Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. khuḍḍākacatuṣpādō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

स्वस्थचतुष्कानन्तरं स्वस्थातुरयोरुभयोरपि हितत्वेन निर्देशचतुष्कोऽभिधीयते| स्वस्थातुरहितं वैद्यभेषजादि निर्दिशतीति निर्देशचतुष्कः, तत्रापि स्वस्थातुरहितेषु प्रधानभूतचिकित्साङ्गवैद्यादिपादचतुष्टयाभिधायकत्वेन खुड्डाकचतुष्पादोऽभिधीयते| खुड्डाकशब्दोऽल्पवचनः; यथा- खुड्डिका गर्भावक्रान्तिः, अल्पेत्यर्थः| वैद्यौषधपरिचारकरोगिणश्चिकित्सायाश्चत्वारः पादाः, चतुष्पादं तं खुड्डाकमभिधेयतयाऽधिकृत्य कृतोऽध्यायः खुड्डाकचतुष्पादः| अत्रोत्पन्नस्य तु प्रत्ययस्य “अध्यायानुवाकयोर्लुक् च” (पा.अ.५पा.२सू.६०) इति लुक्| खुड्डाकत्वं चास्य वक्ष्यमाणमहाचतुष्पादमपेक्ष्य||१-२||

Adhikarana 2 (3) · Śloka 3

भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये||३||

🔊 Audio coming soon

अत्र भिषगादावुक्तः प्रधानत्वात्, वक्ष्यति हि- “प्रधानं भिषगत्र तु” इति; तदनु भेषजं, चिकित्सायां प्रधानकारणभूतत्वात्; तदनु परिचारकः, भेषजप्रयोगस्य कल्कक्वाथादिसाध्यस्य तदधीनत्वात्| यद्यप्यातुराधिकरणमारोग्यं पादैः सम्पाद्यते , स एव च वैद्यादीनामुपकार्यः, उपकार्यश्च प्रधानं भवति, तथाऽपीह व्याधिप्रशमे साध्ये यथा वैद्यादिपादत्रयस्य व्यापारो न तथाऽऽतुरस्येत्यप्राधान्यविवक्षया पश्चादुक्तः| पादश्चतुर्थो भागः, श्लोकादिपादवद्वैद्यादिषु पादसञ्ज्ञाकरणेनान्यतरवैकल्येनापि चिकित्सा न भवतीति दर्शयति| गुणवदिति वक्ष्यमाण-श्रुतेपर्यवदातत्वादिगुणवत्| इह च वैद्यादयो व्याप्रियमाणा एव विकारप्रशमने कारणं भवन्ति, यतः कारणत्वं कार्ये व्यापारवतामेव भवति; तथा हि- देवदत्तः पाचक इत्युक्ते तुषबुसप्रक्षेपादिक्रिययैव पाकं करोतीति गम्यते; एतेन यदुच्यते- “चतुर्णां भिषगादीनां” इत्यादिना श्लोकेन वैद्यादीनां प्रवृत्तिश्चिकित्सा व्याधिप्रशमहेतुरभिधातव्या, इह तु वैद्यादय एवेति पूर्वापरविरोधः; तन्न भवति, इह वैद्यादिप्रवृत्तेर्वैद्यादिग्रहणेनैव ग्रहणात्| चतुर्णामित्यादौ श्लोके वैद्यादीनां धर्मिणां धर्मरूपायाश्च प्रवृत्तेर्भेदं पुरस्कृत्य चिकित्सायाः क्रियारूपायाः कथनम्| एते वैद्यादयो विकारशमने कारणमेवेति नियमः, न पुनरेतैरेव विकारप्रशमनमिति नियमः, यतो वैद्यादीन् प्रत्याख्यायापि रोगशान्तिर्भवति; वक्ष्यति हि महाचतुष्पादे- “ये ह्यातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते” (सू.अ.१०) इत्यादिना||३||

