Adhikarana 1 (1-6) · Śloka 6
अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च|
विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च||३||
अजाजीं चाजगन्धां च पीलून्येलां हरेणुकाम्|
पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ||४||
शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्|
ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने||५||
गौरवे शिरसः शूले पीनसेऽर्धावभेदके|
क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके||६||
दीर्घञ्जीवितीये मूलिन्यश्च फलिन्यश्च पञ्चकर्माङ्गभूता उक्ताः, अपराण्यपि च पिप्पलीमरिचप्रभृतीनि पञ्चकर्मसाधनानि सन्ति, तथा पञ्चकर्मप्रभृतिविषयोऽपि तत्र नोक्तः, तेनानन्तरं शेषपञ्चकर्मोपयोगिद्रव्यपञ्चकर्मप्रवृत्तिविषयाभिधायकोऽपामार्गतण्डुलीयोऽभिधीयते| पूर्वोक्तान्यपि चापामार्गादीनि यत् पुनरिहाभिधीयन्ते तदाचार्य एवाध्यायान्ते ‘पूर्वं मूलफल’ इत्यादिना श्लोकद्वयेन समाधास्यति| अपामार्गबीजीय इति सञ्ज्ञायां प्राप्तायामपामार्गतण्डुलीय इति सञ्ज्ञाकरणमपामार्गादिबीजानां निस्तुषाणामेव ग्रहणार्थम्| अध्यायसञ्ज्ञां तण्डुलेन कृत्वाऽपामार्गस्य बीजानीति यद्बीजशब्दं करोति तदङ्कुरजननसमर्थबीजभवानामेव तण्डुलानां ग्रहणार्थम्| यद्यपि चेहोत्सर्गतः पञ्चकर्मप्रवृत्तिर्वमनपूर्विकैव भवति, यदुक्तं- “साधारणेष्वृतुषु वमनादीनां प्रवृत्तिर्भवति” (वि.अ.८) इत्यादि, तथा सुश्रुतेऽप्युक्तं- “अवान्तस्य हि सम्यग्विरिक्तस्याप्यधःस्रस्तः श्लेष्मा ग्रहणीमाच्छादयति” (सु.चि.अ.३३) इत्यादि; तथाऽपि क्वचित् प्रबलदोषापेक्षयाऽन्यथाऽपि क्रमो भवति, यथा शरद्युद्रिक्ते पित्ते विरेचनादि, तथा प्रावृषि प्रबलवाते बस्त्यादिरित्यनियमार्थमिह शिरोविरेचनमादावभिहितं; यदि वा, प्रधानाङ्गशिरःशोधनत्वाच्छिरोविरेचनमादौ कृतम्| यदुक्तं- “यदुत्तमाङ्गमङ्गानां शिरस्तदभिधीयते” (सू.अ.१७) इति| शालाक्येऽप्युक्तं- “अनामये यथा मूले वृक्षः सम्यक् प्रवर्धते | अनामये शिरस्येवं देहः सम्यक् प्रवर्धते” इति| अपामार्गाभिधानमादौ शिरोविरेचनप्राधान्यात्| यदुक्तं- “प्रत्यक्पुष्पा शिरोविरेचनानाम्” इति (सू.अ.२५)| अजगन्धा अजमोदा, “फोफान्धी” इति केचित्| पीलु औत्तरापथिकं फलम्| लवणद्वयं लवणवर्गादिपठितं सौवर्चलं सैन्धवं च| अयं वर्गो व्यस्तः समस्तश्च शिरोविरेचने प्रयोज्यो गणत्वात्| यदुक्तं- “परिसङ्ख्यातमपि हि यद्द्रव्यमयौगिकं मन्येत तदपहरेत्” (वि.अ.८) इति| अन्यत्राप्युक्तं- “समस्तं वर्गमर्धं वा यथालाभमथापि वा” (सु.सू.अ.३७) इति| शिरस इति गौरव इत्यनेन शूल इत्यनेन च सम्बध्यते| क्रिमिव्याधिरिह शिरोगत एव बोद्धव्यः, तत्रैव शिरोविरेचनस्य समर्थत्वात्| प्रमोहको मूर्च्छा, इन्द्रियापटुत्वं वा||१-६||
Adhikarana 2 (7-8) · Śloka 8
मदनं मधुकं निम्बं जीमूतं कृतवेधनम्|
पिप्पलीकुटजेक्ष्वाकूण्येलां धामार्गवाणि च||७||
उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये|
वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||८||
वमनद्रव्ये आदौ मदनमुक्तं प्राधान्यात्; उक्तं हि- “वमनद्रव्येषु मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्” इति (क.अ.१)| उपस्थित इति आमाशयोर्ध्वभागे श्लेष्मणः स्थानं गत्वोत्क्लेशं गत इति व्याख्येयम्| श्लेष्मपित्त इति श्लेष्मपित्ते श्लेष्मणि पित्ते च| पित्तं च यद्यपि साक्षान्न वमनविषयं तथाऽपि श्लेष्मस्थानगतत्वेन श्लेष्मसम्बन्धाद्वमनविषयम्| यदुक्तं- “दोषस्थानगतं दोषं स्थानिवत् समुपाचरेत्” इति| देहमदूषयन्निति यद्यपि वमने प्रोक्तं तथाऽपि विरेचनादिष्वपि बोद्धव्यं, तत्राप्यतियोगायोगमिथ्यायोगैर्देहदुष्टिशङ्कायाः समानत्वात्| उच्यते च न्यायविद्भिर्यत्- “समानेष्वर्थेष्वेकत्राभिहितो विधिरन्यत्राप्यनुषञ्जनीयः” इति||७-८||
Adhikarana 3 (9-10) · Śloka 10
त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्|
कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्||९||
पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च|
पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||१०||
वमनमनु विरेचनाभिधानं शिरःपूर्वकदेहशोधनाभिधानानुक्रमेणामाशयोर्ध्वभागशोधनानन्तरमामाशयाधोभागस्थितपित्तहरत्वेन| एवं विरेचनानन्तरं बस्त्यभिधानेऽपि वाच्यम्| त्रिवृदादावुच्यते, विरेचनद्रव्येषु श्रेष्ठत्वात्| उक्तं हि- “त्रिवृत् सुखविरेचनानाम्” (सू.अ.२५) इति| नीलिका नीलबुह्ना | क्षीरिणी दुग्धिका| द्रवन्ती दन्तीभेदः| निचुलं हिज्जलमिति प्रसिद्धम्| पक्वश्चासावाशयगतश्चेति पक्वाशयगतः| तेन पित्ताशये एवामाशयाधोभागलक्षणे दोषो विरेचनविषयो भवति, न पक्वाशयगतः| दोषशब्देन चेह विरेचननिर्हरणयोग्यत्वात् पित्तं कफपित्तं वा गृह्यते| यदुक्तं- “पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्| स्रंसनं, त्रीन् मलान् बस्तिर्हरेत् पक्वाशयस्थितान्” (चि.अ.३) इति| यदि वा पक्वाशयसमीपगतत्वेनाधःप्रवृत्त्युन्मुखो दोषः पक्वाशयगत इत्युच्यते; यथा- गङ्गायां घोष इति||९-१०||
Adhikarana 4 (11-14) · Śloka 14
पाटलां चाग्निमन्थं च बिल्वं श्योनाकमेव च|
काश्मर्यं शालपर्णीं च पृश्निपर्णीं निदिग्धिकाम्||११||
बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्|
यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च||१२||
पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च|
उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च||१३||
अत एवौषधगणात् सङ्कल्प्यमनुवासनम्|
मारुतघ्नमिति प्रोक्तः सङ्ग्रहः पाञ्चकर्मिकः||१४||
