Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. dīrghañjīvitīyō'dhyāyaḥ

Adhikarana 1 (1) · Śloka 1

अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१||

🔊 Audio coming soon

गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे| त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः||१|| सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः| बुद्धिदर्पणसङ्क्रान्तं जगदध्यक्षमीक्ष्यते||२|| ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसुहुताशवेशचरकप्रभृतिभ्यो नमो नमः||३|| पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः| मनोवाक्कायदोषाणां हर्त्रेऽहिपतये नमः||४|| नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी| क्रियते चक्रदत्तेन टीकाऽऽयुर्वेददीपिका||५|| सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वो नालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति| व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् ||६|| इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः, तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिकोऽत्रभवानग्निवेशोऽल्पायुर्मेधसामपि सुखोपलम्भार्थं नातिसङ्क्षेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमारब्धवान्| तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधायकतया श्लोकस्थानमेवाग्रे वक्तव्यममन्यत| वक्ष्यति हि- “श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम्| चतुष्काणां महार्थानां स्थानेऽस्मिन् सङ्ग्रहः कृतः” (सू. अ.३०) इति| तत्र च सूत्रस्थानेऽप्युत्पन्नरोगग्रहणे त्वरया रोगोपघातिभेषजाभिधायिचतुष्केऽभिधातव्ये निखिलतन्त्रबीजभूतहेतुलिङ्गौषधाद्यर्थस्य तथा तन्त्रप्रवृत्त्यङ्गप्रयोजनवदायुर्वेदागमादेरभिधायकं दीर्घञ्जीवितीयमध्यायमभिधातुमारब्धवान्| श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसम्बन्धोपदर्शकं श्रोतृबुद्धिसमाधानाय व्याख्यानप्रतिज्ञापरमष्टपदमष्टसङ्ख्याया मङ्गलत्वेनादौ सूत्रं निवेशितवान्- अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्याम इति| यतो निरभिधेये कचटतपादौ साभिधेये वा निष्प्रयोजने काकदन्तपरीक्षादौ प्रेक्षावतां प्रवृत्तिर्नोपलभ्यते, तेनादावभिधेयप्रयोजने अभिधातव्ये| यदुक्तं- “अभिधेयफलज्ञानविरहस्तिमितोद्यमाः| श्रोतुमल्पमपि ग्रन्थं नाद्रियन्ते हि साधवः” इति| अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाहार्थं चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः सम्बन्धः, प्रयोजनशास्त्रयोश्च साध्यसाधनभावलक्षणोऽभिधातव्यः| तत्रेहाभिधेयं हिताहितादिरूपेणायुः| वक्ष्यति हि- “हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्| मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते” (सू. अ.३०) इति| अत्र च सर्वाभिधेयावरोधो यथास्थानमेव व्याकरणीयः| प्रयोजनं च धातुसाम्यम्| यथोक्तं- “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू. अ.१) इति| सम्बन्धोऽप्यायुःशास्त्रयोरभिधानाभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन सममस्य शास्त्रस्य हेयोपादेयज्ञानावान्तरव्यापारस्य साध्यसाधनभावलक्षणः| तदेतत्सर्वं दीर्घञ्जीवितीयमित्यनेन पदेन दीर्घञ्जीवितशब्दमधिकृत्य कृतप्रयोजनाभिधायक ‘धातुसाम्यक्रिया चोक्ता’ इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम्| ननु, प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं, यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं, विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात्| अथ मन्यसे, आप्तप्रयोजनाभिधानमेतदतोऽत्र यथार्थत्वं; ननु भो कथमयं प्रयोजनाभिधायी आप्तः? तदभिहितशास्त्रस्य यथार्थत्वादिति चेत्, हन्त न यावच्छास्त्रस्य प्रयोजनवत्त्वावधारणं न तावच्छास्त्रप्रवृत्तिः, न यावच्छास्त्रप्रवृत्तिर्न तावच्छास्त्रस्य यथार्थत्वावधारणं, न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते, आप्तत्वानवधृतौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते ; अथ मन्यसे, मा भवतु प्रयोजनवत्तावधारणम्, अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति, कृष्यादावपि हि प्रवृत्तिरर्थसन्देहादेव; नहि तत्र कृषीवलानां फललाभावधारणं विद्यते, अन्तराऽवग्रहादेरपि सम्भाव्यमानत्वात्; नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासन्देहोपदर्शकमस्तु, तथाऽप्यलं प्रयोजनाभिधानेन| नैवं, नहि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाऽभिप्रेतप्रयोजनविशेषविषयः सन्देहः; अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति, अतो ये तावदनवधृताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमाकारविशेषसन्देहोत्पादनार्थं प्रयोजनविशेषाभिधानं; ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानम्| प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव प्रवृत्तिरुपपन्ना, न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे| तदेवं यदुच्यते- ‘प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं, तथा चानवस्था’ इति, तन्निरस्तं भवति| अथेत्यादिसूत्रेऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्वल्पायुर्मेधसामर्थानवधारणस्य, तथाऽभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनमिव प्रस्थितानाम्| ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोतॄणामविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम्| अथशब्दस्य मङ्गलत्वे स्मृतिः- “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा| कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ” इति| शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः| यथा- “अथ शब्दानुशासनम्” (व्या. म. भा. अ. १ पा. १ आ. १), “अथातो धर्मं व्याख्यास्यामः” (वै . अ.१आ.१सू.१) इत्यादौ| अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव, अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च ; तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम्| यथा च गुर्वाज्ञालाभानन्तरमेतत्तन्त्रकरणं तथा “अथ मैत्रीपरः पुण्यम्” (सू. अ. १) इत्यादौ स्फुटमेव| ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति| यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वमथशब्दस्य वर्ण्यते तन्न मां धिनोति, नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते; श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं, न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति| अतः शब्दोऽधिकारप्रागवध्युपदर्शकः, अत ऊर्ध्वं यदुपदेक्ष्यामो दीर्घञ्जीवितीयं तदिति; यदि वा हेतौ, येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्सम्बन्धत्वमिव , अतो हेतोर्दीर्घञ्जीवितीयं व्याख्यास्याम इति योजनीयम्| दीर्घञ्जीवितीयमित्यत्र दीर्घञ्जीवितशब्दोऽस्मिन्नस्तीति मत्वर्थे “अध्यायानुवाकयोर्लुक् च” (पा. अ. ५/२/६०) इति छप्रत्ययः| यदि वा दीर्घञ्जीवितशब्दमधिकृत्य कृतो ग्रन्थोऽध्यायरूपस्तन्त्ररूपो वा, इत्यस्यां विवक्षायाम् “अधिकृत्य कृते ग्रन्थे” (पा. अ. ४/३/८७) इत्यधिकारात् “शिशुक्रन्दयमसभ” (पा. अ. ४/३/८८) इत्यादिना छः| एवमन्यत्राप्येवञ्जातीये मन्तव्यम्| अत्र च सत्यपि शब्दान्तरे दीर्घञ्जीवितशब्देनैव सञ्ज्ञा कृता, दीर्घञ्जीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च| ‘दीर्घञ्जीवितशब्दोऽस्मिन्नस्ति’ इति, दीर्घञ्जीवितशब्दमधिकृत्य कृतो वा, इत्यनया व्युत्पत्त्या दीर्घञ्जीवितीयशब्दस्तन्त्रेऽध्याये च प्रवर्तनीयः| तेन दीर्घञ्जीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति, पुनर्दीर्घञ्जीवितीयमिति पदमावर्त्याध्यायपदसमभिव्याहृतमध्यायव्याख्यानप्रतिज्ञां लम्भयति| दृष्टं चावृत्य पदस्य योजनं, यथा- अपामार्गतण्डुलीये “गौरवे शिरसः शूले पीनसे” (सू. अ. २) इत्यादौ ‘शिरस’ इति पदं ‘गौरवे’ इत्यनेन युज्यते, आवृत्य ‘शूले’ इत्यनेन च| अतश्च यदुच्यते- अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति, तन्निरस्तं भवति| यदि वा, अध्यायप्रतिज्ञैवास्तु, तयैव तन्त्रप्रतिज्ञाऽप्यर्थलब्धैव, न ह्यध्यायस्तन्त्रव्यतिरिक्तः, तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव; यथा- अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति| अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते, तां तु प्रत्यध्यायमेव करिष्यति| अध्यायमिति अधिपूर्वादिङः “इङश्च” (पा. अ. २/४/४७) इति कर्मणि घञा साध्यम्| तेन अधीयते इत्यध्यायः| न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः, यतो योगरूढेयमध्यायसञ्ज्ञाऽध्यायस्य प्रकरणसमूहविशेष एव दीर्घञ्जीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते| वक्ष्यति हि- “अधिकृत्येयमध्यायनामसञ्ज्ञा प्रतिष्ठिता” (सू. अ. ३०) इति; नामसञ्ज्ञा योगरूढसञ्ज्ञेत्यर्थः| यदि वा करणाधिकरणयोरर्थयोः “अध्यायन्यायोद्यावसंहाराश्च” (पा. अ. ३/३/११२) इतिसूत्रेण निपातनादध्यायपदसिद्धिः| अधीयतेऽस्मिन्ननेन वाऽर्थविशेष इत्यध्यायः| अतिप्रसक्तिनिषेधस्तूक्तन्यायः| व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेर्लृटा साध्यम्| चक्षिङो हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन “स्वरितञित” (पा. अ. १/३/७२) इत्यादिनाऽऽत्मनेपदं स्यादिति| ‘वि’ इति विशेषे, विशेषाश्च व्याससमासादयः| आङयं क्रियायोगे, ये तु मर्यादायामभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषामभिप्रायं न विद्मः| यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात्; यथा- “आसमुद्रक्षितीशानां” (र. वं. अ. १) “आपाटलीपुत्राद्वृष्टो देव” इत्यादौ, इहापि च तथा| क्रियायोगविरहे “उपसर्गाः क्रियायोगे” (पा. अ. १/४/५९) इति नियमादाङ उपसर्गत्वं न स्यात्; ततश्चानुपसर्गेणाङा व्यवधानाद् वेरुपसर्गस्य प्रयोगो न स्यात्| येनाव्यवहितः सजातीयव्यवहितो वा धातोरुपसर्गो भवति| व्याङोरुभयोरप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात्; तस्मात् क्रियायोगित्वमेवाङो न्याय्यम्| अथ, अतः, दीर्घं, जीवितीयम्, अध्यायं, वि, आ, ख्यास्याम इत्यष्टपदत्वम्||१||

Adhikarana 2 (2) · Śloka 2

इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयमायुर्वेदं व्याख्यास्यति; यतो न तावद्भेषजादीनामशेषविशेषः प्रत्यक्षज्ञेयः, सर्वपदार्थानां विशेषाणां प्रत्यक्षाविषयत्वात्; अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव , यत एकमेव मधु स्वरूपेण जीवयति, मारयति चोष्णं समघृतं च, कफप्रकृतेर्हितमहितं वातप्रकृतेः, अनूपे सात्म्यमसात्म्यं मरौ, शीते सेव्यमसेव्यं ग्रीष्मे, हितमवृद्धे वृद्धे चाहितम्, अल्पं गुणकरमाबाधकरमत्युपयुक्तम्, आमतां गतमुदरे उपक्रमविरोधित्वादतिविभ्रमकरं, काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजौपघाताय भवति, इत्येवमादि तत्तद्युक्तं तत्तच्छतशः करोति; अत एवैकस्यैव मधुनो रूपं यदाऽनेन प्रकारेण दुरधिगमं, तदाऽत्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य; अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोराप्तात् प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर्गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह- इति ह स्माह भगवानात्रेय इति| अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः, हशब्दोऽवधारणे; यथा- “न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति” इति, अत्र न हेति नैवेत्यर्थः| अत्र ‘स्माह’ इति स्मशब्दप्रयोगेण भूतमात्र एव लिडर्थे “लट् स्मे” (पा.अ.३पा.२सू.११८) इति लट्; न भूतानद्यतनपरोक्षे, आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात्| यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः| भगं पूजितं ज्ञानं, तद्वान्; यथोक्तम्- “उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्| वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति”; यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः ; यथोक्तम्- “ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः| ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनाः” इति| अत्रेरपत्यमात्रेयः; अनेन विशुद्धवंशत्वं दर्शितं भवति| अत्रान्ये वर्णयन्ति- “चतुर्विधं सूत्रं भवति- गुरुसूत्रं, शिष्यसूत्रं, प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं चेति”| तत्र गुरुसूत्रं यथा- “नैतद्बुद्धिमता द्रष्टव्यमग्निवेश” (सू.अ.४) इत्यादि, प्रतिसंस्कर्तृसूत्रं यथा- “तमुवाच भगवानात्रेयः” (सू.अ.४) इत्यादि, शिष्यसूत्रं यथा- “नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते” (सू.अ.४) इत्यादि, एकीयसूत्रं यथा- “कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः” (शा.अ.६) इत्यादि| तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव, शिष्यस्याग्निवेशस्य व्याख्यानेऽनधिकारत्वात्| द्वितीयं च सूत्रं प्रतिसंस्कर्तुः| इतिशब्देन च प्रकारवाचिना ‘दीर्घञ्जीवितीयं व्याख्यास्याम’ इति परामृश्यते; तेनाहस्मेति भूतानद्यतनपरोक्ष एव भवति, प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात्| अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादावपि लिड्विधिरुपपन्नो भवति| सुश्रुते च “यथोवाच भगवान् धन्वन्तरिः” (सु.सू.अ.१) इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता “लिड्विधिरुपपादितः’ इति| अत्र ब्रूमः- यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं; तन्न, नहि जात्या गुरुत्वमस्ति, यतः स एवात्रेयः स्वगुरुमपेक्ष्य शिष्यः, अग्निवेशादीनपेक्ष्य गुरुः; एवमग्निवेशोऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ् शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः| यत्पुनर्द्वितीयसूत्रस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिरुपपाद्यते, तत्र विचार्यं- किमिदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा? यद्येकवाक्यतापन्नं तदा सुश्रुते- तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयं, तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नमुवाचेति पदं न भिन्नकर्तृकं भवितुमर्हति, तथाच कुतो लिड्विधिः; अथ नैकतापन्नं, तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसङ्गतिः| किञ्च जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धोऽपि नास्ति, तत् कथं “नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिरधिगम्योवाच” इत्यादौ लिड्विधिः| अनेन न्यायेन चरकेऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति, तस्माच्चरकेऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता, क्वचित् किञ्चिदर्थं स्तोतुं निन्दितुं वाऽऽख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति; प्रतिसंस्कर्ता त्वयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव| लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः, अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात्; तथा च हरिवंशे धन्योपाख्याने “मामुवाच” इति, तथा “अहमुवाच” इति च न स्यात्; यथा “स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम्| किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो” (हरिवंशे, विष्णुपर्व २अ.११०) इति, तथा “स्वयम्भुवचनात् सोऽहं वेदान् वै समुपस्थितः| उवाच चैनांश्चतुरः” इति| यदपि ‘इति ह स्माह’ इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते; तन्न, येन दीर्घञ्जीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति| भवति तु भावयितुं यथा पुरा व्याख्यातं, तस्मात्तदेव न्याय्यमिति| अग्निवेशस्य व्याख्यास्याम इति बहुवचनमेकस्मिन्नप्यस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात्; साधु हि वदन्ति वक्तारो- ‘वयं करिष्यामः’ इति| भगवानात्रेय इत्यत्र त्वेकवचननिर्देशः कृतः, भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात्||२||

Adhikarana 3 (3) · Śloka 3

दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्| इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||

🔊 Audio coming soon

ननु यथाऽग्निवेशस्यायुर्वेदस्य दुरधिगमत्वेन प्रत्यक्षतो वाऽन्वयव्यतिरेकाद्वा ज्ञानं न सम्भाव्यते, एवमात्रेयस्यापि कथमायुर्वेदज्ञानं स्यात्, यन्मूलमग्निवेशस्यायुर्वेदज्ञानं समीचीनमुच्यते, इत्याशङ्क्यायुर्वेदस्याविप्लुतागमत्वं दर्शयन्नाह- दीर्घं जीवितमित्यादि| जीवितं शरीरेन्द्रियसत्त्वात्मसंयोगः| तच्च दीर्घमिति दीर्घकालसम्बन्धि, कालशब्दोऽप्यत्र लुप्तनिर्दिष्टो द्रष्टव्यः| यत्तन्त्रशैली चेयमाचार्यस्य यत आदिमध्यान्तलोपान् करोति, ये लुप्ता अपि गम्यन्त एव| यथा “ग्राम्यानूपौदकरसा” (सू.अ.२१) इत्यत्र मांसशब्दो लुप्तः, तथा ‘दग्धविद्ध’ इत्यत्र विषशब्दो लुप्त इत्यादि| अन्विच्छन्निति अनुरूपं दीर्घमिच्छन्| भरद्वाज इति गोत्रनाम| ‘उग्रतपा’ इति विशेषणेन भरद्वाजस्य मानुषस्यापीन्द्राभिगमनशक्तिः, तथा शरण्यत्वप्रतीतिशक्तिश्चोपदर्श्यते; अचिन्त्यो हि तपसां प्रभावो येनागस्त्यो महोदधिमपि चुलुकनिपेयमकरोत्| नच वाच्यमुग्रतपस्त्वेनैव किमित्ययमायुर्वेदमपि न बुध्यते, यतस्तपःप्रभावोऽपि प्रतिनियतविषयत्वान्न सर्वत्र शक्तिमान्, शक्तिश्चास्य कार्योन्नेया; तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणकार्यादर्शनान्न तत्तपस्तत्र समर्थमित्यवधारयामः; किंवा गुरुपूर्वक्रमेणैवायुर्वेदज्ञानं फलतीतीन्द्रमुपागमद्भरद्वाजः| अथ कथं ब्रह्मादिष्वायुर्वेदपूर्वगुरुषु विद्यमानेष्विन्द्रमेवायमुपागमत्? युक्तं च प्रधानगुरोरेव श्रवणं, यतः शिष्यपरम्परासञ्चारिणी विद्याऽसम्यग्ग्रहणादिदोषात् पात्रपरम्परासञ्चार्यमाणमधुवत् क्षीणाऽपि सम्भाव्येत; अत आह- बुद्ध्वा शरण्यममरेश्वरमिति| यस्मादयमेवेन्द्रोऽल्पायुः, स एव भयत्रस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मादयः, तेन तमेवोपागमत्| अमरेश्वर इत्यनेन चेन्द्रस्य रक्षणोपयुक्ततां दर्शयति; राजा हि प्रजारक्षणे प्रयत्नातिशयवान् भवति| ननु दीर्घं जीवितमन्विच्छन्नित्यत्र दीर्घस्याव्यवस्थितत्वेन कियत्कालं तद्दीर्घमभिप्रेतं? तत्र युगानुरूपं वर्षशतं, यदुक्तं- “वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले” (वि.अ.३) इति| एतच्च कलिकालादौ परमायुःकालस्य यथा यथा क्षयस्तथाऽऽयुषः क्षयः| यदाह- “संवत्सरशते पूर्णे याति संवत्सरः क्षयम्| देहिनामायुषः काले यत्र यन्मानमिष्यते” (वि.अ.३) इति| एतदनुसारेण पूर्वयुगेष्वायुःप्रकर्षः| यदाह भगवान् व्यासः- “पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः| कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्” इति| कर्मानुरूपं चायुर्नियतं वा, अनियतं वा भवति| तत्र बलवत्कर्मारब्धं नियतं, यथाऽयमस्मिन् काले म्रियत एव परम्; अबलवत्कर्मारब्धं त्वनियतं, तद्यदा दृष्टं विषादि मारकं प्रत्ययमासादयति तदा सञ्जातबलं मारयति, यदा न प्राप्नोति दृष्टं मारकं कारणं तदा युगानुरूपायुःप्राप्तौ युगप्रभावजर्जरीकृतशरीरं मारयति| अत्र दृष्टान्तश्चाचार्येण दर्शितः “यथा ह्यक्षः स्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छति, स एवाक्षोऽतिभाराधिष्ठित” इत्यारभ्य यावत् “अन्तरा व्यसनमापद्यते; तथाऽनियतायुषोऽन्तरा प्राणा अपराधान्निरुध्यन्ते” (वि.अ.३) इत्यन्तेन| यदा त्वनियतायुषो रसायनमाचरन्ति तदा तत्प्रभावाद्युगप्रभावनियतायुर्लङ्घनं भवति| यदाह- “तानि यावन्ति भक्षयेत्| जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः” (चि.अ.१) इत्यादि| न तु बलवत्कर्मनियतस्यायुषो लङ्घनमस्ति, यदाह- “कर्म किञ्चित् क्वचित्काले विपाके नियतं महत्| किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते” (वि.अ.३) इति| हन्त यद्येवं तदा सर्वत्र कर्मैव कारणं मरणे जीविते वा तथा व्याधौ व्याध्यपगमे वा, तत् किमनेनायुर्वेदेन कर्मजनितफलानुविधायिना; तथाहि- यत्तावदुच्यते- नियतं कर्म, तत्र तावदायुर्वेदव्यापारो नास्ति, येन नियतेनैव कर्मणा मिलितमपि दृष्टं तत्र विफलीक्रियते; यच्चाबलवत्कर्मारब्धत्वेनानियतमायुरुच्यते तदपि न श्रद्धाधीनं, येनादृष्टशक्तिपराभवेन दृष्टस्य कार्यकारितां दृष्ट्वाऽपि विवादाध्यासिते विषयेऽदृष्टमेव कारणमवधारयामः, दृष्टं त्वदृष्टाकृष्टमेव तत्र भवति| नैवम्, एवं सति सर्वानुष्ठानस्योपरमप्रसङ्गः; किञ्च केवलकर्मवादिनो दृष्टमपवदतोऽदृष्टोत्पत्तिरेव न प्राप्नोति, अदृष्टं हि दृष्टाग्निष्टोमादिजन्यं, दृष्टं च कारणं कर्मवादिनोऽभिमतम्; अथादृष्टकारणं दृष्टमिच्छन्ति हन्त तर्हि तेनैव न्यायेन दहनादीनामपि किमिति शीतापहत्वस्फोटादिजनकत्वादि न स्वीक्रियते; किञ्च केवलकर्मवादिनो दृष्टे कारणे व्याप्तिग्रहणाभावाददृष्टानुमानमेव न स्यात्, तस्माद्दृष्टमदृष्टं च कारणम्| तत्र क्वचिददृष्टं दृष्टेन बाध्यते, क्वचिच्च दृष्टमदृष्टेनेति; तेन यत्र पुरुषे बलवन्नियतमरणकारणमदृष्टं , तत्र जीवितमरणयोरकिञ्चित्करोऽयमायुर्वेदः, किन्तु तत्रापि नियतमरणकालादर्वाग्दुःखजनकव्याधिप्रशमने व्याप्रियत एव यदि व्याधिरपि तस्य नियतकर्मजन्यो न स्यात्; यत्तु कर्मानियतविपाकं भवति तत्प्रति सर्वथा प्रयोजनवदायुर्वेदोपादानम्| यत्तु युगनियतमायुः, तन्नातिबलवता कर्मणा नियमितं; येन रसायनप्रयोगात्तद्बाधनं दृष्टत्वादनुमन्यन्ते, न तु स्वस्थहितातुरहितचिकित्साभ्याम्| अयं च वादः शास्त्रकारेण स्वयमेव प्रपञ्चेन निर्लोचनीय इति नेह प्रतन्यते||३||