Adhikarana 3 (4) · Śloka 4

विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते| सुखसञ्ज्ञकमारोग्यं, विकारो दुःखमेव च||४||

🔊 Audio coming soon

अत्र विकारव्युपशान्तय इत्युक्तं, तेन विकारस्वरूपज्ञानार्थमाह- विकारो धातुवैषम्यमित्यादि| धातवो वातादयो रसादयश्च तथा रजःप्रभृतयश्च, तेषां वैषम्यं व्यवह्रियमाणस्वास्थ्यहेतोः स्वमानान्न्यूनत्वमधिकत्वं वा| साम्यं धातुसाम्यं; प्रकृतिः आरोग्यम्| उच्यतेग्रहणाद्वैद्यकसिद्धान्ते हीयं प्रकृतिविकारव्यवस्था, अन्यदर्शनसिद्धान्तपरिग्रहे तु विकारः षोडशकः, प्रकृतिर्गुणानां साम्यावस्था भवतीति दर्शयति| ननु, रात्रिदिनभोजनानां तासु तास्ववस्थासु श्लेष्मप्रकोपादिना नित्यं धातुवैषम्यमस्ति, तत्कुतो धातुसाम्यमित्याह- सुखसञ्ज्ञकमित्यादि| सुखहेतुः सुखम्, एवं दुःखहेतुर्दुःखं; यतो न दुःखं व्याधिः, तथा हि सति न ज्वरादीनां व्याधित्वं स्यात्; अत एव सुश्रुतेऽप्युक्तं- “तत्तु सप्तविधे व्याधावुपनिपतति” (सु.सू. अ.२४) इति; सञ्ज्ञकग्रहणात् परमार्थतोऽसुखमपि लोके सुखमिति यद् व्यवह्रियते, तदिह गृह्यत इति दर्शयति; तेन, दिवारात्रिभोजनावस्थादिजनितं धातुवैषम्यमुद्वेजकविकाराकर्तृत्वेन सुखमिति व्यवह्रियते, तेन यो ह्यल्पः स नास्त्येवेति कृत्वाऽल्पेऽपि धातुवैषम्ये धातुसाम्यव्यवहारः सिद्धो भवति; तथा सञ्ज्ञकग्रहणेन लौकिकसुखं न परमार्थतः सुखमिति दर्शयति, यतो वक्ष्यति “सर्वं कारणवद्दुःखं” (शा. अ.१) इत्यादि; ‘एव च’ ग्रहणेन दुःखं परमार्थतोऽपि दुःखमेवेति दर्शयति, न सुखमिव व्यवहारमात्रेण| अत्र च धातुवैषम्येण कारणेनोपचारात्तत्कार्यज्वरादयोऽभिधीयन्ते, यतो धातुवैषम्यजो हि विकारो न धातुवैषम्यमात्रं, यद्वक्ष्यति- “स्वधातुवैषम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे” (सू. अ.१९) इत्यादि, तथा “विकृतिमापन्ना नानाविधैर्विकारैः शरीरमुपतपन्ति” (वि. अ.१) इत्यादि, तथा सुश्रुतेऽप्युक्तं- “वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः ” (सू.अ.१) इति| अत्र पक्षे धातुवैषम्यजश्चेद्विकारस्तदा जनितविकारं धातुवैषम्यं क्व प्रविशतु; किं विकारे, उत आरोग्ये? न तावदारोग्ये, यतः “इत्युक्तं कारणं कार्यं धातुसाम्यमिहोच्यते| धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” (सू. अ.१) इत्यनेन ग्रन्थेनारोग्यं धातुसाम्यमित्युक्तं; न च रोगे प्रविशति, रोगहेतुत्वेनैव कथितत्वात्; अथ मतं धातुवैषम्यं भवति, विकारो न भवतीति; एषा दशा नास्त्येव; यतोऽवश्यं प्रमाणाधिको दोषः स्वलिङ्गाधिको भवति, क्षीणो वा क्षीणस्वलक्षण इति; इह तर्हि धातुवैषम्यमेव विकारोऽस्तु, एवमयं ग्रन्थोऽपि मुख्यो भवति; धातुवैषम्यजविकारप्रतिपादकस्तु ग्रन्थ आविष्कृततमज्वरादिप्रतिपादकत्वेन व्यवस्थाप्यतां, तेन धातुवैषम्यं च धातुवैषम्यजाश्च ज्वरादयो विकारा भवन्ति; धातुवैषम्यजातेष्वपि हि ज्वरादिषु धातुवैषम्यरूपताऽस्त्येव; किञ्च स्वमानक्षीणा दोषाः किञ्चिद्विकारं न जनयन्ति, क्षीणलक्षणं वैषम्यमेव परं यान्ति; वचनं हि- “क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते” (सू.अ.७) इति; नात्र धातुवैषम्यमात्रं विकार इति ब्रुवतामयं पन्थाः; ये तु धातुवैषम्यजो विकार इति व्यवस्थिताः, ते त्वजनितव्यपदेश्यविकारं धातुवैषम्यं रात्रिदिनावस्थादिकृतधातुवैषम्यवदल्पत्वेनाव्यपदेश्यतया धातुसाम्य एव प्रक्षिपन्तीति; तिलकालकमषकप्रभृतीनां तु धातुवैषम्यजत्वेनेह चरके रोगत्वं सुव्यक्तमेव, दुःखहेतुत्वं च तेषां ज्ञातानां मनोदुःखकर्तृत्वेन||४||