पाटलामित्यादिनाऽनुवासनात् प्राङ्निरूहाभिधानं, निरूहस्य दोषहरणप्रधानत्वात्| कत्तृणं गन्धतृणम्| स्नेहाः सर्पिस्तैलवसामज्जानः| लवणानि सैन्धवादीनि रोगभिषग्जितीये (वि.अ.८) बस्त्यर्थं मुख्यान्युक्तानि गणेन| अत एवेति निरूहोक्तपाटलादिगणात्| सङ्कल्प्यमनुवासनमित्यनेन स्नेहसाधनं ब्रूते; अनुवासनं हि स्नेह एव भवति| अनुवासनार्थं स्नेहसाधनद्रव्यं पृथङ्नोक्तं, निरूहार्थोक्तभेषजगणेनैव तत्सिद्धेः| मारुतघ्नमित्यनेनानुवासनप्रवृत्तिविषयं दर्शयति; मारुते हन्तव्येऽनुवासनं प्रकल्प्यमित्यर्थः| यदि वा पाटलादेर्मारुतहराद्गणान्मारुतघ्नमनुवासनं प्रकल्प्यम्; अन्यत्र तु पित्तहराद्गणात् पित्तघ्नं, तथा श्लेष्महराद्गणाच्छ्लेष्मघ्नमिति सूचयति| सङ्ग्रह इत्यनेन रोगभिषग्जितीये (वि.अ.८) कल्पे सिद्धौ च वक्ष्यमाणपञ्चकर्मप्रपञ्चं सूचयति||११-१४||
Adhikarana 5 (15) · Śloka 15
तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः|
पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्||१५||
पञ्चकर्म यथा कर्तव्यं तथा तानीत्यादिना दर्शयति| तानीति पूर्वोक्तानि| स्नेहस्वेदोपपादनैरिति बहुवचनं नानाविधस्नेहस्वेदोपदर्शनार्थम्| उपस्थितदोषाणामिति शाखां त्यक्त्वा कोष्ठगमनेन तथा लीनत्वपरित्यागेन प्रधानावस्थाप्राप्तदोषाणाम् | तत्र पञ्चकर्मप्रवृत्तावुपस्थितदोषत्वमेव हेतुः, तद्यदि स्नेहस्वेदोपपादनमन्तराऽपि स्यात्, यथा ज्वरे “कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्| बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्” (चि.अ.३) इति; तत्र स्नेहस्वेदावन्तरेणापि वमनप्रवृत्तिर्भवत्येव| स्नेहस्वेदोपपादनं तु प्रायिकत्वेन तथाऽन्यथोपस्थितदोषेऽपि स्तोकमात्रया पञ्चकर्मप्रवृत्तिक्षोभजन्यवातजयार्थं क्रियमाणत्वेनोक्तम्| मात्राकालयोर्विचार्यत्वेन ग्रहणं प्राधान्यात्, तेन दोषभेषजादयोऽपि विचार्यत्वेनेह बोद्धव्याः; यदि वा पूर्ववत् कालग्रहणादेव शेषाणां दोषादीनामवरोधो व्याख्येयः| तानीत्युक्तेऽपि पुनः पञ्चग्रहणं पञ्चानामप्युपस्थितदोषत्वे सति प्रवृत्त्युपदेशार्थम्| इह वमनादिषु कर्मलक्षणं बह्वितिकर्तव्यतायोगिदोषनिर्हरणशक्तिज्यायस्त्वम्| तेन तन्त्रान्तरे स्नेहस्वेदौ प्रक्षिप्य सप्तकर्माणीति यदुच्यते तन्न भवति, नहि स्नेहस्वेदौ दोषबहिर्निःसरणं कुरुतः, दोषसंशमनं तु तौ कुरुतः; पञ्चकर्माङ्गत्वेन व्याप्रियमाणौ तु स्नेहस्वेदौ दोषोपस्थान एव परं व्याप्रियेते, न दोषनिर्हरणे वमनादिसम्पाद्ये| अनुवासनं तु यद्यपि वमनादिवन्न बहुदोषनिर्हरणकारणं भवति, तथाऽपि पुरीषस्य पक्वाशयगतवातस्य च बहिर्निर्हारकत्वात् कर्मलक्षणप्राप्तमेव| निष्ठीवननेत्राञ्जनादौ तु न स्नेहस्वेदादिवद्बह्वितिकर्तव्यतायोगो नच बहुदोषनिर्हारकत्वं, तेन न तत् कर्मशब्दवाच्यम्| उत्तरबस्तिस्तु स्नेहरूपो निरूहः स्नेहबस्तावेवान्तर्भवति| यदि वेह वमनादिषु पञ्चकर्मसु पङ्कजशब्दवद्योगरूढेयं सञ्ज्ञा; तेन स्नेहस्वेदनिष्ठीवनादिषु न प्रवर्तते||१५||
Adhikarana 6 (16) · Śloka 16
मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता|
तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||१६||
मात्राकालविचारफलमाह- मात्राकालेत्यादि| युक्तिः योजना भेषजस्य देहदोषाद्यपेक्षया| युक्तिं स्तौति- सिद्धिरित्यादिना| सिद्धिरिह विकारोपशमस्य साध्यस्य निष्पत्तिः||१६||
Adhikarana 7 (17) · Śloka 17
अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः|
विविधानां विकाराणां तत्साध्यानां निवृत्तये||१७||
इदानीं वमनादीनामयोगान्मन्दीभूतस्य वह्नेः सन्धुक्षणार्थं तथा वमनादिष्वप्रयोगजनितस्य शूलादेः प्रशमार्थं प्रतिज्ञापूर्वकं यवागूरभिधत्ते- अत ऊर्ध्वमित्यादि| उक्तं हि “यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः” (सि.अ.१) इति| पिप्पल्यादियवागूनिर्देशे उपसाधितेति वचनं भेषजपानीयतण्डुलादिप्रकृतिद्रव्याणामुचितपरिमाणग्रहणार्थम् | साक्षाद्भेषजादीनां प्रमाणमिह नोक्तं, मात्राया अग्न्यादिभेदेनानवस्थितत्वात् | यदुक्तं- “मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः| व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत्” इति| यद्यप्येवं तथाऽपि परिभाषादर्शनाद्वृद्धवैद्यव्यवहारदर्शनाच्च यथा कर्तव्यं तदुच्यते- यवागूसाधनद्रव्यं तावद्द्विविधं- वीर्यप्रधानमौषधद्रव्यं, तथा रसप्रधानमाहारद्रव्यं च| तत्राप्यौषधद्रव्यं त्रिविधं, वीर्यभेदात्; तीक्ष्णवीर्यं यथा शुण्ठ्यादि, मध्यवीर्यं बिल्वाग्निमन्थादि, मृदुवीर्यं चामलकादि; तत्र तीक्ष्णानां कर्षः, मध्यानामर्धपलं, मृदूनां पलमित्युत्सर्गः| यदुक्तमग्निवेशेन- “कर्षार्धं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम्| विनीय पाचयेद्युक्त्या वारिप्रस्थेन चापराम्” इति| अत्र मध्यवीर्याणामर्धपलमात्रा नोक्ता सा मध्यप्रमाणग्रहणाद्बोद्धव्या| तथा “जीवन्त्यजाजीशटीपुष्कराह्वैः” (चि.अ.१२) इत्यादिकायां पेयायां नवभिर्द्रव्यैः कोलप्रमाणैर्मिलित्वा पलमदूरान्तरं भवति, तच्च मृदुवीर्याभिप्रायेणैव; “क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके| अर्धशृतेन तेनाथ यवाग्वाद्युपकल्पयेत्” इत्यत्र चतुष्पलद्रव्याभिधानं रसप्रधानद्रव्याभिप्रायेणैव; तेन “सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता” इत्यादावियं परिभाषा बोद्धव्या| षडङ्गसाधनपरिभाषायां “यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते| कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि|| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ” इत्यत्र पेयां प्रति कर्षद्रव्याभिधानं मध्यवीर्यस्यापि षडङ्गस्य मन्दानलपुरुषाभिप्रायेण बोद्धव्यम्| वारिमानं तु षडङ्गार्थपरिभाषायां कर्षद्रव्ये वारिप्रस्थोऽभिहितः, तदनुसारेणान्यत्रापि जलोत्कर्षो बोद्धव्यः| कल्कसाध्या तु यवागूर्यत्र भवति, तत्र सूदशास्त्रोक्तपरिमाणाज्जलं ग्राह्यम्| यदुक्तं- “अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे| मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि” इति| एतच्च पञ्चगुणे इत्यादि तण्डुलभेषजसमुदायाद्बोद्धव्यम्| यवागूप्रकृतिभूततण्डुलमानं तु सुश्रुतवचनाद्बोद्धव्यम्| यदुक्तं- “विलेपीमुचिताद्भक्ताच्चतुर्भागकृतां भिषग्” (सु.चि.अ.३९) इत्यादि| तथा “यवागूः स्वल्पतण्डुला” इति||१७||