Adhikarana 4 (4-5) · Śloka 5

ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः| जग्राह निखिलेनादावश्विनौ तु पुनस्ततः||४|| अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम्| ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्||५||

🔊 Audio coming soon

कथमिन्द्र एव शरण्यो न ब्रह्मादय इत्याह- ब्रह्मणा हीत्यादि| हि यस्मादर्थे| प्रजापतिर्दक्षनामा| प्रोक्तमिति प्रकर्षेणोक्तं, प्रकर्षश्चानवशेषेणाभिधानम्| यथेत्यनेन तथाशब्दस्य नित्यसम्बन्धस्याकर्षणाद्यादृशं प्रोक्तं तादृशमेव जग्राह| निखिलेनेति अनवशेषेण| अश्विनौ तु ततः प्रजापतेर्जगृहतुः| अत्रापि यथाप्रोक्तं निखिलेन चेतिपदं तथैव योजनीयम्| एवमश्विभ्यां भगवाञ्छक्रः प्रतिपेदे हेत्यत्रापि यथाप्रोक्तमित्यादि योजनीयम्| हशब्दस्त्ववधारणे, तेन प्रतिपेदे एव परं शक्रो नतु कस्मैचिदायुर्वेदं दत्तवानित्यर्थः| अनेन च ग्रन्थेनान्यूनाधिकायुर्वेदागमोपदर्शकेन यथा ब्रह्मण आयुर्वेदज्ञानं तथेन्द्रस्यापीति दर्शितम्| तेन ब्रह्मणो वाऽऽयुर्वेदः श्रूयते इन्द्राद्वेति न किञ्चिदर्थतो विशेषः| इन्द्रे त्विदमधिकं- यदयमसङ्क्रामितविद्यत्वेन शिष्यार्थी| यदुक्तं- “यो हि गुरुभ्यः सम्यगादाय विद्यां न प्रयच्छत्यन्तेवासिभ्यः स खल्वृणी गुरुजनस्य महदेनो विन्दति” इति, अतोऽकृतशिष्यत्वेन शिष्यार्थित्वविशेषयोगाद्ब्रह्मादिभ्यो विशेषेणेन्द्र एव शरण्य इति| ब्रह्मणस्तु परमगुरोर्विदितसकलवेदस्य सर्वत्रातिरोहितमतेरायुर्वेदज्ञानं स्वतःसिद्धमेवेति न गुर्वन्तरापेक्षा| एतच्च ब्रह्मादिगुरुपरम्परोपदर्शनमायुर्वेदस्याविप्लुतागमोपदर्शनार्थं तथा महापुरुषसेवितत्वेनोपादेयत्वोपदर्शनार्थं च| वचनं हि- “तत्र यन्मन्येत महद्यशस्विसुधीरपुरुषासेवितम्” इत्यादि यावत् “तदभिप्रपद्येत शास्त्रम्” (वि.अ.८) इति| ऋषिप्रोक्त इति वक्ष्यमाणवृत्तान्तेन ऋषिप्रोक्तः| तस्मादिति यस्मादिन्द्र एव विशेषेण शरण्यः||४-५||

Adhikarana 5 (6-7) · Śloka 7

विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्| तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ||६|| तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः| समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे||७||

🔊 Audio coming soon

अथ कथमयमृषिप्रोक्त इत्यायुर्वेदस्य मर्त्यलोकागमे हेतुमाह- विघ्नभूता इत्यादि| विघ्नभूता इत्यन्तरायस्वरूपाः| रुजन्तीति रोगाः| प्रादुर्भूता इत्याविर्भूताः| अयं च रोगप्रादुर्भावः कृतयुगान्ते बोद्धव्यः| वक्ष्यति हि- “भ्रश्यति तु कृतयुगे” (वि.अ.३) इत्यादिना रोगप्रादुर्भावं जनपदोद्ध्वंसनीये| प्रादुर्भावश्च पूर्वसिद्धस्यैवाविर्भावः| तेन रोगसन्ताननित्यताऽप्यविरुद्धा भवत्यर्थेदशमहामूलीये (सू.अ.३०) वक्तव्या| शीर्यत इति शरीरं, तदस्यास्तीति शरीरी| एतेन शरीरं स्वत एव शीर्यमाणं रोगसम्बन्धात्तु नितरां शीर्यत इति सूचयति| केषां विघ्नभूता इत्याह- तपोपवासाध्ययनेत्यादि| रोगग्रस्ता हि शरीरिणस्तपःप्रभृतीनि कर्तुं न पारयन्ति विकृतत्वात्; तथा, आयुषश्च मारकत्वेन केचिद्गदा विरोधका भवन्ति| अत्र तपश्चान्द्रायणादि, उपवासः क्रोधादिपरित्यागः सत्याद्युपादानं च, वचनं हि- “उपावृत्तस्य पापेभ्यः सहवासो गुणे हि यः| उपवासः स विज्ञेयो न शरीरस्य शोषणम्” इति; अध्ययनं वेदाध्ययनं, ब्रह्मणे मोक्षाय चर्यं ब्रह्मचर्यमुपस्थनिग्रहादि, व्रतमीप्सितकामो नियमः, आयुरुक्तम्| तपोपवासेति प्रयोगः पूर्वत्रासिद्धविधेरनित्यत्वेन तपःसकारस्थानिभूतयलोपस्य सिद्धत्वाज्ज्ञेयः, यथा “नोपधायाः” (पा.अ.६पा.४सू.७) इति| भूतेषु प्राणिषु| अनुक्रोशमिति अनुकम्पां, कस्मात्? अनेकार्थत्वाद्धातूनाम्| पुरस्कृत्य आदृत्य| एतेन प्राणिरोगहरणमेव प्रधानमायुर्वेदोपगमने महर्षीणां फलम्; आयुःप्रकर्षस्त्वनुषङ्गसिद्धस्तेषां महात्मनामिति भावः| नरेष्विति वक्तव्ये यदयं भूतेष्विति सामान्यशब्दं करोति, तेन न समानजीवप्रयुक्तेयमनुकम्पा , किन्तु प्राणिमात्रप्रयुक्तेति समदर्शितामृषीणां दर्शयति| महान्तश्च ते ऋषयश्चेति महर्षयः; अनेन चतुर्विधा अपि ऋषयः- ऋषिका, ऋषिपुत्रा, देवर्षयो, महर्षयश्च गृह्यन्ते; महर्ष्यनुगामित्वादृषिकादीनामपि ग्रहणम्| पुण्यं पावनं कर्म येषां ते पुण्यकर्माणः| पर्शुकाभिस्तृतं पार्श्वं, तेन पार्श्वमिव (ततं) पार्श्वम्| शुभे इति पदं कर्तव्यसमाध्यनुगुणोपदर्शनार्थं, यतः शुभे हि देशे समाधयः प्रसीदन्ति||६-७||

Adhikarana 6 (8-14) · Śloka 15

अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः| आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः||८|| अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ| पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः||९|| विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्| गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ||१०|| साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः| बडिशः शरलोमा च काप्यकात्यायनावुभौ||११|| काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ| शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च||१२|| शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः| वैखानसा वालखिल्यास्तथा चान्ये महर्षयः||१३|| ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च| तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः||१४|| सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्|१५|

🔊 Audio coming soon

के ते महर्षय इत्याह- अङ्गिरा इत्यादि| बह्वृषीणामत्र कीर्तनं ग्रन्थादौ पापक्षयहेतुत्वेन, तथाऽऽयुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थं चेति| एषु च मध्ये केचिद्यायावराः, केचिच्छालीनाः, केचिदयोनिजाः, एवम्प्रकाराश्च सर्वे मिलिता बोद्धव्याः| भिक्षुरित्यात्रेयविशेषणं, वक्ष्यति हि- “तन्नेति भिक्षुरात्रेयः” (सू.अ.२५) इति| वैखानसा इति कर्मविशेषप्रयुक्ता सञ्ज्ञा| वालखिल्यास्तु स्वल्पप्रमाणाः केचिदृषयः| निधय इव निधयोऽक्षयस्थानत्वेन| दमो दान्तत्वम्| इमामिति अग्रे वक्ष्यमाणाम्||८-१४||-

Adhikarana 7 (15-17) · Śloka 18

धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्||१५|| रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च| प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्||१६|| कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः| अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा||१७|| स वक्ष्यति शमोपायं यथावदमरप्रभुः|१८|

🔊 Audio coming soon

धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः, अर्थः सुवर्णादिः, काम्यत इति कामो वनितापरिष्वङ्गादिः, मोक्षः संसारविमोक्षः| आरोग्यं रोगाभावाद्धातुसाम्यम्| मूलं कारणम्| उत्तममिति प्रधानं; तेनारोग्यं चतुर्वर्गे प्रधानं कारणं, रोगगृहीतस्य क्वचिदपि पुरुषार्थेऽसमर्थत्वादित्युक्तम्| तस्यापहर्तार इति आरोग्यस्यापहर्तारः; इदमेव च रोगाणामारोग्यापहरणं यदनर्थलाभः; न पुनरुत्पन्नो रोगः पश्चादारोग्यमपहरति, भावाभावयोः परस्पराभावात्मकत्वात्| श्रेयसो जीवितस्य चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चार्थेदशमहामूलीये (सू.अ.३०) वक्ष्यमाणं, तस्य जीवितस्यापहर्तार इति योजनीयम्; अश्रेयोजीवितमहितत्वेन दुःखहेतुतया चानुपादेयमिति कृत्वा तदपहरणमिह नोक्तम्| अत्र सुखहितजीवितोपघातो धर्माद्युपघातेनैव लब्धः; तेन वयं पश्यामः- श्रेयःशब्देन सामान्येनाभ्युदयवाचिना धर्मादयोऽभिधीयन्ते, जीवितशब्देन च जीवितमात्रं, यतो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपाध्युपादेयं; वचनं हि- “आचकमे च ब्रह्मण इयमात्मा आशीः- आयुष्मान् भूयासम्” इति| यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, तत्र दुःखस्यात्यन्तजिहासितस्यान्यथाहातुमशक्यत्वात् प्रियमपि जीवितं त्यक्तुमिच्छति न स्वरूपेण| अन्तराय इति धर्मादिसाधने बोद्धव्यः| अयमिति रोगप्रादुर्भावरूपः| तेषामिति रोगाणाम्| शरणमिति रक्षितारम्| शक्तत्वाच्छक्र उच्यते| ध्यानं समाधिविशेषः, तदुपलब्धिसाधनत्वाच्चक्षुरिव ध्यानचक्षुः, ‘तेन स वक्ष्यति शमोपायं यथावदमरप्रभुः’ इति ध्यानचक्षुषा ददृशुरिति योजना||१५-१७||-

Adhikarana 8 (18-23) · Śloka 23

कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम्||१८|| अहमर्थे नियुज्येयमत्रेति प्रथमं वचः| भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः||१९|| स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् | ददर्श बलहन्तारं दीप्यमानमिवानलम्||२०|| सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्| प्रोवाच विनयाद्धीमानृषीणां वाक्यमुत्तमम्||२१|| व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः| तद्ब्रूहि मे शमोपायं यथावदमरप्रभो||२२|| तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः| पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये||२३||

🔊 Audio coming soon

अथैतेषु मध्ये भरद्वाजः कथमिन्द्रमुपागमदित्याह- क इत्यादि| शचीपतिमित्यनेन शचीसम्भोगव्यासक्तमप्यहमुपासितुं क्षम इति भरद्वाजो दर्शयति| अर्थे प्रयोजने| नियुज्येयं व्यापारयेयम्| अत्रेति प्रकृतप्रयोजन एव, अत्रेतिशब्दो यस्मादर्थे| यथा- सुभिक्षमित्यागतः; यस्मात् सुभिक्षं तस्मादागत इत्यर्थः| नियोजित इति चौरादिको णिच्, न हेतौ| अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषेणार्थित्वान्न प्रेरणमिति दर्शितं भवति| प्रोवाचेति सम्यगुवाच; न तु प्रशब्दः प्रपञ्चार्थः, पदैरल्पैरित्युक्तत्वात्| कस्मात् पदैरल्पैरुवाचेत्याह- मतिं बुद्ध्वा विपुलामिति; यस्माद्विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात् पदैरल्पैरुवाचेति भावः; मतिश्च बहुविषयत्वेनोपचाराद्विपुलेत्युच्यते, सा च मतिः शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवतीह विपुला बोद्धव्या| अत्र चेन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायमग्रत एव बुद्ध्वाऽऽयुर्वेद उपदिष्टः; तेन भरद्वाजस्येन्द्रपृच्छादीह न दर्शितं, किंवा भूतमपीन्द्रपृच्छादि ग्रन्थविस्तरभयादिह न लिखितम्||१८-२३||

Adhikarana 9 (24) · Śloka 24

हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्| त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः||२४||

🔊 Audio coming soon

यादृशोऽसावल्पपदैरुपदिष्ट आयुर्वेदस्तमाह- हेत्वित्यादि| हेतुलिङ्गौषधज्ञानमिति हेत्वादीनि ज्ञायन्तेऽनेनेति हेतुलिङ्गौषधज्ञानं, यावच्चायुर्वेदवाच्यं तावद्धेत्वाद्यन्तर्भूतमित्यर्थः| हेतुग्रहणेन सन्निकृष्टविप्रकृष्टव्याधिहेतुग्रहणं; लिङ्गग्रहणेन च व्याधेरारोग्यस्य च कृत्स्नं लिङ्गमुच्यते, तेन व्याध्यारोग्ये अपि लिङ्गशब्दवाच्ये, यतस्ताभ्यामपि हि तल्लिङ्गं लिङ्ग्यत एव; वक्ष्यति हि विषमारम्भमूलानां ज्वर एको हि लक्षणम्| विषमारम्भमूलाद्यैर्ज्वर एको निगद्यते (नि.अ.८) इत्यादि; औषधग्रहणेन च सर्वपथ्यावरोधः| शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति| स्वस्थातुरयोः परमुत्कृष्टमयनं मार्ग इति स्वस्थातुरपरायणम्| किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायुर्वेदादुतानन्य इत्याह- त्रिसूत्रमित्यादि| पितामहोऽपि यं त्रिसूत्रं बुबुधे तमिन्द्रः प्रोवाच| त्रीणि हेत्वादीनि सूत्र्यन्ते यस्मिन् येन वा तत्त्रिसूत्रम्| तत्र सूचनात् सूत्रणाच्चार्थसन्ततेः सूत्रम्| एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथैव हेतुलिङ्गौषधज्ञानमिन्द्रः प्रोवाचेत्यविप्लुतमागमं दर्शयति| बुबुध इति न कृतवान्| अत एवोक्तं- शाश्वतं; नित्यमित्यर्थः| तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम्||२४||

Adhikarana 10 (25-26) · Śloka 26

सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः| यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः||२५|| तेनायुरमितं लेभे भरद्वाजः सुखान्वितम्| ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन्||२६||

🔊 Audio coming soon

अथोद्दिष्टमायुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह- सोऽनन्तेत्यादि| अविद्यमानावन्तपारौ यस्यासावनन्तपारः, अत्र पारशब्देन गोबलीवर्दन्यायेनादिरुच्यते; पारशब्दो ह्युभयोरपि नदीकूलयोर्विवक्षावशाद्वर्तते; किंवा अनन्तो मोक्षः, पारमुत्कृष्टं फलं यस्यायुर्वेदस्यासावनन्तपारः| वक्ष्यति हि- चिकित्सा तु नैष्ठिकी या विनोपधाम् (शा.अ.१) इति| अत्र नैष्ठिकी मोक्षसाधनहेतुः | त्रयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः; स्कन्धश्च स्थूलावयवः प्रविभागो वा| तत्रैवायुर्वेदग्रहणे मनो यस्य स तन्मनाः| मननात् ज्ञानप्रकर्षशालित्वान्मुनिः | एतेन यस्मादयं महामतिस्तन्मनाः मुनिश्च तेनानन्तपारमप्यायुर्वेदं हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदचिरादेव प्रतिपन्नवानित्याशयः| अचिरादिति अचिरेण| अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा चेन्द्रो हेतुलिङ्गौषधज्ञानं प्रोवाच तथैव भरद्वाजोऽपि त्रिस्कन्धं तं बुबुधे इत्यनेनायुर्वेदस्याविप्लुतागमत्वमुपदर्श्यते; तेन त्रिसूत्रत्रिस्कन्धयोर्न पुनरुक्तिः| तेनेति इन्द्राद्गृहीतेनायुर्वेदेन| अमितमिति अमितमिवामितम्, अतिदीर्घत्वात्| आयुःशब्दश्चायुःकारणे रसायनज्ञाने बोद्धव्यः; येनोत्तरकालं हि रसायनोपयोगादयं भरद्वाजोऽमितमायुरवाप्स्यति (न ऋषिभ्य आयुर्वेदकथनात् पूर्वं रसायनमाचरति स्म); किंवा सर्वप्राण्युपकारार्थाधीतायुर्वेदजनितधर्मवशात्तत्कालमेवामितमायुर्लेभे भरद्वाज इति बोद्धव्यम्| तच्चेति श्रुतं; यदा तमिति पाठः, तदा तमायुर्वेदम्| अनवशेषयन्निति कार्त्स्न्येनेत्यर्थः| आयुर्वेदमधीत्यानन्तरमेवायं तमृषिभ्यो दत्तवान्||२५-२६||

Adhikarana 11 (27-29) · Śloka 29

ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्| दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः||२७|| महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा| सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च||२८|| समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः| लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ||२९||

🔊 Audio coming soon

दीर्घमायुश्चिकीर्षन्त इति प्राणिनामात्मनश्च| ज्ञानार्थं ज्ञानरूपं वा चक्षुर्ज्ञानचक्षुः, तेन ज्ञानचक्षुषा| गृहीतेन तेनायुर्वेदेन किं ददृशुरित्याह- सामान्यं चेत्यादि| एषां चोत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति; तेनैतत्तत्रैव व्याकरणीयम्| तदिति सामान्यादि| तन्त्रोक्तं विधिमिति अपथ्यपरिहारपथ्योपादानरूपम्| शर्म सुखम्| परमिति दुःखानाक्रान्तम्| अनित्वरमिति अगत्वरम्||२७-२९||

Adhikarana 12 (30-31) · Śloka 31

अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः| शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया||३०|| अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः| हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः||३१||