Adhikarana 4 (5) · Śloka 5

चतुर्णां भिषगादीनां शस्तानां धातुवैकृते| प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते||५||

🔊 Audio coming soon

विकारलक्षणानन्तरं विकारप्रशमहेतोश्चिकित्साया लक्षणमाह- चतुर्णामित्यादि| चतुर्णामिति पदं वैद्यादीनां मिलितानामेव ग्राहकम्| शस्तानामिति वक्ष्यमाणश्रुते पर्यवदातत्वमित्यादिगुणयोगेन प्रशस्तानाम्| धातुवैकृते रोगे चिकित्साधिकरणभूते| धातुसाम्यार्था आरोग्यकरणार्थेत्यर्थः| धातुवैकृत इति पदं स्पष्टार्थं, येन धातुसाम्यार्था प्रवृत्तिर्धातुवैकृते एव वैद्यादीनां भवति| प्रवृत्तिर्वैद्यस्य इदं कर्तव्यमिदं न कर्तव्यमित्यादिकोपदेशरूपा, द्रव्यस्य तूपयोगे सति स्वकार्यारम्भरूपा, परिचारकप्रवृत्तिर्भेषजसंस्करणातुरपरिचर्यादिरूपा, आतुरप्रवृत्तिर्वैद्योक्तानुष्ठानव्याधिस्वरूपकथनादिका||५||

Adhikarana 5 (6) · Śloka 6

श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता| दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्||६||

🔊 Audio coming soon

पूर्वसूत्रितवैद्यगुणान् दर्शयति- श्रुत इत्यादि| श्रुतमादौ श्रेष्ठवैद्यगुणत्वात्, एवमन्यत्रापि व्याख्येयम्| पर्यवदातत्वं विशुद्धज्ञानवत्त्वं गुरुशास्त्रसेवनादिना| शौचमदृष्टद्वारोपकारकम्| जितहस्तत्वादयोऽपरेऽपि वैद्यगुणा अत्रैव गुणचतुष्टयेऽन्तर्भावनीयाः||६||

Adhikarana 6 (7) · Śloka 7

बहुता तत्रयोग्यत्वमनेकविधकल्पना| सम्पच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते||७||

