोऽध्यायः||१२||