Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. ṣaḍvirēcanaśatāśritīyō'dhyāyaḥ

Adhikarana 1 (1-3) · Śloka 3

अथातः षड्विरेचनशताश्रितीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२|| इह खलु षड् विरेचनशतानि भवन्ति, षड् विरेचनाश्रयाः, पञ्च कषाययोनयः, पञ्चविधं कषायकल्पनं, पञ्चाशन्महाकषायाः, पञ्च कषायशतानि, इति सङ्ग्रहः||३||

🔊 Audio coming soon

अपामार्गतण्डुलीयेऽन्तःपरिमार्जनमुक्तम्, आरग्वधीये च बहिःपरिमार्जनमुक्तं; सम्प्रति पूर्वाध्यायद्वयाप्रतिपादितभेषजचतुष्कावश्यवक्तव्यमवशिष्टमुभयपरिमार्जनभेषजमभिधातुं षड्विरेचनशताश्रितीयोऽभिधीयते| आश्रीयत इत्याश्रितमाश्रय इत्यर्थः| षट्सङ्ख्यावच्छिन्नानि विरेचनशतान्याश्रितानि चाधिकृत्य कृतोऽध्यायः षड्विरेचनशताश्रितीयः, एतेनैतदुक्तं- षड्विरेचनशतानि, षड्विरेचनाश्रयाः, एतद्द्वयमधिकृत्य सञ्ज्ञेयं प्रणीतेति मन्तव्यम्| यद्यपि चाध्यायादाविह खल्विति पदं श्रूयते, तथाऽपि तदप्रधानत्वान्नाध्यायसञ्ज्ञाप्रणयने निवेशितम्| इहेति अग्निवेशतन्त्रेऽनतिसङ्क्षेपविस्तरे| एतेन वक्ष्यमाणविरेचनषट्शतानां तथा पञ्चाशन्महाकषायाणां तथा पञ्चकषायशतानां विस्तरकल्पनायामधिकत्वमपि भवतीति सूच्यते| अत एव वक्ष्यति कल्पे- “उद्देशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्| स्वबुद्ध्यैवं सहस्राणि कोटिर्वा सम्प्रकल्पयेत्” (क.अ.१२) इति| तथाऽत्रैव वक्ष्यति- “न हि विस्तरस्य प्रमाणमस्ति” इत्यादि| खलुशब्दः प्रकाशने| विरेचनशब्देनेह वमनं विरेचनं च गृह्यते| यतो वक्ष्यति कल्पे- “उभयं वा दोषमलविरेचनाद्विरेचनशब्दं लभते” (क.अ.१) इति| न च वाच्यं दोषमलविरेचनाच्चेद्विरेचनसञ्ज्ञा, तेन बस्तिशिरोविरेचनयोरपि विरेचनसञ्ज्ञाप्रवृत्तिः; यतस्तन्त्रकारसिद्धेयं सञ्ज्ञा न पाचकवद्योगमात्रप्रवृत्ता; तन्त्रकारश्च वमनविरेचनयोरेव योगरूढां सञ्ज्ञां विदधाति नान्यत्र, तत् कुतोऽन्यत्र प्रसक्तिः| षड्विरेचनशतानीत्यादि स्वयमेवाचार्यो व्याख्यास्यति| पञ्च कषायशतानीत्यत्र कषायशब्देन मधुरादीनां लवणवर्जानां रसानां कषायत्वेन परिभाषितानामाश्रयत्वेनौषधद्रव्यमुच्यते| कषाययोनयः कषायजातयः| कषायाणां यथोक्तद्रव्याणां कल्पनमुपयोगार्थं संस्करणं कषायकल्पनम्| महाकषाया इति दशसङ्ख्यावच्छिन्नस्यैककार्यकरणार्थोपात्तस्यौषधगणस्य सञ्ज्ञा; यद्वक्ष्यति- “दशेमानि जीवनीयानि” इत्यादिना||१-३||

Adhikarana 2 (4) · Śloka 4

षड् विरेचनशतानि, इति यदुक्तं तदिह सङ्ग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्यास्यामः; (तत्र ) त्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु, एकोनचत्वारिंशज्जीमूतकेषु योगाः, पञ्चचत्वारिंशदिक्ष्वाकुषु, धामार्गवः षष्टिधा भवति योगयुक्तः, कुटजस्त्वष्टादशधा योगमेति, कृतवेधनं षष्टिधा भवति योगयुक्तं, श्यामात्रिवृद्योगशतं प्रणीतं दशापरे चात्र भवन्ति योगाः, चतुरङ्गुलो द्वादशधा योगमेति, लोध्रं विधौ षोडशयोगयुक्तं, महावृक्षो भवति विंशतियोगयुक्तः, एकोनचत्वारिंशत् सप्तलाशङ्खिन्योर्योगाः, अष्टचत्वारिंशद्दन्तीद्रवन्त्योः, इति षड्विरेचनशतानि||४||

