Adhikarana 1 (1-2) · Śloka 2
अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-5) · Śloka 5
अथ स्वल्वातुरं वैद्यः संशुद्धं वमनादिभिः| दुर्बलं कृशमल्पाग्निं मुक्तसन्धानबन्धनम्||३|| निर्हृतानिलविण्मूत्रकफपित्तं कृशाशयम्| शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत्||४|| यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथैव च| गोपाल इव दण्डी गाः सर्वस्मादपचारतः||५||
🔊 Audio coming soon
Adhikarana 3 (6-8) · Śloka 8
अग्निसन्धुक्षणार्थं तु पूर्वं पेयादिना भिषक्| रसोत्तरेणोपचरेत् क्रमेण क्रमकोविदः||६|| स्निग्धाम्लस्वादुहृद्यानि ततोऽम्ललवणौ रसौ| स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः||७|| अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः| व्यत्यासादुपयोगेन प्रकृतिं गमयेद्भिषक्||८||
🔊 Audio coming soon
Adhikarana 4 (9) · Śloka 9
सर्वक्षमो ह्यसंसर्गो रतियुक्तः स्थिरेन्द्रियः| बलवान् सत्त्वसम्पन्नो विज्ञेयः प्रकृतिं गतः||९||
🔊 Audio coming soon
Adhikarana 5 (10-12) · Śloka 12
एतां प्रकृतिमप्राप्तः सर्ववर्ज्यानि वर्जयेत्| महादोषकराण्यष्टाविमानि तु विशेषतः||१०|| उच्चैर्भाष्यं रथक्षोभमविचङ्क्रमणासने| अजीर्णाहितभोज्ये च दिवास्वप्नं समैथुनम्||११|| तज्जा देहोर्ध्वसर्वाधोमध्यपीडामदोषजाः| श्लेष्मजाः क्षयजाश्चैव व्याध्यः स्युर्यथाक्रमम्||१२||
🔊 Audio coming soon
Adhikarana 6 (13-14) · Śloka 14
तेषां विस्तरतो लिङ्गमेकैकस्य च भेषजम्| यथावत्सम्प्रवक्ष्यामि सिद्धान् बस्तींश्च यापनान्||१३|| तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक- हनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयः स्युः (१)| रथक्षोभात् सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध- स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनासन्धिस्कन्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः (२)| अतिचङ्कमणात् पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोद- पिण्डिकोद्वेष्टनाङ्गमर्दांसाभितापसिराधमनीहर्षश्वासकासादयः (३)| अत्यासनाद्रथक्षोभजाः स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः (४)| अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्वरप्रवाहणामविषादयः(५)| विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रसादवातादिप्रकोपजाश्च ग्रहण्यर्शोविकारादयः (६)| दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्रा- प्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः (७)| व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजानुजङ्घापादशूलहृदयस्पन्दननेत्रपीडाङ्गशैथिल्य- शुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीवनस्वरावसादकटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथु- वातवर्चोमूत्रसङ्गशुक्रविसर्गजाड्यवेपथुबाधिर्यविषादादयः स्युः; अवलुप्यत इव गुदः, ताड्यत इव मेढ्रम्, अवसीदतीव मनो, वेपते हृदयं, पीड्यन्ते सन्धयः, तमः प्रवेश्यत इव च (८)| इत्येवमेभिरष्टभिरपचारैरेते प्रादुर्भवन्त्युपद्रवाः||१४||
🔊 Audio coming soon
Adhikarana 7 (15) · Śloka 15
तेषां सिद्धिः- तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाहधूमनस्योपरिभक्तस्नेहपानरसक्षीरादिर्वातहरः सर्वो विधिर्मौनं च (१)| रथक्षोभातिचङ्क्रमणात्यासनजानां स्नेहस्वेदादिवातहरं कर्म सर्वं निदानवर्जनं च (२)| अजीर्णाध्यशनजानां निरवशेषतश्छर्दनं रूक्षः स्वेदो लङ्घनीयपाचनीयदीपनीयौषधावचारणं च (३)| विषमाहिताशनजानां यथास्वं दोषहराः क्रियाः (४)| दिवास्वप्नजानां धूमपानलङ्घनवमनशिरोविरेचनव्यायामरूक्षाशनारिष्टदीपनीयौषधोपयोगः प्रघर्षणोन्मर्दनपरिषेचनादिश्च श्लेष्महरः सर्वो विधिः (५)| मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगः, तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनाबस्तयोऽनुवासनं च; मूत्रवैकृतबस्तिशूलेषु चोत्तरबस्तिर्विदारीगन्धादिगणजीवनीयक्षीरसंसिद्धं तैलं स्यात्||१५||
