Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. indriyōpakramaṇīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

स्वस्थाधिकारे आहाराचारचेष्टासु परं प्रयत्नमातिष्ठेदित्युक्तं, तत्राहारचेष्टाः काश्चित् पूर्वाध्यायत्रयेण प्रतिपादिताः, तेनावशिष्टस्याचारस्याभिधानार्थं तथेन्द्रियमनसामतियोगायोगमिथ्यायोगपरिहाररूपचेष्टोपदर्शनार्थं चेन्द्रियोपक्रमणीयमाह| तत्रापि वक्ष्यमाणचेष्टाचारयोः प्रायेणेन्द्रियादिविषयत्वेनेन्द्रियादीन्येव तावदाह| इन्द्रियस्योपक्रमणं व्याकर्तुमारम्भः, तमिन्द्रियोपक्रममिन्द्रियव्याकरणमधिकृत्य कृतोऽध्याय इन्द्रियोपक्रमणीयः||१-२||

Adhikarana 2 (3) · Śloka 3

इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्रव्याणि, पञ्चेन्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रियबुद्धयो भवन्ति, इत्युक्तमिन्द्रियाधिकारे||३||

🔊 Audio coming soon

इहेति इह प्रकरणे पञ्चेन्द्रियाणि, तेन प्रकरणान्तरे दर्शनान्तरपरिग्रहेण वक्ष्यमाणैकादशेन्द्रियाभिधानेन समं न विरोधः; यतः सर्वपारिषदमिदं शास्त्रं, तेनायुर्वेदाविरुद्धवैशेषिकसाङ्ख्यादिदर्शनभेदेन विरुद्धार्थोऽभिधीयमानो न पूर्वापरविरोधमावहतीत्यर्थः| मनस्तु यद्यपि वैशेषिकमतेऽपीन्द्रियं, शास्त्रकारेणापि मधुररसप्रस्तावे “षडिन्द्रियप्रसादनः” (सू. अ.२६) इत्यभिधानादनुमतमेव, तथाऽपीह प्रकरणे चक्षुरादिभ्यो वक्ष्यमाणाधिकधर्मयोगितया नेन्द्रियत्वेन पठितम्| इन्द्रियादीनि स्वयमेव व्याकरिष्यति- तत्र चक्षुरित्यादिना| इत्येतावदेवोक्तमिन्द्रियाधिकारे, ‘पूर्वाचार्यैः’ इति शेषः; एतेनान्यशास्त्रेऽपीन्द्रियाधिकारे एतावदेवोक्तमिति फलति||३||

Adhikarana 3 (4) · Śloka 4

अतीन्द्रियं पुनर्मनः सत्त्वसञ्ज्ञकं, ‘चेतः’ इत्याहुरेके, तदर्थात्मसम्पदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रियाणाम्||४||

🔊 Audio coming soon

चक्षुरादिभ्यो विशिष्टेन धर्मेण मनो दर्शयति- अतीन्द्रियमित्यादि| अतिक्रान्तमिन्द्रियमतीन्द्रियं; चक्षुरादीनां यदिन्द्रियत्वं बाह्यज्ञानकारणत्वं, तदतिक्रान्तमित्यर्थः; यद्यपि मनोऽपि सुखादिज्ञानं प्रति कारणत्वेनेन्द्रियं, तथाऽपीन्द्रियचक्षुराद्यधिष्ठायकत्वविशेषादतीन्द्रियमित्युक्तं; यदि वाऽतीन्द्रियमिति चक्षुरादिभ्योऽप्यतीन्द्रियेभ्यः सूक्ष्मतरं, दुरवबोधात्| सत्त्वमित्येषा सञ्ज्ञा यस्य तत्तथा| चेत इत्याहुरेक इति परमतस्याप्रतिषेधात् स्वयमप्यनुमतम्| पर्यायकथनं शास्त्रे व्यवहारार्थम्| तदिति मनः, अर्थो मनोऽर्थः, स च सुखादिश्चिन्त्यविचार्यादिश्च, आत्मा चेतनप्रतिसन्धाता, अनयोः सम्पत् तदर्थात्मसम्पत्, एतदायत्ता चेष्टा व्यापारो यस्य तत्तथा; तत्रार्थसम्पत् सुखादीनां सन्निकर्षश्चिन्त्यादीनामाभिमुख्यं च, आत्मसम्पदर्थग्रहणे प्रयत्नशालित्वं, मनश्चेष्टा च सुखादिज्ञानं तथा चिन्त्यचिन्तनादि तथा चक्षुरादीन्द्रियप्रेरणं च| इन्द्रियाणां चक्षुरादीनां या चेष्टा स्वविषयरूपादिज्ञानलक्षणा, तत्र प्रत्ययभूतं कारणभूतं मन इति योज्यम्| एतेनैतदुक्तं भवति- यदा सुखादयश्चिन्त्यादयोऽपि विषया भवन्त्याऽऽत्मा च प्रयत्नवान् भवति तदा मनः स्वविषये प्रवर्तते, इन्द्रियाणि चाधितिष्ठति, इन्द्रियाणि च मनोऽधिष्ठितान्येव स्वविषयज्ञाने प्रवर्तन्ते||४||

Adhikarana 4 (5) · Śloka 5

स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्चानेकमेकस्मिन् पुरुषे सत्त्वं, रजस्तमःसत्त्वगुणयोगाच्च; न चानेकत्वं, नह्येकं ह्येककालमनेकेषु प्रवर्तते ; तस्मान्नैककाला सर्वेन्द्रियप्रवृत्तिः||५||