🔊 Audio coming soon

बहुता भेषजगुणः, अल्पं हि भेषजं गुणवदप्यविद्यमानमिव, असाधकत्वात्| तत्र प्रतिकर्तव्ये व्याधौ योग्यत्वं तत्रयोग्यत्वम्| अनेकविधकल्पना नानाप्रकारस्वरसाद्युपयुक्तकल्पनायोग्यत्वमित्यर्थः; यतः प्राणिनः केचित् स्वरसद्विषः, केचित् कल्कद्विष एवमादि; एवं व्याधिस्वभावादपि काचित् कल्पना हिता भवति, यथा- ज्वरे कषाय इत्यादि; तेनानेककल्पनायोग्यत्वाद्यद्यत्र युज्यते तत्तत्र क्रियते| सम्पदिति क्रिमिसलिलाद्यनुपहतत्वेन रसादिसम्पत्||७||

Adhikarana 7 (8) · Śloka 8

उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि| शौचं चेति चतुष्कोऽयं गुणः परिचरे जने||८||

🔊 Audio coming soon

उपचारज्ञता यूषरसादिकरणसंवाहनस्वापनादिज्ञता||८||

Adhikarana 8 (9) · Śloka 9

स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च| ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः||९||

🔊 Audio coming soon

निर्देशकारित्वं वैद्योपदिष्टार्थकर्तृत्वम्| अभीरुत्वं गुणः, भीरुत्वस्य रोगकर्तृत्वात्; यदुक्तं- “विषादो रोगवर्धनानां” (सू.अ.२५) इति| अथापि चेतिशब्देन क्वचिद्भीरुत्वमप्यस्मृतिरपि गुणो भवतीति दर्शयति; यथोन्मादे “सर्पेणोद्धृतदंष्ट्रेण” इत्यादिना त्रासनमुक्तं चिकित्सायां, तत्र यद्यप्यभीरुः स्याद्रोगी तदा चिकित्सा न फलति; अस्मृतिस्तु ज्वरवेगागमनकालास्मरणेऽभिप्रेता, यदुक्तं- “ज्वरवेगं च कालं च चिन्तयञ्ज्वर्यते तु यः| तस्येष्टैश्च विचित्रैश्च प्रयोगैर्नाशयेत् स्मृतिम्” (चि.अ.३) इति||९||

Adhikarana 9 (10) · Śloka 10

कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्| विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु||१०||

🔊 Audio coming soon

एवं वैद्यादीनां चतुर्णामपि कारणत्वे सिद्धे वैद्यस्य प्राधान्यं दर्शयति- कारणमित्यादि| विज्ञाता औषधस्य| शासिता परिचारकस्य- एवं कुर्वेवं मा कुर्विति| योक्ता आतुरस्य| एतेन वैद्यपराधीना भेषजादीनां प्रवृत्तिः, वैद्यस्तु स्वतन्त्रः, ततश्च वैद्यः प्रधानमिति वाक्यार्थः||१०||

Adhikarana 10 (11-12) · Śloka 12

पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः| विजेतुर्विजये भूमिश्चमूः प्रहरणानि च||११|| आतुराद्यास्तथा सिद्धौ पादाः कारणसञ्ज्ञिताः| वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्||१२||

🔊 Audio coming soon

एतदेवाभ्यर्हितत्वाद्दृष्टान्तद्वयेन दर्शयति- पक्तावित्यादि| पक्तौ पाके कर्तव्ये, पात्रस्थानीय आतुरः, परिचारक इन्धनरूपः, अनलो भेषजरूपः| कारणमिति उपकरणम्| भूमिः युद्धानुगुणो देशः| अत्रापि पूर्ववदेवातुरादिस्थानीयत्वं भूम्यादीनाम्||११-१२||

Adhikarana 11 (13) · Śloka 13

मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा| नावहन्ति गुणं वैद्यादृते पादत्रयं तथा||१३||

🔊 Audio coming soon

सम्प्रति व्यतिरेकदृष्टान्तेन वैद्यप्राधान्यं दर्शयति- मृद्दण्डेत्यादिना| नावहन्ति न निष्पादयन्ति| गुणं साध्यमित्यर्थः||१३||

