Adhikarana 1 (1-2) · Śloka 2
अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
रोगचतुष्के रोगा उक्ताः, भेषजं च भेषजचतुष्के, रोगभेषजयोस्तु योजना यथा कर्तव्या तद्वक्तुं योजनाचतुष्कोऽभिधीयते| सा च योजना रोगेण समं भेषजानां प्रायः शरीरमेवापेक्षत इति शरीरभेदप्रतिपादकोऽष्टौनिन्दितीयोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दिता भवन्ति; तद्यथा- अतिदीर्घश्च, अतिह्रस्वश्च, अतिलोमा च, अलोमा च , अतिकृष्णश्च, अतिगौरश्च, अतिस्थूलश्च, अतिकृशश्चेति||३||
शरीरमधिकृत्येतिवचनेन मनोऽधिकृत्य ये निन्दिता अधार्मिककदर्यादयः, तानिहानुपयुक्तान्निराकरोति; अतिदीर्घादयश्च षडिह निन्दितप्रस्तावादुच्यन्ते; निन्दितत्वं च तेषां लोकविगानादेव | अतिदीर्घश्चेत्यादिचकारः कुब्जादिनिन्दितग्रहणार्थम्||३||
Adhikarana 3 (4) · Śloka 4
तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा भवन्ति|
अतिस्थूलस्य तावदायुषो ह्रासो जवोपरोधः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः|
तदतिस्थौल्यमतिसम्पूरणाद्गुरुमधुरशीतस्निग्धोपयोगादव्यायामादव्यवायाद्दिवास्वप्नाद्धर्षनित्यत्वाद- चिन्तनाद्बीजस्वभावाच्चोपजायते|
तस्य ह्यतिमात्रमेदस्विनो मेद एवोपचीयते न तथेतरे धातवः, तस्मादस्यायुषो ह्रासः; शैथिल्यात् सौकुमार्याद्गुरुत्वाच्च मेदसो जवोपरोधः , शुक्राबहुत्वान्मेदसाऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता, दौर्बल्यमसमत्वाद्धातूनां, दौर्गन्ध्यं मेदोदोषान्मेदसः स्वभावात् स्वेदनत्वाच्च, मेदसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्बहुत्वाद्गुरुत्वाद्व्यायामासहत्वाच्च स्वेदाबाधः, तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति||४||
तत्रातिस्थूलकृशयोश्चिकित्सोपयुक्तं विशेषं वक्तुमाह- तत्रेत्यादि| भूय एवेति अतिदीर्घादितुल्यलोकविगानादधिकाः| निन्दिताश्च ते विशेषाश्चेति निन्दितविशेषाः| अतिस्थौल्यस्य हेतुमाह- तदित्यादि| अतिसम्पूरणम् अतिभोजनम्| बीजस्वभावादिति स्थूलमातापितृजन्यत्वात्| सम्प्रति स्थूलस्य साधारणादप्याहाराद्भूरिमेदोजन्माह- तस्य हीत्यादि| मेदस्विन इति हेतुगर्भविशेषणं; तेन यस्मादतिस्थूले शरीरे मेदो देहव्यापकत्वेन लब्धवृत्ति, अतस्तदेव प्रायो वर्धते नान्ये रसादयः, तदभिभूतत्वादित्यर्थः| तस्मादिति विषमधातुत्वात्| मेदोदोषादिति दुष्टं मेदो दुर्गन्धं भवति| स्वभावादिति स्वभावादपि मेद आमगन्धित्वेन दुर्गन्धम्| स्वेदनत्वाच्चेति सति च स्वेदे दुर्गन्धताऽनुभवसिद्धैवेत्यर्थः | श्लेष्मसंसर्गादिभ्यो हेतुभ्यः स्वेदाबाधो ज्ञेयः||४||
Adhikarana 4 (5-9) · Śloka 10
भवन्ति चात्र- मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः|
चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि||५||
तस्मात् स शीघ्रं जरयत्याहारं चातिकाङ्क्षति|
विकारांश्चाश्नुते घोरान् कांश्चित्कालव्यतिक्रमात्||६||
एतावुपद्रवकरौ विशेषादग्निमारुतौ|
एतौ हि दहतः स्थूलं वनदावो वनं यथा||७||
मेदस्यतीव संवृद्धे सहसैवानिलादयः|
विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम्||८||
मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः|
अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते||९||
इति मेदस्विनो दोषा हेतवो रूपमेव च|
निर्दिष्टं, ....|१०|
मेदसेत्यादौ वायोरनतिवृद्धत्वेनाग्निसन्धुक्षकत्वं न वैषम्यापादकत्वं, यतोऽतिवृद्धो हि वैषम्यं वह्नेः करोति वायुः| स इति मेदस्वी| कालव्यतिक्रमादिति भोजनकालातिक्रमात्| अतिस्थूललक्षणमाह- मेदोमांसेत्यादि||५-९||-
Adhikarana 5 (10-15) · Śloka 15
... वक्ष्यते वाच्यमतिकार्श्ये त्वतः परम्||१०||
सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम्|
क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः||११||
रूक्षस्योद्वर्तनं स्नानस्याभ्यासः प्रकृतिर्जरा|
विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम्||१२||
व्यायाममतिसौहित्यं क्षुत्पिपासामयौषधम् |
कृशो न सहते तद्वदतिशीतोष्णमैथुनम्||१३||
प्लीहा कासः क्षयः श्वासो गुल्मोऽर्शांस्युदराणि च|
कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः||१४||
शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः|
त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः||१५||
वाच्यम् अभिधेयं; किंवा वाच्यमिति निन्दितमवद्यमिति यावत्| प्रमितस्य स्तोकस्याशनं प्रमिताशनम्| क्रियातियोगः वमनाद्यतियोगः| प्रकृतिः देहजनकं बीजम्| अनुशयः अनुबन्धः| कृशस्य लक्षणं- शुष्केत्यादि| त्वगस्थिशेष इति ‘दृश्यत’ इति शेषः| स्थूलपर्वा स्थूलग्रन्थिः||१०-१५||
Adhikarana 6 (16-17) · Śloka 17
सततं व्याधितावेतावतिस्थूलकृशौ नरौ|
सततं चोपचर्यौ हि कर्शनैर्बृंहणैरपि||१६||
स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हि तौ|
यद्युभौ व्याधिरागच्छेत् स्थूलमेवातिपीडयेत्||१७||
कर्शनैर्बृंहणैरिति यथासङ्ख्यम्| वरमिति मनागिष्टम्| स्थूलमेवातिपीडयेदिति स्थूलस्य दुरुपक्रमत्वात्| यतः स्थूलस्य सन्तर्पणमतिस्थौल्यकरम्, अपतर्पणं चायं प्रवृद्धाग्नित्वान्न सोढुं क्षमः; दुर्बले तु सन्तर्पणं योग्यमेवेति भावः||१६-१७||
Adhikarana 7 (18-19) · Śloka 19
सममांसप्रमाणस्तु समसंहननो नरः|
दृढेन्द्रियो विकाराणां न बलेनाभिभूयते||१८||
क्षुत्पिपासातपसहः शीतव्यायामसंसहः|
समपक्ता समजरः सममांसचयो मतः||१९||
सम्प्रति प्रशस्तपुरुषमाह- समेत्यादि| मांसशब्देनेहोपचयो विवक्षितः, तेन सममुपचयस्य प्रमाणं यस्य स तथा| संहननं मेलकः| अपरानपि सममांसप्रमाणगुणानाह- क्षुदित्यादि||१८-१९||
Adhikarana 8 (20) · Śloka 20
गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति|
कृशानां बृंहणार्थं च लघु सन्तर्पणं च यत्||२०||
एवं स्थूलकृशौ प्रतिपाद्य तयोर्योजनीयं भेषजमाह- गुर्वित्यादि| गुरु चातर्पणं च यथा- मधु; एतद्धि गुरुत्वाद्वृद्धमग्निं यापयति, अतर्पणात्वाच्च मेदो हन्ति| एवं प्रशातिकाप्रभृतीनामतर्पणानां संस्कारादिना गुरुत्वं कृत्वा भोजनं देयम्| कृशानां तु लघु तर्पणं च देयं; तद्धि लाघवादग्निवृद्धिकरं सन्तर्पणत्वाच्च पुष्टिकृत्| एतच्च द्वितयमप्यभीष्टतमत्वेनोक्तं; तेन, मेदस्विनो यल्लघु चातर्पणं प्रशातिकाप्रियङ्ग्वादि तच्च कर्तव्यं; तथा कृशस्यापि नवान्नादि गुर्वपि सन्तर्पणं कर्तव्यं; परं लाघवं गौरवं च तत्र संस्कारादिना प्रतिकर्तव्यम्||२०||