🔊 Audio coming soon

इदानीं तन्मन एकस्मिन् पुरुषे उपाधिभेदादनेकं परमार्थतस्त्वेकमिति दर्शयति- स्वार्थेत्यादि| सत्त्वं मनः| अनेकम् अनेकमिव, स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणात् तथा रजस्तमःसत्त्वगुणयोगाच्च| चकारः परस्परसमुच्चये| स्वार्थस्य मनोऽर्थस्य चिन्त्यस्य व्यभिचरणादेकं चिन्त्यमर्थं परित्यज्यान्यस्यार्थस्य ग्रहणादित्यर्थः; एतेनैतदुक्तं भवति- यदेकमेव मनो यदा धर्मं चिन्तयेत्तदा धर्मचिन्तकं, यदा धर्मं परित्यज्य तदेव कामं चिन्तयति तदा कामचिन्तकम्, इत्येवमादिना धर्मभेदेनाभिन्नमपि भिन्नमभिधीयते; एवमिन्द्रियार्थव्यभिचरणेऽपि यदा रूपं गृह्णाति तदा रूपग्राहकं, यदा गन्धं गृह्णाति तदा गन्धग्राहकमित्यादि वाच्यम्; एवं सङ्कल्पव्यभिचरणेऽपि व्याख्येयं, तत्र सङ्कल्पः प्रतिपन्नानां भावानामुपकारकं ममेदमपकारकं ममेदमिति वा गुणतो दोषतो वा कल्पनम्; एतद्व्यभिचरणे च कदाचिद्गुणकल्पकं कदाचिद्दोषकल्पकमिति मनोभेदो व्याख्येयः| तथा एकपुरुषे एकमेव मनो यदा बहुरजोयुक्तं भवति तदा क्रोधादिमद्भवति, यदा बहुतमोयुक्तं भवति तदाऽज्ञानभयादिमद्भवति, यदा सत्त्वयुक्तं भवति तदा सत्यशौचादियुक्तं भवति, ततश्चानेकमिव मनो भवति| तदेतत् प्रतिपादितमनेकत्वं परमार्थतो न भवतीत्याह- न चेत्यादि| न चानेकत्वं मनस इत्यर्थः| चकारादमहत्त्वं च मनस इति समुच्चिनोति| यदुक्तम्- “अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ” (शा.अ.१) इति| कुतो नानेकत्वमित्याह- न हीत्यादि| अनेकमेककालमनेकेषु प्रवर्तते; अनेकं यन्मनः देवदत्तयज्ञदत्तविष्णुमित्रेषु शरीरिषु दृष्टं तदेककालं युगपदनेकेषु रूपज्ञानशब्दज्ञानगन्धज्ञानेषु वर्तते एवं दृष्टं, तद्यदि एकपुरुषेऽपि बहूनि मनांसि स्युस्तदा तान्यपि युगपदेकपुरुष एव रूपादिज्ञानेषु प्रवर्तेरन्, न तु प्रवर्तन्ते, तस्मादेकमेवैकपुरुषे मन इत्यर्थः| दीर्घां शष्कुलीं भक्षयतो युगपत् पञ्चज्ञानान्युत्पद्यन्त इति तु ज्ञानं युगपदुत्पलपत्रशतव्यक्तिभेदज्ञानवद्भ्रान्तम्| परमार्थतो युगपज्ज्ञानोत्पत्तौ हि सति विषयसन्निकर्षे सर्वदैव हि युगपज्ज्ञानानि स्युः| अत एव हि कारणान्महत्त्वमपि मनसो नास्ति, महत्त्वे हि सति युगपत्पञ्चेन्द्रियाधिष्ठानाज्ज्ञानोत्पत्तिः स्यात्, न च भवति, तस्मादेकमणु च मन इति| यस्माच्चैकपुरुषे एकं मनोऽणुपरिमाणं च, तस्मात् कारणान्नैककाला सर्वेन्द्रियप्रवृत्तिः न युगपदिन्द्रियाणि स्वविषयोपलब्धौ प्रवर्तन्त इत्यर्थः| इन्द्रियाणि मनोऽधिष्ठितानि प्रवर्तन्ते, तेन यदा मनश्चक्षुरधितिष्ठति तदा न घ्राणादीनि, एवं यदा घ्राणमधितिष्ठति तदा न चक्षुरादीनि||५||

Adhikarana 5 (6) · Śloka 6

यद्गुणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं तत्सत्त्वमेवोपदिशन्ति मुनयो बाहुल्यानुशयात्||६||

🔊 Audio coming soon

ननु यद्येकस्मिन्नेव पुरुषे कदाचिद्रजोयुक्तं कदाचित्तमोयुक्तं कदाचित् सत्त्वयुक्तं मनो भवति, तत् कथमयं सात्त्विकोऽयं राजस इत्यादिव्यपदेशो भवतीत्याह- यद्गुणमित्यादि| येन गुणेन सत्त्वादिना युक्तं यद्गुणम्, अभीक्ष्णं पुनः पुनः, सत्त्वं मनः, अनुवर्ततेऽनुबध्नाति, तत्सत्त्वं सात्त्विकं राजसं तामसं वा उपदिशन्ति, बाहुल्यानुशयात् भूरिसम्बन्धादित्यर्थः| एतदुक्तं भवति- सत्यपि गुणान्तरान्वये सत्त्वबाहुल्यात् सत्त्वकार्याणि सत्यशौचादीनि यस्य भवन्ति स सात्त्विक इति व्यपदिश्यते; एवमपरमपि व्याख्येयम्||६||

Adhikarana 6 (7) · Śloka 7

मनःपुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति||७||

🔊 Audio coming soon

उक्तं मनश्चेष्टाप्रत्ययभूतमिन्द्रियाणां तद्व्याकरोति- मन इत्यादि| मनःपुरःसराणि मनोधिष्ठितानि||७||

Adhikarana 7 (8) · Śloka 8

तत्र चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि||८||

🔊 Audio coming soon

पञ्चेन्द्रियाणीत्युक्तं तद्विवृणोति- तत्र चक्षुरित्यादि| चष्टे रूपं रूपवन्तं च प्रकाशयतीति चक्षुः| तच्चोभयनयगोलकाधिष्ठानमेकमेव| शृणोत्यनेनेति श्रोत्रम्| जिघ्रत्यनेनेति घ्राणम्| रसत्यास्वादयत्यनेनेति रसनम्| स्पृशत्यनेनेति स्पर्शनम्||८||

Adhikarana 8 (9) · Śloka 9

पञ्चेन्द्रियद्रव्याणि- खं वायुर्ज्योतिरापो भूरिति||९||

🔊 Audio coming soon

इन्द्रियाणां प्राधान्येनारम्भकं द्रव्यमिन्द्रियद्रव्यम्; इन्द्रियेषु चक्षुरादौ निर्दिष्टं, प्राधान्यात्| यदुक्तं शालाक्ये- “श्रोत्रत्वक्घ्राणरसनैः श्रेष्ठैरपि समन्वितः | बलवर्णाद्युपेतोऽपि नष्टदृक् कुड्यसन्निभः” इति| इन्द्रियद्रव्यनिर्देशे तु उदितत्वेन निर्देशः कृतो वक्ष्यमाणेन “महाभूतानि खं वायुरग्निरापः क्षितिस्तथा” (शा.अ.१) इति ग्रन्थक्रमानुरोधेन||९||

Adhikarana 9 (10) · Śloka 10

पञ्चेन्द्रियाधिष्ठानानि- अक्षिणी कर्णौ नासिके जिह्वा त्वक् चेति||१०||

🔊 Audio coming soon

इन्द्रियाधिष्ठानमिन्द्रियाश्रयः| यद्यपि चाक्षिणी कर्णौ नासापुटे द्वे तथाऽप्येकेन्द्रियाधिष्ठानत्वेनैकमेवेति कृत्वा “पञ्च” इत्युक्तम्||१०||