🔊 Audio coming soon

अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरनाम्नोऽग्निवेशादिगुरुतां दर्शयति| अत्र केचिद्भरद्वाजात्रेययोरैक्यं मन्यन्ते, तन्न; भरद्वाजसञ्ज्ञया आत्रेयस्य क्वचिदपि तन्त्रप्रदेशेऽकीर्तनात्; हारीते चात्रेयादिगुरुतया भरद्वाज उक्तः- “शक्रादहमधीतवान्” इत्यादिना “मत्तः पुनरसङ्ख्येयास्त्रिसूत्रं त्रिप्रयोजनम्| अत्रात्रेयादिपर्यन्ता विदुः सप्त महर्षयः|| आत्रेयाद्धारीत-ऋषिः”- इत्यन्तेन| वाग्भटेन तु यदुक्तं “ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्| सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान् मुनीन्” (वा.सू.अ.१) इत्यनेनात्रेयस्येन्द्रशिष्यत्वं, तदायुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाणेन्द्रशिष्यतायोगात् समर्थनीयम्| तत्र हीन्द्रेण पुनर्महर्षीणामायुर्वेद उपदिष्ट इति वक्तव्यम्| मैत्रीपरो मैत्रीप्रधानः; मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः||३०-३१||

Adhikarana 13 (32-40) · Śloka 40

बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः| तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्||३२|| अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च| श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः||३३|| श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्| यथावत्सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे||३४|| सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः| साधु भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्||३५|| तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः| सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्||३६|| अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्| नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः||३७|| शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः| निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः||३८|| अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः| बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमा दया||३९|| तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः| भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे||४०||

🔊 Audio coming soon

बुद्धेर्विशेष उत्कर्षः| यत इति बुद्धेर्विशेषात्| स्वं स्वं तन्त्रमिति स्वस्वनामाङ्कितं भेलतन्त्रं, जतूकर्णतन्त्रमित्यादिकम्| कृतानि चेत्यत्र ‘तन्त्राणि’ इति शेषः| पुण्यमायुर्वेदतन्त्रकरणलक्षणं कर्म येषामग्निवेशादीनां ते पुण्यकर्माणः, तेषां पुण्यकर्मणाम्| सर्वभूतहितैषिण इत्यग्निवेशादिविशेषणं; किंवा ऋषिसङ्घविशेषणम्| साधुशब्दोऽजहल्लिङ्गतया नपुंसकलिङ्ग एव; यथा- वेदाः प्रमाणमिति| केचित्तु साध्विति विशेषणस्य नपुंसकलिङ्गतानुरोधादनुक्रोशमित्यपि नपुंसकलिङ्गं पठन्ति| अहो इति साध्विति प्रशंसायाम्| स्निग्ध इति अनुत्कटत्वेनाह्लादकत्वेन च| शिवो वायुर्ववावित्यादिना शुभलक्षणेन प्रकृततन्त्रकरणस्य देवैरप्यर्थतोऽनुमतत्वमुपदर्श्यते| ज्ञानदेवता इति ज्ञानाभिमानिन्यो देवताः| तेन ग्रन्थकरणात् पूर्वमेवाग्निवेशादीनां बुद्ध्यादयो व्यवस्थिताः, तन्त्रकरणोत्तरकालं त्वादरेण बुद्ध्यादिदेवतानुप्रवेश इति| सिद्धिः साध्यसाधनज्ञानम्| कीर्तिः कीर्तनं वक्तुं ज्ञानमित्यर्थः; नतु कीर्तिर्यशोरूपा, तस्या अज्ञानरूपत्वात्; ज्ञानदेवताश्चेहोच्यन्ते| भवाय स्थितये, रोगानुपहतजीवितायेति यावत्| प्रतिष्ठा जनोपादेयतयाऽवस्थानम्||३२-४०||

Adhikarana 14 (41) · Śloka 41

हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्| मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते||४१||

🔊 Audio coming soon

सम्प्रत्यायुर्वेदव्युत्पत्तिं कुर्वन्नायुर्वेदाभिधेयं दर्शयति- हिताहितमित्यादि| हितं चाहितं च हिताहितं, तथा सुखयुक्तत्वात् सुखं, दुःखयुक्तत्वाद्दुःखं; एतच्च चतुष्प्रकारमप्यायुरर्थेदशमहामूलीये “तत्र शारीरमानसाभ्याम्” इत्यादिना ग्रन्थेन “अहितमतो विपर्ययेण” (सू.अ.३०) इत्यन्तेन वक्ष्यति| तस्य हिताहितमिति आयुषः पथ्यापथ्यम्| मानं चेत्यायुष एव, तच्च प्रमाणं मासिकद्विमासिकत्वादिभिर्विकृतिलक्षणैरिन्द्रियस्थाने तथा प्रकृतिलक्षणैः “इदमायुष्मतां कुमाराणां लक्षणं भवति” (शा.अ.८) इत्यादिना शारीरे वक्तव्यम्| तच्चेति आयुः स्वरूपेण “शरीरेन्द्रियसत्त्वात्मसंयोग” इत्यादिना वक्ष्यमाणम्| तेन हिताहितमित्यादिना ‘आयुर्वेदयतीत्यायुर्वेद’ इत्युक्तं भवति| विदधातुश्चेह ज्ञानार्थ एवाभिप्रेतः| यद्वक्ष्यत्यर्थे दशमहामूलीये- “तदायुर्वेदयतीत्यायुर्वेदः” (सू.अ.३०) इति| लाभादयस्त्वर्था विदेरिह नोक्ताः, तेषां साक्षादायुर्वेदाजन्यत्वादिति भावः||४१||

Adhikarana 15 (42) · Śloka 42

शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्| नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते||४२||

🔊 Audio coming soon

आयुर्वेदपदे पूर्वपदवाच्यमायुराह- शरीरेत्यादि| शरीरं पञ्चमहाभूतविकारात्मकमात्मनो भोगायतनम्, इन्द्रियाणि चक्षुरादीनि, सत्त्वं मनः, आत्मा ज्ञानप्रतिसन्धाता, एषां सम्यगदृष्टयन्त्रितो योगः संयोगः| यद्यपि शरीरग्रहणेनैव इन्द्रियाण्यपि लभ्यन्ते, तथाऽपि प्राधान्यात्तानि पुनः पृथगुक्तानि| अयं च संयोगः संयोगिनः शरीरस्य क्षणिकत्वेन यद्यपि क्षणिकस्तथाऽपि सन्तानव्यवस्थितोऽयमेकतयोच्यते| तस्यायुषः पर्यायानाह- धारीत्यादि| धारयति शरीरं पूतितां गन्तुं न ददातीति धारि| जीवयति प्राणान् धारयतीति जीवितम्| नित्यं शरीरस्य क्षणिकत्वेन गच्छतीति नित्यगः| अनुबध्नात्यायुरपरापरशरीरादिसंयोगरूपतयेत्यनुबन्धः| पर्यायैरायुरुच्यत इति एकार्थाभिधायिभिः शब्दैरुच्यते| यद्यपि च नित्यगानुबन्धशब्दाभ्यां न क्वचिदप्यायुरभिधीयते, तथाऽपि नित्यगत्वानुबन्धत्वधर्मख्यापनार्थमेवैतत्सञ्ज्ञाद्वयं बोद्धव्यं, धारिसञ्ज्ञा त्वर्थेदशमहामूलीये भविष्यति| ननु, उत्तरत्र “चैतन्यानुवृत्तिरायुः” (सू.अ.३०) इत्यायुर्लक्षणं करिष्यति, इह तु शरीरेन्द्रियसत्त्वात्मसंयोग इति किमर्थमुक्तम्? ब्रूमः- शरीरेन्द्रियसत्त्वात्मसंयोगजन्या चैतन्यानुवृत्तिर्यथोक्तसंयोगाव्यभिचारित्वेन व्यक्तत्वेन चार्थेदशमहामूलीये लक्षणत्वेनोक्ता; शरीरादिसंयोगरूपमेव त्वायुः परमार्थतः; एवम्भूतसंयोगाभावे मरणमायुरुपरमरूपं भवति, मृतशरीरे तु चेतसोऽभावादायूरूपसंयोगाभावः||४२||

Adhikarana 16 (43) · Śloka 43

तस्यायुषः पुण्यतमो वेदो वेदविदां मतः| वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम् ||४३||

🔊 Audio coming soon

तस्येत्यादि| वेदयतीति वेदः| वेदविदां मत इति वेदविद्भिः पूजितः| अथ कस्मादायुर्वेदलक्षणो वेदः पुण्यतमो वेदविदां च पूजित इत्याह- वक्ष्यत इत्यादि| यदिति यस्मात्; एवमुक्तं भवति- यदन्ये ऋग्वेदादयः प्रायः परलोकहितमेवार्थं वदन्ति तेन पुण्याः, पुण्यतमश्चायमायुर्वेदो यद् यस्मान्मनुष्याणामुभयोरपि लोकयोर्यद्धितमायुरारोग्यसाधनं धर्मसाधनं च तद्वक्ष्यते, तेनातिशयेन पुण्यतमस्तथा वेदविदां च पूजित इति| केचित् ‘वक्ष्यते यः’ इति पठन्ति, तत्रापि हेतुगर्भमिति व्याख्येयम्| जीवितप्रदातृत्वादायुर्वेदस्य पुण्यतमत्वं बोद्धव्यं, यतश्चतुर्वर्गसाधनीभूतजीवितप्रदमेव सर्वोत्तमं भवति| उच्यते च- “न हि जीवितदानाद्धि दानमन्यद्विशिष्यते” (चि.अ.१) इति||४३||

Adhikarana 17 (44) · Śloka 44

सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम्| ह्रासहेतुर्विशेषश्च, प्रवृत्तिरुभयस्य तु||४४||

🔊 Audio coming soon

सम्प्रत्यायुर्वेदाभिधेयतया सूत्रिते सामान्यादौ सामान्यस्य प्रथमसूत्रितत्वात्तथा सामान्यज्ञानमूलत्वाच्चायुर्वेदप्रतिपाद्यस्य हेत्वादेः सामान्यमेवाग्रे निर्दिशति- सर्वदेत्यादि| सर्वदा सर्वस्मिन् काले नित्यगे चावस्थिके च| सर्वभावानामित्यत्र सर्वशब्दः कृत्स्नवाची; भवन्ति सत्तामनुभवन्तीति भावा द्रव्यगुणकर्माणीत्यर्थः, नतु भवन्त्युत्पद्यन्त इति भावाः; तथा सति पृथिव्यादिपरमाणूनां नित्यानां सामान्यस्य पार्थिवद्व्यणुकादिवृद्धं कार्यमसङ्गृहीतं स्यात्| सामान्यं च “सामान्यमेकत्वकरं” इत्यादिना वक्ष्यमाणलक्षणम्| वृद्धिः आधिक्यं, तत्कारणं वृद्धिकारणम्| एतच्च सामान्यं सामान्यवतो मांसद्रव्यादेर्वृद्धिकारणस्य लक्षणत्वेन वृद्धिकारणमित्युक्तम्| यतो न सामान्यं मांसत्वादिजातिरूपं वृद्धौ कारणं भवति, तथाहि सति सामान्यं मांसत्वरूपं यथा वर्धके भोज्यरूपे मांसेऽस्ति तथा शरीरधातुरूपे वर्धनीयेऽप्यस्ति, ततश्च नित्यं मांसत्वसम्बन्धादमांसादानामपि मांसेन वर्धितव्यं; तस्माद्वृद्धिकारणलक्षणत्वेन सामान्यं वृद्धिकारणमित्युक्तम्| अत एव वैशेषिकेऽप्युक्तं- “त्रयाणामकार्यत्वमकारणत्वं च” इति| अत्र त्रयाणामिति सामान्यविशेषसमवायानाम्| ये तु समानमेव सामान्यमिति कृत्वा द्रव्याद्येव सामान्यशब्देनाभिदधति, तेषां मते “सामान्यं च विशेषं च” (सू.अ.१) इत्यादिग्रन्थोक्तस्य सामान्यस्य न किञ्चिदनेनोक्तं स्यादित्यसम्बन्धार्थत्वं प्रकरणस्य स्यात्| एतच्च वृद्धिकारणत्वं सामान्यस्य न लक्षणं, किं तर्ह्यायुर्वेदोपयोगिना धर्मेण निर्देशः; लक्षणं तु “सामान्यमेकत्वकरम्” इति करिष्यति| एवं द्रव्यादावपि चोद्देशानन्तरं निर्देशं करिष्यति “खादीन्यात्मा” इत्यादिना, ततो लक्षणं “यत्राश्रिताः कर्मगुणा” इत्यादिना करिष्यति| सामान्यस्य च वृद्धिकारणत्वं ह्यसति विरोधिकारणे बोद्धव्यं, तेनामलकादिगतानामम्लत्वादीनां पित्तगताम्लत्वाद्यवर्धकत्वमामलकगतशिशिरत्वप्रभावविरोधित्वादुपपन्नम्| एवमन्यत्रापि त्रिदोषहरद्रव्ये बोद्धव्यम्| इह च सामान्यस्य वृद्धिकारणत्वमित्युच्यते, नतु सामान्यमेव वृद्धिकारणमित्युच्यते, तेनासमानादपि घृतान्मेधाया वह्नेश्च वृद्धिः प्रभावादेवोपपन्ना, यदुक्तं- “घृतमग्निमेधे करोति” इति; तथा चिन्तया वातवृद्धिः, तथा सङ्कल्पाद्वृष्यपादयुगलेपाच्च शुक्रवृद्धिरित्यादि प्रभावादुपपन्नम्| सामान्यं चेह वृद्धिकारणमित्युच्यमाने समानस्येति गम्यते, न हि शोणितं प्रति मांसत्वं सामान्यं, किन्तु व्यावृत्तबुद्धिजनकत्वाद्विशेष एव| अथ वैशेषिकोक्तानामन्त्यविशेषाणामिह शास्त्रे चिकित्सायामनुपयुक्तत्वात्तद्विशेषधर्मव्यावर्तकत्वयोगात् सामान्यविशेषानेव ह्रासकारणत्वेनाह- ह्रासहेतुरित्यादि| अत्रापि सर्वदा सर्वभावानामिति योजनीयम्| ह्रासः अपचयः| विशिष्यते व्यावर्तत इति विशेषः| सामान्यमेव गवेधुकत्वं मांसादीन् प्रति विशेषः; गवेधुको हि गवेधुकत्वेन गवेधुकव्यक्त्यन्तरापेक्षया समानः, मांसापेक्षया व्यावृत्तत्वाद्विशेषः; न हि मांसे गवेधुकत्वमस्ति| एवं मांसत्वं मांसान्तरापेक्षयाऽनुगतत्वात् सामान्यं, शोणिताद्यपेक्षया तु मांसानां व्यावृत्तत्वाद्विशेष एव| अत्रापि ह्रासहेतुत्वं ह्रासहेतुद्रव्यादिलक्षणत्वेन सामान्यवज्ज्ञेयं; तथा ह्रासहेतुत्वमप्यसति विरोधके सामान्योक्तन्यायेन ज्ञेयं; तेन मन्दकनिकुचादीनां वातादिविरुद्धानामपि स्निग्धत्वादीनां वाताद्यशमकत्वं द्रव्यस्यापथ्यत्वप्रभावादेव ज्ञेयम्| विशेषश्चेह विरुद्धविशेषोऽभिप्रेतः; ते(ये)नोत्तरत्र विरुद्धविशेषमेव ह्रासहेतुतया तत्र तत्रोपदेक्ष्यति; यथा- “वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः” (वा.सू.अ.१) इति, तथा “विपरीतगुणैर्देशमात्राकालोपपादितैः” (सू.अ.१) इत्यादि, तथा विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति (सू.अ.१) इत्यादि, तथा जतूकर्णेऽप्युक्तं- “समानैः सर्वभावानां वृद्धिर्हानिर्विपर्ययात्” इति| अविरुद्धविशेषस्तु यद्यपि ह्रासे वृद्धौ वाऽप्यकारणं, यथा- पृथिव्या अनुष्णाशीतस्पर्शो वातस्य शैत्यं न वर्धयति नापि ह्रासयति, तथाऽप्यग्निक्षीयमाणानां धातूनामसमानत्वेनाजनकत्वाद्ध्रासकारणमि(मे)व भवति; यतोऽसमानद्रव्योपयोगे सति ह्रासो विनश्वराणां भावानामापूरकहेत्वभावादुपलभ्यत एव; यथा- वहतो जलस्य पूर्वदेशसेतुनोत्तरदेशजलस्य ह्रासः| एवम्भूतं चाविरुद्धविशेषोपयोगेऽपि ह्रासं पश्यताऽऽचार्येण सामान्येनैवेहोक्तं ह्रासहेतुर्विशेष इति| चशब्दः सर्वभावानामिति समुच्चिनोति| अथ किमसम्बद्धावपि सामान्यविशेषौ वृद्धिह्रासकारणं नेत्याह - प्रवृत्तिरुभयस्य त्विति| ‘कारणं’ इति शेषः| उभयस्य सामान्यस्य विशेषस्य च, प्रवृत्तिः प्रवर्तनं शरीरेणाभिसम्बन्ध इति यावत्; एवम्भूता प्रवृत्तिः धातुसामान्यविशेषयोर्वृद्धिह्रासे कारणमित्यर्थः| तुशब्दोऽवधारणे; तेन नासम्बद्धौ सामान्यविशेषौ स्वकार्यं कुरुत इति दर्शयति| किंवा प्रवृत्तिः उचिता धातुप्रवृत्तिर्धातुसाम्यमिति यावत्, सा उभयस्य सामान्यस्य विशेषस्य च ‘कार्या’ इति शेषः| तेन केवलसमानोपयोगाद्धातुवृद्ध्या धातुवैषम्यं , केवलविशेषोपयोगाच्च धातुक्षयाद्धातुवैषम्यं, युगपत्समानविशिष्टद्रव्योपयोगात् प्रवृत्तिर्धातुसाम्यरूपा भवतीत्युक्तं भवति| तुशब्दः पूर्वपक्षादेकद्रव्योपयोगलक्षणाद्व्यावर्तयति||४४||

Adhikarana 18 (45) · Śloka 45

सामान्यमेकत्वकरं, विशेषस्तु पृथक्त्वकृत्| तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः||४५||