Adhikarana 9 (21-28) · Śloka 28
वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च|
रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च||२१||
गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा|
तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च||२२||
विडङ्गं नागरं क्षारः काललोहरजो मधु|
यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते||२३||
बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः|
शिलाजतुप्रयोगश्च साग्निमन्थरसः परः||२४||
प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः|
जूर्णाह्वाः कोद्रवा मुद्गाः कुलत्थाश्चक्रमुद्गकाः ||२५||
आढकीनां च बीजानि पटोलामलकैः सह|
भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्||२६||
अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्|
अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्||२७||
प्रजागरं व्यवायं च व्यायामं चिन्तनानि च|
स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्||२८||
माक्षिकस्येति मधुनः; न च मधुनो वृष्यप्रयोगेषु दृष्टत्वाद् बृहणत्वं वाच्यं, यतो योगवाहि मधु यदा वृष्येण युज्यते तदा वृष्यत्वं करोति, लेखनयुक्तं तु लेखनकरं, तथा स्वरूपेणापि रूक्षादिगुणयोगात् कर्शनं; वचनं हि- “नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु (सु. सू. ४५) इति”| विडङ्गादिप्रयोगो गौरवनिरपेक्ष एवातिस्थौल्यहरः, प्रभावात्| प्रशातिका ‘उडिका’ इति प्रसिद्धा| यवकाः स्वल्पयवाः| चक्रमुद्गकः ‘ऋषिमुद्गक’ इति प्रसिद्धः| आढकी तुवरी||२१-२८||
Adhikarana 10 (29-34) · Śloka 34
स्वप्नो हर्षः सुखा शय्या मनसो निर्वृतिः शमः|
चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम्||२९||
नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः|
संस्कृतानि च मांसानि दधि सर्पिः पयांसि च||३०||
इक्षवः शालयो माषा गोधूमा गुडवैकृतम्|
बस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा||३१||
स्निग्धमुद्वर्तनं स्नानं गन्धमाल्यनिषेवणम्|
शुक्लं वासो यथाकालं दोषाणामवसेचनम्||३२||
रसायनानां वृष्याणां योगानामुपसेवनम्|
हत्वाऽतिकार्श्यमाधत्ते नृणामुपचयं परम्||३३||
अचिन्तनाच्च कार्याणां ध्रुवं सन्तर्पणेन च|
स्वप्नप्रसङ्गाच्च नरो वराह इव पुष्यति||३४||
कार्श्यचिकित्सामाह- स्वप्न इत्यादि| शमः शान्तिः| ननु नवान्नादीनां गुरूणां संस्कारादिना गौरवं प्रतिकर्तव्यमग्निमान्द्यभयात्, तत् किमिति लघून्येव रक्तशाल्यादीनि तत्र न दीयन्ते, तानि हि प्रकृत्या लघूनि तर्पणानि च मधुरयोगात्| न, उभयस्याप्यभिप्रेतत्वात्; प्रकृतिलघु च तर्पणं रक्तशाल्यादि, संस्कारादिलघु च नवान्नादि सन्तर्पणकरमिति| एवं पूर्वोक्तप्रशातिकादावप्यनुसर्तव्यम्| अचिन्तनाच्चेत्यादिना प्रकृष्टं बृंहणकारणमुच्यते| स्वप्नप्रसङ्गो नित्यं स्वप्नमतिमात्रं च||२९-३४||
Adhikarana 11 (35) · Śloka 35
यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः |
विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः||३५||
सम्प्रति प्रस्तावागतं स्थौल्यकार्श्यचिकित्साप्रधानभूतं स्वप्नं निद्रारूपं सर्वतो निरूपयति- यदा त्वित्यादि| मनसीति अन्तःकरणे; किंवा मनोयुक्त आत्मा मन इत्युच्यते, तस्मिन् क्लान्त इति निष्क्रिये| कर्मात्मान इति इन्द्रियाणि| क्लमान्विताः क्रियारहिताः| विषयेभ्यः रूपादिभ्यः| मनसोऽप्रवृत्त्येन्द्रियाण्यपि न प्रवर्तन्त इति भावः| तदा स्वपितीति स्वप्नगुणयुक्तो भवति; स्वप्नश्च निरिन्द्रियप्रदेशे मनोवस्थानम्| किंवा कर्मात्मान इति संसार्यात्मानः| मनसि क्लान्ते आत्मानः क्लान्ता भवन्ति, मनोधीनप्रवृत्तित्वादात्मनां; ततश्च मनोनिवृत्त्या आत्मानोऽपि न विषयान् गृह्णन्ति, इन्द्रियाणि चात्मनोऽप्रवृत्त्यैव न प्रवर्तन्ते||३५||
Adhikarana 12 (36-38) · Śloka 38
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्|
वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च||३६||
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता|
सुखायुषी पराकुर्यात् कालरात्रिरिवापरा||३७||
सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा|
पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता||३८||
सम्प्रति विधिना सेविताया निद्राया गुणमविधिना च दोषमाह- निद्रायत्तमित्यादिना न चेत्यन्तेन| अत्र च सुखादि विधिसेवितनिद्राफलं, दुःखादि त्वविधिनिद्राफलम्| एतदेव विभजते- अकाल इत्यादि| अकाल इति दिनादौ निद्रां प्रति निषिद्धे काले; अनेन च मिथ्यायोगो निद्राया उक्तः| कालरात्रिः कालोषा| सत्या बुद्धिः तत्त्वज्ञानम्||३६-३८||
Adhikarana 13 (39-43) · Śloka 43
गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्शिताः|
अजीर्णिनः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||३९||
तृष्णातीसारशूलार्ताः श्वासिनो हिक्किनः कृशाः|
पतिताभिहतोन्मत्ताः क्लान्ता यानप्रजागरैः||४०||
क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये|
सर्व एते दिवास्वप्नं सेवेरन् सार्वकालिकम्||४१||
धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते|
श्लेष्मा पुष्णाति चाङ्गानि स्थैर्यं भवति चायुषः||४२||
ग्रीष्मे त्वादानरूक्षाणां वर्धमाने च मारुते|
रात्रीणां चातिसङ्क्षेपाद्दिवास्वप्नः प्रशस्यते||४३||
सम्प्रति दिनेऽपि यैर्निद्रा सेव्या तानाह- गीतेत्यादि| इह गीतकर्शितानां दिवास्वप्नाद्धातुपुष्टौ सत्यामारोग्यम्| अतीसारादिषु च प्रभावाद्दिवाऽपि निद्रा हिता| अजीर्णिनस्त्वजीर्णपाकार्थं दिवानिद्रा; निद्रा हि स्रोतोऽवरोधेनाग्निबलं कृत्वा शीघ्रमाहारं पचति| दिवास्वप्नसात्म्यानां सहसा तत्परित्यागे दोष एव स्यात्| रात्रौ जागरितानां च तज्जनितवातक्षोभशमार्थं दिवास्वप्नः, स च क्षारपाणिवचनेन कर्तव्यः; यदुक्तं- “यावत्कालं न सुप्तः स्याद्रात्रौ स्वप्नाद्यथोचितात्| ततोऽर्धमात्रं तत्कालं दिवास्वप्नो विधीयते” इति; अयं च दिवास्वप्नोऽभुक्तवतामेव; यदुक्तं हारीते- “भुक्त्वा स्वप्नं न सेवेत सुस्थोऽप्यसुखितो भवेत्” इति; अन्यत्राप्युक्तं व्यायामादिषु दिवास्वप्नविधाने- “नरान्निरशनान् कामं दिवा स्वापयेत्” इति| सार्वकालिकमिति ग्रीष्मं परित्यज्यापि| ‘रात्रीणां चातिसङ्क्षेपादिति’ अनेनाल्पनिद्रत्वं च सूचयति||३९-४३||