Adhikarana 10 (11) · Śloka 11

पञ्चेन्द्रियार्थाः- शब्दस्पर्शरूपरसगन्धाः||११||

🔊 Audio coming soon

इन्द्रियार्था इन्द्रियविषयाः| अत्र च स्पर्शग्रहणेन स्पर्शस्य स्पर्शाश्रयस्य च द्रव्यस्य स्पर्शैकार्थसमवेतस्य च परिमाणादेः स्पर्शग्राह्यस्य ग्रहणम्| एवं रूपादिष्वपि वाच्यम्||११||

Adhikarana 11 (12) · Śloka 12

पञ्चेन्द्रियबुद्धयः- चक्षुर्बुद्ध्यादिकाः; ताः पुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः, क्षणिका, निश्चयात्मिकाश्च, इत्येतत् पञ्चपञ्चकम्||१२||

🔊 Audio coming soon

असाधारणेन कारणेनेन्द्रियेण व्यपदिष्टा बुद्धय इन्द्रियबुद्धयः| चक्षुषा असाधारणेन कारणेन जनिता बुद्धिश्चक्षुर्बुद्धिः; एवं श्रोत्रादिबुद्धिषु वाच्यम्| इह चक्षुर्बुद्धिरादावुपदिश्यते, चक्षुर्बुद्धेरेव बहुविषयत्वात्| इन्द्रियबुद्ध्युत्पादसामग्रीमाह- ताः पुनरित्यादि| सन्निकर्षः सम्बन्धः; स च क्वचित् संयोगः, क्वचित् समवायः; तेन चक्षुर्बुद्ध्यादावात्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन; श्रोत्रबुद्धौ तु श्रोत्रशब्दयोः समवाय इति विशेषः| क्षणिका इति आशुतरविनाशिन्यः, न तु बौद्धसिद्धान्तवदेकक्षणावस्थायिन्यः| निश्चयात्मिका वस्तुस्वरूपपरिच्छेदात्मिका | क्षणिकत्वेऽपि वस्तुपरिच्छेदकत्वं प्रदीपार्चिर्ज्वलनवद्बुद्धीनामविरुद्धमित्यर्थः ||१२||

Adhikarana 12 (13) · Śloka 13

मनो मनोर्थो बुद्धिरात्मा चेत्यध्यात्मद्रव्यगुणसङ्ग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च, द्रव्याश्रितं च कर्म; यदुच्यते क्रियेति||१३||

🔊 Audio coming soon

मनोऽर्थो वक्ष्यमाणो ‘मनसस्तु चिन्त्यमर्थः’ इत्यनेन| बुद्धिरिह मनोबुद्धिर्विवक्षिता, इन्द्रियबुद्धीनां पञ्चपञ्चकेनैव ग्रहणात्| आत्मानमधिकृत्याध्यात्मम्; आत्मानमधिकृत्य यानि द्रव्याणि ये च गुणाः, तेषां सङ्ग्रहोऽध्यात्मद्रव्यगुणसङ्ग्रहः| तत्र गुणा रूपादिबुद्धयः, शेषं द्रव्यम्| एतदुक्तं भवति- आत्मनोऽपकारकोपकारकाणां द्रव्यगुणानामयं सङ्ग्रह इति| योऽयं सङ्ग्रहः शुभस्य धर्मस्य सुखस्य च प्रवृत्तौ हेतुर्भवति, अशुभस्याधर्मस्यासुखस्य च निवृत्तौ हेतुर्भवति; तत्रोक्तसङ्ग्रहस्य सम्यग्योगः शुभस्य प्रवृत्तावशुभस्य निवृत्तौ हेतुर्भवति, अयोगातियोगमिथ्यायोगास्तु अशुभस्य प्रवृत्तौ हेतवः; यदि वा शुभस्य पूर्वव्याकृतस्य, अशुभस्य च पूर्वव्याकृतस्य प्रवृत्तेः संसारस्य, निवृत्तेर्मोक्षस्य यथोक्तसङ्ग्रहो हेतुरिति व्याख्येयं; तत्र सङ्ग्रहस्य शुभाशुभहेतुत्वं पूर्ववदेव व्याख्येयं; दुर्ज्ञातस्तु सङ्ग्रहः संसारस्य हेतुर्भवति, तत्त्वतो ज्ञातस्तु मोक्षहेतुरिति व्याख्येयम्| अध्यात्मद्रव्यगुणादधिकमनुक्तं शुभादिहेतुमाह- द्रव्याश्रितं चेत्यादि| कर्मेत्युच्यमाने वमनादिष्वपि तथाऽऽस्यास्वप्नादिष्वपि कर्मशब्दवाच्येषु प्रसक्तिः स्यात्, अतस्तद्व्यावृत्त्यर्थं द्रव्याश्रितमिति पदं; तथाऽपि धर्माधर्मयोः कर्मशब्दवाच्ययोः प्रसक्तिः स्यादित्यत उक्तं- यदुच्यते क्रियेति| कर्मणः पृथक्कृत्वाऽभिधानं पञ्चकर्मादिषु कर्मणोऽप्रविष्टत्वात्||१३||

Adhikarana 13 (14) · Śloka 14

तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुषि, खं श्रोत्रे, घ्राणे क्षितिः, आपो रसने, स्पर्शनेऽनिलो विशेषेणोपपद्यते| तत्र यद्यदात्मकमिन्द्रियं विशेषात्तत्तदात्मकमेवार्थमनुगृह्णाति, तत्स्वभावाद्विभुत्वाच्च||१४||

