Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

7. navēgāndhāraṇīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्यायाभ्यां स्वस्थहित आहारः प्राधान्येनोक्तः, तस्य चाहारस्य स्वस्थहितत्वमाहारपाकजमूत्रपुरीषाणामविधारितवेगानां बहिर्गमने सति भवतीति मूत्रादिवेगाविधारणोपदेशकं न वेगान्धारणीयमाह| इहापि नवेगधारणशब्दस्याभावान्मात्राशितीयवत् पर्यायशब्देन सञ्ज्ञा बोद्धव्या||१-२||

Adhikarana 2 (3-4) · Śloka 4

न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः| न रेतसो न वातस्य न छर्द्याः क्षवथोर्न च||३|| नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः| न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च||४||

🔊 Audio coming soon

जातानिति जातमात्रान्| वेगः प्रवृत्त्युन्मुखत्वं मूत्रपुरीषादीनाम्| मूत्रग्रहणमादौ मूत्रस्य पुरीषाद्यपेक्षया बहुवेगत्वात्| मूत्रपुरीषयोरिति क्षुत्पिपासयोरिति च समासकरणं प्रायशोऽनयोः सहोत्पाददर्शनार्थम्| प्रतिनिषेध्यं नकारकरणं निषेध्यगौरवोपदर्शनार्थम्| निःश्वासस्य श्रमेण चेति श्रमोत्थस्य निःश्वासस्याविधार्यत्वं दर्शयति, यतोऽनन्तरं वक्ष्यति “श्रमनिःश्वासधारणात्” इति; सुश्रुतेऽप्युक्तं- “श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोग मूर्च्छे अथवाऽपि गुल्मः” (सू.उ.अ.५५) इति||३-४||

Adhikarana 3 (5-25) · Śloka 25

एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये| पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु||५|| बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा | विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे||६|| स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम् | मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च||७|| पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् | पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते||८|| स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च| हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च||९|| मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा| भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च||१०|| तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः| शालिः पयो निरूहश्च शस्तं मैथुनमेव च||११|| सङ्गो विण्मूत्रवातानामाध्मानं वेदना क्लमः| जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्||१२|| स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च| पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||१३|| कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः| कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः||१४|| भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्| रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते||१५|| मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ| इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्||१६|| तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः| हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम्||१७|| हिक्का श्वासोऽरुचिः कम्पो विबन्धो हृदयोरसोः| उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्||१८|| विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम्| जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्||१९|| कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः| क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम्||२०|| कण्ठास्यशोषो बाधिर्यं श्रमः सादो हृदि व्यथा| पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते||२१|| प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः| बाष्पनिग्रहणात्तत्र स्वप्नो मद्यं प्रियाः कथाः||२२|| जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम्| निद्राविधारणात्तत्र स्वप्नः संवाहनानि च||२३|| गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्| जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः||२४|| वेगनिग्रहजा रोगा य एते परिकीर्तिताः| इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्||२५||

🔊 Audio coming soon

यद्वेगविधारणे ये रोगास्तेषां यच्चिकित्सितं तदल्पवक्तव्यत्वात् प्रकरणागतत्वाच्च ब्रूते- बस्तिमेहनयोरित्यादि| मेहनं शिश्नः | विनमनं शरीरस्य विनामः| अवपीडको बहुमात्रप्रयोगः, मात्राधिकत्वेन हि भेषजं दोषान् पीडयतीति कृत्वा; अन्यत्राप्युक्तम्- “अवपीडकसर्पिर्भिः कोष्णैर्घृततैलिकैस्तथाऽभ्यङ्गैः” इति| त्रिविधमिति निरूहानुवासनोत्तरबस्त्यात्मकम्| पिण्डिका जानुजङ्घामध्यमांसपिण्डिका| वर्तयः फलवर्तयः| प्रमाथि अनुलोमनम्| चरणायुधः कुक्कुटः| रुजा जठर इति सम्बन्धः| ‘भोजनानि’ ‘पानानि’ ‘बस्तय’ इति त्रयं वातानुलोमनं शस्तमिति योज्यम्| कोठो वरटीदष्टाकारः शोथः| व्यङ्गः श्यामवर्णं मण्डलं मुखे| हृल्लासः उत्क्लेशः| अर्धावभेदः अर्धमस्तकवेदना| आद्यं खाद्यं भोजनमित्यर्थः| चकारात् स्वेदादयोऽपि वातघ्ना इति सूचयति| यद्यपि सुश्रुते मूत्रादीनां त्रयोदशानां विधारणात्त्रयोदशोदावर्ता अभिधीयन्ते, तथाऽपीहाष्टोदरीये मूत्रपुरीषवातशुक्रवमिक्षवथुविघातजा एव परं षडुदावर्ता अभिधातव्याः; उद्गारादिनिरोधजानां वातनिरोधज एवोदावर्तेऽन्तर्भावाभिप्रायात्; यदि वा मूत्रादिविघातज एव विकारे चरकाचार्यस्य उदावर्तसञ्ज्ञाऽभिप्रेता, नान्यत्रेति न विरोधः| मुहुर्मुहुरङ्गानामाक्षेपणमाक्षेपः; पर्वणामाकुञ्चनं सङ्कोचः| सुप्तिः स्पर्शाज्ञानम्| भ्रमणं भ्रमो येन चक्रस्थितमिवात्मानं मन्यते| सादः अङ्गावसादः| तर्पयतीति तर्पणम्| संवाहनं पाणिना पादादिप्रदेशे सुखमभिहननमुन्मर्दनं च||५-२५||