🔊 Audio coming soon

सङ्ग्रहेण उद्देशमात्रेण| कल्प एवोपनिषत् कल्पोपनिषत्; उपनिषदित्यत्युपयुक्तरहस्यविद्योपदेशस्थानमुच्यते वेदे; तद्वदिहापि कल्पस्यात्युपयुक्तत्वेन रहस्यवमनविरेचनप्रयोगोपदेशकत्वात् कल्प एवोपनिषदित्युच्यते| न च वाच्यं कल्प एव विस्तरेण षड्विरेचनशतान्यभिधास्यन्ते, तेन तदेवास्तु, अलमनेन सङ्क्षेपाभिधानेन सम्यगवबोधानुपायत्वात्; यतस्तन्त्रधर्मोऽयं- यत् प्रथमं सूत्रणं भवति, तदनु तद्विवरणं प्रपञ्चेन; उच्यते च न्यायविद्भिः- “ते वै विषयाश्च सुसङ्गृहीता भवन्ति येषां समासो व्यासश्च” इति| त्रयस्त्रिंशताऽधिकं योगशतं त्रयस्त्रिंशद्योगशतम्| कृतवेधनयोगान्ता योगा वमनस्य, शेषा विरेचनस्य| अत्रेति श्यामात्रिवृतोरेव| श्यामेति श्याममूला त्रिवृत्, त्रिवृदिति अरुणमूला त्रिवृत्||४||

Adhikarana 3 (5) · Śloka 5

षड् विरेचनाश्रया इति क्षीरमूलत्वक्पत्रपुष्पफलानीति||५||

🔊 Audio coming soon

षडित्यादि| षडेव विरेचनाश्रया विरेचनाधिकरणानि| अत्र हि क्षीरमादौ कृतं तीक्ष्णविरेचनत्वात्; उक्तं हि- “स्नुक्पयस्तीक्ष्णविरेचनानाम्” (सू.अ.२५) इति| त्वगित्यनेन लोध्रत्वग्गृह्यते| पत्रमित्यनेन इक्ष्वाक्वादिपत्रम्| यद्वक्ष्यति कल्पे- “अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसम्मिताम्| क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे” (क.अ.३) इति| यद्यपि चैरण्डतैलताम्रपारदादीनां क्षीराद्यधिकानामपि विरेचनाश्रयत्वं सम्भवति, तथाऽपि तेषामिह तन्त्रे कल्पस्थाने विरेचनाश्रयत्वेनानभिधानादध्यायादिप्रतिपादितेनेहशब्देन योगादिह षडाश्रया इत्यविरुद्धमेव||५||

Adhikarana 4 (6) · Śloka 6

पञ्च कषाययोनय इति मधुरकषायोऽम्लकषायः कटुकषायस्तिक्तकषायः कषायकषायश्चेति तन्त्रे सञ्ज्ञा||६||

🔊 Audio coming soon

पञ्च कषायशतानि महाकषायव्याख्यया व्याख्यातव्यानि, अतस्तदुल्लङ्घ्य पञ्च कषाययोनयोऽभिधीयन्ते| मधुरश्चासौ कषायश्चेति मधुरकषायः, एवं शेषेष्वपि| तन्त्रे सञ्ज्ञेत्यनेन लवणरसं वर्जयित्वा मधुरादयो रसाः कषायसञ्ज्ञया व्यवह्रियन्ते इत्ययं स्वतन्त्रसमय इति सूचयति, नात्र परतन्त्रव्यवहार इति| अथ किमर्थं पुनराचार्येण कषायसञ्ज्ञाप्रणयने लवणस्य मधुरादेरिव गुणादिभिरुद्दिष्टस्य तथा प्रयोगेषु चित्रकगुडिकादौ “द्वौ क्षारौ लवणानि च” (चि.अ.१५) इत्यादिनोद्दिष्टस्य रोगभिषग्जितीये (वि.अ.८) च स्कन्धेनोपदिष्टस्य रसाधिकारेषु च तेषु तेषु मधुरादिवदुपदिष्टस्य परित्यागः क्रियते? उच्यते- कषायसञ्ज्ञेयं भेषजत्वेन व्याप्रियमाणेषु रसेष्वाचार्येण निवेशिता| अत्र च केवलस्य लवणस्य प्रयोगो नास्ति, मधुरादीनां तु केवलानामपि प्रयोगोऽस्ति, लवणं तु द्रव्यान्तरसंयुक्तमेवोपयुज्यते| मधुरादिषु स्वरसकल्कादिलक्षणा कल्पना सम्भवति, न लवणे| यतो न तावल्लवणस्य स्वरसोऽस्ति; कल्कोऽपि द्रव्यस्य द्रवेण पेषणात् क्रियते, तच्च न सम्भवति लवणे, लवणं हि पानीययोगात् पानीयमेव भवति; यद्यपि कल्कस्यैव भेदश्चूर्णं, चूर्णता च लवणस्य सम्भवति, तथाऽपि लवणस्य चूर्णरूपता न पूर्वस्मादचूर्णरूपात् किञ्चिच्छक्तिविशेषमापादयति, शक्तिविशेषकल्पनार्थं च कल्पना क्रियत इत्युत्तरत्र प्रतिपादयिष्यामः, तस्माच्चूर्णत्वमपि लवणस्य कल्पनकल्पनमिव; शृतशीतफाण्टकषायास्तु द्रव्यस्य कार्त्स्न्येनानुपयोज्यस्य तत्तत्संस्कारवशाद्द्रवेषु द्रव्यस्य स्तोकावयवानुप्रवेशार्थमुपदिश्यन्ते; लवणे चैतन्न सम्भवति, लवणं हि द्रवसम्बन्धे सर्वात्मनैव द्रवमनुगतं भवति; तस्माल्लवणं पृथक्प्रयोगाभावात् कल्पनाऽसम्भवाच्चाचार्येण कषायसञ्ज्ञाप्रणयने निरस्तमिति न निष्प्रयोजनेयमाचार्यप्रवृत्तिः||६||