🔊 Audio coming soon

सम्प्रति वैद्यकसिद्धान्तेन पाञ्चभौतिकानामपि चक्षुरादीनां यथा तैजसत्वादिव्यपदेशो भवति तदाह- तत्रेत्यादि| अनुमानेन प्रतीयन्त इत्यनुमानगम्यानि; अनुमानं च- चक्षुर्बुद्ध्यादयः करणकार्याः, क्रियात्वात्; छिदिक्रियावत्| महाभूतानि खादीनि, तेषां विकारः परिणामविशेषः, समुदायो मेलकः, स आत्मा समवायिकारणं येषां तानि| विशेषेण अधिकत्वेन| एतदुक्तं भवति- पाञ्चभौतिकत्वेऽपि तेजोधिकत्वाच्चक्षुस्तैजसं व्यपदिश्यते; एवं घ्राणादिष्वपि पृथिव्याद्यधिकत्वेन पार्थिवत्वादिव्यपदेशः| अथ कथं चक्षुस्तेजोधिकं, घ्राणं पृथिव्यधिकमित्याद्यवधार्यत इत्याह- तत्रेत्यादि| यदिन्द्रियं विशेषाद्भूयस्त्वेन यदात्मकं यद्भूतारब्धं, तदिन्द्रियं तदात्मकमेव तद्भूतात्मकमेव, अर्थं विषयमनुगृह्णाति अनुधावति; यत्तेजःप्रधानं तत्तेजःप्रधानमेव विषयं गृह्णातीत्यर्थः, एवं पार्थिवादिष्वपि वाच्यम्| तत्र हेतुमाह- तत्स्वभावाद्विभुत्वाच्च| तत्स्वभावादिति ग्राह्याणां रूपादीनां यः स्वभावस्तैजसत्वादिः,चक्षुरादीनामपि तत्स्वभावादेवेत्यर्थः; विभुत्वादिति शक्तत्वात्, समानजातीयतैजसादिग्रहण एव चक्षुरादीनां शक्तत्वादित्यर्थः| तदनेन ग्रन्थेनैतदनुमानमुपदिश्यते- यत्- चक्षुस्तैजसं, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वाद्बाह्यालोकवत्; रसनमाप्यं, रूपादीनां मध्ये रसस्यैव प्रकाशकत्वाद्दन्तोदकवत्; तथा गन्धः स्वजातीयगुणोत्कर्षवदिन्द्रियग्राह्यः, भूतविशेषगुणत्वाद्रूपवदित्यादि||१४||

Adhikarana 14 (15) · Śloka 15

तदर्थातियोगायोगमिथ्यायोगात् समनस्कमिन्द्रियं विकृतिमापद्यमानं यथास्वं बुद्ध्युपघाताय सम्पद्यते, सामर्थ्ययोगात् पुनः प्रकृतिमापद्यमानं यथास्वं बुद्धिमाप्याययति||१५||

🔊 Audio coming soon

शुभाशुभप्रवृत्तिहेतुरिति यदुक्तं तदुपपादयति- तदर्थेत्यादि| तत् इन्द्रियम्, अर्थस्य रूपादेरतियोगो रूपाद्यतिदर्शनम्, अयोगो हीनमात्ररूपादिदर्शनं सर्वशो रूपाद्यदर्शनं च, मिथ्यायोगो विकृतबीभत्सरूपादिदर्शनम्| समनस्कं मनसा सहितं, विकृतिं विकारमापद्यमानं; समनस्कमिति विशेषणं कुर्वन् चक्षुराद्युपघातान्मनसोऽप्युद्विग्नत्वदैन्यादिलक्षणो विकारो भवतीति दर्शयति| यथास्वं या यस्यात्मीया बुद्धिः| सामर्थ्ययोगात् समयोगात्| पुनःशब्दः पूर्वपक्षाद्व्यावर्तयति| प्रकृतिं स्वभावम्, आपद्यमानम् अनुविधीयमानम्; ‘इन्द्रियम्’ इति शेषः| यथास्वं बुद्धिमाप्याययतीति आत्मीयामात्मीयां बुद्धिं सातत्येन जनयतीत्यर्थः||१५||

Adhikarana 15 (16) · Śloka 16

मनसस्तु चिन्त्यमर्थः| तत्र मनसो मनोबुद्धेश्च त एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहेतवो भवन्ति||१६||

🔊 Audio coming soon

पूर्वं मन उक्तं, तस्य ग्राह्यं विषयमाह- मनसस्तु चिन्त्यमर्थ इति| इन्द्रियनिरपेक्षं मनो यद्गृह्णाति तच्चिन्त्यं (यदि वा, इन्द्रियगृहीतमेवार्थं यत् पुनरिन्द्रियनिरपेक्षं मनो गृह्णाति तच्चिन्त्यम् )| एतच्च प्राधान्यादुक्तं; तेन मनोर्थानां सुखादीनामनुपादानं दोषत्वेन नैवोद्भावनीयम्| त एवेत्यादि मनोविषयस्य चिन्त्यस्य समयोगस्तथाऽतिहीनमिथ्यायोगाश्च| प्रकृतिः अविकारः स्वभाव इति यावत्; विकृतिः विकारः| तत्र चिन्त्यस्य सम्यग्योगो मनसो मनोबुद्धेश्च प्रकृतिहेतुर्भवति, अतियोगादयस्तु चिन्त्यस्य मनसो मनोबुद्धेश्च चिन्तनध्यानादिलक्षणाया विकृतेर्हेतवो भवन्तीति वाच्यम्| अचिन्तनातिचिन्तनभयानकचिन्तनैर्मनोऽपि विकृतं मनोबुद्धिमपि विकृतां जनयतीति भावः||१६||

Adhikarana 16 (17) · Śloka 17

तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिर्हेतुभिः; तद्यथा- सात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक् प्रतिपादनेन, देशकालात्मगुणविपरीतोपासनेन चेति| तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्||१७||

🔊 Audio coming soon

तदीदृशे कर्तव्यमाह- तत्रेत्यादि| अनुपतापाय अनुपघाताय; उपघातकहेतुवर्जनेनेत्यभिप्रायः| प्रकृतिभावे निर्विकारत्वकरणे; भेषजोपयोगेनेत्यभिप्रायः| सात्म्येन्द्रियार्थसंयोगेनेति इन्द्रियार्थसमयोगेन| बुद्ध्या सम्यगिदं मम हितमिदं ममाहितमित्यवेक्ष्यावेक्ष्य| कर्मणां प्रवृत्तीनां सम्यक्प्रतिपादनेनेति अहितकर्मपरित्यागेन हितकर्माचरणेन च| एतेन प्रज्ञापराधमूलाहितप्रवृत्तिनिषेधेन हितार्थप्रवृत्त्युपदेशः कृतो भवति| एतेन चासात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिहाराभ्यामनागताबाधप्रतिषेधरूपा चेष्टोक्ता भवति| उत्पन्नविकारप्रतिषेधोपायस्तु देशकालेत्यादिना कथ्यते; गुणशब्दः प्रत्येकमभिसम्बध्यते, आत्मशब्देन प्रकृतिविकारयोर्ग्रहणम्| तस्मात् कर्मणां क्रियारूपाणां शास्त्रविहितत्वेन प्रतिपादितानां सम्यगनुष्ठानमारोग्यहेतुः| तच्च कर्म हितं सद्वृत्तानुष्ठानरूपम्| तस्मात् कारणादात्महितं कर्तुमिच्छता, स्मृतिमास्थायावधानेन सद्वृत्तोपदेशं स्मृत्वेत्यर्थः, सतां वृत्तमनुष्ठानं देहवाङ्मनःप्रवृत्तिरूपं सद्वृत्तमनुष्ठेयम्| इह जन्मनि जन्मान्तरे च शान्तिशौचाचारादियोगजनितधर्मप्रभावात्त्रिवर्गमव्याकुलमुपयुञ्जानास्तिष्ठन्तीति ‘सन्त’ इत्युच्यन्ते, अधार्मिकास्तु विद्यमाना अप्यप्रशस्तावस्थानत्वेन| ‘असन्त’ इत्युच्यन्ते||१७||