Adhikarana 8 (18-33) · Śloka 33
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः|
यवागूर्दीपनीया स्याच्छूलघ्नी चोपसाधिता||१८||
दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता|
पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||१९||
शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता|
दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्||२०||
पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः|
पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता||२१||
दद्यात् सातिविषां पेयां सामे साम्लां सनागराम्|
श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||२२||
विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च|
तक्रसिद्धा यवागूः स्यात् क्रिमिघ्नी ससुवर्चिका||२३||
मृद्वीकासारिवालाजपिप्पलीमधुनागरैः|
पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता||२४||
सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता|
गवेधुकानां भृष्टानां कर्शनीया समाक्षिका||२५||
सर्पिष्मती बहुतिला स्नेहनी लवणान्विता|
कुशामलकनिर्यूहे श्यामाकानां विरूक्षणी||२६||
दशमूलीशृता कासहिक्काश्वासकफापहा|
यमके मदिरासिद्धा पक्वाशयरुजापहा||२७||
शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति|
जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता||२८||
क्षारचित्रकहिङ्ग्वम्लवेतसैर्भेदिनी मता|
अभयापिप्पलीमूलविश्वैर्वातानुलोमनी ||२९||
तक्रसिद्धा यवागूः स्याद्धृतव्यापत्तिनाशिनी|
तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता||३०||
गव्यमांसरसैः साम्ला विषमज्वरनाशिनी|
कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता||३१||
ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा|
समाषविदला वृष्या घृतक्षीरोपसाधिता||३२||
उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी|
क्षुधं हन्यादपामार्गक्षीरगोधारसैः शृता||३३||
पञ्चकोलसाधिता यवागूरादावुच्यते, पञ्चकर्मक्षीणाग्निवृद्धिहेतुत्वेन| दधित्थः कपित्थः| तक्रमिह जलार्थकारकम्| ग्राहिणीति छेदः| सवाते इति सवातेऽतीसारे| पञ्चमूलमत्र स्थिरादिपञ्चमूलं; यदुक्तं जतूकर्णे- “ध्रुवाद्यैर्वाय्वतीसारे” इति; ध्रुवादिः विदारिगन्धादिः| पृश्निपर्णी वर्तुलपत्रा सिंहपुच्छी| दाडिमाम्लेति वचनेन यावता दाडिमेनाम्लत्वं स्यात्तावन्मानं दाडिमं दर्शयति| पयस्यर्धोदके इत्यादौ नागरं मुस्तं; यदुक्तं