Adhikarana 14 (44-49) · Śloka 49
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः|
श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते||४४||
मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः|
दूषीविषार्ताश्च दिवा न शयीरन् कदाचन||४५||
हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता|
अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च||४६||
शोफारोचकहृल्लासपीनसार्धावभेदकाः|
कोठारुःपिडकाः कण्डूस्तन्द्रा कासो गलामयाः||४७||
स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः|
इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्||४८||
भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्|
तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः||४९||
न शयीरन् कदाचनेतिवचनाद्ग्रीष्मेऽपि दिवास्वप्नं मेदस्विप्रभृतीनां निषेधति| गीतकर्षणादौ तु बलाबलं निरूप्य दिवास्वप्नप्रवृत्तिर्वा निवृत्तिर्वा विधेया| विषवेगप्रवर्तनमिति दूषीविषार्तानां बोद्धव्यम्| स्वप्यात् सुखमिति सुखं यथा भवति तथा स्वप्यात्; तच्चाहितस्वप्नपरित्यागेन हितस्वप्नसेवया च||४४-४९||
Adhikarana 15 (50) · Śloka 50
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा|
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्||५०||
रात्रावित्यादिना जागरणस्य स्वप्नस्य च रूक्षत्वं स्निग्धत्वं च तत्कार्यकर्तृत्वादुपचर्यते| किञ्च जागरणं रात्रौ दिने वा रूक्षमेव; परं दिवा जागरणं न विरूक्षणं शरीरे करोति रात्रिस्वप्नप्रस्निग्धत्वात्; रात्रौ जागरणं तु रौक्ष्यं करोति, तेन तद्रूक्षमुच्यते; एवं दिवास्वप्नेऽपि वाच्यम्| स्वप्नप्रसङ्गेन स्वप्नभेदगुणमाह- अरूक्षमित्यादि| अनभिष्यन्दि अस्निग्धमित्यर्थः| आसीनप्रचलायितम् उपविष्टस्य किञ्चिन्निद्रासेवनं; यदाहुर्जनाः प्रधानं विहारेषु||५०||
Adhikarana 16 (51) · Śloka 51
देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः|
स्वप्नाहारसमुत्थे च स्थौल्यकार्श्ये विशेषतः||५१||
स्वप्नप्राधान्ये हेतुमाह- देहवृत्तावित्यादि| सुख इति सुखहेतुः||५१||
Adhikarana 17 (52-54) · Śloka 54
अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः|
शाल्यन्नं सदधि क्षीरं स्नेहो मद्यं मनःसुखम्||५२||
मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च|
चक्षुषोस्तर्पणं लेपः शिरसो वदनस्य च||५३||
स्वास्तीर्णं शयनं वेश्म सुखं कालस्तथोचितः|
आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः||५४||
स्वप्नजनकं हेतुमाह- अभ्यङ्गेत्यादि| कालस्तथोचित इति यस्मिन् काले निद्रा पुरुषेणाभ्यस्ता स कालस्तस्योचितः| निमित्ततः प्रनष्टेतिवचनमरिष्टजनितनिद्राप्रतिषेधार्थम्; अरिष्टं ह्यनिमित्तमुच्यते शास्त्रे||५२-५४|
Adhikarana 18 (55-57) · Śloka 57
कायस्य शिरसश्चैव विरेकश्छर्दनं भयम्|
चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम्||५५||
उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः|
निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम्||५६||
एत एव च विज्ञेया निद्रानाशस्य हेतवः|
कार्यं कालो विकारश्च प्रकृतिर्वायुरेव च||५७||
अत्र निद्राप्रतिषेधहेतुमाह- कायस्येत्यादि| सत्त्वौदार्यं सत्त्वगुणभूरित्वम्| तमोजयः तमोगुणजयः, स च योगाभ्यासादिना भवति| एत एव चेति स्वस्थे क्रियमाणा इति बोद्धव्यं; निद्रातिप्रसङ्गे तु सति क्रियमाणा अतिप्रसङ्गनिषेधका भवन्ति| अपरानपि निद्रानाशहेतूनाह- कार्यमित्यादि| कार्यमिति कार्यासक्तो न निद्रां याति| काल इति वार्धक्यं, वृद्धा हि स्वभावत एव जागरूका भवन्ति| विकारः व्याधिः शूलादिः| प्रकृतिः स्वभावः, स्वभावादेव केचिदनिद्रा भवन्ति | विकारग्रहणैनैव वाते लब्धे पुनर्वातग्रहणं विशेषेण वायोर्निद्रापहारकत्वप्रतिपादनार्थम्||५५-५७||
Adhikarana 19 (58) · Śloka 58
तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसम्भवा च|
आगन्तुकी व्याध्यनुवर्तिनी च रात्रिस्वभावप्रभवा च निद्रा||५८||
निद्राविशेषानाह- तमोभवेत्यादि| तमोभवा इति तमोगुणोद्रेकभवा| मनःशरीरश्रमसम्भवा तु निद्रा मनःशरीरयोः श्रमेण क्रियोपरमे सति नेन्द्रियाणि न च मनो विषयेषु प्रवर्तन्ते, ततश्च निद्रा भवति; श्रमश्चायमनतिवृद्धो भूरिवाताप्रकोपकोऽभिप्रेतः, तेन श्रमस्य वातजनकत्वेन निद्रानाशः किमिति न भवतीति न वाच्यं, दृष्टं चैतद्यच्छ्रान्तानां निद्रा भवतीति| आगन्तुकी रिष्टभूता| व्याध्यनुवर्तिनी सन्निपातज्वरादिकार्या| रात्रिस्वभावात् प्रभवतीति रात्रिस्वभावप्रभवा| दिवा प्रभवन्ती तु निद्रा तमःप्रभृतिभ्य एव भवति||५८||
Adhikarana 20 (59) · Śloka 59
रात्रिस्वभावप्रभवा मता या तां भूतधात्रीं प्रवदन्ति तज्ज्ञाः|
तमोभवामाहुरघस्य मूलं शेषाः पुनर्व्याधिषु निर्दिशन्ति||५९||
आसु निद्रासु प्रशस्तां निन्दितां चाह- रात्रीत्यादि| भूतानि प्राणिनो दधाति पुष्णातीति भूतधात्री, धात्रीव धात्री| अघस्य पापस्य मूलमिति कारणं; तमोगृहीतो हि सदा निद्रात्मकत्वेनानुष्ठेयं सद्वृत्तं न करोति, ततश्चाधर्मोत्पादः| व्याधिष्विति शारीरव्याधिषु; श्लेष्मादयो व्याधय एव, तेषु च भूता निद्रा व्याधिरूपैव| आगन्तुकी चासाध्यव्याधिभवा च स्वयमप्यसाध्यभूता व्याधिरूपा, तेन तां च व्याधिषु मध्ये निर्दिशन्ति; किंवा व्याधिष्वाधारेषु निर्दिशन्तीत्यर्थो ज्ञेयः||५९||
Adhikarana 21 (60-62) · Śloka 62
तत्र श्लोकाः- निन्दिताः पुरुषास्तेषां यौ विशेषेण निन्दितौ|
निन्दिते कारणं दोषास्तयोर्निन्दितभेषजम्||६०||
येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा|
अतिनिद्रायानिद्राय भेषजं यद्भवा च सा||६१||
या या यथाप्रभावा च निद्रा तत् सर्वमत्रिजः|
अष्टौनिन्दितसङ्ख्याते व्याजहार पुनर्वसुः||६२||
सङ्ग्रहे अनिद्रायेति अविद्यमाननिद्राय पुरुषाय| यथाप्रभावा चेति भूतधात्रीत्यादिवर्णितप्रभावा||६०-६२||
Adhikarana puShpikA · Śloka 21
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौनिन्दितीयो नामैकविंशतितमोऽध्यायः||२१||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्केऽष्टौनिन्दितीयो नामैकविंशोऽध्यायः||२१||