Adhikarana 4 (26) · Śloka 26

इमांस्तु धारयेद्वेगान् हितार्थी प्रेत्य चेह च| साहसानामशस्तानां मनोवाक्कायकर्मणाम्||२६||

🔊 Audio coming soon

वेगानामविधार्यत्वेनोक्तत्वाल्लोभादीनामपि वेगा अविधार्याः स्युरित्याह- इमांस्त्वित्यादि| प्रेत्य जन्मान्तरे| इहेति इह जन्मनि| सहसा आत्मशक्तिमनालोच्य क्रियत इति साहसं, तत्तु गजाभिमुखधावनादि| अशस्तानाम् अप्रशस्तानामनिष्टफलानामिति यावत्| मनोवाक्कायकर्मणामित्यत्र कर्मशब्दो व्यापारवचनः||२६||

Adhikarana 5 (27) · Śloka 27

लोभशोकभयक्रोधमानवेगान् विधारयेत्| नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान्||२७||

🔊 Audio coming soon

अशस्तं मनसः कर्म दर्शयति- लोभेत्यादि| लोभः विषयेऽनुचिता प्रार्थना, शोकः पुत्रादिविनाशजं दैन्यम्, भयम् अपकारकानुसन्धानजं दैन्यम्, क्रोधः प्रद्वेषो येन प्रज्वलितमिवात्मानं मन्यते, मानः सदसद्गुणाध्यारोपेणात्मन्युत्कर्षप्रत्ययः| जुगुप्सितगोपनेच्छा लज्जा, तदभावो नैर्लज्ज्यं; समाने द्रव्ये परसम्बन्धप्रतिषेधेच्छा ईर्ष्या; अतिराग उचित एव विषये पुनः पुनः प्रवर्तनेच्छा| अभिध्या मनसा पराभिद्रोहचिन्तनं, यदि वा परद्रव्यविषये स्पृहा||२७||

Adhikarana 6 (28) · Śloka 28

परुषस्यातिमात्रस्य सूचकस्यानृतस्य च| वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्||२८||

🔊 Audio coming soon

अशस्तं वचनकर्माह- परुषस्येत्यादि| परुषं परोद्वेजकं वचनम्| अतिमात्रं बहु| सूचकं परानिष्टजनकाभिधायकम् | अनृतम् अपार्थकम्| अकालयुक्तम् अप्रस्तावागतम्||२८||

Adhikarana 7 (29) · Śloka 29

देहप्रवृत्तिर्या काचिद्विद्यते परपीडया| स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत्||२९||

🔊 Audio coming soon

अशस्तं देहकर्माह- देहेत्यादि| परपीडया परपीडानिमित्तमित्यर्थः| स्त्रीभोगः परस्त्रीभोगः, स्तेयं परद्रव्यग्रहणं, हिंसा विधिरहिता प्राणिपीडा; आदिग्रहणाद्गुर्वाद्यभिमुखपादप्रसारणादि गृह्यते||२९||

Adhikarana 8 (30) · Śloka 30

पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्| धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च||३०||

🔊 Audio coming soon

एवं कृते यद्भवति तद्दर्शयति- पुण्येत्यादि| पुण्यः पावनः शब्दो यस्यासौ पुण्यशब्दः| भुङ्क्ते चिनोति चेति उत्पन्नादविरोधतः फलोपयोगेन भुङ्क्ते; चिनोति चोत्पादयति चापरानित्यर्थः||३०||

Adhikarana 9 (31) · Śloka 31

शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी| देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्||३१||

🔊 Audio coming soon

अविधार्यप्रवृत्तीन्मूत्रादीन् विधार्यप्रवृत्तीन् साहसादींश्च दर्शयित्वा विधार्याविधार्यप्रवृत्तिं व्यायाममाह- शरीरेत्यादि| देहस्य व्यायामो देहव्यायामः, देहग्रहणान्मनोव्यायामं चिन्तनादि निराकरोति; सङ्ख्याता सञ्ज्ञिता| या च इष्टा अभिप्रेता, एतेन भारहरणाद्याऽनिष्टा कार्यवशात् क्रियमाणा चेष्टा निरस्यते, चङ्क्रमणरूपा तु क्रिया प्राप्यते| स्थैर्यं स्थिरता शरीरस्य, तदर्था| मात्रया अनपायिपरिमाणेन; एतावती चेयं शरीरचेष्टा मात्रावती यावत्या लाघवादयो वक्ष्यमाणा भवन्ति, चेष्टातियोगवक्ष्यमाणाश्च श्रमभ्रमादयो न भवन्ति| सुश्रुतेऽप्युक्तं- “यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्| तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम्” (सु.चि.अ.२४) इति||३१||