जतूकर्णे- “रक्तातीसारेऽजाक्षीरजले घनजलोत्पलैः” इति| पृश्निपर्ण्या चेति रक्तातीसारघ्नयवाग्वामेव| साम्लामिति दाडिमाम्लामिति बोद्धव्यम्| श्वदंष्ट्रेत्यादौ जतूकर्णः- “पृश्निगोकण्टकगुडैर्मूत्रार्तिबस्तिशूलनुत्” इति| सुवर्चिका सर्जिकाक्षारः| पिपासाघ्नीति छेदः| सोमराजी अवल्गुजः | गवेधुको घुलुञ्चः; गवेधुकाश्च तण्डुलस्थाने| श्यामाकः तृणविशेषः; तस्य च बीजतण्डुला ग्राह्याः| यमके घृततैले| मदिरा द्रवस्थाने| शाकादिभिः समानैर्यवागूर्मन्तव्या| दधित्थाम्लशब्देन कपित्थस्याम्लावस्थायामेव ग्रहणं दर्शयति| क्षारो यवक्षारः| तक्रसिद्धेति तक्रकृतोदककार्या| पिण्याकः तिलकल्कः| यमक इत्यनेन यमकेन परिभर्जनं दर्शयति| समाषविदलेत्यादौ तण्डुलेन माषविदलस्य तुल्यमानता, क्षीरं च जलस्थाने, घृतं च परिभर्जने; किंवा माषप्रकृतिकैवेयम्| मदशब्देन विषज-रौधिर-मद्यमदानां त्रयाणामपि ग्रहणम्, अविशेषाभिधानात्| क्षुधं हन्यादित्यादावपामार्गतण्डुलास्तण्डुलस्थाने; क्षीरगोधामांसरसौ तु जलस्थाने||१८-३३||
Adhikarana 9 (34) · Śloka 34
तत्र श्लोकः- अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः|
पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसङ्ग्रहः||३४||
प्रतिलोमतन्त्रयुक्त्याऽध्यायसङ्ग्रहं करोति- अष्टाविंशतिरित्यादि||३४||
Adhikarana 10 (35) · Śloka 35
पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्|
पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः||३५||
दीर्घञ्जीवितीये मूलिनीफलिनीगणपठितानामपामार्गजीमूतादीनां पुनर्वचने उपपत्तिमाह- पूर्वमित्यादि| मूलफलज्ञानहेतोरिति अस्य मूलेन व्यवहारः, अस्य फलेन व्यवहारः, इति ज्ञातुमित्यर्थः| पञ्चकर्मणामाश्रयः, आश्रयशब्दश्च भावप्रधानः; तेन पञ्चकर्माश्रयत्वे ज्ञानार्थमिति फलति| यद्यपि मूलिन्यश्च फलिन्यश्च दीर्घञ्जीवितीयेऽपि “शणपुष्पी च बिम्बी च” (सू.अ.१) इत्यादिना ग्रन्थेन पञ्चकर्माश्रयत्वेनाप्युक्ताः, तथाऽपीह मुख्यप्रपञ्चेनाभिधीयमानपञ्चकर्माश्रयद्रव्यगणेऽनभिधानात् पञ्चकर्माश्रयत्वेनाप्राधान्यं वाऽपामार्गादीनां शङ्केत, अत उक्तं- पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनरिति||३५||
Adhikarana 11 (36) · Śloka 36
स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्|
भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||३६||
एतदध्यायप्रतिपादितायाः पञ्चकर्मप्रवृत्तेर्दुर्ज्ञेयत्वेन यथाभूतेन वैद्येन चिकित्सा कर्तव्यां तादृशं वैद्यमाह- स्मृतिमानित्यादि| प्रतिपत्तिरुत्पन्नायामापदि झटिति यथाकर्तव्यताज्ञानं, तद्वान् प्रतिपत्तिमान्||३६||
Adhikarana puShpikA · Śloka 2
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||२||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्केऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||२||