🔊 Audio coming soon
Adhikarana 8 (16-17) · Śloka 17
यापनाश्च बस्तयः सर्वकालं देयाः; तानुपदेक्ष्यामः- मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडूचीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः क्लृप्तान्यष्टौ च मदनफलानि प्रक्षाल्य जलाढके परिक्वाथ्य पादशेषो रसः क्षीरद्विप्रस्थसंयुक्तः पुनः शृतः क्षीरावशेषः पादजाङ्गलरसस्तुल्यमधुघृतः शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः ससैन्धवः सुखोष्णो बस्तिः शुक्रमांसबलजननः क्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्न(वर्ध्म)- कुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्रजोविसर्पप्रवाहिकाशिरोरुजा- जानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मानवातरक्तपित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायनश्चेति (१)| एरण्डमूलपलाशात् षट्पलं शालिपर्णीपृश्निपर्णी बृहती कण्टकारिका गोक्षुरको रास्नाऽश्वगन्धा गुडूची वर्षाभूरारग्वधो देवदार्विति पलिकानि खण्डशः क्लृप्तानि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत्| पादशेषं कषायं पूतं शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफलरसाञ्जनप्रियङ्गुयवानिप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात्| सर्वेषां प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च (२)| तद्वत् सहचरबलादर्भमूलसारिवासिद्धेन पयसा (३)| तथा बृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेन पयसा मधुकमदनपिप्पलीकल्कितेन पूर्ववद्वस्तिः (४)| तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरूषककाश्मर्यबिल्वफलयवसिद्धेन पयसा मधुकमदनकल्कितेन मधुघृतसौवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च (५)| बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचरपलाशदेवदारुद्विपञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानां च जलद्रोणसिद्धं निरूहप्रमाणावशेषं कषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गुयवानीकल्किकृतं गुडघृततैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं बस्तिं दद्याच्छुक्रमूत्रवर्चःसङ्गेऽनिलजे गुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसञ्ज्ञानाशबलक्षयेषु च (६)| हपुषार्धकुडवो द्विगुणार्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृततैललवणयुक्तः सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितो वातहरो बुद्धिमेधाग्निबलजननश्च (७)| ह्रस्वपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमधुकमदनकल्कीकृतः सगुडघृततैललवणः क्षीणविषमज्वरकर्शितस्य बस्तिः (८)| बलातिबलापामार्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः सगुडघृततैललवणयुक्तः पूर्ववद्बस्तिःस्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः (९)| बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजेन पयसा पक्त्वा मधुकमदनकल्कितं समधुघृतसैन्धवं ज्वरार्तेभ्यो बस्तिं दद्यात् (१०)| शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सिद्धः कषायः पिप्पलीमधुकोत्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियविषमज्वरकर्शितस्य बस्तिः शस्तः (११)| स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन छागं पयः शृतं पादशेषं कुक्कुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चलयुक्तो वस्तिर्वृष्यतमो बलवर्णजननश्च | इति यापना बस्तयो द्वादश||१६|| कल्पश्चैष शिखिगोनर्दहंससारसाण्डरसेषु स्यात्||१७||
🔊 Audio coming soon
Adhikarana 9 (18) · Śloka 18