Adhikarana 10 (32-33) · Śloka 1

लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता | दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२|| श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः| अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||३३|| (स्वेदागमः श्वासवृद्धिर्गात्राणां लाघवं तथा| हृदयाद्युपरोधश्च इति व्यायामलक्षणम्||१||)|

🔊 Audio coming soon

यथोक्तव्यायामगुणानाह- लाघवमित्यादि| दोषक्षयोऽत्र श्लेष्मक्षयोऽभिप्रेतः; यदि वाऽग्निकर्तृत्वेन त्रिदोषक्षयोऽपि| उक्तं हि- “शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ” इति| व्यायामातिप्रवृत्तिदोषमाह- श्रम इत्यादि| क्लम इह मन-इन्द्रियग्लानिः| क्षयो धातुक्षयः| प्रतमक एव प्रतामकः श्वासविशेषः||३२-३३||

Adhikarana 11 (34) · Śloka 34

व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्| नोचितानपि सेवेत बुद्धिमानतिमात्रया||३४||

🔊 Audio coming soon

इदानीं व्यायामतुल्यत्वेनान्यानप्यतिमात्रत्वेन निषेद्धुमाह- व्यायामेत्यादि| यद्यप्यतिव्यायामो निषिद्धस्तथाऽपीह पुनरभिधीयते अतिभाष्यादिष्वपि तद्दोषश्रमक्लमादिप्राप्त्यर्थं; यदि वा पूर्वमनभ्यस्तव्यायामातिसेवा निषिद्धा, इह तु अभ्यस्तस्यापि निषेधः| यदाह- नोचितानपि; उचितानप्यभ्यस्तानपीत्यर्थः| अपिशब्दादनभ्यस्तानां नितरां निषेधो लभ्यते| भाषणं भाष्यम्, अध्वशब्देनाध्वगमनं, ग्राम्यधर्मो मैथुनम्||३४||

Adhikarana 12 (35) · Śloka 2

एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते| गजं सिंह इवाकर्षन् सहसा स विनश्यति||३५|| (अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः | क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः||१|| बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः| ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये||२||)|

🔊 Audio coming soon

एवंशब्देन गुरुभारहरणदर्पशिलाचालनादि गृह्यते| सिंहः किल स्वल्पप्रमाणः स्वबलोद्रेकाद्गजं कर्षन् पाटयन् स्वदेहानुचितव्यायामात् पश्चाद्वातक्षोभेण विपद्यते, तेनायं दृष्टान्तः सङ्गतार्थः; यदि वा सिंहोऽष्टापदोऽभिप्रेतः, स च किल गजं व्यापाद्य पृष्ठे क्षिपति, ततस्तत्कोथाद्विपद्यते, तेन दृष्टान्तो व्याख्येयः||३५||

Adhikarana 13 (36-37) · Śloka 37

उचितादहिताद्धीमान् क्रमशो विरमेन्नरः| हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते||३६|| प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्| एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा||३७||