Adhikarana 5 (7) · Śloka 7

पञ्चविधं कषायकल्पनमिति तद्यथा- स्वरसः, कल्कः, शृतः, शीतः, फाण्टः, कषाय इति| (यन्त्रनिष्पीडिताद्द्रव्याद्रसः स्वरस उच्यते | यः पिण्डो रसपिष्टानां स कल्कः परिकीर्तितः || वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः | द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात् || कषायो योऽभिनिर्याति स शीतः समुदाहृतः | क्षिप्त्वोष्णतोये मृदितं तत् फाण्टं परिकीर्तितम् ||) तेषां यथापूर्वं बलाधिक्यम्; अतः कषायकल्पना व्याध्यातुरबलापेक्षिणी; न त्वेवं खलु सर्वाणि सर्वत्रोपयोगीनि भवन्ति||७||

🔊 Audio coming soon

कल्पनमुपयोगार्थं प्रकल्पनं संस्करणमिति यावत् स्वरसादिबहुलक्षणं; यथा- “स्वो रसः स्वरसः प्रोक्तः, कल्को दृषदि पेषितः| क्वथितस्तु शृतः, शीतः शर्वरीमुषितो मतः|| क्षिप्तोष्णतोये मृदितः फाण्ट इत्यभिधीयते” इति| अत्र शौनकवचनं तु “द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात्| कषायो योऽभिनिर्याति स शीतः समुदाहृतः” इति| फाण्टः कषाय इति कषायशब्दोऽयं स्वरसादिभिरपि सम्बध्यते, तेन स्वरसः कषायः, कल्कः कषायः, इत्याद्यपि बोद्धव्यम्| तेषां स्वरसादीनां यथापूर्वं बलाधिक्यमिति फाण्टाच्छीतो गुरुः, शीताच्छृतो गुरुरित्यादि| यतो यथापूर्वं गुर्वी कषायकल्पना, अत एव व्याध्यातुरबलापेक्षिणी; व्याधेरातुरस्य च बलमपेक्षत इत्यर्थः| अत्रोपपत्तिमाह- न त्वेवमित्यादि| बलवति पुरुषे व्याधौ च द्रव्यसारभागमयत्वेनात्यर्थं गुरुर्बहुकार्यकरः स्वरसो युज्यते, नायमल्पबले पुरुषे रोगे वा योगवान् भवति, बलभ्रंशभेषजातियोगदोषकर्तृत्वादिति भावः; एवमन्यत्रापि व्याख्येयम्| तथा न सर्वाणि स्वरसादीनि सर्वत्र पुरुषे योग्यानि भवन्ति; यतः केचित् स्वरसद्विषः, केचित् स्वरसप्रिया इतरकल्पनाद्विष एवमादि| न चात्यर्थं द्विष्टभेषजस्य प्रयोग इष्यते, तत्क्षणवमनारुच्यादिदोषकर्तृत्वात् | तथा कषायकल्पना व्याध्यातुरबलापेक्षिणीत्येतदुदाहरणार्थं, तेन द्रव्यापेक्षिणीत्येतदपि बोद्धव्यम्| यतो द्रव्यनियमेन कल्पनानियमं वक्ष्यति रसायने; यथा- “मण्डूकपर्ण्याः स्वरसः प्रयोज्यः, क्षीरेण यष्टीमधुकस्य चूर्णम्| रसो गुडूच्यास्तु समूलपुष्प्याः, कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः” (चि.अ.१) इति| चूर्णं कल्क एवान्तर्भावनीयं, द्विविधो हि कल्कः सद्रवोऽद्रवश्चेति कृत्वा; तेन “निशि स्थिता वा स्वरसीकृता वा कल्कीकृता चूर्णमथो शृता वा” (चि.अ.४) इत्यादौ पृथक् चूर्णपाठेनाधिककल्पनाप्रसङ्गो नोद्भावनीयः||७||

Adhikarana 6 (8) · Śloka 8

‘पञ्चाशन्महाकषाया’ इति यदुक्तं तदनुव्याख्यास्यामः; तद्यथा- जीवनीयो बृंहणीयो लेखनीयो भेदनीयः सन्धानीयो दीपनीय इति षट्कः कषायवर्गः; बल्यो वर्ण्यः कण्ठ्यो हृद्य इति चतुष्कः कषायवर्गः; तृप्तिघ्नोऽर्शोघ्नः कुष्ठघ्नः कण्डूघ्नः क्रिमिघ्नो विषघ्न इति षट्कः कषायवर्गः; स्तन्यजननः स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति चतुष्कः कषायवर्गः; स्नेहोपगः स्वेदोपगो वमनोपगो विरेचनोपग आस्थापनोपगोऽनुवासनोपगः शिरोविरेचनोपग इति सप्तकः कषायवर्गः; छर्दिनिग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति त्रिकः कषायवर्गः; पुरीषसङ्ग्रहणीयः पुरीषविरजनीयो मूत्रसङ्ग्रहणीयो मूत्रविरजनीयो मूत्रविरेचनीय इति पञ्चकः कषायवर्गः; कासहरः श्वासहरः शोथहरो ज्वरहरः श्रमहर इति पञ्चकः कषायवर्गः; दाहप्रशमनः शीतप्रशमन उदर्दप्रशमनोऽङ्गमर्दप्रशमनः शूलप्रशमन इति पञ्चकः कषायवर्गः; शोणितस्थापनो वेदनास्थापनः सञ्ज्ञास्थापनः प्रजास्थापनो वयःस्थापन इति पञ्चकः कषायवर्गः; इति पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति| तेषामेकैकस्मिन् महाकषाये दश दशावयविकान् कषायाननुव्याख्यास्यामः; तान्येव पञ्च कषायशतानि भवन्ति||८||

