Adhikarana 1 (1-2) · Śloka 2
अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
योजनापेक्षिणीयं शरीरमभिधाय लङ्घनादिविषयत्वाद्योजनाया लङ्घनादीन्येव विषयतः स्वरूपतश्च वक्तुं लङ्घनबृंहणीयोऽभिधीयते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः ||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
योजनापेक्षिणीयं शरीरमभिधाय लङ्घनादिविषयत्वाद्योजनाया लङ्घनादीन्येव विषयतः स्वरूपतश्च वक्तुं लङ्घनबृंहणीयोऽभिधीयते||१-२||
Adhikarana 2 (3-8) · Śloka 8
तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान्| षडग्निवेशप्रमुखानुक्तवान् परिचोदयन्||३|| लङ्घनं बृंहणं काले रूक्षणं स्नेहनं तथा| स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक्||४|| तमुक्तवन्तमात्रेयमग्निवेश उवाच ह||५|| भगवँल्लङ्घनं किंस्विल्लङ्घनीयाश्च कीदृशाः| बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम्||६|| के स्नेहाः स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः| स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो!||७|| लङ्घनप्रभृतीनां च षण्णामेषां समासतः| कृताकृतातिवृत्तानां लक्षणं वक्तुमर्हसि||८||
🔊 Audio coming soon
परिचोदयन्निति ज्ञानार्थं प्रेरयन्| कृतेत्यादौ कृतं सम्यक्कृतम्||३-८||
Adhikarana 3 (9-17) · Śloka 17
तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्| यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम्||९|| बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम्| रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम्||१०|| स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम् | स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम्||११|| स्तम्भनं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम्| लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम्||१२|| कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्| गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम्||१३|| प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते| रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम्||१४|| प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम्| द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्| प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम्||१५|| उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्| द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते||१६|| शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम्| यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भनं स्मृतम्||१७||
🔊 Audio coming soon
रौक्ष्यमित्यादौ रौक्ष्यमेव प्रधानं बोद्धव्यं, खरत्ववैशद्ये तु तदनुगते| विष्यन्दः विलयनम्| स्वेदकारकं घर्मकारकम्| स्तम्भयतीति निरुणद्धि| चलमिति किञ्चिद्गतिमत्| गतिमन्तमिति प्रव्यक्तगतिमन्तम्| एतच्चातिसारशोणितस्रुतिविषदाहवेदनादिषु बोद्धव्यं न केवलवाते, गतिमन्तं प्रति स्तम्भकस्य वर्धकत्वात्| गुर्वित्यादौ बहलं घनम्| मन्दमिति चिरकारि| स्थूलं संहतावयवं लड्डुकपिष्टकादि| विरूक्षणद्रव्यकथने यद्गुणमेव लङ्घनद्रव्यमुक्तं तद्गुणमेव विरूक्षणं यद्यप्युक्तं, तथाऽपि रूक्षगुणस्यात्र प्राधान्यं, लङ्घने तु लघुगुणप्राधान्यं ज्ञेयं; तथा लङ्घनमद्रव्येणोपवासेनापि क्रियते, विरूक्षणं तु द्रव्यकार्यतयैव प्राधान्यादुक्तं; तेन लङ्घनविरूक्षणयोर्नैकता| यत्तु वक्ष्यति- “कृतातिकृतलिङ्गं यल्लङ्घिते तद्विरूक्षिते” इति, तत् प्रायोवादात्| विरूक्षणस्य हि मुख्यः स्नेहाभावः साध्यः, लङ्घनस्य तु गौरवाभाव इति स्फुट एव भेदः प्रतिभाति| स्वेदनगुणकथने स्निग्धं रूक्षमिति स्निग्धं वा रूक्षं वेत्यर्थः| एवं सरस्थिरावपि विकल्पेन ज्ञेयौ| पिपासेति पिपासानिग्रहः| मारुतो यद्यपि सोमसम्बन्धात्तथालङ्घनं न भवति, तथाऽपि स्वरूपेण लङ्घनमेव| पचन्तमग्निं प्रतिपक्षक्षपणेन बलदानेन च यत् पाचयति तत् पाचनं; तच्च वाय्वग्निगुणभूयिष्ठम्||९-१७||
Adhikarana 4 (18) · Śloka 18
चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्||१८||
🔊 Audio coming soon
चतुष्प्रकारा संशुद्धिरिति अनुवासनं वर्जयित्वा, तस्य बृंहणत्वात्||१८||
Adhikarana 5 (19-24) · Śloka 24
प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः| बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः||१९|| येषां मध्यबला रोगाः कफपित्तसमुत्थिताः| वम्यतीसारहृद्रोगविसूच्यलसकज्वराः||२०|| विबन्धगौरवोद्गारहृल्लासारोचकादयः| पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत्||२१|| एत एव यथोद्दिष्टा येषामल्पबला गदाः| पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत्||२२|| रोगाञ्जयेन्मध्यबलान् व्यायामातपमारुतैः| बलिनां किं पुनर्येषां रोगाणामवरं बलम्||२३|| त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहिणाम्| शिशिरे लङ्घनं शस्तमपि वातविकारिणाम्||२४||
🔊 Audio coming soon
उक्तस्य दशप्रकारलङ्घनस्य भिन्नं विषयमाह- प्रभूतेत्यादि| आदाविति वचनमन्ते च्छर्द्यादीनां निरामाणां संशमनीयत्वात्| रोगानिति लङ्घनीयरोगान्| बलिनामिति पदं बलवतामेव व्यायामादिसेवाभिधानार्थम्| मध्यबलानिति मध्यबलानपि; एतेनाञ्जसा अल्पबला एव गदा व्यायामादिविषया इति भावः| बृंहिणां बृंहणयुक्तानाम्| लङ्घनं शस्तमिति दशविधमपि| शिशिर इति शिशिरगुणयुक्ते हेमन्ते शिशिरे च; अत्र च लङ्घनं बलवत्त्वात् प्राणिनां कार्यम्||१९-२४||