🔊 Audio coming soon

हितस्य सेवनमहितस्य परित्यागः कर्तव्य इति पूर्वमुक्तं, तच्च हितसेवनमहितपरिवर्जनं चाक्रमेण क्रियमाणमक्रमाचरितव्यायामादिवत् प्रत्यवायकरं परं भवति, अतस्तत्क्रममाह- उचितादित्यादि| उचितात् अभ्यस्तात्| क्रमशो वक्ष्यमाणेन क्रमेण| हितम् अनभ्यस्तहितम्| कोऽसौ क्रम इत्याह- क्रमश्चेत्यादि| प्रक्षेपो हितस्य, अपचयोऽहितस्य, ताभ्यां हिताहिताभ्याम्| पादः चतुर्थो भागः, तद्रूपोंऽशः पादांशः, तेन कृतः क्रमः पादांशिकः; अन्ये तु पादस्यांशः पादांश इति षोडशं भागं वर्णयन्ति | स च हिताहितयोर्युगपत्प्रक्षेपापचये पादांशिकः क्रमः, प्रथममेकान्तरमेकाहमन्तरा कृत्वेत्यर्थः; ततः प्रथमहितपादप्रक्षेपाहितपादापचयाभ्यासादूर्ध्वं द्वितीयपादप्रक्षेपापचये द्व्यन्तरं द्व्यहमन्तरीकृत्य क्रमो भवेत्; तथा द्वितीयपादाभ्यासादूर्ध्वं तृतीयपादप्रक्षेपापचये त्र्यहमन्तरीकृत्य क्रमो भवेत्; चतुर्थपादप्रक्षेपापचये तु कालनियमो नास्ति, अत ऊर्ध्वं प्रक्षेपापचयाभावाच्चतुष्पादसम्पूर्णस्य पथ्यस्यानवधिसेव्यत्वात्| अयं पिण्डार्थः- अपथ्या यवकादयोऽभ्यस्तास्ते त्याज्याः, रक्तशाल्यादयः पथ्या अनभ्यस्तास्ते सेव्याः; तत्र प्रथमदिने यवकपादत्रयं रक्तशालीनामेकः पादः ; द्वितीये दिवसे द्वौ पथ्यस्य पादौ द्वावपथ्यस्य, एवं तृतीये, एवं द्वितीयपादाभ्यासो द्व्यन्तरो भवति; चतुर्थे त्रयः पादाः पथ्यस्य एकोऽपथ्यस्य, एवं पञ्चमे षष्ठे च, एवं तृतीयपादाभ्यासस्त्र्यन्तरो भवति; सप्तदिनप्रभृति तु चतुष्पादपथ्याभ्यासः| यदि वाऽन्तरशब्दो व्यवधिवचनः, तथाशब्दाच्चतुरन्तरमिति च लभ्यते; तेनायमर्थः- प्रथमे दिवसेऽपथ्यपादत्रयं पथ्यस्यैकः पादः, द्वितीये सर्वमपथ्यं, तृतीये द्वौ पथ्यस्य द्वावपथ्यस्य, एवं चतुर्थे; पञ्चमे तु दिने पथ्यस्य भाग एकस्त्रयोऽपथ्यस्य, एवं द्व्यन्तरीकृतौ भवतः; षष्ठे पथ्यभागत्रयमपथ्यभाग एकः, एवं सप्तमेऽष्टमे च; ततो नवमे भागद्वयं पथ्यस्य चापथ्यस्य च, एवं त्रीण्यहान्यन्तरीकृतानि भवन्ति; ततो दशमे सर्वं पथ्यम्, एवमेकादशे द्वादशे त्रयोदशे च, चतुर्दशे तु पथ्यभागत्रयमेकोऽपथ्यभागः; एवं चतुरन्तरता तथाशब्दसूचिता भवति; पञ्चदशाहात् प्रभृति सम्पूर्णपथ्यतैव||३६-३७||

Adhikarana 14 (38) · Śloka 38

क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः| सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||३८||

🔊 Audio coming soon

एवं कृते किं स्यादित्याह- क्रमेणेत्यादि| क्रमेणेति क्रमेणैव| दोषा इति दोषजनकान्यभ्यस्तान्यपथ्यानि| गुणा इति गुणजनकानि पथ्यानि| अपुनर्भावं यान्ति दोषा इति सम्बन्धः| अक्रमेण तु सहसाऽपथ्यत्यागे दोषा भवन्त्येव| यदुक्तम्- “असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्” (वा.सू.अ.३) इति| अप्रकम्प्या अप्रचाल्या भवन्ति गुणा इति सम्बन्धः| पथ्यमपि ह्यनभ्यस्तं सहसोपयुज्यमानमरुच्यग्निवधादीञ्जनयति||३८||

Adhikarana 15 (39-40) · Śloka 40

समपित्तानिलकफाः केचिद्गर्भादि मानवाः| दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा||३९|| तेषामनातुराः पूर्वे वातलाद्याः सदातुराः| दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते||४०||