सतित्तिरिः समयूरः सराजहंसः पञ्चमूलीपयः सिद्धः शतपुष्पामधुकरास्नाकुटजमदनफलपिप्पली कल्को घृततैलगुडसैन्धवयुक्तो बस्तिर्बलवर्णशुक्रजननो रसायनश्च (१)| द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलीमधुकरास्नामदनकल्कं शर्करामधुघृतयुक्तं स्त्रीष्वतिकामानां बलजननो बस्तिः (२)| मयूरमपित्तपक्षपादास्यान्त्रं स्थिरादिभिः पलिकैः सजले पयसि पक्त्वा क्षीरशेषं मदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतं मधुघृतसैन्धवयुक्तं बस्तिं दद्यात् स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरम् (३)| कल्पश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यात्, अक्षीरो रोहितादिषु च मत्स्येषु (४)| गोधानकुलमार्जारमूषिकशल्लकमांसानां दशपलान् भागान् सपञ्चमूलान् पयसि पक्त्वा तत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तो बस्तिर्बल्यो रसायनः क्षीणक्षतस्य सन्धानकरो मथितोरस्करथगजहयभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुकाणां हिततमश्च (५)| कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टो बस्तिर्वृद्धानामपि बलजननः (६)| कर्कटकरसश्चटकाण्डरसयुक्तः समधुघृतशर्करो बस्तिः; इत्येते बस्तयः परमवृष्याः उच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात् स्त्रीशतगामिनं नरं कुर्युः (७)| गोवृषबस्तवराहवृषणकर्कटचटकसिद्धं क्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धवयुक्तः किञ्चिल्लवणितो बस्तिः (८)| दशमूलमयूरहंसकुक्कुटक्वाथात् पञ्चप्रसृतं तैलघृतवसामज्जचतुष्प्रसृतयुक्तं शतपुष्पामुस्तहपुषाकल्कीकृतः सलवणो बस्तिः पादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः (९)| मृगविष्किरानूपबिलेशयानामेतेनैव कल्पेन बस्तयो देयाः (१०)| मधुघृतद्विप्रसृतस्तुल्योष्णोदकः शतपुष्पार्धपलः सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तवातहरः (११)| सद्योघृततैलवसामज्जचतुष्प्रस्थं हपुषार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तव्याधिहरो रसायनः (१२)| मधुतैलं चतुःप्रसृतं शतपुष्पार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्दीपनो बृंहणो बलवर्णकरो निरुपद्रवो वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः (१३)| तद्वन्मधुघृताभ्यां पयस्तुल्यो बस्तिः पूर्वकल्केन बलवर्णकरो वृष्यतमो निरुपद्रवो बस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरो रसायनश्च (१४)| तद्वन्मधुघृताभ्यां मांसरसतुल्यो मुस्ताक्षयुक्तः पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्मत्रिकोरुजानूरुनिकुञ्चनबस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः (१५)| सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतो मुस्तशताह्वाकल्कितः सलवणो बस्तिः सर्ववातरोगहरः (१६)| द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायो गोमूत्रसिद्धः कुटजमदनफलमुस्तपाठाकल्कितः सैन्धवयावशूकक्षौद्रतैलयुक्तो बस्तिः श्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु देय इति||१८||
🔊 Audio coming soon
Adhikarana 10 (19(1)) · Śloka 19
अत ऊर्ध्वं वृष्यतमान् स्नेहान् वक्ष्यामः| शतावरीगुडूचीक्षुविदार्यामलकद्राक्षाखर्जूराणां यन्त्रपीडितानां रसप्रस्थं पृथगेकैकं तद्वद्घृततैलगोमहिष्यजाक्षीराणां द्वौ द्वौ दद्यात्, जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटापिप्पलीपुष्करबीजनीलोत्पलकदम्बपुष्प- पुण्डरीककेशरकल्कान् पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ताक्षबर्हिजीवञ्जीवकुलिङ्गहंसाण्डरसवसामज्जादेश्च प्रस्थं दत्त्वा साधयेत्| ब्रह्मघोषशङ्खपटहभेरीनिनादैः सिद्धं सितच्छत्रकृतच्छायं गजस्कन्धमारोपयेद्भगवन्तं वृषध्वजमभिपूज्य, तं स्नेहं त्रिभागमाक्षिकं मङ्गलाशीः स्तुतिदेवतार्चनैर्बस्तिं गमयेत्| नृणां स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वरार्तानां व्यापन्नयोनीनां वन्ध्यानां रक्तगुल्मिनीनां मृतापत्यानामनार्तवानां च स्त्रीणां क्षीणमांसरुधिराणां पथ्यतमं रसायनमुत्तमं वलीपलितनाशनं विद्यात् (१)|१९|
