Adhikarana 1 (1-2) · Śloka 2
अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दिता भवन्ति; तद्यथा- अतिदीर्घश्च, अतिह्रस्वश्च, अतिलोमा च, अलोमा च , अतिकृष्णश्च, अतिगौरश्च, अतिस्थूलश्च, अतिकृशश्चेति||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा भवन्ति| अतिस्थूलस्य तावदायुषो ह्रासो जवोपरोधः कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः| तदतिस्थौल्यमतिसम्पूरणाद्गुरुमधुरशीतस्निग्धोपयोगादव्यायामादव्यवायाद्दिवास्वप्नाद्धर्षनित्यत्वाद- चिन्तनाद्बीजस्वभावाच्चोपजायते| तस्य ह्यतिमात्रमेदस्विनो मेद एवोपचीयते न तथेतरे धातवः, तस्मादस्यायुषो ह्रासः; शैथिल्यात् सौकुमार्याद्गुरुत्वाच्च मेदसो जवोपरोधः , शुक्राबहुत्वान्मेदसाऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता, दौर्बल्यमसमत्वाद्धातूनां, दौर्गन्ध्यं मेदोदोषान्मेदसः स्वभावात् स्वेदनत्वाच्च, मेदसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्बहुत्वाद्गुरुत्वाद्व्यायामासहत्वाच्च स्वेदाबाधः, तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति||४||
🔊 Audio coming soon
Adhikarana 4 (5-9) · Śloka 10
भवन्ति चात्र- मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः| चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि||५|| तस्मात् स शीघ्रं जरयत्याहारं चातिकाङ्क्षति| विकारांश्चाश्नुते घोरान् कांश्चित्कालव्यतिक्रमात्||६|| एतावुपद्रवकरौ विशेषादग्निमारुतौ| एतौ हि दहतः स्थूलं वनदावो वनं यथा||७|| मेदस्यतीव संवृद्धे सहसैवानिलादयः| विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम्||८|| मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः| अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते||९|| इति मेदस्विनो दोषा हेतवो रूपमेव च| निर्दिष्टं, ....|१०|
🔊 Audio coming soon
Adhikarana 5 (10-15) · Śloka 15
... वक्ष्यते वाच्यमतिकार्श्ये त्वतः परम्||१०|| सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम्| क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः||११|| रूक्षस्योद्वर्तनं स्नानस्याभ्यासः प्रकृतिर्जरा| विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम्||१२|| व्यायाममतिसौहित्यं क्षुत्पिपासामयौषधम् | कृशो न सहते तद्वदतिशीतोष्णमैथुनम्||१३|| प्लीहा कासः क्षयः श्वासो गुल्मोऽर्शांस्युदराणि च| कृशं प्रायोऽभिधावन्ति रोगाश्च ग्रहणीगताः||१४|| शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः| त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः||१५||
🔊 Audio coming soon
Adhikarana 6 (16-17) · Śloka 17
सततं व्याधितावेतावतिस्थूलकृशौ नरौ| सततं चोपचर्यौ हि कर्शनैर्बृंहणैरपि||१६|| स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हि तौ| यद्युभौ व्याधिरागच्छेत् स्थूलमेवातिपीडयेत्||१७||
🔊 Audio coming soon
Adhikarana 7 (18-19) · Śloka 19
सममांसप्रमाणस्तु समसंहननो नरः| दृढेन्द्रियो विकाराणां न बलेनाभिभूयते||१८|| क्षुत्पिपासातपसहः शीतव्यायामसंसहः| समपक्ता समजरः सममांसचयो मतः||१९||
🔊 Audio coming soon
Adhikarana 8 (20) · Śloka 20
गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति| कृशानां बृंहणार्थं च लघु सन्तर्पणं च यत्||२०||
🔊 Audio coming soon
Adhikarana 9 (21-28) · Śloka 28
वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च| रूक्षोष्णा बस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च||२१|| गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा| तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च||२२|| विडङ्गं नागरं क्षारः काललोहरजो मधु| यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते||२३|| बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः| शिलाजतुप्रयोगश्च साग्निमन्थरसः परः||२४|| प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः| जूर्णाह्वाः कोद्रवा मुद्गाः कुलत्थाश्चक्रमुद्गकाः ||२५|| आढकीनां च बीजानि पटोलामलकैः सह| भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्||२६|| अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्| अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्||२७|| प्रजागरं व्यवायं च व्यायामं चिन्तनानि च| स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्||२८||
🔊 Audio coming soon
Adhikarana 10 (29-34) · Śloka 34