Adhikarana 12 (14) · Śloka 15

गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः| यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः||१४|| सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्|१५|

🔊 Audio coming soon

अन्वयेन व्यतिरेकेण च पृथग्दृष्टान्तं दर्शयित्वा कौशलेनैकत्रैव दृष्टान्ते गन्धर्वपुरेत्यादिनाऽन्वये गुणं व्यतिरेके च दोषं दर्शयति| एकत्रपक्षे नाशमाशु यान्तीति सम्बन्धः, इतरे अपरेऽनभिज्ञवैद्योपक्रान्ता गन्धर्वपुरवदाशु वृद्धिं यान्तीति सम्बन्धः| उपायप्रतीक्षिण इति वृद्धौ शान्तौ च| आशु विकारशान्तौ ज्ञो भिषक्कारणम्, आशुवृद्धौ चाज्ञः||१४||-

Adhikarana 13 (15-16) · Śloka 16

वरमात्मा हुतोऽज्ञेन न चिकित्सा प्रवर्तिता||१५|| पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्| नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु||१६||

🔊 Audio coming soon

अज्ञवैद्यस्य चिकित्साप्रवृत्तिं निषेधयति- वरमित्यादि| न वरम् अनुचितमेव| प्रवर्तितेतिभाषया अज्ञवैद्येन बलात् कृतेति दर्शयति| पाणिचारात् हस्तपरामर्शात्| कर्मसु चिकित्सासु||१५-१६||

Adhikarana 14 (17) · Śloka 17

यदृच्छया समापन्नमुत्तार्य नियतायुषम्| भिषङ्मानी निहन्त्याशु शतान्यनियतायुषाम्||१७||

🔊 Audio coming soon

यदृच्छयेति वैद्यसम्यग्ज्ञानपूर्वकप्रवृत्तिं विना कर्मवशादित्यर्थः| समापन्नं सम्यगुपक्रान्तम्| नियतायुषमित्यनेनायुर्बलेनैव व्याधिमुत्तीर्यमाणमित्यर्थः | आत्मानमभिषजं भिषक्त्वेन मन्यत इति भिषङ्मानी| अनियतायुषामिति यत्रायुःकारणं बलवत् कर्म नास्ति, तत्र पुरुषकारापराधेन वैद्यदोषान्मरणं भवतीति दर्शयति||१७||

Adhikarana 15 (18) · Śloka 18

तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने| भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते||१८||

🔊 Audio coming soon

शास्त्रे शास्त्रावधारणे | अर्थविज्ञाने शास्त्रार्थावबोधे| प्रवृत्तौ स्वयं कर्मकरणे| युक्त उद्युक्त उद्योगनिष्पादितगुणप्रकर्ष इति यावत्| प्राणान् गच्छतो व्यावर्तयतीति प्राणाभिसरः||१८||

Adhikarana 16 (19-23) · Śloka 23

हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे| ज्ञानं चतुर्विधं यस्य स राजार्हो भिषक्तमः||१९|| शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये| पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्||२०|| विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया| यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते||२१|| विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः| वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः||२२|| यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः| स वैद्यशब्दं सद्भूतमर्हन् प्राणिसुखप्रदः||२३||