🔊 Audio coming soon
Adhikarana 11 (19(2)) · Śloka 19
बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणां शतं शतमापोथ्य जलद्रोणशते प्रसाध्यं, तस्मिन् जलद्रोणावशेषे रसे वस्त्रपूते विदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुटबर्हिहंसकारण्डवसारसाण्डरसानां घृततैलयोश्चैकैकं प्रस्थमष्टौ प्रस्थान् क्षीरस्य दत्त्वा चन्दनमधुकमधूलिकात्वक्क्षीरीबिसमृणालनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकी- कण्टकारीजीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पत्रकल्कांश्च दत्त्वा साधयेत्| ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्| तेन स्त्रीशतं गच्छेत्; न चात्रास्ते विहाराहारयन्त्रणा काचित्| एष वृष्यो बल्यो बृंहण आयुष्यो वलीपलितनुत् क्षतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापन्नयोनीनां च पथ्यतमः (२)|१९|
🔊 Audio coming soon
Adhikarana 12 (19) · Śloka 19
सहचरपलशतमुदकद्रोणचतुष्ट्ये पक्त्वा द्रोणशेषे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरं घृततैलप्रस्थं बलामधुकमधूकचन्दनमधूलिकासारिवामेदामहामेदाकाकोलिक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनख- शटीसहचरसहस्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैः कल्कैः साधयेत्| बह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात्| एष सर्वरोगहरो रसायनो ललितानां श्रेष्ठोऽन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदनाश्वासकासहरस्त्रिभागमाक्षिको वलीपलितनुद्वर्णरूपबलमांसशुक्रवर्धनः (३)| इत्येते रसायनाः स्नेहबस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति||१९||
🔊 Audio coming soon
Adhikarana 13 (20-22) · Śloka 22
भवन्ति चात्र- इत्येते बस्तयः स्नेहाश्चोक्ता यापनसञ्ज्ञिताः| स्वस्थानामातुराणां च वृद्धानां चाविरोधिनाः||२०|| अतिव्यवायशीलानां शुक्रमांसबलप्रदाः| सर्वरोगप्रशमनाः सर्वेष्वृतुषु यौगिकाः||२१|| नारीणामप्रजातानां नराणां चाप्यपत्यदाः| उभयार्थकरा दृष्टाः स्नेहबस्तिनिरूहयोः||२२||
🔊 Audio coming soon
Adhikarana 14 (23) · Śloka 23
व्यायामो मैथुनं मद्यं मधूनि शिशिराम्बु च| सम्भोजनं रथक्षोभो बस्तिष्वेतेषु गर्हितम्||२३||
🔊 Audio coming soon
Adhikarana 15 (24-28) · Śloka 29
तत्र श्लोकाः - शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः| विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैः प्रसहैर्नव||२४|| विंशतिश्च तथा सप्तविंशतिश्चाम्बुचारिभिः| नव मत्स्यादिभिश्चैव शिखिकल्पेन बस्तयः||२५|| दश कर्कटकाद्यैश्च कूर्मकल्केन बस्तयः| मृगैः सप्तदशैकोनविंशतिर्विष्किरैर्दश ||२६|| आनूपैर्दक्षशिखिवद्भूशयैश्च चतुर्दश| एकोनत्रिंशदित्येते सह स्नेहैः समासतः||२७|| प्रोक्ता विस्तरशो भिन्ना द्वे शते षोडशोत्तरे| एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम्||२८|| नातियोगं न वाऽयोगं स्तम्भितास्ते च कुर्वते|२९|
🔊 Audio coming soon
Adhikarana 16 (29) · Śloka 30
मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः||२९|| समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः|३०|
🔊 Audio coming soon
Adhikarana 17 (30) · Śloka 31
शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः||३०|| स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्|३१|
🔊 Audio coming soon
Adhikarana 18 (31-32) · Śloka 33
अरिष्टक्षीरसीध्वाद्या तत्रेष्टा दीपनी क्रिया||३१|| युक्त्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः| इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः||३२|| विस्तरेण पृथक् प्रोक्तास्तेभ्यो रक्षेन्नरं सदा|३३|
🔊 Audio coming soon
Adhikarana 19 (33) · Śloka 34
कर्मणां वमनादिनामसम्यक्करणापदाम्||३३|| यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते|३४|