🔊 Audio coming soon

अथ किंलक्षणं तत् सामान्यं किंलक्षणो वा स विशेष इत्याह- सामान्यमित्यादि| एकत्वकरमिति एकत्वबुद्धिकरं, सामान्यं यदनेकासु भिन्नदेशकालासु गवादिव्यक्तिषु ‘अयं गौरयं गौः’ इत्यादिप्रकारा एकाकारा बुद्धिस्तत् सामान्यम्| न हि भिन्नासु व्यक्तिष्वभिन्नं सामान्यमेकरूपं विनाऽभ्रान्ता एकाकारा बुद्धिर्भवतीति भावः| यत्रापि च ‘अयं पाचकोऽयं पाचकः’ इति, तथा अयं ‘शुक्लोऽयं शुक्लः’ इत्यादौ क्रियागुणादिसामान्यादेकरूपा बुद्धिस्तत्रापि सामान्यमेकक्रियागुणादिगतमेकरूपाध्यवसाये हेतुः| न ह्येकस्मिन् पाचके या क्रिया सा पाचकान्तरेऽपि, किन्तर्हि तज्जातीया| अतः क्रियासामान्यं तत्राप्येकत्वाध्यवसाये कारणम्| विशेषलक्षणं- पृथक्त्वकृदिति|- व्यावृत्तबुद्धिकृत्; तेन यद्गोव्यक्त्यन्तरापेक्षयैकबुद्धिकर्तृतया गोत्वं सामान्यं, तदेव गोत्वमश्वाद्यपेक्षया व्यावृत्तबुद्धिकर्तृत्वादश्वादीन् प्रति विशेष इत्युक्तं भवति| तेन मांसत्वं मांसं प्रति मांसान्तरापेक्षया समानत्वाद्वृद्धिकारणं भवति, तदेव तु मांसत्वं वातं प्रति विशेषरूपतया ह्रासहेतुर्भवति; शोणितादीन् प्रति त्वविरोधिविशेषत्वेन न तथा ह्रासकारणं, गुणसामान्यात्तु वर्धकमपि मांसं शोणितादीनां भवति| कथमनेकासु व्यक्तिषु सामान्यमेकबुद्धिमव्यभिचारिणीं करोतीत्याह- तुल्यार्थता हीत्यादि| तुल्यार्थता एकसामान्यरूपार्थानुयोगिता| एतेन यस्माद्भिन्नासु व्यक्तिषु सामान्यमेकरूपसम्बन्धमस्ति , ततस्तदनेकार्थावलम्बा सत्यपि व्यक्तिभेदे एकबुद्धिर्युक्तेति भावः| विशेषस्तु विपर्यय इति अतुल्यार्थता हि विशेषत्वं , तेन गोगजयोरतुल्यगोत्वगजत्वरूपार्थयोः पृथग्बुद्धिर्युक्तैवेति दर्शितं भवति| अन्ये तु व्याख्यानयन्ति यत्- त्रिविधं सामान्यं, विशेषश्च त्रिविधः; यथा- द्रव्यगोचरः, गुणगोचरः, कर्मगोचरश्च; तत्र सर्वदेत्यादिना द्रव्यसामान्यमुच्यते; सामान्यमेकत्वकरमित्यनेन गुणसामान्यं; यथा- पयःशुक्रयोर्भिन्नजातीययोरपि मधुरत्वादिगुणसामान्यं तत्रैकतां करोति, एवं विशेषेऽप्युदाहार्यं; तुल्यार्थतेत्यादिना तु कर्मसामान्यं निगद्यते, आस्यारूपं हि कर्म न श्लेष्मणा समानमपि तु पानीयादिकफसमानद्रव्यार्थक्रियाकारित्वात् कफवर्धकरूपतया आस्याऽपि कफसमानेत्युच्यते; एवं स्वप्नादावपि कर्मणि बोद्धव्यम्| तदेतद्भट्टारहरिचन्द्रेणैव दूषितं; यतः सर्वदेत्यादिनैव लक्षणेन त्रिविधिमपि सामान्यं लभ्यते, तेनास्मिन् पक्षे सामान्यमेकत्वकरमित्याद्यवाच्यं स्यादिति कृत्वा| अन्ये तु पश्यन्ति- यत्त्रिविधं सामान्यम्- अत्यन्तसामान्यं, मध्यसामान्यम्, एकदेशसामान्यं च; तत्र सर्वदेत्यादिनाऽत्यन्तसामान्यमुच्यते, सामान्यमेकत्वकरमित्यनेन मध्यसामान्यं, तुल्यार्थता हीत्यादिनैकदेशसामान्यं एतदपि त्रैविध्यकथनं नातिप्रयोजनमसङ्गतलक्षणं चेति नातिश्रद्धाकरम्| केचित् सामान्यं द्विविधमिच्छन्ति- उभयवृत्ति, तथैकवृत्ति च; तत्र मांसं मांसवर्धकम्, उभयवृत्तिसामान्यात्; मांसत्वं हि पोष्ये पोषके च गतत्वादुभयवृत्ति; एकवृत्ति तु यथा- घृतमग्निकरं, तथा धावनादिकर्म वातकरं, तथाऽऽस्यादि कफकरम्; एतद्धि सर्वं न वर्धनीयेन समानं, किन्तु प्रभावाद्वर्धकं; प्रभावश्च घृतत्वधावनत्वादिरेव; स चैकवृत्तिसामान्यरूपः, तेनात्रापि सामान्यमेव वृद्धिकारणमिति ब्रुवते| अस्मिंस्तु पक्षेऽनुभयवृत्तिसामान्यं विशेष एव भवति, तथा समानमसमानं च वृद्धिकारणं भवतीति न किञ्चित् सामान्यस्योक्तं स्यात्| अस्मन्मते तु सामान्यं वृद्धौ कारणमेव भवतीति सामान्यं वृद्धिकारणत्वेन नियम्यते; न तु वृद्धिः सामान्यकारणिकैवेति नियम्यते, तेनासमानादपि वृद्धिर्भवति निर्दोषा| यत्तूच्यते- कर्मसामान्यं नेह तन्त्रे वृद्धिकारणमस्ति, यतो न धावनेन वायुः समान इति; अत एवाचार्येण द्रव्यसामान्यमुक्तं “मांसमाप्यायते मांसेन” (शा.अ.६) इत्यादिना, तथा “समानगुणानामाहारविकाराणामुपयोगः” (शा.अ.६) इत्यादिना गुणसामान्यमुक्तं; नैवं कर्मसामान्यमुक्तं, वचनं हि “कर्मापि च यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्” (शा.अ.६) इति; न तत्र सामान्योपग्रहः कृतः| अत्र ब्रूमः- कर्मणां प्रायः प्रभावेणैव वृद्धिहेतुत्वात् सामान्यानुपग्रहः कृतः, न तु कर्मसामान्याभावात्; यतः क्रियावतो वातस्य क्रियावता व्यायामादियुक्तेन शरीरेण वृद्धिः क्रियते, निष्क्रियतया चास्य वातस्य ह्रासः| स्वप्नादयस्तु “संयोगे च विभागे च” इत्यनेन वक्ष्यमाणलक्षणेनानुक्ता अपि शास्त्रव्यवहारात् कर्मशब्देनोच्यते| तत्र स्वप्नः स्वकारणादेव चीयमानस्य कफस्य क्षयकारणशरीरपरिस्पन्दादिनिरोधकत्वेन वृद्धिकर उच्यते, न तु स्वप्नः साक्षाच्छ्लेष्मवृद्धिं करोति| एवमास्यादावपि चिन्तनीयम्| यत्र त्वेवं कारणं चिन्तयितुं न पार्यते तत्र प्रभाव एव वर्णनीयः| ननु मांसं मांसं वर्धयति सामान्यात्, विशेषाच्च वातं क्षपयति, तत् कथं युगपद्विरुद्धार्थद्वयकर्तृत्वं मांसस्य; न हि देवदत्तो यदैव कुम्भं करोति तदैव काण्डमपि| नैवं, क्रियावतामयं धर्मो नाक्रियावतामिति ; तथाहि- शब्दो युगपदनेकानेव शब्दानेककालमारभते, तथाऽग्निः प्रकाशदाहौ युगपत् करोति; अत एवोक्तमाचार्येण- “तस्माद्भेषजं सम्यगवचार्यमाणं युगपदूनातिरिक्तानां धातूनां साम्यकरं भवति; अधिकमपकर्षति, न्यूनमाप्याययति” (शा.अ.६) इति| यदुच्यते- क्षीयमाणधातोर्वृद्धस्य तथा बहुदोषस्य समानगुणोऽप्याहारो न वृद्धिहेतुः, तथा ग्रीष्मे च मधुरादिना समानेनापि न कफाभिवृद्धिरित्यादि; तत्र प्रतिबन्धकानां जरा-बहुदोषत्व-ग्रीष्मोष्णत्वादीनां विद्यमानत्वान्न सामान्यं वर्धकम्; असति च विरोधके सामान्यं वृद्धिकारणमिति सिद्धान्तः; तेन न काचित् क्षतिः| किंवा वृद्धादीनां समानेनाहारेण क्रियत एव वृद्धिः; परमतिबलवता क्षयहेतुनाऽऽधीयमानक्षये पुरुषे सा वृद्धिर्नोपलभ्यते| अत्र च द्रव्यसामान्यमेव धातूनां द्रव्यरूपाणां वर्धकं न गुणसामान्यं, गुणानां द्रव्यानारम्भकत्वात्| गुणसामान्यात्तु तद्गुणाश्रयं द्रव्यमनुमीयते; तच्च द्रव्यं धातुवर्धकं भवति, यथा- रूक्षादीन् गुणान् दृष्ट्वा चित्रको वाय्वधिको योऽनुमितः, स च चित्रक उपयुक्तो वातं वर्धयति, गुणास्तु गुणानेव जनयन्तोऽभिवर्धयन्ति| सामान्यं च वृद्धिकारणलक्षणं न साक्षाद्वृद्धिकारणमिति प्रागेवोक्तम्; एवं विशेषेऽपि| अयं च सामान्यविशेषवादो ग्रन्थविस्तरभयादायुर्वेदोपयुक्तधर्ममात्रेणोक्तः; विस्तरस्त्वस्य वैशेषिके बोद्धव्यः||४५||

Adhikarana 19 (46-47) · Śloka 47

सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्| लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्||४६|| स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम्| वेदस्यास्य, तदर्थं हि वेदोऽयं सम्प्रकाशितः||४७||

🔊 Audio coming soon

सम्प्रति सामान्यविशेषावभिधाय, उद्देशक्रमानुरोधाद्गुणेऽभिधातव्ये, गुणेषु प्रधानभूतमायुर्वेदोपकार्यं सत्त्वात्मशरीरसंयोगं वक्तुमाह- सत्त्वमित्यादि; किंवा सामान्यविशेषाभ्यामेव हेतुलिङ्गौषधानि दर्शितानि, सामान्यविशेषवत एव सर्वत्र कारणत्वाल्लिङ्गत्वाच्चैतावदेव विचार्यमाणं तन्त्रं भवति, अधिकरणं च नोक्तम्, अतः सत्त्वादिमेलकं हेत्वाद्यधिकरणमाह- सत्त्वमित्यादि| सत्त्वं मनः| चशब्दः समुच्चये| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां त्रयमिति पदं मिलितानामेव ग्रहणार्थम्| एतदित्यनन्तरोक्तनिर्देशः| त्रिदण्डः परस्परसंयोगविधृतः कुम्भादिधारकस्तद्वत्| एतेन यथा त्रिदण्डेऽन्यतमापाये नावस्थानं, तथा सत्त्वादीनामन्यतमापायेऽपि न लोकस्थितिरित्युक्तं भवति| लोकत आलोकत इति लोकः, तेनेह जङ्गमो भूतग्राम उच्यते| संयोगात्तिष्ठतीति परस्परोपग्राहकात् संयोगात् स्वार्थक्रियां कुर्वन्न विशकलितं भवति| अत्र तु पृथगिन्द्रियग्रहणं न कृतं, शरीरग्रहणेनैव गृहीतत्वात्| तत्र सर्वं प्रतिष्ठितमिति तस्मिंल्लोके कर्मफलादि व्यवस्थितं; यद्वक्ष्यति- “अत्र कर्मफलं चात्र ज्ञानं चात्र प्रतिष्ठितम्| अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता” (शा.अ.१) इति| स पुमानिति तत् सत्त्वादित्रयं पुमानिति भण्यते| तत्र यद्यपि सत्त्वादित्रयं नपुंसकलिङ्गं, तथाऽपि पुमानिति वक्ष्यमाणलिङ्गग्रहणात् ‘स’ इति पुंलिङ्गनिर्देशः; यथा- “णेरणौ यत्कर्म णौ चेत् स कर्तानाध्याने” (पा.अ.१पा.३सू.६७) इत्यादौ| किञ्चैतदिति यद्यपि वर्तमाननिर्देशः कृतस्तथाऽपि तस्यैव ‘स’ इत्यतीतनिर्दिशोऽपि सर्वनाम्नां सर्वकालनिर्देशादेवाविरुद्धो मन्तव्यः| वदन्ति हि लाक्षणिकाः- “प्रत्यक्षे च परोक्षे च सामीप्ये दूर एव च| एतेष्वर्थेषु विद्वद्भिः सर्वनाम प्रयुज्यते” इति| चेतनमिति ज्ञानवत्| तच्चाधिकरणं स्मृतं तन्त्रस्येत्यत्र हेतुमाह- तदर्थं हीत्यादि| तदर्थमिति तदुपकारार्थम्; एतेन तदुद्दिश्य प्रवृत्तिरधिकरणार्था नाधारार्थेति दर्शयति| अत्र सत्त्वमादौ कृतं, तदधीनत्वादात्मशरीरक्रियायाः; यदुक्तं- “अचेतनं क्रियावच्च मनश्चेतयिता परः| युक्तस्य मनसा तस्य निर्दिशन्त्यात्मनः क्रियाम्” (शा.अ.१) इति| पूर्वं शरीरेत्यादिनाऽऽयुरुक्तं, सत्त्वमात्मेत्यादिना तु तन्त्राधिकरणभूतपुरुष उच्यत इति न पौनरुक्त्यम्| अत्र चात्मग्रहणेन बुद्ध्यहङ्कारादीनां ग्रहणं, शरीरग्रहणेनेन्द्रियाणामर्थानां च शरीरसम्बद्धानां ग्रहणं व्याख्येयम्||४६-४७||

Adhikarana 20 (48) · Śloka 48

खादीन्यात्मा मनः कालो दिशश्च द्रव्यसङ्ग्रहः| सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्||४८||

🔊 Audio coming soon

सम्प्रति गुणाभिधानं क्रमप्राप्तमुल्लङ्घ्य द्रव्याणि निर्दिशता गुणाधारतया द्रव्यस्य प्राधान्यमुच्यते; सूत्रे च “सामान्यं च विशेषं च” इत्यादौ गुणानादौ निर्दिशता गुणानामेव रसादीनां प्रायः शास्त्रे कार्मुकत्वमुपदर्श्यते; अत एवात्रेयभद्रकाप्यीये (सू.अ.२६) मधुरादिरसद्वारा सर्वगुणान् कर्माणि च द्रव्यस्य वक्ष्यति; किञ्च सर्वप्रधानं यज्जीवितं तदेव संयोगगुणरूपमित्यग्रे तत्र गुणग्रहणं, स च संयोगगुणः सत्त्वमात्मेत्यादिना प्रथममुक्त एव; विशेषगुणेषु तु द्रव्यं प्रधानमिति द्रव्यमुच्यते- खादीनीत्यादि| खादीनीत्यादावात्मा कस्मात् प्रधानभूतोऽपि प्रथमं नोक्तः? उच्यते- शरीरस्येह व्याध्यारोग्याधिकरणतया प्रधानत्वात्तदारम्भकानि खादीन्येवोच्यन्ते नात्मा, तस्य निर्विकारत्वात्; वचनं हि “निर्विकारः परस्त्वात्मा” (सू.अ.१) इत्यादि; खादीनि च “महाभूतानि खं वायुरग्निरापः क्षितिस्तथा” (शा.अ.१) इत्यनेन क्रमेणोक्तानि भूतान्यनागतावेक्षणेनोच्यन्ते | आत्मादीनां च यथाभ्यर्हितस्य पूर्वनिर्देशः| द्रव्यसङ्ग्रह इति करचरणहरीतकीत्रिवृताद्यसङ्ख्येयभेदभिन्नस्य कार्यद्रव्यस्य कारणद्वारा सङ्क्षेप इत्यर्थः| सर्वकार्यद्रव्याणामपि व्यवस्थामाह- सेन्द्रियमित्यादि| निरिन्द्रियमित्यत्र निःशब्दोऽभावे, निर्मक्षिकमितिवत्| अत्र सेन्द्रियं चेतनमित्येवावतैवार्थापत्त्या निरिन्द्रियमचेतनमिति लब्धेऽपि पुनस्तद्वचनमेवम्भूतार्थापत्तेरनैकान्तिकत्वाद्बोद्धव्यम्| यथा नवज्वरे दिवास्वप्नादि निषिद्धं, अर्थाज्जीर्णे ज्वरे तदापद्येत , न चैवं; तत्र तेषां दिवास्वप्नादीनां निषिद्धत्वात्; तस्मात्त्रिविधशिष्यबुद्धिहिततयोह्यमपि साक्षादेवोच्यते; वदन्ति हि न्यायविदो- “व्याख्यानाद्वरं करणम्” इति| यद्यपि चात्मैव चेतनो न शरीरं, नापि मनः, यदुक्तं- “चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते” (शा.अ.१) इति, तथाऽपि सलिलौष्ण्यवत् संयुक्तसमवायेन शरीराद्यपि चेतनम्| इदमेव चात्मनश्चेतनत्वं यदिन्द्रिययोगे सति ज्ञानशालित्वं, न केवलस्यात्मनश्चेतनत्वं ; यदुक्तं- “आत्मा ज्ञः, करणैर्योगाज्ज्ञानं त्वस्य प्रवर्तते” (शा.अ.१) इति| अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेतनत्वं बोद्धव्यं; तथाहि- सूर्यभक्ताया यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणाद्दृगनुमीयते, तथा लवली मेघस्तनितश्रवणात् फलवती भवति, बीजपूरकमपि शृगालादिवसागन्धेनातीव फलवद्भवति, चूतानां च मत्स्यवसासेकात् फलाढ्यतया रसनमनुमीयते, अशोकस्य च कामिनीपादतलाहतिसुखिनः स्तबकितस्य स्पर्शनानुमानं; स्मृतिश्चानुमानं द्रढयति, यथा- “योऽभिवादितविप्रस्तु नाशिषं सम्प्रयच्छति| श्मशाने जायते वृक्षो गृध्रकङ्कोपसेवितः” इति; तथा “वृक्षगुल्मं बहुविधं तत्रैव तृणजातयः| तमसाऽधर्मरूपेण च्छादिताः कर्महेतुना|| अन्तःसञ्ज्ञा भवन्त्येते सुखदुःखसमन्विताः| एतदन्ताश्च गतयो ब्रह्माद्याः समुदाहृताः” (मनुस्मृति अ.१) इति| तथा तन्त्रकारश्च वानस्पत्यानूकान् प्राणिनो वक्ष्यति; तेनागमसंवलितया युक्त्या चेतना वृक्षाः||४८||

Adhikarana 21 (49) · Śloka 49

सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः| गुणाः प्रोक्ताः ...|४९|

🔊 Audio coming soon

सम्प्रति गुणान्निर्देष्टुमाह- सार्था इत्यादि| अनेन त्रिविधा अपि वैशेषिकाः सामान्या आत्मगुणाश्चोद्दिष्टाः| तत्रार्थाः शब्दस्पर्शरूपरसगन्धाः| यदुक्तम्- “अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः” (शा.अ.१) इति| एते च वैशेषिकाः; यत आकाशस्यैव शब्दः प्राधान्येन, वायोरेव स्पर्शः प्राधान्येन, एवमग्न्यादिषु रूपादयः| अन्यगुणानां चान्यत्र दर्शनं भूतान्तरानुप्रवेशात् | वचनं हि- “विष्टं ह्यपरं परेण” (न्या.द.अ.३आ.१सू.६६) इति| गुर्वादयस्तु गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरस्थूलसूक्ष्मसान्द्रद्रवा विंशतिः| एते च सामान्यगुणाः, पृथिव्यादीनां साधारणत्वात्| एते यज्जःपुरुषीये प्राय आयुर्वेदोपयुक्तत्वात् परादिभ्यः पृथक् पठिताः| बुद्धिः ज्ञानम्; अनेन च स्मृतिचेतनाधृत्यहङ्कारादीनां बुद्धिविशेषाणां ग्रहणम्| प्रयत्नोऽन्ते येषां निर्देशे ते प्रयत्नान्ताः; एतेन चेच्छाद्वेषसुखदुःखप्रयत्नानां ग्रहणम्| वचनं हि- “इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः| बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः” (शा.अ.१) इति| इह चेतनादीनां बुद्धिग्रहणेनैव ग्रहणं, शारीरे तु चेतनादीनामपि पृथगात्मगमकत्वेन पृथक् पाठः| एतच्च तत्रैव व्याकरणीयम्| परादयो यथा- “परापरत्वे युक्तिश्च सङ्ख्या संयोग एव च| विभागश्च पृथक्त्वं च परिमाणमथापि च|| संस्कारोऽभ्यास इत्येते गुणाः प्रोक्ताः परादयः|” (सू.अ.२६) इति| एते च सामान्यगुणा अपि नात्युपयुक्तत्वात्तथा बुद्धिप्राधान्याच्चान्ते प्रोक्ताः| प्रोक्ता इति प्रकर्षेण विशेषगुणत्वादिनोक्ताः|४९|-

Adhikarana 22 (49) · Śloka 49

...प्रयत्नादि कर्म चेष्टितमुच्यते||४९||

🔊 Audio coming soon

क्रमागतं कर्म निर्दिशति- प्रयत्नादीत्यादि| प्रयतनं प्रयत्नः कर्मैवाद्यमात्मनः; यथा- “तुल्यास्यप्रयत्नं सवर्णम्” (पा.अ.१पा.१सू.९) इत्यत्र व्याख्यातम्| आदिशब्दः प्रकारवाची| तेन संस्कारगुरुत्वादिजन्यकृत्स्नक्रियावरोधः| यद्यपि चेष्टितं प्राणिव्यापार उच्यते, तथाऽपीह सामान्येन क्रिया विवक्षिता| चेष्टितपदेनैव सर्वकर्मलाभे सिद्धे वमनादिकर्मनिषेधे च सिद्धे प्रयत्नादीति पदं सुसूक्ष्मप्रयत्नरूपकर्मव्यापित्वद्योतनार्थम् | अन्ये तु प्रयत्नादीति प्रयत्नकारणमिति ब्रुवते, प्रयत्नग्रहणं च कारणोपलक्षणं वदन्ति; तेन गुरुत्वादिकार्यस्यापि कर्मणो ग्रहणमिति| प्रयत्नशब्दश्चायुर्वेदेऽपि कर्मवचनो दृश्यते; “प्रवृत्तिस्तु चेष्टा कार्यार्था, सैव क्रिया प्रयत्नः कार्यसमारम्भश्च” (वि.अ.८) इति वचनात्||४९||

Adhikarana 23 (50) · Śloka 50

समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः| स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः||५०||