🔊 Audio coming soon

इह स्वस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, स्वस्थश्च प्रकृतिभेदेन नानाप्रकारः, अतस्तेषां हितमपि नानाप्रकारमेव, तेन तत्प्रतिपादनार्थं प्रकृतिभेदमेव तावदाह- समपित्तानिलेत्यादि| समा अवैकारिकमानावस्थिताः पित्तानिलकफा यस्य स तथा| गर्भादि गर्भाधानादि, शुक्रशोणितजीवसम्मूर्च्छनादीति यावत् | वातला वातप्रधानाः, एवं पित्तलाः श्लेष्मलाश्च| सर्वत्र गर्भादीति योज्यम्| अत्र पित्तग्रहणमादौ छन्दोऽनुरोधात्, यदि वा पित्तसमानस्य वह्नेर्गौरवप्रदर्शनार्थं; यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थं, वातप्रकृतिर्हि सर्वत्र प्रत्यवरो भवति| इह च प्रत्येकदोषप्रकृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि ग्राह्यः, संयोगस्य संयोगिनामान्तरीयकत्वात्, निदान इव वातादिज्वराभिधानेन द्वन्द्वजज्वराभिधानं, तेन रोगभिषग्जितीयोक्ता द्वन्द्वजा अपि तिस्रः प्रकृतयो गृहीता भवन्ति; अन्ये तु द्वितीयकेचिद्ग्रहणाद्ग्रन्थाधिक्येन तद्ग्रहणं वर्णयन्ति| तेषामिति समवातपित्तश्लेष्मप्रकृत्यादीनां च मध्ये| पूर्वे इति समप्रकृतयः| सदातुरा इति स्वस्थव्यवहारभाजोऽपि स्फुटिताङ्गत्वविषमाग्नित्वादियुक्ता यस्मादित्यर्थः| स्वस्था अप्येते कस्माद्रोगिण इत्याह- दोषानुशयितेत्यादि| दोषानुशयिता उल्बणवातादिभाविताऽव्यभिचारिणीति यावत्| देहप्रकृतिः देहस्वास्थ्यमिति यावत्| एतेनैतेषां वातलादीनां मुख्यं स्वास्थ्यं नास्ति, किं तर्हि उपचारस्वस्था एत इति दर्शयति| ननु, गर्भादीत्यनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वातादयः समा विकृता वा तथाभूतैव प्रकृतिर्भवति, सा च प्रकृतिर्यावज्जीवमनुवर्तते रिष्टं विना, यदुक्तं सुश्रुते- “प्रकोपो वाऽन्यभावो वा क्षयो वा नोपजायते| प्रकृतीनां स्वभावेन, जायते तु गतायुषि” (सु.शा. अ. ४) इति; तत्र यदा समप्रकृतेर्वातप्रकृतेर्वाऽऽक्षेपकादिर्वातविकारो भवति, तदा वातस्य प्रकृतिभूतस्याधिक्यं भवत्येव; यदा च वातप्रकृतेः पित्तविकारो भवति, तदा वातप्रकृतेरन्यथाभावः पित्तप्रकृतित्वं भवति; यदा तु समप्रकृतेरन्यतरदोषक्षयो भवति प्राकृतस्वकर्महानिलक्षणस्तदाऽसौ प्रकृतिक्षयो भवति; यदुक्तं दोषक्षयलक्षणे- “कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्” (सू. अ.१८) इति| अत्रोच्यते- प्रकृतिसमानरोगोत्पत्तौ न प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेत्वन्तरजनितस्य वातादेस्तत्र विकारकारित्वं , प्रकृतिभूतस्तु दोषस्तत्रोपदर्शको भवति, यदुक्तं- “कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्| निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः” (चि. अ.३) इति; वातप्रकृतेस्तु पित्तविकारोत्पत्तौ वातः प्रकृतिभूतस्तथैव करचरणस्फुटनादिकं कुर्वन्नास्ते, न तस्यागन्तुना पित्तविकारेण किञ्चित् क्रियते; वातादीनां तु स्वमानात् क्षयः प्राकृतकर्महानिलक्षणो न शुक्रशोणितसंसर्गकालजस्य प्रकृतिभूतस्य दोषस्य बीजभूतस्य क्षयमावहतीति न प्रकृतिभूतदोषक्षयः; यदि वा, प्रकृतेः प्रकोपान्यथाभावक्षया न भवन्तीति प्रकृतित्वेनेति ब्रूमः; तेन समप्रकृतिर्वातप्रकृतिर्न भवति, वातप्रकृतिः पित्तप्रकृतिर्न भवति समप्रकृतिर्वा; विकारावस्था तु हीनाधिकवातत्वादिलक्षणा भवतीत्यर्थः| नच वाच्यं- प्रकृतिभूतानां वातादीनां दूषणात्मकानां कथं न शरीरबाधकत्वं, सहजातत्वेन तथाविधविनाशकविकाराकर्तृत्वात्; यदुक्तं सुश्रुते- “विषजातो यथा कीटो विषेण न विपद्यते| तद्वत्प्रकृतिभिर्देहस्तज्जातत्वान्न बाध्यते” (सु.शा. अ.४) इति; न बाध्यते नातिबाध्यत इति बोद्धव्यं, वातादिप्रकृतेर्नित्यवातादिविकारगृहीतत्वात्| तदुक्तमिह “वातलाद्याः सदातुराः” इति| उक्तं चाश्ववैद्यके- “सर्वान् प्राणभृतो हन्ति नूनं कायगतं विषम्| अस्मिंश्चापि समुत्पन्ना दृश्यन्ते कृमयो यथा|| तथा च विषमो दोषः प्रकृतिं नातिबाधते” इति| नच वातादयो वृद्धाः शुक्रशोणितसंसर्गे यथा दुष्टत्वाद्वातविकारवन्तं गर्भं कुर्वन्ति तथा गर्भजनकत्वमेव शुक्रशोणितयोः कस्मान्न निघ्नन्तीति वाच्यं, वातादिप्रकोपाणामेव हीनमध्योत्तमानां नानाशक्तित्वात्; प्रबला वातादयो विनाशयन्ति, हीनास्तु विकृतिमात्रं जनयन्ति||३९-४०||

Adhikarana 16 (41) · Śloka 41

विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः| समसर्वरसं सात्म्यं समधातोः प्रशस्यते||४१||