Adhikarana 17 (18) · Śloka 18

तद्ध्यनुतिष्ठन् युगपत् सम्पादयत्यर्थद्वयमारोग्यमिन्द्रियविजयं चेति; तत् सद्वृत्तमखिलेनोपदेक्ष्यामोऽग्निवेश ! तद्यथा- देवगोब्राह्मणगुरुवृद्धसिद्धाचार्यानर्चयेत्, अग्निमुपचरेत्, ओषधीः प्रशस्ता धारयेत्, द्वौ कालावुपस्पृशेत्, मलायनेष्वभीक्ष्णं पादयोश्च वैमल्यमादध्यात्, त्रिःपक्षस्य केशश्मश्रुलोमनखान् संहारयेत्, नित्यमनुपहतवासाः सुमनाः सुगन्धिः स्यात्, साधुवेशः, प्रसिद्धकेशः , मूर्धश्रोत्रघ्राणपादतैलनित्यः, धूमपः, पूर्वाभिभाषी, सुमुखः, दुर्गेष्वभ्युपपत्ता, होता, यष्टा, दाता, चतुष्पथानां नमस्कर्ता, बलीनामुपहर्ता, अतिथीनां पूजकः, पितृभ्यः पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, धर्मात्मा, हेतावीर्ष्युः, फले नेर्ष्युः, निश्चिन्तः, निर्भीकः, ह्रीमान्, धीमान्, महोत्साहः, दक्षः, क्षमावान्, धार्मिकः, आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धाचार्याणामुपासिता , छत्री दण्डी मौली सोपानत्को युगमात्रदृग्विचरेत् , मङ्गलाचारशीलः, कुचेलास्थिकण्टकामेध्यकेशतुषोत्करभस्मकपालस्नानबलिभूमीनां परिहर्ता, प्राक् श्रमाद् व्यायामवर्जी स्यात्, सर्वप्राणिषु बन्धुभूतः स्यात्, क्रुद्धानामनुनेता, भीतानामाश्वासयिता, दीनानामभ्युपपत्ता, सत्यसन्धः, सामप्रधानः , परपरुषवचनसहिष्णुः, अमर्षघ्नः, प्रशमगुणदर्शी, रागद्वेषहेतूनां हन्ता च||१८||

🔊 Audio coming soon

सद्वृत्तानुष्ठानं दर्शयति- तदित्यादि| सद्वृत्तानुष्ठानेन नान्यश्रियमभिलषेदित्याद्यनुष्ठानेनेन्द्रियं यन्त्र्यते, यन्त्रणाभ्यासात्तदिन्द्रियं जीयत इत्युक्तमिन्द्रियविजयं चेति; यस्मादेवङ्गुणं सद्वृत्तानुष्ठानं तत् तस्मात् सद्वृत्तमुपदेक्ष्यामः; अखिलेन कार्त्स्न्येन| द्वौ कालौ सायं प्रातः, उपस्पृशेत् स्नायात्; यदि वा उपस्पृशेत् सन्ध्यामुपासीत| त्रिः पक्षस्येति पञ्चभिः पञ्चभिर्दिनैः, यदि वा क्षारपाणिवचनप्रामाण्यात् पक्षशब्दोऽयं मासे वर्तते, पतति पञ्चदशाहाभ्यां पक्षरूपाभ्यां मास इति पञ्चदशाहः पक्षोऽभिधीयते, एवं पतति ऋतुर्मासाभ्यां पक्षरूपाभ्यामिति मासोऽपि पक्षाभिधेयः; उक्तं च क्षारपाणौ- “त्रिर्मासस्य रोमनखान् संहारयेत्” इति| अनुपहतवासा अम्लानवासाः| प्रसिद्धकेशः प्रसाधितकेशः; इह केशप्रसाधनाभिधानात् पूर्वं केशसंहरणे वचनं तीर्थादिप्राप्तनिमित्तेन कृतमुण्डनस्नातकादिविषयम्| पूर्वाभिभाषी प्रथमसम्भाषणशीलः| दुर्गेष्वभ्युपपत्ता दुर्गतिपतितानां रक्षिता| यष्टा यज्ञकारकः| वश्यात्मा वश्येन्द्रियः, आत्मशब्दोऽयमिन्द्रियवचनः| हेतावीर्ष्युरिति येन हेतुनाऽयं धनवान् विद्यावान् वा जातः स हेतुर्मे कथं भवेदिति प्रयत्नवता भवितव्यमिति दर्शयति| फले नेर्ष्युरित्यनेन परस्य न धनादिफलसम्बन्धनिवारणेच्छा कर्तव्येति दर्शयति| निर्भीक इति उपस्थितेऽपरिहार्ये भयहेतौ बोद्धव्यं, शक्यपरिहारेषु तु दृष्टादृष्टप्रत्यवायहेतुषु भेतव्यमेव| अभिजनो विशुद्धकुलम्| सर्वप्राणिषु बन्धुभूत इति तु यद्यपि राजद्विष्टपतितादीनामधर्मभयाच्चिकित्सां न करोति, तथाऽपि तेष्वपि करुणार्द्रहृदयत्वेन मन्तव्यम्| अभ्युपपत्ता उपकारार्थं स्वीकर्ता| सत्यसन्धः प्रतिज्ञातार्थनिर्वाहकः| अमर्षः अक्षमा, तां हन्तीति अमर्षघ्नः| प्रशमं शान्तिं गुणत्वेन द्रष्टुं शीलं यस्य स प्रशमगुणदर्शी||१८||