🔊 Audio coming soon

पात्रापेक्षीणीति गुणवति पात्रे सगुणानि, दोषवति पात्रे दोषवन्ति भवन्तीत्यर्थः| विशोधयेत् सद्गुरुसच्छास्त्रसेवादिभिरित्यर्थः| विद्या वैद्यकशास्त्रज्ञानम्| वितर्कः शास्त्रमूल ऊहापोहः| विज्ञानं शास्त्रान्तरज्ञानं; किंवा सहजं विशुद्धं ज्ञानम्| तत्परतेह व्याधिचिकित्सायां प्रयत्नातिशयत्वम्| क्रिया पुनः पुनश्चिकित्साकरणम्| मतिः सहजविशुद्धमतिः| अभ्यासः कर्माभ्यासः| सिद्धिः प्रायशो व्याधिप्रशमकत्वम्| आश्रयः सद्गुर्वाश्रय इत्यर्थः| वैद्यशब्दाभिनिष्पत्तावित्यनेन पारमार्थिकवैद्यत्वनिष्पत्ताविति दर्शयति| एत इत्यनेनैव लब्धेऽपि विद्यादय इति वचनं पूर्वोक्तगुणव्युदासार्थं, तद्व्युदासश्च विद्यादिष्वेवान्तर्भावनीयः; एतच्च प्रबन्धेन पृथक् पृथग्गुणकथनं वैद्यस्य गुणोत्पादने यत्नातिशयं कारयितुं तथा द्रव्यादिभ्यः पादेभ्यो वैद्यस्यैव प्रधानतोपदर्शनार्थं; वैद्यो हि पादत्रयं विगुणमपि कल्पनया शिक्षया मन्त्रणेन च सम्पाद्य चिकित्सितुं पारयति, नतु गुणवद्वैद्यं विना द्रव्यादयः पादा गुणवन्तोऽपि क्षमाः||१९-२३||

Adhikarana 17 (24-25) · Śloka 25

शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः| ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति||२४|| चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः| तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसम्पदि||२५||

🔊 Audio coming soon

शास्त्रशब्देन शास्त्राभ्यासकृता मतिः, सा हि ज्योतिः बाह्यालोक इव, प्रकाशार्थं वस्तूनां ग्रहणयोग्यतां कर्तुमित्यर्थः| दर्शनमिव दर्शनं चक्षुरिवेत्यर्थः| यद्यपि बुद्धिरात्मन एव भवति, तथाऽप्यात्मन इत्यनेन सहजां बुद्धिं दर्शयति, यतः सहजां बुद्धिं विना शास्त्रजा बुद्धिर्या वैनायकीत्यभिधीयते, सा न सम्यक्चिकित्सासमर्था भवतीति| ताभ्यामिति सहजविशुद्धबुद्धिशास्त्राभ्यां सहजवैनायकबुद्धिभ्याम्||२४-२५||

Adhikarana 18 (26) · Śloka 26

मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्| प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति||२६||

🔊 Audio coming soon

वैद्येन च यादृश्या बुद्ध्या व्यवहर्तव्यं, तां दर्शयति- मैत्रीत्यादि| मैत्री पूर्वमेव व्याकृता| आर्तेषु आर्तियुक्तेषु| कारुण्यं परदुःखप्रहाणेच्छा| शक्ये साधयितुं शक्ये, साध्यव्याधिगृहीत इति यावत्| प्रकृतिरिह मरणं, प्रकृतिरुच्यते स्वभावः; तथा- “इदमस्मान्मुहूर्तात्....स्वभावमापत्स्यते” (सू.अ.३०), मरणमित्यर्थः; मरणसमीपगतत्वादुच्यते “प्रकृतिस्थे” इति| तस्मिन्नुपेक्षा कर्तव्या; न तत्र भेषजदानादि कर्तव्यं, यशोहान्यादिभयात्||२६||

Adhikarana 19 (27-28) · Śloka 28

तत्र श्लोकौ- भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः| भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः||२७|| ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा| सर्वमेतच्चतुष्पादे खुड्डाके सम्प्रकाशितमिति||२८||

🔊 Audio coming soon

सङ्ग्रहे ब्राह्मी बुद्धिः चतुर्विधा मैत्रीकारुण्यादिका||२७-२८||

Adhikarana puShpikA · Śloka 9

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः||९||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने तृतीये निर्देशचतुष्के खुड्डाकचतुष्पादो नाम नवमोऽध्यायः||९||