स्वप्नो हर्षः सुखा शय्या मनसो निर्वृतिः शमः| चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम्||२९|| नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः| संस्कृतानि च मांसानि दधि सर्पिः पयांसि च||३०|| इक्षवः शालयो माषा गोधूमा गुडवैकृतम्| बस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा||३१|| स्निग्धमुद्वर्तनं स्नानं गन्धमाल्यनिषेवणम्| शुक्लं वासो यथाकालं दोषाणामवसेचनम्||३२|| रसायनानां वृष्याणां योगानामुपसेवनम्| हत्वाऽतिकार्श्यमाधत्ते नृणामुपचयं परम्||३३|| अचिन्तनाच्च कार्याणां ध्रुवं सन्तर्पणेन च| स्वप्नप्रसङ्गाच्च नरो वराह इव पुष्यति||३४||
🔊 Audio coming soon
Adhikarana 11 (35) · Śloka 35
यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः | विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः||३५||
🔊 Audio coming soon
Adhikarana 12 (36-38) · Śloka 38
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्| वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च||३६|| अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता| सुखायुषी पराकुर्यात् कालरात्रिरिवापरा||३७|| सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा| पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता||३८||
🔊 Audio coming soon
Adhikarana 13 (39-43) · Śloka 43
गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्शिताः| अजीर्णिनः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः||३९|| तृष्णातीसारशूलार्ताः श्वासिनो हिक्किनः कृशाः| पतिताभिहतोन्मत्ताः क्लान्ता यानप्रजागरैः||४०|| क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये| सर्व एते दिवास्वप्नं सेवेरन् सार्वकालिकम्||४१|| धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते| श्लेष्मा पुष्णाति चाङ्गानि स्थैर्यं भवति चायुषः||४२|| ग्रीष्मे त्वादानरूक्षाणां वर्धमाने च मारुते| रात्रीणां चातिसङ्क्षेपाद्दिवास्वप्नः प्रशस्यते||४३||
🔊 Audio coming soon
Adhikarana 14 (44-49) · Śloka 49
ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः| श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते||४४|| मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः| दूषीविषार्ताश्च दिवा न शयीरन् कदाचन||४५|| हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता| अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च||४६|| शोफारोचकहृल्लासपीनसार्धावभेदकाः| कोठारुःपिडकाः कण्डूस्तन्द्रा कासो गलामयाः||४७|| स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः| इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्||४८|| भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्| तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः||४९||
🔊 Audio coming soon
Adhikarana 15 (50) · Śloka 50
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा| अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्||५०||
🔊 Audio coming soon
Adhikarana 16 (51) · Śloka 51
देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः| स्वप्नाहारसमुत्थे च स्थौल्यकार्श्ये विशेषतः||५१||
🔊 Audio coming soon
Adhikarana 17 (52-54) · Śloka 54
अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः| शाल्यन्नं सदधि क्षीरं स्नेहो मद्यं मनःसुखम्||५२|| मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च| चक्षुषोस्तर्पणं लेपः शिरसो वदनस्य च||५३|| स्वास्तीर्णं शयनं वेश्म सुखं कालस्तथोचितः| आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः||५४||
🔊 Audio coming soon
Adhikarana 18 (55-57) · Śloka 57
कायस्य शिरसश्चैव विरेकश्छर्दनं भयम्| चिन्ता क्रोधस्तथा धूमो व्यायामो रक्तमोक्षणम्||५५|| उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः| निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम्||५६|| एत एव च विज्ञेया निद्रानाशस्य हेतवः| कार्यं कालो विकारश्च प्रकृतिर्वायुरेव च||५७||
🔊 Audio coming soon
Adhikarana 19 (58) · Śloka 58
तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसम्भवा च| आगन्तुकी व्याध्यनुवर्तिनी च रात्रिस्वभावप्रभवा च निद्रा||५८||
🔊 Audio coming soon
Adhikarana 20 (59) · Śloka 59
रात्रिस्वभावप्रभवा मता या तां भूतधात्रीं प्रवदन्ति तज्ज्ञाः| तमोभवामाहुरघस्य मूलं शेषाः पुनर्व्याधिषु निर्दिशन्ति||५९||
🔊 Audio coming soon
Adhikarana 21 (60-62) · Śloka 62
तत्र श्लोकाः- निन्दिताः पुरुषास्तेषां यौ विशेषेण निन्दितौ| निन्दिते कारणं दोषास्तयोर्निन्दितभेषजम्||६०|| येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा| अतिनिद्रायानिद्राय भेषजं यद्भवा च सा||६१|| या या यथाप्रभावा च निद्रा तत् सर्वमत्रिजः| अष्टौनिन्दितसङ्ख्याते व्याजहार पुनर्वसुः||६२||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 21
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौनिन्दितीयो नामैकविंशतितमोऽध्यायः||२१||
🔊 Audio coming soon