🔊 Audio coming soon

महाकषायानुदाहरति- पञ्चाशदित्यादि| जीवने हितो जीवनीयः; एवमन्यत्रापि| षड्भिर्निष्पादितः षट्कः, एवं चतुष्कादिष्वपि बोध्यम्| अत्र च षट्कादिर्महाकषायाणां परिच्छेदः कस्यचिदर्थस्यानुगमेन बोद्धव्यः; यथा- जीवनीयादौ षट्के ईयान्तत्वं, बल्यादौ यप्रत्ययान्तत्वं, तृप्तिघ्नादौ घ्नान्तत्वं, स्तन्यजननादौ स्तन्यशुक्रविषयत्वम्, एवमाद्यूह्यम् | एतच्च ईयप्रत्ययान्तत्वादिना बहुभेदकथनं वैचित्र्येण ग्रन्थस्य पुष्कलाभिधानताकरणार्थम्| एतच्च शास्त्रेऽवश्यं कर्तव्यम्| यदुक्तमिहैव शास्त्रगुणकथने यथा- “अनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानम्” (वि.अ.८) इत्यादि| जीवनीयशब्देनेहायुष्यत्वमभिप्रेतम्| यत्र च मधुररसगुणे “आयुष्यो जीवनीयः” (सू.अ.२६) इति च करिष्यति तत्र मूर्च्छितस्य सञ्ज्ञाजनकत्वेन जीवनीयत्वं व्याख्येयम्| तृप्तिः श्लेष्मविकारो येन तृप्तमिवात्मानं मन्यते, तद्घ्नं तृप्तिघ्नम्| स्नेहोपगानीति स्नेहस्य सर्पिरादेः स्नेहनक्रियायां सहायत्वेनोपगच्छन्तीति स्नेहोपगानि, मृद्वीकादिस्नेहोपगयुक्तस्य सर्पिरादेः स्नेहने प्रकर्षवती शक्तिर्भवतीत्यर्थः; तथा वमनोपगानीत्यत्र मदनफलादीनां वमनद्रव्याणां मधुमधुकादीनि सहायानि भवन्तीति; एवं स्वेदोपगादौ व्याख्येयम्| शिरोविरेचनोपगे तु शिरोविरेचनप्रधानान्येव द्रव्याणि बोद्धव्यानि| पुरीषस्य विरजनं दोषसम्बन्धनिरासं करोतीति पुरीषविरजनीयः| एवं मूत्रविरजनीये व्याख्येयम्| मूत्रस्य विरेचनं करोतीति मूत्रविरेचनीयः| उदर्दो वरटीदष्टाकारः शोथः, तत्प्रशमन उदर्दप्रशमनः; न पुनरिह महारोगाध्याये पठितो वातविकारो गृह्यते, तिन्दुकादीनामुदर्दप्रशमनानां वातं प्रत्यननुकूलत्वात्| शोणितस्य दुष्टस्य दुष्टिमपहृत्य प्रकृतौ शोणितं स्थापयतीति शोणितस्थापनम्| वेदनायां सम्भूतायां तां निहत्य शरीरं प्रकृतौ स्थापयतीति वेदनास्थापनम्| सञ्ज्ञां ज्ञानं च स्थापयतीति सञ्ज्ञास्थापनम्| प्रजोपघातकं दोषं हृत्वा प्रजां स्थापयतीति प्रजास्थापनम्| वयस्तरुणं स्थापयतीति वयःस्थापनम्| उपसंहरति- इतीत्यादि| महतां कषायाणां पञ्चाशन्महाकषाया भवन्तीत्यनेनोद्दिष्टानां, लक्षणं स्वरूपं जीवनीयादि, तस्योदाहरणं प्रपञ्चेन कथनं, तदर्थं व्याख्याता निर्देशेन कथिता इत्यर्थः; यदि वा महतां कषायाणां यल्लक्षणमनेकैः कषायैर्मिलित्वैकार्थजीवनीयादिसम्पादनं, तस्योदाहरणार्थं दृष्टान्तार्थम्| एतेनान्यान्यपि महाकषायाणि वातप्रशमनपित्तप्रशमनादीन्येककार्यसम्पादकानेकद्रव्यमयानि भवन्तीति सूचयति| महतां चेति चकार उदाहरणार्थं चेत्यत्र बोद्धव्यः, तेनाल्पबुद्धीनां व्यवहारार्थं चेति समुच्चिनोति; एतच्चोत्तरत्र स्फुटं भविष्यति| उत्तरत्र यद्वक्ष्यति- “महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति” इति, तत् तद्यथेत्यादिग्रन्थस्यार्थं व्याकर्तुं; किंवाऽत्र व्याख्याता इति पदं सञ्ज्ञामात्रेण महाकषायकथने वर्तते, तत्र तु व्याख्याता इति पदं प्रति प्रति जीवकादिद्रव्यकथने वर्तते, तेन न पौनरुक्त्यम्| अवयवा एवावयविकाः, तान्येव पञ्चाशन्महाकषायाणि दशावयवगुणितान्येकैकद्रव्यरूपाणि पञ्च कषायशतानि भवन्तीत्यर्थः||८||

