Adhikarana 1 (1-2) · Śloka 2
अथात आरग्वधीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
द्विविधं हि भेषजमन्तःपरिमार्जनं बहिःपरिमार्जनं च; तत्रापामार्गतण्डुलीयेन पञ्चकर्मयवागूरूपमन्तःपरिमार्जनमभिधायावशिष्टं बहिःपरिमार्जनं प्रलेपाद्यारग्वधीयेनाह- अथात आरग्वधीयमित्यादि| यद्यपि कुष्ठचिकित्सितं पृथगेव चिकित्सास्थाने भविष्यति, तत्रैव चावसरप्राप्ता एते आरग्वधादयो वक्तुमुचिताः; तथाऽपीह पृथक् कुष्ठयोगानामभिधानेन कुष्ठस्यानुबन्धित्वेन च महारोगत्वं ख्यापयति; अभ्यर्हितो ह्यर्थः पुनः पुनरभिधीयते| इयं च कुष्ठचिकित्साऽऽनागतावेक्षणतन्त्रयुक्त्या निदानस्थाने हेतुलक्षणादिभिर्लक्षितं कुष्ठमुद्दिश्योक्ता; तेनालक्षितस्य चिकित्साऽभिधीयमानाऽज्ञातविषयत्वेन न युज्यत इति यदुच्यते तन्निरस्तं भवति| यद्यपि राजयक्ष्मप्रभृतयोऽपि महारोगाः सन्ति, तथाऽपि न ते भूरिबहिःपरिमार्जनविषया यथा कुष्ठमिति कुष्ठविषया एव बहिःपरिमार्जनयोगा अभिधीयन्ते| कुष्ठहरबहिःपरिमार्जनोपोद्घातेन च वातापहाः “कोलं कुलत्था” इत्यादयोऽभिधास्यन्ते| किञ्च कुष्ठहरबहिःपरिमार्जनप्रयोगाणामिदं स्वरूपं यच्छोधनानन्तरं प्रयुज्यमानाः सिद्धिभाजो भवन्ति; यदुक्तं- “ये लेपाः कुष्ठानां प्रयुज्यन्ते निर्हृतास्रदोषाणाम्| संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्” (चि.अ.७) इति; तत् पूर्वाध्याये संशोधनमभिधायेह कुष्ठप्रयोगानवसरप्राप्तानभिदधताऽऽचार्येण साधु ग्रन्थनिवेशः कृतः| यद्यपि च “खदिरः कुष्ठहराणाम्” (सू.अ.२५) इति वचनेन खदिरः कुष्ठहरभेषजेषु प्रधानं, तथाऽपि खदिरं परित्यज्यारग्वधमादावुपदिशति, कुष्ठहरबहिःपरिमार्जनभेषजेष्वारग्वधस्यैव प्रधानत्वख्यापनार्थम्||१-२||
Adhikarana 2 (3-17) · Śloka 17
आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे|
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||३||
ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे|
फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनःप्रवालाः||४||
वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च|
मनःशिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः||५||
इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः|
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः||६||
कुष्ठानि कृच्छ्राणि नवं किलासं सुरेशलुप्तं किटिभं सदद्रु|
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||७||
कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू|
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||८||
तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत|
तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||९||
कुष्ठामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लकमुस्तलोध्राः|
सौगन्धिकं सर्जरसो विडङ्गं मनःशिलाले करवीरकत्वक्||१०||
तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्|
दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||११||
मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः|
तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनःशिलं स्यात्||१२||
रसाञ्जनं सप्रपुन्नाडबीजं युक्तं कपित्थस्य रसेन लेपः|
करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||१३||
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|
त्वचं समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||१४||
मनःशिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः|
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||१५||
पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसम्मितेन|
दर्वीप्रलेपं प्रवदन्ति लेपमेतं परं कुष्ठनिसूदनाय||१६||
पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः|
तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||१७||
तानेव कुष्ठहरयोगानाह- आरग्वध इत्यादि| श्र्याह्वो ‘नवनीतखोटिः’ इति प्रसिद्धः| ग्रन्थिश्च भौर्ज इति भूर्जपत्रग्रन्थिः| सलोमशो धातुकासीसम्| फणिज्झकः पर्णासभेदः| सुमनःप्रवाला जातीपल्लवाः| निकुम्भो दन्ती| आलं हरितालम्| अर्धरूपैरिति अर्धश्लोकैः| गोपित्तपीता इति पीतगोपित्ताः, मयूरव्यंसकादित्वेन पूर्वनिपातनियमात्; यदि वा गोपित्तभावनया पीतवर्णा गोपित्तपीताः| परमत्यर्थं सिद्धाः; यद्यपि सर्वप्रयोगा महर्षिप्रणीताः स्वविषये सिद्धास्तथाऽपीह बहूनां दुश्चिकित्स्यानां रोगाणामाशुहरणात् परं सिद्धा इत्युच्यन्ते| चूर्णानि च प्रदेहाश्च चूर्णप्रदेहाः; यदि वा चूर्णीकृतानां प्रदेहाश्चूर्णप्रदेहा; प्रदेहो लेपः, प्रदेहताकरणं चैषां योगानां कुष्ठहरगोमूत्रगोपित्तादिना