🔊 Audio coming soon

तेषामिति सदातुराणां वातलादीनाम्| विपरीतगुणो वातादिगतरौक्ष्यादिविपरीतस्नेहादिगुण इत्यर्थः| समाः सर्वे रसा यत्र तत्तथा; समत्वं चेहानुरूपत्वमभिप्रेतं, नतु तुल्यमानत्वं; न हि स्वस्थभोजने यावान्मधुर उपयुज्यते, तावन्मानाः कट्वादयोऽपीति; यदि वा समशब्दोऽविरुद्धवचनः, तेनोपोदिकामत्स्यादिप्रतिपादनीयविरुद्धरसवर्जितं सर्वरसमित्यर्थः| एवं च प्रकृत्यपेक्षः समधातुं प्रति सर्वरसोपयोगः ऋतुविहितेन तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान् (सू. अ.६) इत्यादिना विशेषविधानेन युक्तः सन् सर्वरसमेवाम्ललवणरसोत्कटं भोजनं हेमन्ते फलति; वातप्रकृतेस्तु कटुतिक्तकषायवर्जितं प्रभूतमधुराम्ललवणभोजनं हेमन्ते भवति; एवमन्यत्रापि देहप्रकृत्यृतुस्वभावपर्यालोचनयाऽनुगुणं तर्कणीयम्| यदुक्तं वाग्भटेन- “नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ” (वा.सू.अ.३) इति||४१||

Adhikarana 17 (42-43) · Śloka 43

द्वे अधः सप्त शिरसि खानि स्वेदमुखानि च| मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः||४२|| मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्| मलायनानां बुध्येत सङ्गोत्सर्गादतीव च||४३||

🔊 Audio coming soon

स्वास्थ्योत्पत्तिकारणमभिधाय स्वास्थ्यप्रतिबन्धकदोषसञ्चयनिर्हरणमभिधातुं दोषसञ्चयस्य लक्षणान्येव तावद्वक्तुमाह- द्वे अध इत्यादि| द्वे गुदलिङ्गे| खानि छिद्राणि | सप्त शिरसीति द्वे श्रोत्रे, द्वौ नासापुटौ, द्वे अक्षिणी, मुखं च; स्वेदमुखानीति लोमकूपानि; एतानि सर्वाणि मलस्यायनानि| दुष्टैरिति गोबलीवर्दन्यायेन क्षीणैः, मात्राधिकैरिति वृद्धैः; येनोत्तरत्र क्षयवृद्ध्योरपि लक्षणं वदति| मलवृद्धिं गुरुतया मलायनगुरुतयेत्यर्थः, लाघवान्मलायनानां सङ्क्षयं मलस्य स्वमानादपि क्षयमित्यर्थः; यदि वा दुष्टैरिति मात्राधिकैरित्यस्य विशेषणम्, एवं सति लाघवान्मलसङ्क्षयमिति प्रकृतिस्थाल्लाघवान्मलक्षयमित्यधिकस्य मलस्य क्षयं प्रकृतिस्थत्वमित्यर्थो व्याख्येयः| सङ्गोत्सर्गादतीव चेति अतीवसङ्गादप्रवृत्तेर्मलक्षयम्, अतीवोत्सर्गान्मलवृद्धिं जानीयादित्यर्थः||४२-४३||

Adhikarana 18 (44) · Śloka 44

तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्| व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्||४४||

🔊 Audio coming soon

तानिति मलवृद्धिक्षयात्मकान् मलवृद्धिक्षयजनितानिति यावत्, दोषाणां वातादीनां, लिङ्गैः क्षयवृद्धिसम्बन्धैः, आदिश्य बुद्ध्वा, ये साध्यास्तानुपाचरेत्| व्याधिप्रतिद्वन्द्वैः व्याधिप्रत्यनीकैः, हेतुप्रतिद्वन्द्वैः हेतुप्रत्यनीकैः; प्रतिद्वन्द्वशब्देन च विपरीतार्थकारिणामपि ग्रहणम्| मात्राकालग्रहणं च प्राधान्यात्; तेन, दोषभेषजादीनामपि ग्रहणं बोद्धव्यं; यदि वा कालग्रहण एव दोषादीनामवरोधो व्याख्येयः||४४||

Adhikarana 19 (45-50) · Śloka 50

विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे| जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत्||४५|| माधवप्रथमे मासि नभस्यप्रथमे पुनः| सहस्यप्रथमे चैव हारयेद्दोषसञ्चयम्||४६|| स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः| बस्तिकर्म ततः कुर्यान्नस्यकर्म च बुद्धिमान्||४७|| यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्| रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||४८|| रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु| धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च||४९|| विधिरेष विकाराणामनुत्पत्तौ निदर्शितः| निजानामितरेषां तु पृथगेवोपदेक्ष्यते||५०||