Adhikarana 7 (9) · Śloka 9

तद्यथा- जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति (१), क्षीरिणी राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति (२), मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवत्य इति दशेमानि लेखनीयानि भवन्ति (३), सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य इति दशेमानि भेदनीयानि भवन्ति (४), मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति (५), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति (६), इति षट्कः कषायवर्गः||९||

🔊 Audio coming soon

जीवनीयमादावुच्यते सर्वेषां जीवनहितस्यैवात्यर्थमभिप्रेतत्वात्| मुद्गमाषपर्ण्यन्तं सुगमम्| जीवन्ती स्वनामख्याता सुवर्णवर्णाभा, मधुकं यष्टीमधुकम् (१)| क्षीरिणी क्षीरलता, राजक्षवको दुग्धिका, वाट्यायनी श्वेतबला, भद्रौदनी पीतबला, भारद्वाजी वनकार्पासी, पयस्या विदारीकन्दः, ऋष्यगन्धा ऋष्यजाङ्गलकः (२)| कटुका कटुरोहिणी, चिरबिल्वः करञ्जः, हैमवती श्वेतवचा (३)| सुवहा त्रिवृत्, अग्निमुखी ‘लाङ्गलिया’ इति ख्याता, चित्रा दन्ती, शङ्खिनी श्वेतबुह्ना, शकुलादनी कटुरोहिणी, स्वर्णक्षीरिणी अङ्गुष्ठप्रभा (४)| अम्बष्ठकी अकर्णविद्धा, समङ्गा वराहक्रान्ता, कट्फलं स्वनामप्रसिद्धं, सन्धानीयः सङ्ग्रहणः सामान्येन; पुरीषस्य सङ्ग्रहणस्तु भिन्नमलमात्रसङ्ग्रहणः (५)| शृङ्गवेरः शुण्ठी, हिङ्गुनिर्यासो हिङ्गु||९||

Adhikarana 8 (10) · Śloka 10

ऐन्द्र्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति (७), चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्ण्यानि भवन्ति (८), सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति (९), आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति (१०), इति चतुष्कः कषायवर्गः||१०||

🔊 Audio coming soon

ऐन्द्री गोरक्षकर्कटी, ऋषभी शूकशिम्बा, अतिरसा शतावरी ऋद्धिर्वा, ऋष्यप्रोक्ता माषपर्णी, अतिबला पीतबला, पयस्येह क्षीरविदारी काकोली वा (७)| तुङ्गः पुन्नागः, सिता श्वेतदूर्वा, लता श्यामदूर्वा (८)| सारिवा अनन्तमूलम्, इक्षुमूलमत्रेक्षोर्मूलं मोरटो वा, विदारी विदारीकन्दः, कैटर्यं कट्फलं, हंसपादी स्वनामप्रसिद्धा (९)| आम्रातक आम्राडकः, वृक्षाम्लं बृहदम्लम् (१०)||१०||

Adhikarana 9 (11) · Śloka 11

नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति दशेमानि तृप्तिघ्नानि भवन्ति (११), कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति दशेमान्यर्शोघ्नानि भवन्ति (१२), खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला इति दशेमानि कुष्ठघ्नानि भवन्ति (१३), चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति (१४), अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिघ्नानि भवन्ति (१५), हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति (१६), इति षट्कः कषायवर्गः||११||

🔊 Audio coming soon

तृप्तिघ्नो व्यक्तः (११)| धन्वयासो दुरालभा (१२)| अरुष्करो भल्लातकः (१३)| नलदं मांसी, कृतमालः सुवर्णहलिः, नक्तमालः करञ्जः (१४)| अक्षीवोऽब्दकः शोभाञ्जनो वा, गण्डीरः शमठशाकं, निर्गुण्डी सिन्धुवारः, किणिही कटभी, आखुपर्णी मूषिकपर्णी, वृषपर्णी च तद्भेदः ‘फञ्जिपत्रिका’ इति ख्याता (१५)| सुवहा रास्ना हाफरमाली वा, पालिन्दी श्यामलता, श्लेष्मातको बहुवारः (१६)||११||

Adhikarana 10 (12) · Śloka 12

वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति दशेमानि स्तन्यजननानि भवन्ति (१७), पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति (१८), जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति (१९), कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति (२०), इति चतुष्कः कषायवर्गः||१२||

🔊 Audio coming soon

इक्षुवालिका खागालिका, दर्भ उलुयातृणं, गुन्द्रा गुलुञ्च (१७)| स्तन्यशोधनो व्यक्तः (१८)| वृद्धरुहा शतावरी, वृक्षरुहापाठपक्षे बन्दाकः, जटिला उच्चटा, कुलिङ्ग उच्चटाभेदः (१९)| कदम्बो बहुफलस्तस्य निर्यासः, इक्षुरकः कोकिलाक्षः, वसुको वसुहट्टकः, अत्र जतूकर्णः पठत्येलवालुकं कट्फलस्थाने (२०)||१२||

Adhikarana 11 (13) · Śloka 13

मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति (२१), शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति दशेमानि स्वेदोपगानि भवन्ति (२२), मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा इति दशेमानि वमनोपगानि भवन्ति (२३), द्राक्षाकाश्मर्यपरूषकाभयामलकबिभीतककुवलबदरकर्कन्धुपीलूनीति दशेमानि विरेचनोपगानि भवन्ति (२४), त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति (२५), रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति (२६), ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति (२७), इति सप्तकः कषायवर्गः||१३||