🔊 Audio coming soon

समवायमाह- समवाय इत्यादि| समवायस्य चायं निर्देश एव लक्षणम्| तेनोत्तरत्र द्रव्यादिलक्षणे पुनरस्य लक्षणं न कर्तव्यम्| समवाय इति लक्ष्यनिर्देशः, अपृथग्भाव इति लक्षणम्; अपृथग्भावः अयुतसिद्धिः, सहैवावस्थानमिति यावत्| यथा- अवयवावयविनोः, गुणगुणिनोः, कर्मकर्मवतोः, सामान्यसामान्यवतोः; नह्यवयवादीन् विरहय्यावयव्यादय उपलभ्यन्ते| अपृथग्भावमेव विशेषयन्नाह- भूम्यादीनां गुणैर्मत इति| भूम्यादीनां भूमिप्रकाराणां; भूमिश्च भूयसामाधेयानामाधारा, तेनाधारत्वोदाहरणार्थमुक्ता; यतो भूमेरर्थाः सर्वे गुर्वादिपराद्याश्च गुणास्तथा चावयविसामान्यक(ध)र्माण्यप्याधेयानि, नेतरद्रव्ये यथोक्तसर्वाधेयसम्पत्तिः| एतेन भूम्यादीनामित्याधाराणां, गुणैरिति अप्रधानैराधेयैः; आधेयो ह्याधारापेक्षयाऽप्रधानम्, अप्रधाने च गुणशब्दो यथा- गुणीभूतोऽयमिति, अप्रधानमित्यर्थः; तेनाधाराणामाधेयैर्योऽपृथग्भावः स समवायः इति| तेन पृथिवीत्वगन्धवत्त्वयोरपृथक्सिद्धयोरप्याधाराधेयभावाभावान्न समवाय इत्युक्तं भवति| अत एवोक्तं वैशेषिके यत्- “अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहेतिप्रत्ययहेतुः स समवायः” (प.ध.सं.द्रव्यपदार्थनिरूपण) इति| स नित्य इति समवायोऽविनाशी| सत्यपि समवायिनां द्रव्याणां नाशे समवायो न विनश्यति| अत्र हेतुमाह- यत्र हीत्यादि| यत्र द्रव्यं नियतं नित्यं, यथा- आकाशं, न तत्र नित्य आकाशेऽनियतो विनाशी गुणः, ‘कश्चित्’ इति शेषः| एवं मन्यते- नित्ये व्योम्नि परिमाणमपि तावन्नित्यं, तथा द्रव्यत्वमप्याकाशगतं नित्यं, तथा नित्ययोराकाशतद्गुणयोः समवायलक्षणः सम्बन्धोऽपि नित्य एव| एवं तत्र समवायस्य नित्यत्वे सिद्धे एकरूपत्वात् समवायस्यान्यत्रापि नित्यत्वमेव| न चाश्रयद्रव्यनाशे समवायविनाशः| यथा- गोव्यक्तिविनाशेऽपि गोत्वस्य सामान्यस्य न विनाशः| नित्यस्यैव समवायस्य ते ते पार्थिवद्रव्यादयस्तत्र तत्र व्यञ्जका भवन्ति सामान्यस्येव व्यक्तयः| अन्यैस्तु नित्यानित्यभेदेन द्विविधः समवायो व्याख्यातः; अयं च ग्रन्थो भूम्यादीनां गुणैरेव यः सम्बन्धस्तस्यैव यथाश्रुतस्य प्रतिपादक इति व्याख्यातं; तत्तु न व्यापकं नापि वैशेषिकमतानुयायीति नेह प्रपञ्चितम्||५०||

Adhikarana 24 (51) · Śloka 51

यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्| तद्द्रव्यं ...|५१|

🔊 Audio coming soon

द्रव्यलक्षणमाह- यत्रेत्यादि| यत्राश्रिता यत्र समवेताः, कर्म च गुणाश्च कर्मगुणाः| कारणं समवायि यदिति समवायि कारणं यत्, द्रव्यमेव हि द्रव्यगुणकर्मणां समवायिकारणम्| समवायिकारणं च तद् यत् स्वसमवेतं कार्यं जनयति; गुणकर्मणी तु न स्वसमवेतं कार्यं जनयतः, अतो न ते समवायिकारणे| एतत्कर्मवत्त्वं हि द्रव्यस्य गुणादिपञ्चपदार्थव्यावृत्तिमात्रलक्षणकथनं, न तु सजातीयव्यापकविजातीयव्यावर्तकलक्षणकथनं; येन कर्मसमवायो नाकाशादीनां वर्तते , तेन लक्षणानुगतं विजातीयव्यावृत्तं द्रव्यस्य लक्षणं गुणवत्त्वं समवायिकारणत्वं च बोद्धव्यम्| यदु(त्तू)त्पन्नमात्रं द्रव्यं प्रथमक्षणे निर्गुणं, तदपि द्वितीयक्षणावश्यम्भाविगुणवत्तया तद्योग्यत्वाद्गुणवदेवेति मन्तव्यम्| वैशेषिकेऽप्युच्यते- क्रियावद्गुणवत् समवायिकारणं द्रव्यम् (वै.द.अ.१सू.१५) इति| तत्रापि च यथेह व्याख्यातं तथैव व्याख्यातम्| ५१|-

Adhikarana 25 (51) · Śloka 51

...समवायी तु निश्चेष्टः कारणं गुणः||५१||

🔊 Audio coming soon

गुणलक्षणमाह- समवायीत्यादि| समवायीति समवायाधेयः; तेन व्यापकद्रव्येभ्यो निष्क्रियेभ्य आकाशादिभ्यो गुणस्य व्यावृत्तिः; नह्याकाशादयः समवायाधेयाः| निर्गतश्चेष्टायाः निश्चेष्टः; चेष्टानिर्गत्या चेह चेष्टाशून्यत्वं तथा चेष्टाव्यतिरिक्तत्वं चोच्यते; तेन चेष्टारूपात् कर्मणो व्यावृत्तिः, तथा क्रियाधारत्वयोगेभ्यो मूर्तद्रव्येभ्यो व्यावृत्तिः सिद्धा; गुणस्य कारणमित्यनेन चाकारणेभ्यः सामान्यविशेषसमवायेभ्यो व्यावृत्तिः सिद्धा| कारणत्वं तु विभुद्रव्यपरिमाणान्त्यावयविरूपादिषु लक्षणीयेषु गुणेषु नास्ति, तेन भागासिद्धं लक्षणं स्यात्, अतः कारणत्वेनेह भावरूपकारणाव्यभिचारि सामान्यवत्त्वं लक्षणतया बोद्धव्यम्| तच्च सामान्यवत्त्वं सर्वगुणव्यापकं सामान्यादिव्यावर्तकं च, सामान्यादीनां सामान्यवत्त्वाभावात्| अथवा विभुद्रव्यपरिमाणान्त्यावयविरूपाद्यन्तराणां कारणत्वदर्शनाद्विभुद्रव्यपरिमाणान्त्यावयविरूपादावपि कारणत्वयोग्यत्वमस्त्येवेति न भागासिद्धता कारणत्वस्य; किंवा योगिप्रत्यक्षज्ञानहेतुतया विभुद्रव्यपरिमाणादीनामपि कारणत्वं बोद्धव्यम्| एवम्भूतं च कारणत्वं यद्यपि सामान्यादिष्वपि क्वचिदनुगम्यते, तथाऽपि ‘समवायी तु’ इति पदेन समवायाधारता तथा समवायाधेयता च युगपद्विपक्षिता; तेन समवायकेवलाधारस्य विभुद्रव्यस्य तथा समवायकेवलाधेयस्य सामान्यादेश्च व्युदासः सिद्धो भवति||५१||

Adhikarana 26 (52) · Śloka 52

संयोगे च विभागे च कारणं द्रव्यमाश्रितम्| कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते||५२||

🔊 Audio coming soon

कर्मलक्षणमाह- संयोग इत्यादि| संयोगे च विभागे च युगपत् कारणम्| तेन संयोगे उत्तरदेशसंयोगकारके विभागाकारणे, तथा विभागे च विभागजविभागमात्रकारणे संयोगाकारणे व्यावृत्तिः सिद्धा| द्रव्यमाश्रितमिति स्वरूपमात्रकथनं व्याख्येयं, द्रव्यव्यावृत्तिस्तु ‘कर्म नान्यदपेक्षते’ इत्यनेनैव सिद्धा | अस्यायमर्थो यत्- कर्म उत्पन्नं स्वाश्रयस्य द्रव्यस्य पूर्वदेशविभागे उत्तरदेशसंयोगे च कर्तव्ये नान्यत्कारणं पश्चात्कालभाव्यपेक्षते; द्रव्यं तु यद्यपि संयोगविभागकारणं युगपद्भवति, तथाऽपि तदुत्पन्नं सद्यदा कर्मयुक्तं भवति तदैव संयोगविभागकारणं स्यात् ; कर्म तूत्पन्नं करोत्येव परं संयोगविभागौ न तु कारणान्तरं पश्चाद्भाव्यपेक्षते, संयोगविभागाश्रयप्रत्यासत्तिं त्वपेक्षते, सा च पूर्वसिद्धैवेति न चरमभाविकारणान्तरापेक्षता कर्मणः| अथ कर्मशब्देन वमनादीनां तथाऽदृष्टस्य तथा क्रियायाश्चाभिधीयमानत्वात् कस्य कर्मण इदं लक्षणमित्यत आह- कर्तव्यस्य क्रिया कर्मेति| एतेन क्रियारूपस्य कर्मण इदं लक्षणं नादृष्टादेरिति||५२||

Adhikarana 27 (53) · Śloka 53

इत्युक्तं कारणं...|५३|

🔊 Audio coming soon

प्रकरणमुपसंहरति- इतीत्यादि| इति समाप्तौ; तेनैतावदेव सामान्यादिषट्कं सर्वस्यैव कार्यजातस्य कारणं, नान्यत् कारणमस्ति|५३|-

Adhikarana 28 (53) · Śloka 53

... कार्यं धातुसाम्यमिहोच्यते| धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्||५३||

🔊 Audio coming soon

कारणं सामान्येनाभिधायायुर्वेदोपयुक्तं कार्यमाह- कार्यमित्यादि| धातुसाम्यम् आरोग्यं; वक्ष्यति हि- “विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते| सुखसञ्ज्ञकमारोग्यम्” (सू.अ.९) इत्यादि| इहेत्यायुर्वेदे; तेनान्यत्रान्यदपि घटादि कार्यमुच्यते| इह तु किमिति तत् कार्यं नोच्यत इत्याह- धातुसाम्येत्यादि| चकारो हेतौ| धातुसाम्यक्रियैव यस्मादायुर्वेदप्रयोजनं, तस्मादायुर्वेदे धातुसाम्यमेव कार्यमुच्यते प्रयोजनं कथ्यते; अन्यत्त्वविवक्षितत्वात्तथाऽप्रधानत्वाच्च नेह कार्यत्वेनोच्यते||५३||

Adhikarana 29 (54) · Śloka 54

कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च| द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसङ्ग्रहः||५४||

🔊 Audio coming soon

सम्प्रति सामान्येन कारणमुक्तं तदायुर्वेदोपयुक्तद्वारेण वक्तव्यं; तत्र व्याधिकारणमेव तावदग्रेऽभिधीयते- कालेत्यादिना सूत्रक्रमानुरोधात्| सूत्रणं हि “हेतुलिङ्गौषधज्ञानम्” (सू.अ.१) इति| कालः शीतोष्णवर्षलक्षणः, बुद्धिः प्रज्ञा, इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धास्तत्सहचरितानि द्रव्यगुणकर्माणीन्द्रियद्वारोपयुज्यमानानि च; तेषां कालादीनां योगः सम्बन्धः| तस्य विशेषणत्रयं- मिथ्या न चाति चेति| तेन कालादीनां मिथ्यायोगः, नच योगः अयोग इत्यर्थः, अति च योगः अतियोग इत्यर्थः| द्वयाश्रयाणामिति मनःशरीराश्रयाणाम्| एतच्च मनःशरीराधिष्ठानत्वं पृथङ्मिलितं च बोद्धव्यम्| त्रिविध इत्ययोगातियोगमिथ्यायोगरूपः| हेतुसङ्ग्रहः हेतुसङ्क्षेपः| एते च कालादीनामतियोगायोगमिथ्यायोगास्तिस्रैषणीये “तत्रातिप्रभावतां” (सू.अ.११) इत्यादिना ग्रन्थेन सुव्यक्तं वाच्या इति नेह विव्रियन्ते| कालग्रहणं त्विहादौ कृतं, कालस्य दुष्परिहारत्वात्| तदनु बुद्धिरुच्यते, बुद्ध्यपराधस्यैवेन्द्रियार्थातियोगादिहेतुत्वात्; वक्ष्यति हि- “प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते” (सू.अ.२८) इति; एवं च यद्यप्यसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधे प्रविशति, तथाऽपि प्रत्यासन्नकारणत्वादसात्म्येन्द्रियार्थसंयोगेनैवायं पृथक् तन्त्रे सूच्यते, प्रज्ञापराधस्त्वसात्म्येन्द्रियार्थसंयोगव्यतिरिक्तकायवाङ्मनःक्रियापराधे वर्तते| अत्र चाधर्मोऽपि व्याधिहेतुरस्ति, यदुक्तं- “क्रियाघ्नाः कर्मजा रोगाः” (शा.अ.१) इत्यादि; तस्य चाधर्मस्य कालग्रहणेनैव ग्रहणं केचिन्मन्यन्ते; तन्न, तिस्रैषणीये प्रज्ञापराधेनैवाधर्मग्रहणात्| तत्र हि, अनृतवचनाभिध्यादिवाङ्मनोमिथ्यायोगरूपः प्रज्ञापराधविशेष उक्तः; नत्वनृतवचनादीनां स्वरूपेण व्याधिकर्तृत्वं, किन्त्वधर्मोत्पादावान्तरव्यापाराणामेव; तेन प्रज्ञापराध एवाधर्मोत्पादावान्तरव्यापारः कर्मजरोगेषु कारणं, याग इव धर्मोत्पादावान्तरव्यापारः स्वर्गे| यत्तूच्यते- कालपरिणामजायमानत्वात् कर्मजविकाराणां कालजत्वं, यदुक्तं- “कालस्य परिणामेन जरामृत्युनिमित्तजाः| रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः” (शा.अ.१) इति; तन्न, तथा सत्यसात्म्येन्द्रियार्थसंयोगजस्यापि किञ्चित्कालपरिणामजायमानस्य कालजत्वं स्यात्| नच कालातियोगाद्यभिधायिग्रन्थे तिस्रैषणीये कर्मावरोधः कथमपि प्रतिभाति| कतिधापुरुषीये तु “धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम्| असात्म्येन्द्रियसंयोगा विज्ञेया रोगहेतवः” (शा.अ.१) इत्यभिधाय स्वाभाविकानां रोगाणां तथा कर्मजानां च कालज एवावरोधः कृतः| उक्तं हि तत्र- “कालस्य परिणामेन जरामृत्युनिमित्तजाः| रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः” (शा.अ.१) इति, तथा “निर्दिष्टं दैवसञ्ज्ञं तु कर्म यत् पौर्वदैहिकम्| हेतुस्तदपि कालेन रोगाणामुपलभ्यते” (शा.अ.१) इति| अत्रापि बुद्धिमिथ्यायोगरूपः प्रज्ञापराध एव रोगजनककर्मकारणम्| कालविशेषप्राप्त्या तु येषां व्याधीनामागमो भवति, ते कालमिथ्यादियोगजन्या वा भवन्तु, असात्म्येन्द्रियार्थप्रज्ञापराधजन्या वा; सर्व एवाविशेषेण कालकृताभिव्यक्तिमात्रपरिग्रहणात्तत्र कालसम्प्राप्तिजन्या इत्युक्ता गदाः| तथाहि- तत्र सन्ततादिज्वरा अपि कालजन्या एवोक्ताः| वचनं हि- “सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ| स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः” (शा.अ.१) इति| नच सन्ततादौ कालस्य मिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते, किन्तर्ह्यसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधावेव; तथा स्वाभाविकेषु च रोगेषु न कालमिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते; तस्मान्न तत्र कालमिथ्यायोगादिजन्याः कालजत्वेनाचार्यस्याभिप्रेताः, किन्तु कालाभिव्यञ्जनीयाः कालजाः; अत एव च तत्र “सम्प्राप्तिः कालकर्मणाम्” (शा.अ.१) इति पठितं नतु “कालो मिथ्या न चाति च” इति पठितम् | किञ्च तत्रापि कालमभिधायापि कर्मणामिति पदं पृथक् पठित्वा काले जातः कर्मजः पृथगेव सूचितः| किञ्च, उन्मादनिदाने साक्षादेवाचार्येण कर्मजस्य प्रज्ञापराधजत्वमुक्तम्| वचनं हि- “प्रज्ञापराधात् सम्भूते व्याधौ कर्मज आत्मनः| नाभिशंसेद्बुधो देवान्न पितॄन्न च राक्षसान्” (नि.अ.७) इति| जनपदोद्ध्वंसनीयेऽप्युक्तं- “तस्यमूलमधर्मः, तन्मूलं चासत्कर्म पूर्वकृतं, तयोर्योनिः प्रज्ञापराध एव” (वि.अ.३)| (तदेवं कर्मापेक्षद्वयमुपदर्शितं,) बलाबलं तु विद्वांसः स्वयमेव निर्लोचयिष्यन्ति| इदं त्वत्र चिन्त्यतां- स्वाभाविकानां क्षुत्पिपासादीनां तथा कालसम्यग्योगेऽपि जायमानानां दोषचयप्रकोपाणां क्व प्रवेशो भवतु; न तावत् कालजे, यतः कालो हि तत्र सम्यग्युक्त एव, कालसम्यग्योगश्च न व्याधिकारणमिति सिद्धान्तः; अथ कालप्रतिनियतस्तत्रासात्म्येन्द्रियार्थसंयोग एव कारणमिष्यते, तथाऽप्येवं सति कालमिथ्यायोगादावप्यसात्म्येन्द्रियार्थसंयोग एव कारणमिति वक्तुं पार्यते; तस्मादस्मिन्मार्गे एवं बुद्धिर्वलते - यत्- सहजानां विकाराणां निष्प्रतिक्रियत्वेनेहायोगादिजन्यत्वेनावरोधो न कृत एव, कालस्वभावजा अपि सहजा एव; या त्वत्र प्रतिक्रिया कालस्वभावजानामनागतानां भावानां सत्त्वगुणद्रव्यसेवादिरूपा तथा स्वाभाविकानां च क्षुत्पिपासाजरादीनां कालभोजनरसायनादिरूपा, तस्या अकरणे सति कालस्वभावजस्य रोगस्य प्रादुर्भावः प्रज्ञापराधजन्य एव, उचिते हि काले कर्तव्याकरणं प्रज्ञापराध एव; उक्तं हि कतिधापुरुषीयेऽपि प्रज्ञापराधसङ्ग्रहे- “कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्” (शा.अ.१) इति| अन्ये तु मिथ्यायोगादिशून्यकालविद्यमानत्वेन काल एवावरोध एषां विकाराणामिति कतिधापुरुषीये वक्ष्यमाणग्रन्थस्य यथाश्रुतार्थपरिग्रहाद्वर्णयन्ति| नचेति चकाराद्धीनयोगं गृह्णाति| वक्ष्यति हि- “मिथ्यातिहीनलिङ्गेभ्यो यो व्याधिरुपजायते” (शा.अ.१) इति| हीनयोगस्य तु साक्षादपठनमयोगप्रभेदत्वात्; स्वल्पयोगे(गो)ऽप्ययोगो भवति, यथैकतण्डुलाभ्यवहारेऽनशनमुच्यते||५४||

Adhikarana 30 (55) · Śloka 55

शरीरं सत्त्वसञ्ज्ञं च व्याधीनामाश्रयो मतः| तथा सुखानां, योगस्तु सुखानां कारणं समः||५५||

🔊 Audio coming soon

द्वयाश्रयाणामित्यनेनोक्तमाश्रयं दर्शयति- शरीरमित्यादि| अत्र शरीरमादौ कृतं, शरीररोगाधिकारेणैवास्य तन्त्रस्य प्रवृत्तत्वात्| सत्त्वसञ्ज्ञशब्देन मन उच्यते; किंवा सत्त्वशब्देनैव मनसि लब्धे सञ्ज्ञाशब्देनात्मशरीरसम्बद्धं मन उच्यते, शरीराद्यसम्बन्धस्य मनसो व्याध्यनाश्रयत्वात्| असमासेन च पृथगपि शरीरमनसोर्व्याध्याश्रयत्वं दर्शयति| यतः कुष्ठादयः शारीरा एव, कामादयस्तु मानसाः, उन्मादादयश्च द्वयाश्रयाः| आरोग्यस्याश्रयं हेतुं चाह- तथा सुखानामित्यादि| सुखानामिति आरोग्याणाम्| वचनं हि- “सुखसञ्ज्ञकमारोग्यं विकारो दुःखमेव तु” (सू.अ.९) इति| तथेति शरीरं मनश्च, तत्र शरीररोगाभावरूपस्यारोग्यस्य शरीरमाश्रयः, मानसरोगाभावस्य तु मनः| योगस्तु समः कालबुद्धीन्द्रियार्थानां सम्यग्योगरूपस्तथा सुखानामारोग्याणां कारणम्| सुखानामिति सुखपदाभिधेयानां च रोगाभावानां बहुत्वं निषेध्यरोगबहुत्वादेव बोद्धव्यम्| इदमेव ह्यभावानां बहुत्वं यन्निषेध्यभावबहुत्वम्| ननु “आयुर्वेदागमो हेतुः” (सू.अ.१) इत्यादावध्यायार्थसङ्ग्रहे व्याध्याश्रयो न सङ्गृहीतः, तत् किमिदमनार्षं? न, हेतवश्चेत्यनेन व्याध्याश्रयरूपस्यापि हेतोस्तत्र सङ्ग्रहणम्||५५||

Adhikarana 31 (56) · Śloka 56

निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः| चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः||५६||