बोद्धव्यम्| सुरेशलुप्तम् इन्द्रलुप्तम्| कुष्ठग्रहणेन लब्धानामपि किटिभदद्रुपामादीनां पुनरभिधानं प्रयोगाणां विशेषेण तद्धरणशक्तिख्यापनार्थम्| तुम्बुरु स्वनामप्रसिद्धम्| वन्यं कैवर्तमुस्तकम्| चण्डा चोरपुष्पी| प्रथममिति तैलाक्तमित्यनेन सम्बध्यते| तैलं चेह कुष्ठहरप्रकरणे सार्षपं बोद्धव्यम्| अमृतासङ्गः तुत्थकम्| कटङ्कटेरी दारुहरिद्रा| सौगन्धिकं गन्धतृणं गन्धको वा| आर्कं पयः अर्कक्षीरम्| तद्वदिति प्रदेहः कुष्ठहरः | प्रपुन्नाड एडगजः| हयमारकः करवीरः; तस्य त्वग् ग्राह्या, मध्यं च पृथग्भावेन ग्राह्यम्| तुषोदकं सतुषैर्यवैः सन्धानविशेषात् कृतं काञ्जिकम्| पलाशस्य निर्दाहेन गृहीतो रसः पलाशनिर्दाहरसः; स च पलाशस्य प्रधानमूले च्छिन्नेऽधः कुम्भं दत्त्वोपरि वृक्षदाहाद्यो गलति स्वरसः स गृह्यते| चतुरङ्गुलः स्वर्णहालिः| अश्वहनः करवीरः| चतुरङ्गुलकाकमाच्यश्वहनच्छदैरेकः प्रयोगः, द्वित्वे ह्यस्य द्वात्रिंशत्सङ्ख्या वक्ष्यमाणा विरुध्यते||३-१७||
Adhikarana 3 (18-22) · Śloka 23
कोलं कुलत्थाः सुरदारुरास्नामाषातसीतैलफलानि कुष्ठम्|
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||
आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्|
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||
तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठरे निहन्यात्|
कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||२०||
उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च|
घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||२१||
रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च|
घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||२२||
वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|२३|
तैलयोनिफलान्येरण्डफलतिलादीनि| अम्लमिति काञ्जिकादियोगात्| आनूपानां खड्गादीनां मत्स्यानां चामिषं मांसमानूपमत्स्यामिषम्| वेसवारः- “निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्वितम्| कृष्णामरिचसंयुक्तं वेसवार इति स्मृतः”| गन्धप्रधानान्यौषधानि गन्धौषधानि, तानि चागुर्वादीनि ज्वराध्याये प्रतिपाद्यानि; गन्धौषधैश्च सिद्धैरिति योजनीयं; तेन दशमूलगन्धौषधाभ्यां स्नेहाः साधनीयाः (किंवा गन्धौषधैर्दशमूलसिद्धैः स्नेहपृक्तैरयं प्रदेहः )| उशन्ति कथयन्ति| विदारी विदारीकन्दः| सितोपला सितशर्करा| मधुशेषः सिक्थकम्| सिद्धमिति घृतदुग्धयुक्तं सत् किञ्चिदेवाग्नौ साधितम्||१८-२२||-
Adhikarana 4 (23-29) · Śloka 29
नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||२३||
प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च|
शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||२४||
रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च|
जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||२५||
शैवालपद्मोत्पलवेत्रतुङ्गप्रपौण्डरीकाण्यमृणाललोध्रम्|
प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||२६||
सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा|
यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||२७||
शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना|
शीतं निहन्यादचिरात् प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||२८||
शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः|
पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः||२९||
नतं तगरपादिका, तदभावे शीउलीचोप्पडको गृह्यते| प्रपौण्डरीकः पुण्डरीकम्| लोहम् अगुरु| एरका होग्गलः| अयं प्रपौण्डरीकादिभिश्चोरकैश्चेत्यन्त एकः प्रयोगः| चोरकः चोरपुष्पिका स्वनामप्रसिद्धः| नलदं मांसी| शताह्वे इति शतपुष्पामधुरिके| तुङ्गः पुन्नागः| अमृणालम् उशीरम्| कालेयकं कालियाकाष्ठम्| लता मञ्जिष्ठा| ऐन्द्री गोरक्षकर्कटी| नलिनं कमलम्| यवासमूलं दुरालभामूलम्| कुशकाशयोश्च मूलम्| अयं सितादिरेरका चेत्यन्त एको योगः| जलं वालकम्| सिन्धुवारः निर्गुण्डी| विषमित्यादिरपरः प्रयोगः| लामज्जकम् उशीरम्| हेम नागकेशरम्| अभयम् उशीरम्||२३-२९||
Adhikarana 5 (30) · Śloka 30
तत्र श्लोकः- इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः|
चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||३०||
अध्यायार्थसङ्ग्रहः- इहात्रिज इत्यादि| चूर्णप्रदेहानिति पूर्ववद्व्याख्येयम्| द्वात्रिंशतमिति सङ्ख्याकरणं न्यूनाधिकसङ्ख्या दुर्बोधनिराकरणार्थम्||३०||
Adhikarana puShpikA · Śloka 3
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः||३||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के आरग्वधीयो नाम तृतीयोऽध्यायः||३||