🔊 Audio coming soon

स्नेहोपगो व्यक्तः (२१)| वृश्चीरः श्वेतपुनर्नवा (२२)| कोविदारः स्वनामप्रसिद्धः, कर्बुदारः श्वेतकाञ्चनः, विदुलो हिज्जलः, शणपुष्पी घण्टारवा, सदापुष्पा अर्कः, प्रत्यक्पुष्पा अपामार्गः (२३)| बदरीत्रयम् (२४)| व्यक्तः (२५)| व्यक्तः (२६)| क्षवकः छिक्काकारकः, श्वेता अपराजिता, महाश्वेता तद्भेदः कटभी वा (२७)||१३||

Adhikarana 12 (14) · Śloka 14

जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि भवन्ति (२८), नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवन्ति (२९), शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति (३०), इति त्रिकः कषायवर्गः||१४||

🔊 Audio coming soon

व्यक्तः (२८)| व्यक्तः (२९)| व्यक्तः (३०)||१४||

Adhikarana 13 (15) · Śloka 15

प्रियङ्ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसङ्ग्रहणीयानि भवन्ति (३१), जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति (३२), जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसङ्ग्रहणीयानि भवन्ति (३३), पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति दशेमानि मूत्रविरजनीयानि भवन्ति (३४), वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति दशेमानि मूत्रविरेचनीयानि भवन्ति (३५), इति पञ्चकः कषायवर्गः||१५||

🔊 Audio coming soon

अनन्ता अनन्तमूलं, कट्वङ्गः श्योनाकः, मोचरसः शाल्मलीवेष्टकः, पद्मा ब्राह्मणयष्टिका (३१)| शल्लकी स्वनामप्रसिद्धा, कच्छुरा शूकशिम्बा, शाल्मलीवेष्टकः शिमलीआठा, श्रीवेष्टको नवनीतखोटी (३२)| कपीतनो गन्धमुण्डः, अश्मन्तकः अम्ललोटः, सोमवल्कः खदिरः (३३)| पद्मभेदाश्चत्वारः, सौगन्धिकः शुन्धी (३४)| वृक्षादनी बन्दाको विदारिकन्दो वा, वशिरः सूर्यावर्तः (३५) ||१५||

Adhikarana 14 (16) · Śloka 16

द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति (३६), शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति (३७), पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहराणि भवन्ति (३८), सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति दशेमानि ज्वरहराणि भवन्ति (३९), द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरूषकेक्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति (४०), इति पञ्चकः कषायवर्गः||१६||

🔊 Audio coming soon

तामलकी भूम्यामलकी (३६)| चण्डा चोरहुली (३७)| व्यक्तः (३८)| व्यक्तः (३९)| फल्गुः काष्ठोदुम्बरकः (४०)||१६||

Adhikarana 15 (17) · Śloka 17

लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति (४१), तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति (४२), तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति (४३), विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति (४४), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति (४५), इति पञ्चकः कषायवर्गः||१७||

🔊 Audio coming soon

लाजादौ जतूकर्णपाठात् गुडूचीस्थाने पद्मकः, यदि वा “अर्कागुरुगुडूचीनां तिक्तानां चौष्ण्यमिष्यते” (सू.अ.२६), इति वचनाद्यद्यप्युष्णा गुडूची, तथाऽपि तस्या दाहप्रशमकत्वं प्रभावाद्बोद्धव्यम् (४१)| भूतीको यवानिका (४२)| तिन्दुकः ‘केन्दुः’ इति प्रसिद्धः, कदरो विट्खदिरः, अरिमेदः खदिरभेदः (४३)| व्यक्तः (४४)| अजगन्धा फोकान्दी (४५)||१७||

Adhikarana 16 (18) · Śloka 18

मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति (४६), शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका इति दशेमानि वेदनास्थापनानि भवन्ति (४७), हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि सञ्ज्ञास्थापनानि भवन्ति (४८), ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति (४९), अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा इति दशेमानि वयःस्थापनानि भवन्ति (५०), इति पञ्चकः कषायवर्गः||१८||

🔊 Audio coming soon

रुधिरं कुङ्कुमम् (४६)| वञ्जुलो वेतसः (४७)| कैटर्यः पर्वतनिम्बः, वयःस्था ब्राह्मी, गोलोमी भूतकेशी, पलङ्कषा गुग्गुलुः जटामांसी वा (४८)| शतवीर्यासहस्रवीर्ये दूर्वे; अमोघा पाटला, आमलकी वा, लक्ष्मणा वा; अव्यथा कदली, गुडूची वा, हरीतकी वा; अरिष्टा कटुरोहिणी; विष्वक्सेनकान्ता प्रियङ्गुः (४९)| मुक्ता रास्ना; श्वेतास्थाने ‘श्रेयसी’ इति केचित्, सा रास्नाभेदः (५०)||१८||

Adhikarana 17 (19) · Śloka 19

इति पञ्चकषायशतान्यभिसमस्य पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति||१९||