Adhikarana 18 (19) · Śloka 19

नानृतं ब्रूयात्, नान्यस्वमाददीत, नान्यस्त्रियमभिलषेन्नान्यश्रियं, न वैरं रोचयेत्, न कुर्यात् पापं, न पापेऽपि पापी स्यात्, नान्यदोषान् ब्रूयात्, नान्यरहस्यमागमयेन्, नाधार्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैर्न भ्रूणहन्तृभिर्न क्षुद्रैर्न दुष्टैः, न दुष्टयानान्यारोहेत, न जानुसमं कठिनमासनमध्यासीत, नानास्तीर्णमनुपहितमविशालमसमं वा शयनं प्रपद्येत, न गिरिविषममस्तकेष्वनुचरेत्, न द्रुममारोहेत्, न जलोग्रवेगमवगाहेत, न कुलच्छायामुपासीत , नाग्न्युत्पातमभितश्चरेत्, नोच्चैर्हसेत्, न शब्दवन्तं मारुतं मुञ्चेत्, नानावृतमुखो जृम्भां क्षवथुं हास्यं वा प्रवर्तयेत्, न नासिकां कुष्णीयात्, न दन्तान् विघट्टयेत्, न नखान् वादयेत्, नास्थीन्यभिहन्यात्, न भूमिं विलिखेत्, न छिन्द्यात्तृणं, न लोष्टं मृद्नीयात्, न विगुणमङ्गैश्चेष्टेत, ज्योतींष्यनिष्टममेध्यमशस्तं च नाभिवीक्षेत, न हुङ्कुर्याच्छवं , न चैत्यध्वजगुरुपूज्याशस्तच्छायामाक्रामेत्, न क्षपास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाघातनान्यासेवेत , नैकः शून्यगृहं न चाटवीमनुप्रविशेत्, न पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत, नोत्तमैर्विरुध्येत, नावरानुपासीत, न जिह्मं रोचयेत्, नानार्यमाश्रयेत्, न भयमुत्पादयेत्, न साहसातिस्वप्नप्रजागरस्नानपानाशनान्यासेवेत, नोर्ध्वजानुश्चिरं तिष्ठेत्, न व्यालानुपसर्पेन्न दंष्ट्रिणो न विषाणिनः, पुरोवातातपावश्यायातिप्रवाताञ्जह्यात्, कलिं नारभेत, नासुनिभृतोऽग्निमुपासीत नोच्छिष्टः, नाधः कृत्वा प्रतापयेत्, नाविगतक्लमो नानाप्लुतवदनो न नग्न उपस्पृशेत्, न स्नानशाट्या स्पृशेदुत्तमाङ्गं, न केशाग्राण्यभिहन्यात्, नोपस्पृश्य ते एव वाससी बिभृयात्, नास्पृष्ट्वा रत्नाज्यपूज्यमङ्गलसुमनसोऽभिनिष्क्रामेत्, न पूज्यमङ्गलान्यपसव्यं गच्छेन्नेतराण्यनुदक्षिणम्||१९||

🔊 Audio coming soon

नानृतं ब्रूयादित्यस्य राजयक्ष्मणि “काकांस्तित्तिरिशब्देन” (चि. अ.८) इत्याद्ययथाभाषणोपदेशेन विरोधो न वाच्यः, यतः परापकारफलमसत्यभाषणमनृतव्याहारदोषेण स्पृश्यते, नतु परस्य जीवनार्थमन्यथाभाषणम्; उक्तं च- “प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि”| आगमयेत् बुध्येत| अधार्मिकसङ्गनिषेधेनैव पतितादिसङ्गनिषेधे लब्धे पुनस्तदभिधानं विशेषप्रतिषेधार्थम्| भ्रूणहा गर्भघातकः| अनुपहितम् अनुपधानं गण्डुकादिरहितम्| न द्रुममारोहेदिति सामान्यो विधिः, अस्य च विशेषेण रसायनवक्ष्यमाणामलकीवृक्षारोहणोपदेशेन महाफलेन बाधा भवत्येव| कुष्णीयात् विघट्टयेत्| इह सद्वृत्तोपदेशे यत्र न नखान् वादयेदित्यादौ साक्षाद्दृष्टमदृष्टं वा फलं न दृश्यते तत्राप्यदृष्टफलं वचनप्रामाण्यादेव बोद्धव्यम्| न शवं हुङ्कुर्यादित्यत्रागमः- “यः शवं हुङ्करोति तेन सोमो बहिर्निरस्तो भवति” इति| चैत्यो ग्रामप्रधानतरुः, आघातनं वधस्थानम्| अवरा नीचाः| जिह्मं कुटिलम्| आराद्दूरात् पापेभ्यो यात आर्यः, तद्विपरीतोऽनार्यः| अतिशब्दः स्वप्नादिभिः सह प्रत्येकमभिसम्बध्यते| इह च प्रकरणे साहसनक्तदधिभोजनादीनां येषां प्रकरणान्तर एव निषेधः कृतस्तानि पुनर्निषिध्यन्ते प्रकरणवशादेव, प्रकरणप्राप्तो ह्यर्थः प्रागुक्तोऽपि पुनरभिधीयमानः प्रकृतग्रन्थस्य न्यूनतामुदस्यति, पुनरभिधीयमानार्थगौरवं च दर्शयति, न पुनरुक्तदोषमावहति| यदुक्तम्- “अधिकरणवशाद्दार्ढ्याद्गुणदोषप्राप्तितोऽर्थसम्बन्धात्| स्तुत्यर्थं संशयतः शिष्यधियां चाभिवृद्ध्यर्थम्|| तन्त्रे स्यात् पुनरुक्तं पुनरुक्तं नेष्यते तद्धि” इति| ऊर्ध्वजानुः दण्डायमानः| व्यालाः सर्पाः| असुनिभृतः असमाहितः, नाधःकृत्वा अग्निमिति सम्बन्धः| ते एव वाससी स्नानवाससीत्यर्थः, यदि वा स्नानकालात् पूर्वं धृते| अपसव्यं वामम्||१९||

Adhikarana 19 (20) · Śloka 20

नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नादत्त्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नामाली नाप्रक्षालितपाणिपादवदनो नाशुद्धमुखो नोदङ्मुखो न विमना नाभक्ताशिष्टाशुचिक्षुधितपरिचरो न पात्रीष्वमेध्यासु नादेशे नाकाले नाकीर्णे नादत्त्वाऽग्रमग्नये नाप्रोक्षितं प्रोक्षणोदकैर्न मन्त्रैरनभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहितमन्नमाददीत, न पर्युषितमन्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः, नाशेषभुक् स्यादन्यत्र दधिमधुलवणसक्तुसर्पिभ्यः, न नक्तं दधि भुञ्जीत, न सक्तूनेकानश्नीयान्न निशि न भुक्त्वा न बहून्न द्विर्नोदकान्तरितात्, न छित्त्वा द्विजैर्भक्षयेत्||२०||

🔊 Audio coming soon

अनिरूप्य अनिवेद्य| आकीर्णे बहुजनाकीर्णे| अन्नस्य प्रोक्षणाभिमन्त्रणानि वेदे बोद्धव्यानि| कुत्सितं स्वरूपत एव कदर्थत्वेन निन्दितम्| हरितकम् आर्द्रकादि, शुष्कशाकं शुष्कपत्रादि, भक्ष्या मोदकादयः| नाशेषभुक् स्यात् निःशेषभोजी न स्यादित्यर्थः| नक्तं दधिभोजननिषेधे आगमः- “दिवा कपित्थे वसति रात्रौ दध्नि च सक्तुषु| अलक्ष्मीः कलहाधारा कोविदारे कृतालया” इति| एकानिति घृतशर्करारहितान्| नोदकान्तरितान् नोदकमन्तरा पीत्वेत्यर्थः||२०||