🔊 Audio coming soon

सत्त्वमात्मा शरीरं चेति वचनेन त्रयमुपात्तम्, अत्र शरीरमनसी व्याध्याश्रयतयोक्ते , आत्मनस्तु का व्यवस्थेत्याह- निर्विकार इत्यादि| निर्विकारो निर्विकृतिः, तेन नीरोगत्वमात्मनः| पर इति सूक्ष्मः श्रेष्ठो वा, तेन सत्त्वशरीरात्ममेलकरूपो य आत्मशब्देनोच्यते तं व्यावर्तयति; यदुक्तं- “संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः” (शा.अ.१) इति| संयोगेऽपि चात्मादीनां मनस्येव वेदना भवति, सा तु मनःसंयुक्ते आत्मन्यपि सम्बद्धेत्युच्यते, तेन “निर्व्यथे चान्तरात्मनि” (सू.अ.२२) इति वचनं निर्व्यथे मनसीति स्यात् ; तथा शरीरादावप्यात्मशब्दो वर्तते, तद्व्यवच्छेदार्थं पर इति पदम्| उक्तं ह्यन्यत्र- “ब्रह्मेन्द्रवाय्वग्निमनोधृतीनां धर्मस्य कीर्तेर्यशसः श्रियश्च| तथा शरीरस्य शरीरिणश्च स्याद्द्वादशस्विङ्गित आत्मशब्दः” इति| ननु, यद्यात्मा निर्विकारस्तत् किं ज्ञानरूपोऽप्यस्य विकारोऽस्ति वा नास्तीत्याह- सत्त्वेत्यादि| सत्त्वं मनः, भूतगुणाः शब्दादयः, इन्द्रियाणि चक्षुरादीनि, एतैः करणभूतैश्चैतन्ये कारणं भवत्यात्मा| चैतन्यं चात्मनि जायते व्यज्यते वा| अत एव च सत्त्वादीनां ज्ञानकारणानां सर्वत्रासम्भवात् सर्वगतेऽप्यात्मनि न सर्वत्र प्रदेशे ज्ञानं भवति| ननु यदि चैतन्यवानात्मा, तदा कदाचिज्ज्ञानवान् कदाचिदज्ञ इत्यनित्यः स्यादित्याह- नित्य इति| नित्यस्याप्यात्मनो ज्ञानमनित्यं; नच धर्मानित्यत्वे धर्मिणोऽप्यनित्यत्वं, नह्याकाशगुणशब्दानित्यत्वेऽप्याकाशस्याप्यनित्यत्वमिति भावः| नित्यत्वं चात्मनः पूर्वापरावस्थानुभूतार्थप्रतिसन्धानात्; नह्यनित्ये ज्ञातरि पूर्वानुभूतमर्थमुत्तरो ज्ञाता प्रतिसन्धत्ते ; नहि देवदत्तबुद्धमर्थं यज्ञदत्तोऽवगतत्वेन प्रतिसन्दधाति| ननु, दृश्यते ज्ञानवतः सुखोपलब्धावनुरागलक्षणो विकारस्तथा दुःखोपलब्धौ च द्वेषलक्षणः, तत् कथं सुखदुःखोपलब्धावयमात्मा निर्विकार इत्याह- द्रष्टा पश्यति हि क्रिया इति| द्रष्टा साक्षी; तेन यतिर्यथा परमशान्तः साक्षी सञ्जगतः क्रियाः सर्वाः पश्यन्न रागद्वेषादिना युज्यते, तथाऽऽत्माऽपि सुखदुःखाद्युपलभमानोऽपि न रागादिना युज्यते; दृश्यमानरागादिविकारस्तु मनसि, प्राकृतबुद्धौ वा साङ्ख्यदर्शनपरिग्रहाद्भवतीति भावः| साङ्ख्यमते च मनःशब्देन बुद्धिरन्तःकरणं च गृह्यते||५६||

Adhikarana 32 (57) · Śloka 57

वायुः पित्तं कफश्चोक्तः शारीरो दोषसङ्ग्रहः| मानसः पुनरुद्दिष्टो रजश्च तम एव च||५७||

🔊 Audio coming soon

सम्प्रति विकाराश्रयं तथा विकारस्य व्यवहितं च हेतुमभिधाय प्रत्यासन्नं दोषरूपहेतुमाह- वायुरित्यादि| अत्र प्रधानत्वादग्रे वायुरुक्तः, प्राधान्यं चाशुभूरिदारुणविकारकर्तृत्वात्; वचनं हि- ‘आशुकारी मुहुश्चारी’ (सु. नि. अ. १) इति; तथा अशीतिं वातजान् विकारान्, चत्वारिंशत् पित्तविकारान्, विंशतिं च कफजान् वक्ष्यति हि महारोगाध्याये (सू. अ. २)| वातमनु पित्तं प्रधानं, शरीरमूलभूताग्निहेतुत्वात्तथा कफाधिकविकारकर्तृत्वात्तथा कफापेक्षया चाशुकारित्वात्| असमासकरणं तु पृथगपि वाय्वादीनां रोगकर्तृत्वोपदर्शनार्थम्| शारीर इति मानसदोषव्यवच्छेदार्थम्| सङ्ग्रह इति “द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्” (सू.अ.१७) इत्यादिवक्ष्यमाणप्रपञ्चस्य सङ्क्षेपः| ननु, शोणितस्यापि दोषत्वान्नायं सङ्ग्रहः साधुः, यतो रक्तस्यापि वातादिवद्विशिष्टहेतुलक्षणविकारचिकित्सितनिर्देशः कृतः; तत्र हेतुनिर्देशो यथा- “काले चानवसेचनात्” (सू.अ.२४/९) इत्यादि, लक्षणं च यथा- “तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्” (सू.अ.२४/२२) इत्यादि, रक्तविकाराश्च रक्तार्शःप्रदररक्तपित्तादय उक्ताः, उपक्रमश्च “स्रावणं शोणितस्य तु” (सू.अ.२४/१८) इत्यादिनोक्तः, तथा दोषसञ्ज्ञा च चरके कृता, यदुक्तं- “कफे वाते जितप्राये पित्तं शोणितमेव वा| यदि कुप्यति वातस्य क्रियमाणे चिकित्सिते|| यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्” (चि.अ.५/२७) इति; तथा च तन्त्रान्तरेऽपि शल्ये शोणितं दोषत्वेनोक्तं- “तैरेतैः शोणितचतुर्थैः” (सु.सू.अ.२१) इति वचनात्| नैवं, दोषो हि स्वतन्त्रदूषणात्मक उच्यते; यतो न वातादयो वृद्धाः किञ्चिदपेक्ष्य दूषयन्ति किन्तु स्वत एव, शोणितं तु दुष्टवातादिसंसर्गमपेक्ष्यैव दूषकं भवति, न हि शोणितं विकृतवातादिसम्बन्धमन्तरेण विकृतं भवति; सर्वदा वातादिजनकैरेव शोणितदुष्टेः; तथा सर्वदा वातादिलक्षणयुक्तस्यैव शोणितस्य दुष्टत्वात्; यश्च हेत्वादिविशेष उक्तः स वातादियुक्तस्यैव शोणितस्य भवति; तेन वातादय एव तत्रापि दूषणात्मकाः, शोणितं तु स्वप्रमाणातिरिक्तमपि दूष्यमेव; न च दूष्यस्य हेत्वादयो विशिष्टा न भवन्ति, यतो मांसादीनामपि हेत्वादिविशेषोऽस्ति; यथा मांसदुष्टौ- “मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा” (वि.अ.५) इत्यादि वक्ष्यति; मांसदुष्टिलक्षणं “शृणु मांसप्रदोषजान्” (सू.अ.२८) इत्यादिना विविधाशितपीतीये वक्ष्यति यान् विकारास्ते ज्ञेयाः, यत एतानेव मांसदोषविकारान् स्रोतोविमाने मांसदुष्टिलक्षणत्वेनातिदेशादभिधास्यति, दुष्टमांसविकाराश्चाधिमांसार्बुदादय उक्ताः; उपक्रमश्च “मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च” (सू.अ.२८) इत्युक्तः| तस्माद्दूष्याधिकारे दोषकृते कार्ये दूष्येण व्यपदेशः- रक्तजोऽयं, मांसजोऽयमित्यादि; यथा- स्नेहाधारेण वह्निना दग्धे स्नेहदग्ध इति व्यपदेशः| दोषसञ्ज्ञा तु पीडाकर्तृत्वसामान्याददोषेऽपि स्यात् ; यथा- “स्वयं प्रवृत्तं तं दोषमुपेक्षेत हिताशनैः” (चि.अ.५/४६) इत्यत्र पुरीषमेव दोषत्वेनोक्तम्| सुश्रुते तु शोणितस्य दोषत्वं व्रणेषु प्रायः शोणितदुष्टिदर्शनादुपचरितमेवोक्तम्| यतः प्रदेशान्तरे व्रणप्रश्ने वातादयस्त्रय एव तत्राप्युक्ताः- “वातपित्तश्लेष्माण एव देवसम्भवहेतवो भवन्ति” (सु.सू.अ.२१) इत्यादिना| किञ्च यदि शोणितं दोषः स्यात्तदा वातादिवत्प्रकृत्यारम्भकं स्यात्, नचारभते; तस्मात्त्रय एव दोषा इति सिद्धम्| मानसदोषमाह- मानसः पुनरित्यादि| पुनःशब्दोऽवधारणे, तेन मानस उद्दिष्ट एव परं न शारीरदोषवत् प्रपञ्चितः, मानसदोषाणामस्मिंस्तन्त्रे कायचिकित्सारूपेऽप्रास्ताविकत्वादिति भावः| आदौ रज उक्तं प्राधान्यात्; वचनं हि- “नारजस्कं तमः प्रवर्तते” (वि.अ.६) इति| एवशब्देन सत्त्वाख्यगुणस्यादोषत्वमवधारयति, सत्त्वं ह्यविकारि||५७||

Adhikarana 33 (58) · Śloka 58

प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः| मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||५८||

🔊 Audio coming soon

सम्प्रति दोषप्रशमकारणमाह- प्रशाम्यतीत्यादि| पूर्व इति शारीरः| दोषग्रहणेन तज्जन्या व्याधयोऽपि गृह्यन्ते, विकृतदोषादनन्यत्वाद्व्याधीनाम्| दैवमदृष्टं, तदाश्रित्य यद्व्याधिप्रतीकारं करोति तद्दैवव्यपाश्रयं बलिमङ्गलादि; एतच्च प्रथममुक्तं सद्योऽक्लेशेन च व्याधिप्रशमकत्वात्| युक्तिः योजना; शरीरभेषजयोर्हितो यो योगस्तदपेक्षं संशोधनसंशमनादि युक्तिव्यपाश्रयमुच्यते| ज्ञानम् अध्यात्मज्ञानं, विज्ञानं शास्त्रज्ञानं , धैर्यम् अनुन्नतिश्चेतसः, स्मृतिः अनुभूतार्थस्मरणं, समाधिः विषयेभ्यो निवर्त्यात्मनि मनसो नियमनम्||५८||

Adhikarana 34 (59-61) · Śloka 61

रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः| विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति||५९|| सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु| विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति||६०|| गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः| श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||६१||

🔊 Audio coming soon

सम्प्रति शरीररोगाधिकारप्रवृत्तत्वादस्य तन्त्रस्य शारीररोगजनकवातादिलक्षणं भेषजं चाह- रूक्ष इत्यादि| प्रधानत्वादग्रे वायोरभिधानम्| रूक्षादीनां ज्यायस्त्वादभिधानं, तेन दारुणादयोऽपि गुणा बोद्धव्याः; रूक्षत्वं च वायावधिकं, स्नेहसाध्यत्वाद्वायोः; अतो रूक्षत्वमग्रेऽभिहितम्| यद्यपि वैशेषिकेऽनुष्णाशीतो वायुः, तथाऽपीह शीतेन वृद्धिदर्शनादुष्णेन च प्रशमदर्शनात्तथा केवलवातारब्धे रोगे शीतदर्शनाच्च शीत एव वायुः; यच्च पित्तयुक्तस्योष्णत्वं, तद्योगवाहित्वात्; यथा पाषाणस्य येन द्रव्येण शीतेनोष्णेन वा योगो भवति तद्गुणानुविधानं, तथा वायोरपि| विपरीता वातगुणप्रतिपक्षा गुणा यस्य तद्विपरीतगुणं; गुणशब्देन चेह धर्मवाचिना रसवीर्यविपाकप्रभावाः सर्व एव गृह्यन्ते, तेन प्रभावादपि यद्वातविपरीतं तदपि गृह्यते| अन्ये त्वेकविपरीतशब्दलोपाद्विपरीतं विपरीतगुणं च ग्राहयन्ति; तेन विपरीतग्रहणात् प्रभावविपरीतं गृह्यते, गुणवैपरीत्याद्विपाकादयो गृह्यन्ते| ननु विपरीतगुणभूयिष्ठैरपि वातादीनां प्रशमो भवति, यतो न हि सर्वं भेषजं वातादीनां सर्वात्मना विरुद्धं भवति; उक्तं हि- “विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते” (वि.अ.१) इति; तत् किमिति विरुद्धगुणभूयिष्ठस्याग्रहणम्? उच्यते- विरुद्धगुणभूयिष्ठस्यापि विपरीतगुणशब्देनैव ग्रहणात्| विपरीतगुणभूयिष्ठेऽपि ये विपरीता अल्पा अबला वा गुणास्ते स्वकार्याकर्तृत्वादव्यपदेश्या एव; किंवा सर्वथा विपरीतगुणैरधिका प्रशस्ता च शान्तिर्भवति, अत एव सम्प्रशब्दौ शीघ्रसम्यक्प्रशमार्थाभिधायकौ कृतौ; विपरीतगुणभूयिष्ठैर्न तथा शान्तिर्भवति, अत एव सम्प्रशब्दाभ्यां न तत् साक्षादुक्तम्| एवं च व्याख्यानं पित्तश्लेष्मणोरपि कर्तव्यम्| सस्नेहमिति ईषत्स्नेहं, तेन पित्ते सर्पिषः स्निग्धस्य भेषजत्वमुपपन्नम्| अम्लरसता चेह पित्तस्योच्यते, अप्तेजःसमारब्धत्वात् पित्तस्य; सुश्रुते तु कटुत्वमेव पित्तस्योक्तम्, अम्लता च विदग्धस्य पित्तस्योक्ता| यदुक्तं- “विदग्धं चाम्लमेव च” (सु.सू.अ.२१) इति| एवं सस्नेहतायामपि पित्तस्य सुश्रुतस्वरसो नास्ति| एतच्च स्निग्धत्वमम्लत्वं च जलानलारब्धत्वात् पित्तस्योपपन्नमेव, सुश्रुते तु तेजोरूपपित्ताभिप्रायेणैव तन्निरस्तं भवति| श्लेष्मणो विपरीतगुणैर्गुणानां प्रशम उच्यते, न पुनः श्लेष्मणः प्रशमोऽभिधीयते; कस्मादेवमुच्यते? गुणप्रशमनेन च गुणिप्रशमो गुणवृद्ध्या च गुणिवृद्धिर्भवतीति सूचनार्थम्| यत उष्णेन शीतप्रशमे क्रियमाणे शीताधारस्योदकभागस्यावश्यमेव प्रशमः क्रियते||५९-६१||

Adhikarana 35 (62) · Śloka 63

विपरीतगुणैर्देशमात्राकालोपपादितैः| भेषजैर्विनिवर्तन्ते विकाराः साध्यसम्मताः||६२|| साधनं न त्वसाध्यानां व्याधीनामुपदिश्यते|६३|

🔊 Audio coming soon

विपरीतगुणैरप्यल्पमात्रैस्तथाऽविपरीतदेशकालादिप्रतिबद्धैश्च न प्रशमो भवतीत्याह- विपरीतेत्यादि| देशो भूमिरातुरश्च, मात्रा अनपायिपरिमाणं, कालो नित्यगः ऋत्वादिरावस्थिको बाल्यादिश्च; देशाद्यपेक्षया यथोचितत्वेन कल्पितो देशमात्राकालोपपादितः| उपपादितैरिति चौरादिको णिच्; किंवा वैद्येनोपपादितैः| अत्र देशग्रहणाद्बलशरीराहारसात्म्यसत्त्वप्रकृतीनां ग्रहणं, कालग्रहणाद्वयसोऽपि ग्रहणं, दोषस्तु प्रशमनीयतयैव गृहीतः, भेषजं तु साक्षादेवोक्तम्; एवं दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसां परीक्ष्याणां दशविधानां सर्वेषामेव ग्रहणं भवति| साध्यत्वेन प्रामाणिकानां सम्मताः साध्यसम्मताः; एतेनाज्ञेनाज्ञानाद्ये साध्यत्वेन गृहीतास्ते निराक्रियन्ते| यत्तु सम्यग्ग्रहणेन याप्ययापनमुच्यते तन्नातिसुन्दरं, विनिवर्तन्त इति वचनात्; न च याप्ययापनं विनिवृत्तिः| असाध्ये भेषजनिवृत्तिमाह- साधनमित्यादि| नन्वसाध्यानामपि साधनं दृष्टं, यतोऽरिष्टवांस्तावदवश्यं मृत्युगृहीतत्वेनासाध्यः; यदुक्तं- “अरिष्टं चापि तन्नास्ति यद्विना मरणं भवेत्| मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्” (इं.अ.२); उत्पन्नारिष्टसाधनं च सुश्रुते प्रोक्तं- “ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः| रसायनतपोजप्यतत्परैर्वा निवार्यते” (सु.सू.अ.२८) इति; तथा चाह भगवानगस्त्यः- “रसायनतपोजप्ययोगसिद्धैर्महात्मभिः| कालमृत्युरपि प्राज्ञैर्जीयते नालसैर्नरैः” इति; तथाऽन्यत्राप्युक्तं- “जाताऽरिष्टोऽपि जीवति” इति| अत्राहुरेके- द्विविधमरिष्टं नियतमनियतं च; तत्र यन्नियतं तदसाध्यमेव, अत एवोक्तं “न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते” (इं.अ.२); अत्र जातस्येति वचनान्नियतस्येति गम्यते; यत्त्वनियतमरिष्टं तत्प्रति सुश्रुतागस्त्यवचनयोरर्थवत्ता| चरकेऽप्यनियतमरिष्टमुक्तं; यथा- संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते (इं.अ.९) इति| अन्ये तु ब्रुवते- संशयप्राप्तमिति उक्तिभेदमात्रमत्र; तेन सर्वारिष्टं मारकमेवासति रसायनादौ, रसायनतपःप्रभृतयस्तु प्रभावातिशययोगादितरक्रिययाऽसाध्यमपि साधयन्ति; तच्चारिष्टनिवारणं विरलेष्वेव पुरुषातिशयेषु नन्दिकेश्वरादिषु दृष्टं, न सर्वपुरुषैस्तच्छक्यमतो जातारिष्टानामसाध्यतैव तन्त्रे प्रोच्यते| यत्तु कैश्चिदुच्यते- नियतायुषो मृत्युररिष्टपूर्वो भवति, अनियतायुषस्त्वरिष्टं विनैव मृत्युर्भवति| तन्न, “मरणं चापि तन्नास्ति यन्नारिष्टपुरःसरम्” (इं.अ.२) इति वचनात्| यदुच्यते- अनियतायुषः सत्यपि रिष्टप्रादुर्भावे सम्यक्क्रियोपपादनाज्जीवितेन भवितव्यं, यतोऽनियतायुषः पुरुषकारापराधादेव परं मृत्युर्भवति, सम्यक्क्रियायां च पुरुषकारापराधो नास्ति| तन्न, नह्यनियतायुषः सर्वदैव पुरुषकारसाध्याः, किन्तु यथोचितकालक्रियमाणस्वस्थातुरहितसेवारूपपुरुषकारसाध्याः; तेन यथोचितकाले हितासेवनादसाध्यत्वयुक्ते व्याधौ रिष्टे जाते किं भेषजमतीतकालक्रियमाणमपक्रान्ते सलिल इव सेतुबन्धः करिष्यतीति| तस्मादसाध्यानां साधनं नोपदिश्यत इति साधु||६२||-

Adhikarana 36 (63) · Śloka 63

भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते||६३||

🔊 Audio coming soon

किमेतान्येव गुणकर्माणि, उतापराण्यपीत्याह- भूयश्चेत्यादि| गुणानां कर्माणि गुणकर्माणि| यथाद्रव्यमिति यस्मिन् यस्मिन् द्रव्ये यद्यद्गुणकर्म तत्तत्तस्मिंस्तस्मिन् द्रव्येऽन्नपानादौ कृत्स्ने वा तन्त्रे वक्ष्यते ‘आचार्य’ इति शेषः; वक्ष्यते इति ब्रूञो वचिरादेशात् प्रयोगः| किंवा यथाद्रव्यमिति यथाहेतुं; तद्यथा- गुरुखरकठिनादिगुणबहुलं पार्थिवद्रव्यं, तेषां च पार्थिवानां गुणानां कर्म उपचयसङ्घातगौरवादीति||६३||

Adhikarana 37 (64) · Śloka 64

रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा| निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः||६४||