🔊 Audio coming soon

सम्प्रत्येतान्येव जीवकादीन्युक्तानि प्रत्येकशो द्रव्यगणनया पञ्चकषायशतानि स्युः, दशकगणनया च पञ्चाशन्महाकषायाः शृङ्गग्राहिकयोक्ता भवन्तीति दर्शयन्नुपसंहरति- इतीत्यादि| अभिसमस्येति दशकसङ्ख्ययैकवर्गीकृत्य| लक्षणस्योदाहरणं (लक्षणोदाहरणं ), पूर्वं जीवनीयादिसञ्ज्ञा लक्षणमभिप्रेत्योक्ता; लक्षणोदाहरणार्थमिति सम्प्रति जीवकर्षभकादीन्युदाहरणार्थं व्याख्यातानि; जीवकादिभिर्दशभिर्लक्ष्यते ज्ञायते जीवनीयो महाकषायः| महतां चेति चकारः पञ्चकषायशतानां च लक्षणस्योदाहरणार्थमिति समुच्चिनोति| तत्र जीवकादयः प्रत्येकं पञ्चकषायशतानामेकैकद्रव्यरूपाणां लक्षणस्वरूपा भवन्ति| यदि वा लक्षणार्थमुदाहरणार्थं चेति; तत्र मन्दबुद्धीनां लक्षणार्थं पञ्चकषायशतपञ्चाशन्महाकषायज्ञानार्थमित्यर्थः, बुद्धिमतां तूदाहरणार्थं दृष्टान्तार्थम्||१९||

Adhikarana 18 (20) · Śloka 20

नहि विस्तरस्य प्रमाणमस्ति, न चाप्यतिसङ्क्षेपोऽल्पबुद्धीनां सामर्थ्यायोपकल्पते, तस्मादनतिसङ्क्षेपेणानतिविस्तरेण चोपदिष्टाः| एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति||२०||

🔊 Audio coming soon

ननु कषायद्रव्याणि यावन्ति सन्ति तावन्ति वाऽभिधीयन्तां, दृष्टान्तार्थं द्वित्राणि वा; तत् किमर्थमयं नातिविस्तरो नातिसङ्क्षेप इत्यत्राह- नहीत्यादि| न हि विस्तरस्य प्रमाणमियत्तापरिच्छेदोऽस्ति, तेन विस्तरो नाभिधीयत इत्यर्थः| अतिसङ्क्षेपोऽपि द्वित्रलक्षणाभिधानरूपो नाल्पबुद्धीनामनुमानाकुशलानां सामर्थ्याय चिकित्साव्यवहारायोपकल्पते| एतावन्तो यथोक्ताः| अलं समर्थाः| व्यवहारायेति चिकित्साव्यवहाराय| स्वलक्षणस्य भावः स्वालक्षण्यं, तेनानुमानं, तत्र कुशला अभिज्ञा इत्यर्थः| बुद्धिमन्तो हि, जीवकादयो हि स्निग्धशीतमधुरवृष्यादिगुणयुक्ताः सन्तो जीवनं कुर्वन्तीति भूयोदर्शनादवधार्य तद्गुणयुक्तेऽन्यत्रापि द्राक्षापयोविदार्यादौ तज्जातीयत्वेन जीवनानीत्यनुमिमते, यथा जीवकादीनामेकजीवनकार्यकर्तृत्वेन महाकषायत्वं, तद्वत् पाठासमङ्गाप्रभृतीनामप्यतीसारहराणामतीसारहरमहाकषायत्वमित्यनुमानेन कृत्स्नमेव कषायं प्रतिपद्यन्त इति भावः||२०||

Adhikarana 19 (21-22) · Śloka 22

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- नैतानि भगवन्! पञ्च कषायशतानि पूर्यन्ते, तानि तानि ह्येवाङ्गान्युपप्लवन्ते तेषु तेषु महाकषायेष्विति||२१|| तमुवाच भगवानात्रेयः- नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश| एकोऽपि ह्यनेकां सञ्ज्ञां लभते कार्यान्तराणि कुर्वन्, तद्यथा- पुरुषो बहूनां कर्मणां करणे समर्थो भवति, स यद्यत् कर्म करोति तस्य तस्य कर्मणः कर्तृ-करण-कार्यसम्प्रयुक्तं तत्तद्गौणं नामविशेषं प्राप्नोति, तद्वदौषधद्रव्यमपि द्रष्टव्यम्| यदि चैकमेव किञ्चिद्द्रव्यमासादयामस्तथागुणयुक्तं यत् सर्वकर्मणां करणे समर्थं स्यात्, कस्ततोऽन्यदिच्छेदुपधारयितुमुपदेष्टुं वा शिष्येभ्य इति||२२||