🔊 Audio coming soon

विषमेत्यादि| अनातुरशब्देनातुर्यात् प्रागेवानागताबाधेन स्वस्थपरेण भवितव्यमिति शिक्षयति| माधवो वैशाखस्तस्य प्रथमश्चैत्रः, एवं नभस्यस्य भाद्रस्य प्रथमः श्रावणः, तथा सहस्यस्य पौषस्य प्रथमो मार्गशीर्षः; एते च मासाश्चैत्रश्रावणमार्गशीर्षा रोगभिषग्जितीये विमाने (वि.अ.८) शोधनार्थं वक्ष्यमाणप्रावृडाद्यृतुक्रमेण वसन्तप्रावृट्शरदन्तर्गता भवन्ति| दृढबलसंस्कारेऽपि पठ्यते- “प्रावृट् शुक्रनभौ ज्ञेयौ शरदूर्जसहौ पुनः| तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति” (सि.अ.६) इति, सुश्रुतेऽपि ऋतुचर्याध्याये दोषोपचयप्रकोपोपशमननिमित्तमीदृश एव ऋतुक्रमः पठितः| तेन, शोधनमभिधीयमानं शोधनार्थोक्तर्तुक्रमेणैव व्याख्येयम्| वसन्तादीनामन्तमासेषु तु वमनाद्यभिधानं सम्पूर्णप्रकोपे भूते निर्हरणोपदेशार्थं; प्रथमेषु हि मासेषु फाल्गुनाषाढकार्तिकेषु प्रकोपः प्रकर्षप्राप्तो न भवति, चितस्य ह्यसम्यक्प्रकुपितस्याविलीनस्य सम्यङ्निर्हरणं न भवतीति| अत एव कपिलबलेऽपि पठ्यते- “मधौ सहे नभसि च मासि दोषान् प्रवाहयेत्| वमनैश्च विरेकैश्च निरूहैः सानुवासनैः” इति| हरिचन्द्रेण तु, सहशब्दोऽयमकारान्तो मार्गशीर्षवचनस्तस्य सहस्य प्रथमे कार्तिके इति व्याख्यातम्| तन्मतानुसारिणा वाग्भटेन चोक्तं- “श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्| ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्” (वा.सू.अ.३) इति| “कार्तिके श्रावणे चैत्रे मासि साधारणे क्रमात्| वर्षादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत्”- इत्यस्य तु श्लोकस्य केनापि पठितस्याविरुद्धान्वेषणे बुद्धिमतां न व्यापारः| ऊर्ध्वं चेति वमनेन, अध इति विरेकेण, बस्तिकर्मशब्देनास्थापनानुवासने; एतच्च सर्वं वमनादि यथायोग्यतया, न यथासङ्ख्येन; तेन वमनं मधौ प्रधानं, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिरिति भवति| यथाक्रमं यथानुपूर्वं, यथायोग्यं यद्यस्य युज्यते; एतच्च पूर्वेण वमनादिना, उत्तरेण च रसायनादि प्रयोजयेदित्यनेन योज्यम्| सिद्धानीति दृष्टफलानि| रोगास्तथा न जायन्त इति वमनादीनाचरतः; धातवश्चाभिवर्धन्त इति रसायनवृष्ययोगानुपयोजयत इति योजनीयम्| निजानामिति छेदः| इतरेषामित्यागन्तूनाम्| आगन्तवश्चेह भूतविषवातादिजन्यास्तथा मानसाश्चाभिप्रेताः; येनैतद्द्वितयमप्यभिधायाऽऽगन्तूनामनुत्पत्तावित्याद्युपसंहारमागन्तुकत्वेनैव करिष्यति||४५-५०||

Adhikarana 20 (51-52) · Śloka 52

ये भूतविषवाय्वग्निसम्प्रहारादिसम्भवाः| नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति||५१|| ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये| मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः||५२||

🔊 Audio coming soon

ये भूतेत्यादि| भूताः पिशाचादयः, आदिग्रहणात् पातबन्धनादीनां ग्रहणम्| प्रज्ञा बुद्धिस्तदपराधोऽज्ञानदुर्ज्ञाने, एतन्मूलाश्चैते भूताभिषङ्गादय ईर्ष्यादयश्च| यद्यपि च निजा अपि प्रज्ञापराधमूला एव; यदुक्तं- “प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते” (सू.अ.२८) इति, तथाऽपि ते प्राधान्यात् प्रज्ञापराधजनितबाह्यवातादिरूक्षभोजनादिजन्यत्वेन तथाऽन्तरा वातादिजन्यत्वेन पृथक्त्वेनोच्यन्ते ||५१-५२||

Adhikarana 21 (53-54) · Śloka 54

त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||५३|| आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः| प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः||५४||