🔊 Audio coming soon

सम्प्रति दोषानभिधाय तत्प्रशमनप्रधानान् रसान् वक्तुमुद्यतो रसलक्षणपूर्वकं रसोत्पत्तिक्रममाह- रसनार्थ इत्यादि| रस्यत आस्वाद्यत इति रसः| रसनार्थ इति जिह्वाग्राह्यः| एतच्च षण्णामपि रसानामनुगतं रूपादिषु च व्यावृत्तत्वात् साधुलक्षणम्| तस्येति रसस्य| द्रव्यमिति आधारकारणम्| द्रव्यशब्दो ह्याधारकारणवाची; यथा- “पञ्चेन्द्रियद्रव्याणि” (सू.अ.८) इति| क्षितिस्तथेति यथा आप आधारकारणं तथा क्षितिरपि| ‘अप्क्षिती’ इति वक्तव्ये क्षितिस्तथेतिवचनात् क्षितेराधारकारणत्वममुख्यमिति दर्शयति| येनापो हि निसर्गेण रसवत्यः| तथा ह्यात्रेयभद्रकाप्यीये “सौम्याः खल्वापः” (सू.अ.२६) इत्यादिना जल एव रसस्य व्यक्तिरिति दर्शयति| सुश्रुतेऽप्युक्तं- “तस्मादाप्यो रसः” (सु.सू.अ.४२) इति| क्षितिस्त्वपामेव रसेन नित्यानुषक्तेन रसवतीत्युच्यते| यतो नित्यः क्षितिजलसम्बन्धः; वचनं हि- “विष्टं ह्यपरं परेण” (न्या.द.३/१/६०) इति| अस्यार्थः- खवाय्वग्निजलक्षितीनामुत्तरोत्तरे भूते पूर्वपूर्वभूतस्य नित्यमनुप्रवेशः, तत्कृतश्च खादिषु गुणोत्कर्षः| रसस्य किं व्यक्तावप्क्षिती कारणं किंवा विशेषे इत्याह- निर्वृत्तावित्यादि| निर्वृत्तौ चेति अभिव्यक्तौ| एतेन रसोऽभिव्यज्यमानो जलक्षित्याधार एव व्यज्यत इति दर्शयति| चकाराद्विशेषेऽपि मधुरादिलक्षणे अप्क्षिती प्रत्ययौ| तेन “सोमगुणातिरेकान्मधुरः, पृथिव्यग्निगुणातिरेकादम्लः” (सू.अ.२६) इत्यादिना जलपृथिव्योरपि विशेषकारणत्वं वक्ष्यमाणमुपपन्नम्| विशेषे च प्रत्ययाः खादय इति मधुरादिविशेषनिर्वृत्तौ निमित्तकारणं खवाय्वनलाः, न त्वाधारकारणभूताः| खादय इत्यनेनैव त्रित्वे लब्धे पुनस्त्रय इति वचनं तेषामेव व्यस्तसमस्तानामपि प्रत्ययत्वदर्शनार्थम्; अत एव व्यस्तसमस्ताकाशादिसंसर्गभेदाद्रसानां मधुरतरमधुरतमाद्यवान्तरभेद उपपन्नः| विशेषे चेति चकारादभिव्यक्तावप्याकाशादीनां निमित्तकारणत्वं दर्शयति| वक्ष्यति हि- तास्त्वन्तरीक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतविकारगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति; तासु षडभिमूर्च्छन्ति रसाः (सू.अ.२६) इति| अन्ये तु विशेषे चेति चकारं खादयश्चेत्यत्र योजयन्ति; तेन चकारात् कालोऽपि विशेषेऽभिव्यक्तौ च कारणं लभ्यते| साक्षात्तु कालस्यावचनेन खादिभ्योऽप्यपकृष्टं कालस्य कारणत्वं दर्श्यते| किंवा रसस्यापो द्रव्यं क्षितिस्तथेति पूर्ववदेव; निर्वृत्तौ चेति क्षितिरेव निर्वृत्तावभिव्यक्तौ प्रत्ययो नापः; यत आपो ह्यव्यक्तरसा एव, क्षितिसम्बन्धादेव च रसोऽभिव्यक्त उपलभ्यते| उक्तं च- “जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु षडभिमूर्च्छन्ति रसाः” (सू.अ.२६) इति| तेन पार्थिवद्रव्यसम्बन्धादेवापां रसो व्यज्यते, नान्यथा| विशेषे चेति चकारादप्क्षिती विशेषे कारणे| यद्यपि चाप्क्षिती विशेषे कारणे, तथाऽपि “सोमगुणातिरेकान्मधुरः”- (सू.अ.२६) इत्यादौ तु खादय एव तथा सन्निविशन्ति यथा सोमोऽतिरिक्तो भवति, तेन तत्राप्यूनत्वेन सन्निविष्टाः खादय एव विशेषहेतव इति| यद्यपिचाभिव्यक्तिर्मधुरादिविशेषरहिता क्वचिद्भवति, तथाऽपि सामान्येन सर्वत्र यदभिव्यक्तयेऽनुगतं कारणमुपलभ्यते क्षितिरूपं जलक्षितिरूपं वा तदभिव्यक्तिकारणं; यदनुगमात्तु मधुरादिविशेषोपलब्धिस्तद्विशेषकारणमुच्यते||६४||

Adhikarana 38 (65) · Śloka 65

स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च| कषायश्चेति षट्कोऽयं रसानां सङ्ग्रहः स्मृतः||६५||

🔊 Audio coming soon

रसविशेषानाह- स्वादुरित्यादि| अत्र सर्वप्राणिनामिष्टत्वादादौ मधुर उक्तः; तदनु च प्राण्यभीष्टोत्कर्षक्रमेणैवाम्लादिनिर्देशक्रमो बोद्धव्यः| षट्क इति पुनः सङ्ख्याकरणं परवादिमतसप्तसङ्ख्यत्वादिनिषेधार्थम्| अयं सङ्ग्रह इत्यनेनावान्तरभेदबहुत्वं तथा वक्ष्यमाणरससंसर्गबहुत्वं च दर्शयति||६५||

Adhikarana 39 (66) · Śloka 1

स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः| जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः||६६|| (कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्| कटुतिक्तकषायाश्च कोपयन्ति समीरणम् ||१||)|

🔊 Audio coming soon

रसानामुपयुक्ततरं कार्यमाह- स्वाद्वम्लेत्यादि| अत्र च वायोर्नीरसस्यापि रससहचरितस्निग्धत्वादिगुणैर्विपरीतैः प्रशमो ज्ञेयः| एवं मधुररसस्यापि श्लेष्मणोऽम्ललवणाभ्यां स्निग्धत्वाभिष्यन्दित्वादिसहचरितगुणयोगादेव वृद्धिः| अत्र च ये प्रशमकत्वेन रसा वातादीनां नोक्तास्ते वर्धका बोद्धव्याः| यदाह वाग्भटः- “तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्| कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते” (वा.सू.अ.१) इति| रसकर्मातिदेशेनैव गुणवीर्यविपाकानामपि कर्मनिर्देशः कृत एव| यतो मधुरादिरसेनैव सर्वगुणान् वीर्यविपाकांश्च निर्देक्ष्यत्यात्रेयभद्रकाप्यीये- “तत्र स्वादुः” (सू.अ.२६) इत्यादिना; तथा “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः” (सू.अ.२६); तथा “अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा” (सू.अ.२६) तथा “शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोरम्लं यदुष्णं च यच्चोष्णं कटुकं तयोः” (सू.अ.२६) इत्यादिना||६६||

Adhikarana 40 (67) · Śloka 67

किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्| स्वस्थवृत्तौ मतं किञ्चित्त्रिविधं द्रव्यमुच्यते||६७||

🔊 Audio coming soon

अतोऽवशिष्टं द्रव्यकार्यं प्रभावकृतं वक्तुं प्रभावभेदेन द्रव्यभेदमाह- किञ्चिदित्यादि| किञ्चिदिति न सर्वम्| दोषस्य दोषयोर्दोषाणां वा प्रशमनं दोषप्रशमनम्| दोषग्रहणेन दुष्टा रसादयोऽपि गृह्यन्ते| तेन द्रव्यमहिम्ना यद्दोषाणां दुष्टानां रसादीनां धातूनां वा शमकमामलकदुरालभादि तद्गृह्यते| आमलकं हि शिवत्वात्त्रिदोषहरं; दुरालभा चापि वातपित्तश्लेष्महरी| यद्यपि चामलकस्य “हन्ति वातं तदम्लत्वात्” (सु.सू.अ.४६) इत्यादिना गुणद्वारा त्रिदोषहरत्वमुच्यते, तथाऽपि तत्प्रभावबृंहितमेव बोद्धव्यम्| यतस्तत्राम्लत्वादिना पित्तादिकोऽपि युज्यते, स त्वामलकप्रभावान्न भवति| धातुप्रदूषणमिति वातादीनां समत्वेन शरीरधारणात्मकानां तथा रसादीनां च दूषणं किञ्चित्, यथा- यवकमन्दकविषादि| सुष्ठु अवतिष्ठते नीरोगत्वेनेति स्वस्थः, तस्य वृत्तिः स्वस्थरूपतयाऽनुवर्तनं, तत्र स्वस्थवृत्तौ मतमभिमतं पूजितमिति यावत्| सङ्ख्येयनिर्देशादेव त्रित्वे लब्धे त्रिविधग्रहणं नियमार्थम्| तेन संशोधनसंशमनादीनामनेकविधानामप्यत्रैवावरोधः| रसायनवाजीकरणे तु स्वस्थवृत्तिमात्र एव| यदुक्तं- “स्वस्थस्योजस्करं यत्तु तद्वृष्यं तद्रसायनम्” (चि.अ.१पा.१) इति| प्रतिपादे किञ्चिद्ग्रहणं दोषहरत्वादिकर्मणां विभिन्नद्रव्याश्रयित्वोपदर्शनार्थम्; एककिञ्चिद्ग्रहणे त्वेकमेव द्रव्यं दोषहरं धातुप्रदूषकं स्वस्थवृत्तिमतं च स्यात्, न च तदभिमतम्| ननु, स्वस्थवृत्तिमतानां रक्तशालिषष्टिकयवादीनां दोषप्रशमनत्वमपि दृश्यते, यतो वक्ष्यति तत्र तत्र रक्तशाल्यादीनां ज्वरादौ प्रयोगं; तथा प्रकृतिशरीरदेशकालमात्राभि(दि)युक्तं दोषप्रशमनमपि दोषकरं भवति, यथा- आमलकमतिमात्रमग्निमान्द्यायेत्यादि ज्ञेयं; तथा धातुप्रदूषणमपि दोषशमनं दृश्यते, यथा- विषमुदरहरं, तथा यदेव मन्दकादि दोषकरं तदेव क्षीणदोषं प्रति दोषवृद्ध्या साम्यापादनेन दोषप्रशमनं भवति; तदेवमव्यवस्थितत्वात् किञ्चिद्दोषप्रशमनमित्यादि विरुद्धम्| अत्रोच्यते- स्वस्थवृत्तिमतं रक्तशाल्यादि दोषप्रशमनमपि भवति, परं तत् प्रायः स्वस्थवृत्तिहितत्वात् स्वस्थवृत्तिमतत्वेन गृह्यते| वचनं हि- “स्वस्थस्योर्जस्करं यत्तु तद्वृष्यं तद्रसायनम्| प्रायः, प्रायेण रोगाणां द्वितीयं शमने हितम्|| प्रायःशब्दो विशेषार्थ उभयं ह्युभयार्थकृत्” (चि.अ.१) इति| दोषप्रशमनानि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकाभावे दोषप्रशमनमाचरन्त्येव, प्रतिबन्धकसद्भावे तु न कुर्वन्ति, न चैतावता तेषां स स्वभावो न भवति; नह्यग्निर्मन्त्रादिप्रतिबन्धात् कदाचिन्न दहतीति दाहकत्वेन नोपदिश्यते; एवं धातुप्रदूषकस्यापि कदाचिद्धातुप्रशमकत्वं निमित्तान्तरयोगाद्भवन्न धातुप्रदूषकस्वरूपतां हन्ति, यथा सलिलस्याग्निसम्बन्धादुष्णत्वम्| तस्माद्यद्यस्य प्रायिकमनन्योपाधिकृतं च रूपं, तेनैव व्यपदेशो युक्तः| यच्च मन्दकादीनां क्षीणदोषवर्धकत्वेन दोषप्रशमकत्वं तद्विद्यमानमपि कादाचित्कत्वात्तथा ह्युत्तरकालं दोषावहत्वाच्च न व्यपदिश्यते दोषप्रशमकत्वेन| ननु, यद्यप्येवं तथाऽपि यदेकदोषहरमपरदोषकरं यथा मरिचं श्लेष्महरं पित्तकरं चेत्यादि बहुद्रव्यजातं तत् कुत्र प्रविशतु? अत्रैके वदन्ति- यदुभयात्मकं तद्दोषहरं दोषकरं च, नचैतावता द्रव्यत्रित्वक्षतिः; यतो न वातादिसंसर्गजव्याधिसद्भावे वातादिजन्यत्वेन यत्त्रैविध्यं रोगाणामुच्यते तत् खण्डितं भवति; किंवा मरिचादीनां यदुभयकर्तृत्वं न तद्द्रव्यप्रभावकृतं, किं तर्हि रसादिकृतं, तेन न द्रव्यप्रभावप्रस्तावे तदुदाहरणीयं; नच किञ्चिद्द्रव्यं तादृशमस्ति यत् प्रभावादेव किञ्चिद्दोषं करोति किञ्चिच्छमयतीति न दोषप्रशमनत्वादिप्रभावं प्रति नियमः; अयमेव च पक्षः साधुः| ननु ‘किञ्चिद्दोषप्रशमनं किञ्चिद्दोषप्रदूषणम्’ इति वा क्रियतां, ‘किञ्चिद्धातुप्रशमनं किञ्चिद्धातुप्रदूषणम्’ इति वा| नैवं, तथा सति दोषशब्दस्य मुख्यवृत्त्या वातादिष्वेव वृत्तित्वात्तथा धातुशब्दस्य च रसादिवृत्तित्वादुभयग्रहणं न प्राप्यते; उभयपदोपादानेन द्वयं निपुणकारी तन्त्रकारो दूषणत्वधारणत्वयोगपरिग्रहाद्दोषप्रशमनेन दुष्टरसादिप्रशमनमपि भेषजं विविधाशितपीतीयादिवक्ष्यमाणं, तथा धातुप्रदूषणेन वातादिप्रदूषकमपि निदानादिवक्ष्यमाणं ग्राहयति| प्रशब्दोऽत्र प्रकारे; तेन प्रकारेण मृदुमध्यादिना प्रकोपणं, तथा प्रकारेण संशोधनसंशमनादिना शमनमुच्यते; किंवा धात्वर्थानुवृत्तावेव इमौ प्रशब्दौ, यथा- ‘च्युतांशः परिधावति’ इत्यत्र धावतीत्यर्थः| आदौ दोषप्रशमनग्रहणं तस्यैवेहाभिप्रेतत्वात्| ननु स्वस्थवृत्तिमतं द्रव्यं भाविदोषहरत्वेन दोषप्रशमनमेव| नैवं, नहि स्वास्थ्यानुवृत्तिजनकत्वाद्दोषनिवृत्तिकरं दोषहरणमुच्यते, किं तर्हि समधातूनामवर्धकत्वेनाक्षयकरत्वेन च रसादिस्रोतसां चानुगुणत्वेन धातुसाम्यानुवृत्तिकरमुच्यते| वचनं हि- “पथ्यं पथोऽनपेतं यत्” (सू.अ.२५) इति||६७||

Adhikarana 41 (68-73) · Śloka 74

तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम् | मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्||६८|| विण्मूत्रचर्मरेतोऽस्थिस्नायुशृङ्गनखाः खुराः| जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः||६९|| सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा| मनःशिलाले मणयो लवणं गैरिकाञ्जने||७०|| भौममौषधमुद्दिष्टमौद्भिदं तु चतुर्विधम्| वनस्पतिस्तथा वीरुद्वानस्पत्यस्तथौषधिः||७१|| फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि| ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः||७२|| मूलत्वक्सारनिर्यासनाल(ड)स्वरसपल्लवाः| क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः||७३|| पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः|७४|

🔊 Audio coming soon

सम्प्रत्यन्यथा द्रव्यभेदमाह- तत् पुनरित्यादि| तदिति द्रव्यम्| गच्छतीति जङ्गमम्, उद्भिद्य पृथिवीं जायत इति औद्भिदं वृक्षादि, उक्तप्रकारद्वयातिरिक्तः पृथिवीविकारः पार्थिवम्| संस्वेदजस्येह क्रिम्यादेर्जङ्गमेऽवरोधः, कुकुण्डकादेश्च औद्भिदे| इह च द्रव्यशब्देन पार्थिवद्रव्यमेवोच्यते; तेन जलानिलाग्न्यादीनामग्रहणादव्याप्तिर्न वाच्या| जङ्गमशब्देन जङ्गमप्रभवं गोरसमध्वाद्यपि ग्राह्यम्| एवमौद्भिदपार्थिवयोरपि ग्रहणं वाच्यम्| रोचना गोरोचना| एतच्च मध्वादि प्राय उपयोगित्वात् प्राधान्यादुक्तं; तेनाण्डबस्त्यादीनां च ग्रहणं बोद्धव्यम्| यद्यपि जङ्गमानन्तरं बहुप्रपञ्चत्वेन प्रधानत्वादौद्भिदमुपदिष्टं, तथाऽप्यबहुवक्तव्यत्वात् पार्थिवमेव जङ्गमानन्तरं विव्रियते; तदनु बहुवक्तव्यमौद्भिदम्| सुवर्णमित्यादि| पञ्च लोहा इति ताम्ररजतत्रपुशीसकृष्णलोहानां ग्रहणम्| समला इति मलशब्देन शिलाजतूनि लोहमलरूपाणि गृह्यन्ते, तच्च सुश्रुतदर्शनात् सुवर्णरजतादिभवं षड्विधमेव गृह्यते; सुश्रुते हि षड्विधमेव शिलाजतूक्तम्, इह तु रसायने चतुर्विधमुक्तं- “चतुर्भ्यो धातुभ्यस्तस्य सम्भवः| हेम्नोऽथ रजतात्ताम्राद्वरं कृष्णायसादपि” (चि.अ.१) इति वचनात्| एतच्च वचनं रसायनाधिकारितां चतुर्विधस्य शिलाजतुनो दर्शयति, नतु षड्विधशिलाजतुप्रतिषेधपरमिति न सुश्रुतेन समं विरोधः| किंवा सुवर्णं निर्मलं, समलास्तु रजतताम्रत्रपुशीसलोहाः (इति मिलित्वा पञ्च लोहाः|) शिलाजतुपाषाणपङ्कप्रभृतीनां तु ग्रहणमुद्दिष्टशब्देन सूचितम्; उद्देशो ह्यल्पकथनम्| सुधा गाङ्गेयिका| आलं हरितालम्| अञ्जनं सौवीराञ्जनम्| फलैर्वनस्पतिरिति विनापुष्पैः फलैर्युक्ता वटोदुम्बरादयः| यदुक्तं हारीते- “तेषामपुष्पाः फलिनो वनस्पतय इति स्मृताः” इति| पुष्पैर्वानस्पत्यः फलैरपीति पुष्पानन्तरं फलभाज इत्यर्थः| फलस्य पाकादन्तो विनाशो येषां तिलमुद्गादीनां ते फलपाकान्ताः; अत्र केचित् फलपाकान्ताः पाकान्ताश्चौषध्य इति वदन्ति; तेन विनाऽपि फलं पाकेनैवान्तो येषां दूर्वादीनां तेऽपि गृह्यन्ते| प्रतानशब्देन लता गुल्माश्च गृह्यन्ते| यदुक्तं हारीतेन- “लता गुल्माश्च वीरुधः” इति| मूलत्वगित्यादौ निर्यासो लाक्षासर्जरसादिः| औद्भिदो गण इत्यौद्भिदसमुद्भूतो गणः||६८-७३||-

Adhikarana 42 (74-76) · Śloka 76

मूलिन्यः षोडशैकोना फलिन्यो विंशतिः स्मृताः||७४|| महास्नेहाश्च चत्वारः पञ्चैव लवणानि च| अष्टौ मूत्राणि सङ्ख्यातान्यष्टावेव पयांसि च||७५|| शोधनार्थाश्च षड् वृक्षाः पुनर्वसुनिदर्शिताः| य एतान् वेत्ति संयोक्तुं विकारेषु स वेदवित्||७६||

🔊 Audio coming soon

सम्प्रत्यत्रैव जङ्गमौद्भिदपार्थिवद्रव्ये यत् प्रशस्तं तदाह- मूलिन्य इत्यादि| मूलं प्रशस्ततमं यासां ता मूलिन्यः; एवं फलिन्योऽपि| षोडशेति च्छेदः| महास्नेहा इति क्षीरमांसादीनामपि स्नेहतया स्नेहाध्याये वक्ष्यमाणत्वेन तेषु सर्पिरादीनां भूरिस्नेहवत्त्वेन महत्त्वम्| पञ्चैव लवणानीति विमाने (वि.अ.८) वक्ष्यमाणलवणबहुत्वे पञ्चानामेव प्रशस्तत्वेन दर्शनार्थम्| एवं मूत्रादिष्वपि प्राधान्यमुन्नेयं सजातीयेषु| वेदविदिति आयुर्वेदवित्||७४-७६||