🔊 Audio coming soon

पूर्वपक्षमुत्थापयति- एवमित्यादि| तानि तानीति जीवकक्षीरकाकोलीप्रभृतीनि, तेषु तेषु जीवनीयबृंहणीयशुक्रजननादिषु, उपप्लवन्ते पुनः पुनस्तान्येव पठ्यन्ते; एकं द्रव्यमनेकेषु पठ्यमानमेकमेव, ततश्च न सङ्ख्या पूर्यत इति पूर्वपक्षः| सिद्धान्तयति- नैतदेवमित्यादि| एकस्यानेकत्वेनाभिधाने दृष्टान्तमाह- यथेत्यादि| एकः पुरुषः कर्मणां व्यापाराणामोदनपचनकुम्भकरणखनित्रकरणभूमिखननानां करणे समर्थो भवति, य इत्यध्याहार्यं, स इत्युक्तगुणं पुरुषं प्रत्यवमृषति; यद्यत् कर्मेति ओदनपाकादि, यद्यत् कर्म करोति तस्य तस्य कर्मणः कर्तृसम्प्रयुक्तं ‘पाचक’ इति, करणसम्प्रयुक्तं ‘खानित्रिक’ इति, कार्यसम्प्रयुक्तं ‘कुम्भकार’ इति नामविशेषं; गुणयोगप्रवृत्तं गौणं; गुणयोगश्च ‘पाचक’ इत्यत्र पचिक्रियायां कर्तृत्वं, ‘खानित्रिक’ इत्यत्र खनित्रकरणकखननं प्रति कर्तृत्वं, कुम्भकार इत्यत्र कुम्भोपहितं कर्तृत्वमित्येभिस्त्रिभिर्गुणैरभिन्नो भिन्नोऽभिधीयते व्यवह्रियते चेति भावः| तद्वत् पुरुषवदौषधद्रव्यमपि; एकमपि सत् क्षीरकाकोलीद्रव्यं जीवनबृंहणशुक्रजननलक्षणनानागुणयोगान्नानाजीवनीयादिशब्देनाभिधीयते व्यवह्रियते चेत्यर्थः| अथ किमर्थं पुनरेकमेव द्रव्यं बहुजीवनीयादिगुणयोगात्तत्र तत्र पठ्यते, सन्ति तावद्बहूनि द्रव्याण्येकैकजीवनीयादिगुणानि स्वरूपतो भिन्नानि, तान्येव पृथक्कस्मान्न पठ्यन्त इत्याह- यदि चैकमेवेत्यादि| यथा बहुद्रव्याण्येकैकजीवनीयादिकार्यकरणसमर्थानि भवन्ति, तथैकमेव द्रव्यमनेकजीवनीयादिकार्यकरणसमर्थमस्ति, तत्रैकमेव द्रव्यं बहुकार्यकर्तृ शिष्येभ्य उपदेष्टुमुपधारयितुं च युज्यतेऽल्पप्रयत्नबोध्यत्वादल्पप्रयत्नधार्यत्वाच्च; न बहून्येककार्यनियतानि, बहुप्रयासोपपाद्यत्वाद्बहुप्रयासबोध्यत्वाद्बहुप्रयासधार्यत्वाच्च ; कार्यं च जीवनबृंहणाद्युभयोरपि पक्षयोरविशिष्टमिति वाक्यार्थः| तथागुणयुक्तम् अनेकजीवनीयादिकार्यसमर्थम्| तथागुणयुक्तत्वमेव विवृणोति- यत् सर्वकर्मणां जीवनीयादीनां करणे समर्थं स्यात्, ततो बहुकार्यकारकादेकस्मात्, अन्यद्बहु प्रतिनियतकर्मकारकं, क इच्छेत्? न कोऽपीच्छेदित्यर्थः| उपधारयितुम् आवर्तनेन स्मृत्यारूढं कर्तुम्| कस्तत इत्यस्यादौ ‘तदा’ इत्यध्याहार्यम्||२१-२२||

Adhikarana 20 (23-29) · Śloka 29

तत्र श्लोकाः- यतो यावन्ति यैर्द्रव्यैर्विरेचनशतानि षट्| उक्तानि सङ्ग्रहेणेह तथैवैषां षडाश्रयाः||२३|| रसा लवणवर्ज्याश्च कषाय इति सञ्ज्ञिताः| तस्मात् पञ्चविधा योनिः कषायाणामुदाहृता||२४|| तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः| महतां च कषायाणां पञ्चाशत् परिकीर्तिता||२५|| पञ्च चापि कषायाणां शतान्युक्तानि भागशः| लक्षणार्थं, प्रमाणं हि विस्तरस्य न विद्यते||२६|| न चालमतिसङ्क्षेपः सामर्थ्यायोपकल्पते| अल्पबुद्धेरयं तस्मान्नातिसङ्क्षेपविस्तरः||२७|| मन्दानां व्यवहाराय, बुधानां बुद्धिवृद्धये| पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः||२८|| तेषां कर्मसु बाह्येषु योगमाभ्यन्तरेषु च| संयोगं च प्रयोगं च यो वेद स भिषग्वरः||२९||

🔊 Audio coming soon

अध्यायार्थसङ्ग्रहमाह- यत इत्यादि| यतः मदनफलादेः| यावन्ति त्रयस्त्रिंशद्योगशतमित्यादीनि| यैर्द्रव्यैर्विरेचनशतानि षडिति यैरेव मदनफलादिभिर्मिलितैरुक्तानि विरेचनशतानि षडिति| लक्षणार्थमित्यादिग्रन्थोऽनतिसङ्क्षेपविस्तरेणोक्तपञ्चाशन्महाकषायोपपत्तिसङ्ग्राहकः| अलमिति समर्थः| अल्पबुद्धेरयमित्यत्रायमितिपदमतिसङ्क्षेप इत्यनेन सम्बध्यते; यद्यपि चेहातिसङ्क्षेपो नास्ति, तथाऽपि बुद्धिस्थिरीकृतः प्रत्यवमृश्यते| पञ्चाशत्को ह्ययमित्यत्रायमिति पदं सुघटमेव | बाह्येषु प्रलेपादिषु| आभ्यन्तरेषु वमनपाचनादिषु| संयोगं द्रव्याणामुचितं मेलन(क)म्| प्रयोगं कालप्रकृत्याद्यपेक्षा योजना||२३-२९||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने षड्विरेचनशताश्रितीयो नाम चतुर्थोऽध्यायः||४|| इति भेषजचतुष्कः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के षड्विरेचनशताश्रितीयश्चतुर्थोऽध्यायः||४||