Adhikarana 20 (21) · Śloka 21

नानृजुः क्षुयान्नाद्यान्न शयीत, न वेगितोऽन्यकार्यः स्यात्, न वाय्वग्निसलिलसोमार्कद्विजगुरुप्रतिमुखं निष्ठीविका(वात)वर्चोमूत्राण्युत्सृजेत्, न पन्थानमवमूत्रयेन्न जनवति नान्नकाले, न जपहोमाध्ययनबलिमङ्गलक्रियासु श्लेष्मसिङ्घाणकं मुञ्चेत्||२१||

🔊 Audio coming soon

नाद्यादनृजुः, न शयीतानृजुरिति च योज्यम्||२१||

Adhikarana 21 (22) · Śloka 22

न स्त्रियमवजानीत, नातिविश्रम्भयेत्, न गुह्यमनुश्रावयेत्, नाधिकुर्यात्| न रजस्वलां नातुरां नामेध्यां नाशस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनिं नायोनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाघातनसलिलौषधिद्विजगुरुसुरालयेषु न सन्ध्ययोर्नातिथिषु नाशुचिर्नाजग्धभेषजो नाप्रणीतसङ्कल्पो नानुपस्थितप्रहर्षो नाभुक्तवान्नात्यशितो न विषमस्थो न मूत्रोच्चारपीडितो न श्रमव्यायामोपवासक्लमाभिहतो नारहसि व्यवायं गच्छेत्||२२||

🔊 Audio coming soon

नातिविश्रम्भयेत् नातिप्रश्रयवतीं कुर्यात्| नाधिकुर्यान् न सर्वत्राधिकृतां कुर्यात्| अशस्तां कुष्ठादिसम्बन्धेन| नान्ययोनिमित्यस्यान्ते अभिगच्छेत् इति शेषः, अन्ययोनिः असवर्णा| ओषध्यादिभिरालयशब्दः सम्बध्यते| नातिथिष्विति न निषिद्धासु मैथुनं प्रतिपत्पूर्णिमाप्रभृतिषु| अजग्धभेषजः अनुपयुक्तवृष्यभेषजः| अनुपस्थितप्रहर्षः अजातध्वजोच्छ्रायः| अरहसि अविजने||२२||

Adhikarana 22 (23-24) · Śloka 24

न सतो न गुरून् परिवदेत्, नाशुचिरभिचारकर्मचैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत्||२३|| न विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्निसम्प्लवे न भूमिकम्पे न महोत्सवे नोल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययोर्नामुखाद्गुरोर्नावपतितं नातिमात्रं न तान्तं न विस्वरं नानवस्थितपदं नातिद्रुतं न विलम्बितं नातिक्लीबं नात्युच्चैर्नातिनीचैः स्वरैरध्ययनमभ्यस्येत्||२४||

🔊 Audio coming soon

अभ्युदितासु दिक्षु दाहवतीषु दिक्षु| महाग्रहोपगमनं चन्द्रसूर्यग्रहणम्| अवपतितं हीनवर्णम्| तान्तं रूक्षस्वरम्| अतिक्लीबम् अतिविलम्बितोच्चारणम्||२३-२४||

Adhikarana 23 (25) · Śloka 25

नातिसमयं जह्यात्, न नियमं भिन्द्यात्, न नक्तं नादेशे चरेत्, न सन्ध्यास्वभ्यवहाराध्ययनस्त्रीस्वप्नसेवी स्यात्, न बालवृद्धलुब्धमूर्खक्लिष्टक्लीबैः सह सख्यं कुर्यात्, न मद्यद्यूतवेश्याप्रसङ्गरुचिः स्यात्, न गुह्यं विवृणुयात्, न कञ्चिदवजानीयात्, नाहम्मानी स्यान्नादक्षो नादक्षिणो नासूयकः, न ब्राह्मणान् परिवदेत्, न गवां दण्डमुद्यच्छेत्, न वृद्धान्न गुरून्न गणान्न नृपान् वाऽधिक्षिपेत्, न चातिब्रूयात्, न बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान् बहिष्कुर्यात्||२५||

🔊 Audio coming soon

अतिसमयो मिलित्वा बहुभिः कृतो नियमः| न सन्ध्यास्वित्यादौ पुनः स्त्रीनिषेधः सन्ध्यासु यावदकर्तव्यस्य न्यूनतापरिहारार्थमुक्तः, पूर्वं तु स्त्री यथा न सेव्या तन्निखिलेनोपदिशता न सन्ध्ययोरित्युक्तम्, इति प्रकरणभेदान्न पौनरुक्त्यम्| क्लीबो हीनसत्त्वः| क्लिष्टो निन्दितो रोगादिना| गणान् मिलितान्| कृच्छ्रद्वितीय आपदि सहायः| बहिष्कुर्यात् अवजानीयात्||२५||

Adhikarana 24 (26) · Śloka 26

नाधीरो नात्युच्छ्रितसत्त्वः स्यात्, नाभृतभृत्यः, नाविश्रब्धस्वजनः, नैकः सुखी, न दुःखशीलाचारोपचारः, न सर्वविश्रम्भी, न सर्वाभिशङ्की, न सर्वकालविचारी||२६||

🔊 Audio coming soon

नैकः सुखी स्यादिति न सुखहेतून्याम्रफलादीन्येक एवाविभज्योपयुञ्ज्यादित्यर्थः| शीलं स्वाभाविकं वृत्तम्, आचारः शास्त्रोपदेशानुरूपो व्यवहारः, उपचारः परिच्छदः, एतेषां च दुःखत्वं दुःखहेतुत्वात्| सर्वविश्रम्भी सर्वेषु विश्वासी||२६||

Adhikarana 25 (27) · Śloka 27

न कार्यकालमतिपातयेत्, नापरीक्षितमभिनिविशेत्, नेन्द्रियवशगः स्यात्, न चञ्चलं मनोऽनुभ्रामयेत्, न बुद्धीन्द्रियाणामतिभारमादध्यात्, न चातिदीर्घसूत्री स्यात्, न क्रोधहर्षावनुविदध्यात्, न शोकमनुवसेत्, न सिद्धावुत्सेकं यच्छेन्नासिद्धौ दैन्यं, प्रकृतिमभीक्ष्णं स्मरेत्, हेतुप्रभावनिश्चितः स्याद्धेत्वारम्भनित्यश्च, न कृतमित्याश्वसेत्, न वीर्यं जह्यात्, नापवादमनुस्मरेत्||२७||