Adhikarana 43 (77-79) · Śloka 80

हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा| सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि||७७|| ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका| अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी||७८|| शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि| श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने||७९|| एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने| इत्युक्ता नामकर्मभ्यां मूलिन्यः...|८०|

🔊 Audio coming soon

हस्तिदन्तीत्यादि| हस्तिदन्ती बृहत्फला गोडुम्बा, ‘इयमेव नागदन्ती भण्यते’ इत्येके| हैमवती वचा| श्यामा श्याममूला त्रिवृत्| अधोगुडा प्रद्धदारकः| सप्तला चर्मकषा| श्वेतनामा श्वेताऽपराजिता| प्रत्यक्श्रेणी दन्ती| बिम्बी ओष्ठोपमफला| शणपुष्पी घण्टारवा| विषाणिका आवर्तनी| अजगन्धा ‘फोकान्दी’ इति ख्याता| द्रवन्ती दन्त्येव चीरितपत्रा| क्षीरिणी दुग्धिका| मूलिनीनां वमनादिविनियोगमाह- शणपुष्पीत्यादि||७७-७९||-

Adhikarana 44 (80-85) · Śloka 86

...फलिनीः शृणु||८०|| शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च| धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्| आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्||८१|| प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया| अन्तःकोटरपुष्पी च हस्तिपर्ण्याश्च शारदम्||८२|| कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च| धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्||८३|| मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी| एतानि वमने चैव योज्यान्यास्थापनेषु च||८४|| नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते| दश यान्यवशिष्टानि तान्युक्तानि विरेचने||८५|| नामकर्मभिरुक्तानि फलान्येकोनविंशतिः|८६|

🔊 Audio coming soon

शङ्खिनी श्वेतबुह्ना(ध्न)| क्लीतकं यष्टीमधु; अस्य तु यद्यपि सुश्रुते मूलं प्रशस्तं, मूलेनैव व्यवहारः, तथाऽपि विरेचनं प्रति यष्टीमधुद्वयस्यापि फलमेव प्रशस्तं ज्ञेयम्| धामार्गवः पीतघोषकः| इक्ष्वाकुः तिक्तालाबुः| जीमूतो घोषकभेदः| कृतवेधनं ज्योत्स्निका| प्रकीर्योदकीर्ये करञ्जद्वयम्| प्रत्यक्पुष्पा अपामार्गः| अन्तःकोटरपुष्पी नीलबुध्ना| हस्तिपर्णी मोरटः, अस्याश्च शरत्कालभवमेव फलं ग्राह्यं; अत उक्तं- हस्तिपर्ण्याश्च शारदमिति| कम्पिल्लकं गुण्डारोचनिका| आरग्वधस्य यद्यपि सुश्रुते पत्रं प्रधानमुक्तं, तथाऽपीह फलं गृह्यते प्रधानतमत्वात्| धामार्गवमित्यादिना पञ्चकर्मविनियोग उच्यते| नस्तः प्रच्छर्दन इति शिरोविरेचने||८०-८५||-

Adhikarana 45 (86-87) · Śloka 88

सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः ||८६|| पानाभ्यञ्जनबस्त्यर्थं नस्यार्थं चैव योगतः| स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः||८७|| स्नेहा ह्येते च विहिता वातपित्तकफापहाः|८८|

🔊 Audio coming soon

महास्नेहेषु सर्पिरादौ पठितं, प्राधान्यात्; वचनं हि- “नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्” (नि.अ.१) इति||८६-८७||-

Adhikarana 46 (88-91) · Śloka 92

सौवर्चलं सैन्धवं च विडमौद्भिदमेव च||८८|| सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च| स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि च||८९|| आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा| अधोभागोर्ध्वभागेषु निरूहेष्वनुवासने||९०|| अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने| शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च||९१|| अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे| उक्तानि लवणा(नि)...|९२|

🔊 Audio coming soon

लवणेषु यद्यपि सैन्धवं प्रधानं, यतो वक्ष्यति- “सैन्धवं लवणानाम्” (सू.अ.२५) इत्यग्र्याधिकारे, तथाऽपि सौवर्चलस्य रोचनत्वप्रकर्षात्तथा सैन्धवमनु प्राधान्यख्यापनार्थमग्रे पाठः| औद्भिदम् औत्कारिकालवणं, केचिच्छाम्भरिलवणमाहुः| सामुद्रं दक्षिणसमुद्रभवं ‘करकच’ इति ख्यातम्| अभ्यञ्जन इति स्नेहाभ्यङ्गे| वर्त्यर्थमिति फलवर्त्यर्थम्||८८-९१||-

Adhikarana 47 (92-104) · Śloka 105

... न्यू(ऊ)र्ध्वं मूत्राण्यष्टौ निबोध मे||९२|| मुख्यानि यानि दिष्टानि सर्वाण्यात्रेयशासने| अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत् ||९३|| हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च| उष्णं तीक्ष्णमथोऽरूक्षं कटुकं लवणान्वितम्||९४|| मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च| युक्तमास्थापने मूत्रं युक्तं चापि विरेचने||९५|| स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च| उदरेष्वथ चार्शःसु गुल्मिकुष्ठिकिलासिषु ||९६|| तद्युक्तमुपनाहेषु परिषेके तथैव च| दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते||९७|| पाण्डुरोगोपसृष्टानामुत्तमं शर्म चोच्यते| श्लेष्माणं शमयेत् पीतं मारुतं चानुलोमयेत्||९८|| कर्षेत् पित्तमधोभागमित्यस्मिन् गुणसङ्ग्रहः| सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते||९९|| अविमूत्रं सतिक्तं स्यात् स्निग्धं पित्ताविरोधि च| आजं कषायमधुरं पथ्यं दोषान्निहन्ति च||१००|| गव्यं समधुरं किञ्चिद्दोषघ्नं क्रिमिकुष्ठनुत्| कण्डूं च शमयेत् पीतं सम्यग्दोषोदरे हितम्||१०१|| अर्शःशोफोदरघ्नं तु सक्षारं माहिषं सरम्| हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम्||१०२|| प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम्| सतिक्तं श्वासकासघ्नमर्शोघ्नं चौष्ट्रमुच्यते||१०३|| वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम्| खरमूत्रमपस्मारोन्मादग्रहविनाशनम्||१०४|| इतीहोक्तानि मूत्राणि यथासामर्थ्ययोगतः|१०५|

🔊 Audio coming soon

अविमूत्रमित्यादौ स्त्रीमूत्रमेव प्रशस्तमिति लिङ्गपरिग्रहाद्दर्शयति; यतः स्त्रीणां लघ्वङ्गत्वान्मूत्रमपि लघु; वचनं हि- “लाघवं जातिसामान्ये स्त्रीणां पुंसां च गौरवम्” (सू.अ.२७) इति| यत्तूच्यते- पुंसां मूत्रं शुक्रसम्बन्धाद्गुरु; तन्न, शुक्रसम्बन्धस्य स्त्रीणामपि शुक्रवत्त्वेन तुल्यत्वात्; वचनं हि- “यदा नारी हि नार्या तु मैथुनायोपपद्यते| मुञ्चतः शुक्रमन्योऽन्यमनस्थिस्तत्र जायते ” इत्यादि; नपुंसकमूत्रं त्वमङ्गलत्वान्न गृह्यते| अगदेष्वित्यनेनागदप्रयोगयौगिकत्वं, विषघ्नमित्यनेन च केवलस्यैव विषहन्तृत्वमिति न पौनरुक्त्यम्| शर्म चोच्यत इति आरोग्यरूपसुखकर्तृत्वात्| अधोभागमिति अधोमार्गेण पित्तं कर्षेत्; किंवा यदेवाधोगतं पित्तं तदेव विरेचयति नोर्ध्वगम्| यथासामर्थ्ययोगत इति यादृशः शक्तियोगो मूत्राणां तथा||९२-१०४||-

Adhikarana 48 (105-113) · Śloka 113

अतः क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च ये||१०५|| अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत्| उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा||१०६|| प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम्| प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम्||१०७|| जीवनीयं श्रमहरं श्वासकासनिबर्हणम्| हन्ति शोणितपित्तं च सन्धानं विहतस्य च||१०८|| सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा| तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च||१०९|| पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे| अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः ||११०|| योनिशुक्रप्रदोषेषु मूत्रेष्वप्रचुरेषु च| पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम्||१११|| नस्यालेपावगाहेषु वमनास्थापनेषु च| विरेचने स्नेहने च पयः सर्वत्र युज्यते||११२|| यथाक्रमं क्षीरगुणानेकैकस्य पृथक् पृथक्| अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः||११३||

🔊 Audio coming soon

प्रायशो मधुरमिति प्राधान्येन मधुरम्| तेन क्षीरमुष्ट्रीणामीषल्लवणं तथा छागं कषायमित्यादौ रसान्तरस्याप्राधान्येनानुबन्धोऽपि क्षीरे भवतीति दर्शयति| प्रायश इति बृंहणं स्निग्धमित्येताभ्यां तथा शीतमित्यनेन च सम्बध्यते; तेनौष्ट्रस्य रूक्षोष्णत्वाभिधानं न विरोधि| स्तन्यमिति स्तन्यवृद्धिकरम्| मनस्करमिति प्रभावादोजस्करत्वाच्च; ओजोवृद्ध्या हि तदनुविधायिनो मनसोऽपि स्वकर्मसामर्थ्यं भवति| एतदेव च नित्यस्येह मनसः करणं यन्मनसः प्रकर्षबुद्ध्युत्कर्षादिगुणकरणम्| हन्ति शोणितपित्तमिति अवस्थाविशेषापन्नमेव शोणितपित्तं हन्ति| वचनं हि- “कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च| यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु, तत्र कार्यम्|| छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा” (चि.अ.४) इति| एवं च यदुच्यते- अधोभागे रक्तपित्ते सरत्वात् क्षीरमयौगिकम्, ऊर्ध्वगे च कफकर्तृतयाऽयौगिकमिति, तन्निरस्तम्| सर्वप्राणभृतां सात्म्यमित्यत्र सर्वशब्दश्चिकित्स्यतया प्रकृतसर्वमनुष्येष्वेव वर्तते, तेन क्षीरस्य संस्वेदजादिप्राण्यसात्म्यत्वं नोद्भावनीयं; किंवा सर्वशब्दोऽयं भूरिवचनः||१०५-११३||

Adhikarana 49 (114-115) · Śloka 115

अथापरे त्रयो वृक्षाः पृथग्ये फलमूलिभिः| स्नुह्यर्काश्मन्तकास्तेषामिदं कर्म पृथक् पृथक्||११४|| वमनेऽश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने| क्षीरमर्कस्य विज्ञेयं वमने सविरेचने||११५||

🔊 Audio coming soon

फलमूलिभिरिति पृथक्शब्दयोगादपादाने तृतीया| अश्मन्तको मालुयासदृशपत्रो वृक्षः||११४-११५||

Adhikarana 50 (116-119) · Śloka 119

इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितास्त्वचः| पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः||११६|| विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा| कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते||११७|| दद्रुविद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च| षड्वृक्षाञ्छोधनानेतानपि विद्याद्विचक्षणः||११८|| इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च| मूत्रं क्षीराणि वृक्षाश्च षड् ये दिष्टपयस्त्वचः||११९||

🔊 Audio coming soon

पूतीकः कण्टकीकरञ्जः| तिल्वको लोध्रः; तस्य तरुरिति विशेषणेन पट्टिकालोध्रं व्युदस्यति, शाबरलोध्रं च महाप्रमाणं तरुशब्दयोग्यं ग्राहयति; किंवा तरुविशेषणेन बालं लोध्रं व्युदस्यति| षड्वृक्षाञ् शोधनानित्यत्र यद्यपि कृष्णगन्धायाः पञ्चकर्मण्यनभिधानान्न शोधनत्वं, तथाऽपि बाह्यालेपनेन बहिःस्थितदोषसंशोधनत्वं बोद्धव्यं; किंवा अपिशब्दात् कृष्णगन्धाया अशोधनत्वमपि सूच्यते||११६-११९||

Adhikarana 51 (120-123) · Śloka 123

ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने| अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः||१२०|| न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः| ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति||१२१|| योगवित्त्वप्यरूपज्ञस्तासां तत्त्वविदुच्यते| किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक्||१२२|| योगमासां तु यो विद्याद्देशकालोपपादितम्| पुरुषं पुरुषं वीक्ष्य स ज्ञेयो भिषगुत्तमः||१२३||

🔊 Audio coming soon

उक्तानामोषधीनां योगज्ञानस्य प्राधान्यं दर्शयन्नाह- ओषधीरित्यादि| परां प्राप्तिमिति उत्कृष्टं व्याधिशरीराद्यपेक्षं सम्यग्योगम्| योगो व्याधिशरीराद्यपेक्षा सम्यग्योजना भेषजस्य| सर्वथेति नामरूपयोगैः| योगमेव विशिष्टं दर्शयन्नाह- योगमित्यादि| देशकालोपपादितमिति देशकालकृतम्| पुरुषं पुरुषं वीक्ष्येति वीप्सायां, प्रतिपुरुषं प्रकृत्यादिभेदेन योगस्य प्रायो भेदो भवतीति दर्शयति| पुरुषशब्देन चेह संयोगपुरुषोऽभिप्रेतः||१२०-१२३||

Adhikarana 52 (124-125) · Śloka 125

यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा| तथौषधमविज्ञातं विज्ञातममृतं यथा||१२४|| औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः| विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते||१२५||

🔊 Audio coming soon

योगस्यौषधज्ञानाधीनत्वादौषधाज्ञानस्य महानर्थकारितां बहुभिर्दृष्टान्तैर्दर्शयति- यथा विषमित्यादि| विषादिबहुदृष्टान्तेनाज्ञातं भेषजं किञ्चिद्विषवत् सञ्ज्ञानाशं कृत्वा मारयति, किञ्चिच्च शस्त्रवन्मर्मच्छेदं कृत्वा मारयति, किञ्चिच्चाग्निवत् स्फोटादिकं कृत्वा मारयति, किञ्चिच्चाशनिवत् सद्यो मारयतीति दर्शयति| नामरूपगुणैरित्यनेन त्रित्वे लब्धे पुनस्त्रिभिरिति वचनमेकैकज्ञानप्रतिषेधार्थं; तेन त्रिभिरेव मिलितैर्ज्ञातं भेषजं प्रशस्तमिति दर्शयति||१२४-१२५||

Adhikarana 53 (126-133) · Śloka 133

योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्| भेषजं चापि दुर्युक्तं तीक्ष्णं सम्पद्यते विषम्||१२६|| तस्मान्न भिषजा युक्तं युक्तिबाह्येन भेषजम्| धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा||१२७|| कुर्यान्निपतितो मूर्ध्नि सशेषं वासवाशनिः| सशेषमातुरं कुर्यान्नत्वज्ञमतमौषधम्||१२८|| दुःखिताय शयानाय श्रद्दधानाय रोगिणे| यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति||१२९|| त्यक्तधर्मस्य पापस्य मृत्युभूतस्य दुर्मतेः| नरो नरकपाती स्यात्तस्य सम्भाषणादपि||१३०|| वरमाशीविषविषं क्वथितं ताम्रमेव वा| पीतमत्यग्निसन्तप्ता भक्षिता वाऽप्ययोगुडाः||१३१|| नतु श्रुतवतां वेशं बिभ्रता शरणागतात्| गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात्||१३२|| भिषग्बुभूषुर्मतिमानतः स्वगुणसम्पदि| परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम्||१३३||

🔊 Audio coming soon

योगं स्तौति- योगादपीत्यादि| विषं च सम्यग्योगाद्भेषजं भवतीति “तिलं दद्याद्विषस्य तु” (चि.अ.१) इत्यादिप्रयोगे बोद्धव्यम्| न केवलमातुरेणैवाभिषजो भेषजं नादेयं, किन्तु भिषजाऽपि युक्तिबाह्येन भेषजमातुराय न देयमित्याह- दुःखितायेत्यादि||१२६-१३३||

Adhikarana 54 (134) · Śloka 134

तदेव युक्तं भैषज्यं यदारोग्याय कल्पते| स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्||१३४||

🔊 Audio coming soon

अथ सम्यग्युक्तस्य भेषजस्य किं लक्षणं किंवा उपादेयस्य श्रेष्ठवैद्यस्य लक्षणमित्याह- तदेवेत्यादि| रोगेभ्यो यः प्रमोचयेदित्यनेन च ज्ञानपूर्वं भेषजप्रयोगेण रोगहारकत्वमुच्यते; तेन यादृच्छिकसिद्ध्या कुवैद्यव्यवहारो न वाच्यः; यादृच्छिकसिद्धौ हि वैद्यो न रोगप्रमोक्षे कारणं, किन्तु घुणाक्षरन्यायेन दैवागतो भेषजस्य सम्यग्योग इति||१३४||

Adhikarana 55 (135) · Śloka 135

सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्| सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम्||१३५||

🔊 Audio coming soon

कथमारोग्यात् सम्यग्योगो भेषजस्य ज्ञायते इत्याह- सम्यक्प्रयोगमित्यादि| सर्वेषामित्यनेनान्येषामपि कर्मणां प्रतिमाकरणादीनां सिद्धिः सम्यग्योगं तत्कारणतां ख्यापयति; न ह्यसम्यक्प्रयुक्ते कारणे सम्यक् कार्यं भवति| सिद्धिराख्यातीति उक्ता प्रातिनियमिकी सिद्धिः, न यादृच्छिकी| सर्वैर्गुणैरिति श्रुते पर्यवदातत्वादिभिः खुड्डाकचतुष्पाद (सू.अ.१०) वक्ष्यमाणैः||१३५||

Adhikarana 56 (136-140) · Śloka 140

तत्र श्लोकाः- आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम्| सूत्रणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः||१३६|| सम्पूर्णं कारणं कार्यमायुर्वेदप्रयोजनम्| हेतवश्चैव दोषाश्च भेषजं सङ्ग्रहेण च||१३७|| रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसङ्ग्रहः| मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च||१३८|| मूत्रं क्षीराणि वृक्षाश्च षड् ये क्षीरत्वगाश्रयाः| कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः||१३९|| वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः| सर्वमेतत् समाख्यातं पूर्वाध्याये महर्षिणा||१४०||

🔊 Audio coming soon

तत्र श्लोका इति तन्त्रकारस्य रीतिरियं यत्- यत्रोक्तमर्थं सङ्ग्रहेणाभिधत्ते तत्र ‘तत्र श्लोका’ इति करोति; यत्र तूक्तादनधिकमुच्यते तत्र ‘भवति चात्र’ इति करोति; न चास्य निष्प्रयोजनत्वं, तन्त्रधर्मत्वात्| अध्यायोक्तमर्थमध्यायान्ते सङ्ग्रहेणाभिधत्ते- आयुर्वेदागम इत्यादिना| सङ्ग्रहकथनं च पूर्वोक्तार्थस्य सङ्क्षेपेण ग्रहणार्थं तथा दुर्ज्ञानप्रतिषेधार्थं च| यतो यत्किञ्चिदत्र दुर्ज्ञानं स्यात्तदिह प्रतिपादितार्थसंवादेनावधार्यते| वचनं हि- “गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते| तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते” (नि.अ.१) इति| अत्र च गद्योक्त इति विस्तरोक्तोपलक्षणम्| तेन श्लोकोक्तस्याप्यारग्वधीयाद्यर्थस्य पुनः श्लोकेन सङ्ग्रहणमविरुद्धम्| व्यक्तिः स्पष्टता, व्यवसायः अवधारणम्| आगम इति “दीर्घञ्जीवितमन्विच्छन्” इत्यादिना, हेतुरिति आयुर्वेदागमहेतुः, स च “विघ्नभूता यदा रोगा” इत्यादिना रोगप्रादुर्भाव उक्तः; किंवा “दीर्घञ्जीवितमन्विच्छन्” इत्यादिश्लोको विशेषेणायुर्वेदागमस्य तथाऽऽयुर्वेदागमहेतोश्च पिण्डसूत्ररूपः, “ब्रह्मणा हि” इत्यादिग्रन्थस्त्वायुर्वेदागमप्रतिपादकः, हेतुप्रतिपादकस्तु “विघ्नभूता” इत्यादिग्रन्थो यथोक्त एव| आगमस्य प्रवर्तनमिति इन्द्रादानीय भरद्वाजेन मर्त्यलोके प्रवर्तनमायुर्वेदग्रहणपर्यन्तम्| सूत्रणमित्यायुर्वेदतन्त्रकरणमग्निवेशादीनाम्| अभ्यनुज्ञानमिति “तानि चानुमतानि” इत्यादि| शेषं सुगमम्||१३६-१४०||

Adhikarana puShpikA · Śloka 1

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः||१||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकाख्यायां चरकतात्पर्यटीकायां सूत्रस्थाने दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः||१||