Adhikarana 6 (25-28) · Śloka 28
अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्| मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते||२५|| क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः| स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः||२६|| शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये| तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः||२७|| स्नानमुत्सादनं स्वप्नो मधुराः स्नेहबस्तयः| शर्कराक्षीरसर्पींषि सर्वेषां विद्धि बृंहणम्||२८||
🔊 Audio coming soon
अदिग्धविद्धमिति विषाक्तशस्त्राविद्धम्| सात्म्ये देशे चरन्तीति सात्म्यचारिणः| लघव इति संस्कारेण लघवः; किंवा क्रव्यादानां ये लघवः श्येनादयः, तन्मांसरसा इत्यर्थः||२५-२८||
Adhikarana 7 (29-31) · Śloka 31
कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः| खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम्||२९|| अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये| ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः||३०|| स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः| स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम्||३१||
🔊 Audio coming soon
मध्वादीनां च सेवनमिति सम्बन्धः| खलिः सर्षपखलिः; पिण्याकं तिलखलिः, किंवा पिण्याकशाकम्| प्रभृतिग्रहणादाढ्यवातप्रमेहादयो ग्राह्यः||२९-३१||
Adhikarana 8 (32-33) · Śloka 33
द्रवं तन्वसरं यावच्छीतीकरणमौषधम्| स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत्||३२|| पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः| विषस्वेदातियोगार्ताः स्तम्भनीया निदर्शिताः||३३||
🔊 Audio coming soon
तनु अबहलम्| सरति गच्छतीति सरं, न सरमसरं, स्थिरमित्यर्थः||३२-३३||
Adhikarana 9 (34-37) · Śloka 37
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे| हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते||३४|| स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये| कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि||३५|| पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च| क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः||३६|| मनसः सम्भ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि| देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत्||३७||
🔊 Audio coming soon
क्षुत्पिपासयोरसहः पीडाकरत्वेनोदयः क्षुत्पिपासासहोदयः, न तु क्षुत्पिपासयोर्युगपदुदयः | अत एवोक्तं सुश्रुते- “सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्” (सु. उ. तं. ३९) इत्यादि| अन्तरात्मनीति मनसि| मनसः सम्भ्रमो भ्रान्तिरेव| ऊर्ध्वे काये वात ऊर्ध्ववातः ||३४-३७||
Adhikarana 10 (38) · Śloka 39
बलं पुष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम्| लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते||३८|| कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि रूक्षिते |३९|
🔊 Audio coming soon
कार्श्यदोषविवर्जनमिति कार्श्ये ये दोषाः शीतोष्णासहत्वादयः, तेषां वर्जनम्||३८||-
Adhikarana 11 (39-40) · Śloka 40
स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः||३९|| श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसङ्ग्रहः| हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम्||४०||
🔊 Audio coming soon
बले लब्धे इति बलवान् यदा पुरुषो भवति| यथोक्तैरिति “पित्तक्षाराग्निदग्धा ये” इत्याद्यभिधेयैः| उद्वेग ऊर्ध्ववातवेगः; किंवा भैषज्यानभिलाषः||३९-४०||
Adhikarana 12 (41-42) · Śloka 42
लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः| तदौषधानां धातूनामशमो वृद्धिरेव च||४१|| इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः| साध्यानां साधने सिद्धा मात्राकालानुरोधिनः||४२||
🔊 Audio coming soon
तदौषधानामिति लङ्घनादिसाध्यानाम्| वृद्धिरेव चेति स्तोकमात्रकृतलङ्घनादिक्रियया दोषक्षोभमात्रस्य कृतत्वात्| धातूनामिति दोषाणां, “दोषा अपि धातुशब्दं लभन्ते” इति वचनात्||४१-४२||
Adhikarana 13 (43) · Śloka 43
भवति चात्र- दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्युपक्रमाः| षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा||४३||
🔊 Audio coming soon
सम्प्रत्युक्तलङ्घनाद्युपक्रमाणां विकारापेक्षया संसर्गमाह- दोषाणामित्यादि| दोषाणां यस्मात् संसर्गा बहवः, तस्मात्तत्साधनार्थमुपक्रमा अपि सङ्कीर्यन्ते मिश्रतां यान्ति| यथा- क्वचिल्लङ्घनस्वेदने, क्वचिद्बृंहणस्नेहने , एवमादि| षट्त्वं तु नातिवर्तन्त इति संसृष्टा अपि लङ्घनादिस्वरूपं न जहति; न लङ्घनादयः परस्परयुक्ता मधुसर्पिःसंयोगवत् प्रकृतिगुणानपेक्षिकार्यान्तरमारभन्त इति भावः| अत्रैव दृष्टान्तमाह- त्रित्वमित्यादि| अयं च दृष्टान्तः संसर्गिसङ्ख्याऽपरित्यागमात्रकः||४३||
Adhikarana 14 (44) · Śloka 44
तत्र श्लोकाः- इत्यस्मिँलङ्घनाध्याये व्याख्याताः षडुपक्रमाः| यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते||४४||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 22
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः||२२||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः||२२||