🔊 Audio coming soon

चञ्चलमिति क्रियाविशेषणं, यदि वा मनोविशेषणम्| बुद्धेरिन्द्रियाणां बुद्धीन्द्रियाणाम्| अतिदीर्घसूत्री शतैकविनिपाताशङ्की, किंवा दीर्घसूत्री चिरक्रियः| न शोकमनुवसेदिति न चिरं शोकवशगः स्यात्| उत्सेकम् अतिगर्वम् | प्रकृतिम् उत्पत्तिकारणं स्मरेत्; प्रकृतिं पञ्चभूतसमुदायलक्षणामनित्यां स्मरन्न रागद्वेषादिभिरभिभूयते| हेतुप्रभावनिश्चित इति अस्ति शुभाशुभहेतूनां शुभाशुभफलसम्बन्ध इति निश्चयमुपेयात्, नात्र कथं तावान् स्यादित्यर्थः| हेत्वारम्भनित्यः शुभहेतुयो(या)गाद्यारम्भपरः||२७||

Adhikarana 26 (28) · Śloka 28

नाशुचिरुत्तमाज्याक्षततिलकुशसर्षपैरग्निं जुहुयादात्मानमाशीर्भिराशासानः, अग्निर्मे नापगच्छेच्छरीराद्वायुर्मे प्राणानादधातु विष्णुर्मे बलमादधातु इन्द्रो मे वीर्यं शिवा मां प्रविशन्त्वाप आपोहिष्ठेत्यपः स्पृशेत्, द्विः परिमृज्योष्ठौ पादौ चाभ्युक्ष्य मूर्धनि खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरश्च||२८||

🔊 Audio coming soon

उत्तमाज्यं गोसर्पिः| आशीर्भिराशासान इति च्छेदः| ‘अग्निर्मे’ इत्यादिना ‘आपोहिष्ठा’ इत्यन्तः स्नानमन्त्रः||२८||

Adhikarana 27 (29) · Śloka 29

ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षोपेक्षाप्रशमपरश्च स्यादिति||२९||

🔊 Audio coming soon

मैत्री सर्वभूतेष्वात्मनीवाप्रतिकूला प्रवृत्तिः| ननु मैत्रीपरः स्यादिति विरुद्धमेतत्, येन शास्त्रकार एवायं दिग्धविद्धस्वयम्मृतादिमांसपरित्यागेन वयस्थत्वादिगुणयुक्तानां मृगादीनां सद्यस्कं मांसं सेव्यत्वेनोपदिशन् साक्षान्मैत्रीविरुद्धां हिंसामेवाह; नैवं, रागत एव प्राणिनां हिंसापूर्वकमांसभक्षणे प्राप्तेऽयमायुर्वेदोपदेष्टा मांसस्य क्वचिद्रोगे कस्यचिद्धितत्वं क्वचिच्चाहितत्वमुपदिशति, नतु मांसभक्षणं हिंसां वा विदधाति; न ह्ययं मदिराया अपि स्वस्थवृत्ते रोगिवृत्ते वा हितत्वमुपदिशन् मदिरापानं प्रत्युपदेष्टा भवति; एवं च रोगाधिकारे राजयक्ष्मादौ मांसोपदेशस्तथा शरदृतुचर्यादौ “लावान् कपिञ्जलानेणान्” (सू.अ.६) इत्यादिग्रन्थो लावादिमांसहितत्वोपदेशार्थो न हिंसाविधायकः; तेन रोगिणः स्वस्थाश्च हिंसाफलभाजो भवन्त्येव; यथा- “श्येनेनाभिचरन् यजेत” इत्यत्राभिचारस्य कामत एव प्राप्तत्वाच्छ्येनस्याभिचारसाधनत्वमात्रमेव विधिर्ब्रूते, तेन श्येनेनाभिचारकरणेऽधर्मो भवत्येव; अयं त्वत्र विशेषः- यदि हिंसोपार्जितमांसोपयोगं विना पुरुषो न जीवति, अतो हिंसां करोति, तदा “सर्वत्रात्मानं गोपायीत” इति वेदवचनविहितत्वात्तथाविधहिंसा न प्रत्यवायहेतुः, जीवनोपायान्तरसम्भवे तु पुष्ट्यादिप्रयोजना हिंसा प्रत्यवायहेतुरेव; किञ्च भवतु वाऽऽयुर्वेदविहिता हिंसा, तथाऽपि हिंसा दोषार्थमुच्यते; न ह्यायुर्वेदविधयो धर्मसाधनमेवोपदिशन्ति, किं तर्ह्यारोग्यसाधनं “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू.अ.१) इत्युक्तेः||२९||

Adhikarana 28 (30-33) · Śloka 33

तत्र श्लोकाः- पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम्| इन्द्रियोपक्रमेऽध्याये सद्वृत्तमखिलेन च||३०|| स्वस्थवृत्तं यथोद्दिष्टं यः सम्यगनुतिष्ठति| स समाः शतमव्याधिरायुषा न वियुज्यते||३१|| नृलोकमापूरयते यशसा साधुसम्मतः| धर्मार्थावेति भूतानां बन्धुतामुपगच्छति||३२|| परान् सुकृतिनो लोकान् पुण्यकर्मा प्रपद्यते| तस्माद्वृत्तमनुष्ठेयमिदं सर्वेण सर्वदा||३३||

🔊 Audio coming soon

सङ्ग्रहे हेतुचतुष्टयं समातिहीनमिथ्यायोगाः| समाः शतं वर्षशतं; यद्यपि सद्वृत्तानुष्ठानेऽपि दैवविपर्ययेणान्तरा मरणं व्याधयो वा भवन्ति, तथाऽपि प्राधान्याद्दैवकृतव्याधेः पुरुषापराधाविषयत्वादुक्तं समाः शतमित्यादि; यदुक्तं- “परिहार्याणि यत्नेन सदा परिहरन्नरः| भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः” (सू.अ.२८) इति||३०-३३||

Adhikarana 29 (34) · Śloka 34

यच्चान्यदपि किञ्चित् स्यादनुक्तमिह पूजितम्| वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते||३४||

🔊 Audio coming soon

अनुक्तसद्वृत्तोपसङ्ग्रहार्थमाह- यच्चान्यदपीत्यादि| वृत्तम् आचारः| इहायुर्वेदेऽनुक्तमप्याचारोपदेशकेषु धर्मशास्त्रेषु पूजितं, यथा- “नाकस्माद्विकचो भवेन्न परशस्येषु गां चरन्तीं धावन्तीं वा परस्य ब्रूयात्” इत्यादि, सर्वमात्रेयस्यानुमतं साक्षादायुर्वेदाविषयत्वेन ग्रन्थविस्तरभयाच्च न प्रोक्तमित्यभिप्रायः|||३४||

Adhikarana puShpikA · Śloka 2

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः||८|| इति स्वस्थचतुष्को द्वितीयः||२||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने द्वितीये स्वस्थचतुष्के इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः||८||