🔊 Audio coming soon
Adhikarana 20 (34) · Śloka 35
इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम्||३४|| हितार्थं प्राणिनां प्रोक्तमग्निवेशेन धीमता|३५|
🔊 Audio coming soon
Adhikarana 21 (35) · Śloka 36
दीर्घमायुर्यशः स्वास्थ्यं त्रिवर्गं चापि पुष्कलम्||३५|| सिद्धिं चानुत्तमां लोके प्राप्नोति विधिना पठन्|३६|
🔊 Audio coming soon
Adhikarana 22 (36-40) · Śloka 41
विस्तारयति लेशोक्तं सङ्क्षिपत्यतिविस्तरम्||३६|| संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्| अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना||३७|| संस्कृतं तत्त्वसम्पूर्णं त्रिभागेनोपलक्ष्यते| तच्छङ्करं भूतपतिं सम्प्रसाद्य समापयत्||३८|| अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे| कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोञ्छशिलोच्चयम्||३९|| सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्| इदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितम्||४०|| षड्विंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः|४१|
🔊 Audio coming soon
Adhikarana 23 (41-44) · Śloka 45
तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च||४१|| प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्| उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः||४२|| प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः| पूर्वपक्षविधानानुमतव्याख्यानसंशयाः||४३|| अतीतानागतावेक्षास्वसञ्ज्ञोह्यसमुच्चयाः| निदर्शनं निर्वचनं सन्नियोगो विकल्पनम्||४४|| प्रत्युत्सारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः|४५|
🔊 Audio coming soon
Adhikarana 24 (45) · Śloka 46
तन्त्रे समासव्यासोक्ते भवन्त्येता हि कृत्स्नशः||४५|| एकदेशेन दृश्यन्ते समासाभिहिते तथा|४६|
🔊 Audio coming soon
Adhikarana 25 (46) · Śloka 47
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा||४६|| प्रबोधनप्रकाशार्थास्तथा तन्त्रस्य युक्तयः|४७|
🔊 Audio coming soon
Adhikarana 26 (47-48) · Śloka 48
एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः||४७|| स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात् प्रबुध्यते| अधीयानोऽपि शास्त्राणि तन्त्रयुक्त्या विना भिषक्| नाधिगच्छति शास्त्रार्थानर्थान् भाग्यक्षये यथा||४८||
🔊 Audio coming soon
Adhikarana 27 (49-50) · Śloka 50
दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्| सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति||४९|| (तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः| तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः)||५०||
🔊 Audio coming soon
Adhikarana 28 (51) · Śloka 51
इदमखिलमधीत्य सम्यगर्थान् विमृशति योऽविमनाः प्रयोगनित्यः| स मनुजसुखजीवितप्रदाता भवति धृतिस्मृतिबुद्धिधर्मवृद्धः||५१||
🔊 Audio coming soon
Adhikarana 29 (52-55) · Śloka 55
(यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता| सोऽर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः||५२|| रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते| चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति||५३|| यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्| अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते||५४|| सिद्धिस्थानेऽष्टमे प्राप्ते तस्मिन् दृढबलेन तु| सिद्धिस्थानं स्वसिद्ध्यर्थं समासेन समापितम्)||५५||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 12
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते सिद्धिस्थाने उत्तरबस्तिसिद्धिर्नाम द्वादशोऽध्यायः||१२|| इति चरकसंहितायां अष्टमं सिद्धिस्थानं सम्पूर्णम्| समाप्तेयं चरकसंहिता|
🔊 Audio coming soon