🔊 Audio coming soon

आगन्तुमानसपरिहारे हेतुमाह- त्याग इत्यादि| इन्द्रियोपशमः इन्द्रियाणां स्वविषयेऽलम्पटत्वं, स्मृतिः पुत्रादीनां विनश्वरत्वस्वभावाद्यनुस्मरणं; यदुक्तम्- “स्मृत्वा स्वभावं भावानां स्मरन् दुःखाद्विमुच्यते” (शा.अ.१); एतच्च द्वयं मानसरोगप्रतिघातकम्| देशज्ञानाच्छून्यगृहाटव्युपसर्गगृहीतदेशवर्जनादि भवति, कालज्ञानात् पौर्णमास्यादिवक्ष्यमाणभूताद्यभिघातकालादिवर्जनम् , आत्मज्ञानात् स्वशक्तिपर्यालोचनया प्रचरतो बलवदग्निघातादिपरिवर्जनादि व्याख्येयम्| सद्वृत्तमिन्द्रियोपक्रमणीये वक्ष्यमाणम्| प्रागेवेति अनुत्पन्नेष्वेव रोगेषु||५३-५४||

Adhikarana 22 (55) · Śloka 55

आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम्| विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये||५५||

🔊 Audio coming soon

अथ किं हितमित्याह- आप्तोपदेश इत्यादि| आप्ता ज्ञानवन्तो रागद्वेषरहिताः पुरुषाः, यद्वक्ष्यति- “रजस्तमोभ्यां निर्मुक्ताः” (सू.अ.११) इत्यादि; प्रतिपत्तिरुपदिष्टार्थस्य सम्यगवबोधः; एतद्द्वयं कारणं विकाराणामनुत्पत्तौ हेतुवर्जनेन, उत्पन्नानां च शान्तये कारणं तच्चिकित्सानुष्ठानेनेत्यर्थः||५५||

Adhikarana 23 (56-59) · Śloka 59

पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः| मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः||५६|| परापवादरतयश्चपला रिपुसेविनः| निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः||५७|| बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः| वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः||५८|| सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः| सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः||५९||

🔊 Audio coming soon

आप्तोपदेशग्रहणार्थमनाप्तान् वर्ज्यान् पापवृत्तेत्यादिना, सेव्यांश्चाप्तान् बुद्धीत्यादिना दर्शयति| वृत्तं चेष्टितं शरीरव्यापारः, सत्त्वं मनः; एषां पापत्वं पापहेतुत्वात्| शठाः क्रूराः| निर्घृणा निष्कृपाः| बुद्ध्यादिभिर्वृद्धाः प्रभूतप्रशस्तबुद्ध्यादियुक्ता इत्यर्थः| गतव्यथा गतशोकादय इत्यर्थः| सुमुखाः प्रसन्नमुखाः| शंसितव्रताः कथितव्रताः ||५६-५९||

Adhikarana 24 (60) · Śloka 60

आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च| परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने||६०||

🔊 Audio coming soon

आहाराचारचेष्टास्विति निर्धारणे सप्तमी, तेनाहाराचारचेष्टानां मध्ये यद्धितं तस्य सेवने प्रयत्नमातिष्ठेदिति फलति; आचारः शास्त्रविहितमनुष्ठानम्||६०||

Adhikarana 25 (61-62) · Śloka 62

न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्| नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना ||६१|| ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्| प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः||६२||

🔊 Audio coming soon

दध्नोऽनेकप्रकारनिषिद्धत्वाद्दिङ्मात्रोदाहरणार्थं दधिभोजनविधिमाह- न नक्तमित्यादि| अत्र न नक्तमित्यत्र नोष्णमित्यत्र च नकारः क्रियया सम्बध्यते, तेन निशि उष्णं दधि सर्वथैव न सेव्यम्| अघृतशर्करमित्यादौ च निषेधो नञा सम्बध्यते, तेनोभयप्रतिषेधात् सशर्करं भुञ्जीतेत्यादि वाक्यार्थो भवति| तेन घृतादीनां मध्येऽन्यतमसम्बन्धेनापि दध्युपयोज्यं भवति| न नक्तमित्यादिवदिहापि नकारस्य क्रियासम्बन्धे मुद्गसूपसहितस्याप्यघृतशर्करत्वमस्त्येव दध्न इत्यनुपादेयत्वं स्यात्| जतूकर्णे- नापि घृतादीनां मिलितानामयोगाद्दध्यसेव्यमुक्तम्| यदुक्तं- “नाश्नीयाद्दधि नक्तमुष्णं वा न घृतमधुशर्करामुद्गामलकैर्विना वा” इति||६१-६२||

Adhikarana 26 (63-66) · Śloka 66

तत्र श्लोकाः- वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्| येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्||६३|| उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः| यथाप्रकृति चाहारो मलायनगदौषधम्||६४|| भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत्| वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना||६५|| विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः| नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः||६६||

🔊 Audio coming soon

अध्यायार्थसङ्ग्रहे हिताहितमिति सेव्यासेव्यं व्यायामहास्यादि| भविष्यतामनुत्पत्तौ भेषजमिति माधवप्रथमे मासीत्यादिनोत्पन्नानां च शान्तय इत्यन्तेन||६३-६६||

Adhikarana puShpikA · Śloka 7

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः||७||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायुर्वेददीपिकाख्यायां द्वितीये स्वस्थचतुष्के नवेगान्धारणीयो नाम सप्तमोऽध्यायः||७||