Adhikarana 1 (1-2) · Śloka 2
अथातो महाचतुष्पादमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्याये वैद्यादयो व्याधिप्रशमकारणमित्युक्तं, तदिहाक्षिप्य व्यवस्थाप्यत इत्यनन्तरं महाचतुष्पादोऽभिधीयते| महत्त्वं चास्य पूर्वाध्यायापेक्षया, बहुग्रन्थत्वेन पूर्वपक्षसिद्धान्तरूपबहुप्रमेयाभिधायकत्वेन च||१-२||
Adhikarana 2 (3) · Śloka 3
चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते, यदुक्तं पूर्वाध्याये षोडशगुणमिति, तद्भेषजं युक्तियुक्तमलमारोग्यायेति भगवान् पुनर्वसुरात्रेयः||३||
षोडशकलं षोडशगुणं, कलाशब्दो गुणवचनः| भिषजो भाषन्त इति ब्रुवते| प्रकृतेऽर्थे शास्त्रान्तरसम्मतिं दर्शयति- युक्तियुक्तमिति| युनक्तीति युक्तिः प्रवृत्तिरुच्यते; युक्तियुक्तं प्रवृत्तिमदित्यर्थः; प्रवृत्तिश्च वैद्यादीनां चिकित्सारूपा पूर्वाध्याये व्याकृता| अलं समर्थम्| इति भगवानात्रेयो ‘ब्रूते’ इति शेषः||३||
Adhikarana 3 (4) · Śloka 4
नेति मैत्रेयः, किं कारणं? दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसम्पन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः, तथायुक्ताश्चापरे म्रियमाणाः; तस्माद्भेषजमकिञ्चित्करं भवति, तद्यथा- श्वभ्रे सरसि च प्रसिक्तमल्पमुदकं, नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्ण इति; तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः, तथायुक्ता म्रियमाणाश्चापरे|
यतश्च प्रतिकुर्वन् सिध्यति, प्रतिकुर्वन् म्रियते; अप्रतिकुर्वन् सिध्यति, अप्रतिकुर्वन् म्रियते; ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति ||४||
उक्तमाक्षिपति- नेतीत्यादि| उपकरणं भेषजम्| अनुष्ठिताः चिकित्सितुमुपक्रान्ताः| तथायुक्ताः पूर्ववच्चिकित्सितुमुपक्रान्ता इत्यर्थः| अकिञ्चित्करमिति भेषजे सत्यपि यदाऽऽरोग्यं न भवति; तेन, यत्रापि सति भेषजे आरोग्यं भवति, तत्रापि भेषजव्यतिरिक्तं कर्मैव दैवसञ्ज्ञकं कारणं, भेषजं तु तत्र दैवागतसन्निधानमकारणमेवेत्यर्थः| अत्रैवार्थे दृष्टान्तद्वयं दर्शयति- तद्यथेत्यादि| श्वभ्रे गर्ते यथाऽल्पं जलमकिञ्चित्करमेवं म्रियमाणेऽपि भेषजं, यथा च सरसि अन्यत एव पूर्णेऽल्पमुदकमकिञ्चित्करं भवत्येवमन्यत एवारोग्यहेतोः कर्मणो रोगप्रशमने जायमाने भेषजमकिञ्चित्करं भवतीति सरोदृष्टान्तेन दर्शयति; एवं नद्यां स्यन्दमानायां वहमानायां पांसुमुष्टिरिति निदर्शनं श्वभ्रवत्, पांसुधाने पांशुराशौ पांशुमुष्टिरिति सरोदृष्टान्तवद्व्याख्येयम्| अत्र च तोयदृष्टान्तः संशोधनभेषजाभिप्रायेण, पांशुदृष्टान्तस्तु संशमनभेषजाभिप्रायेण; यदि वा जलं सन्तर्पणभेषजाभिप्रायेण, पांशुमुष्टिस्त्वपतर्पणाभिप्रायेण बोद्धव्या| भेषजान्वयव्यभिचारं दर्शयित्वा तद्व्यतिरेकव्यभिचारं दर्शयति- तथाऽपरे इत्यादि| प्रतिकुर्वन्नित्यन्तर्भावितण्यर्थत्वात् प्रतिकारयन्नित्यर्थः; यदि वाऽऽतुर एव वैद्यादीनुत्पाद्यात्मानं प्रतिकुर्वन्निति मन्तव्यम्; एतेन दैवाख्यकर्मवशादेवायं जीवति म्रियते वा, रोगी भवत्यरोगो वा, न दृष्टभेषजमत्र किञ्चित्करमिति पूर्वपक्षार्थः||४||
Adhikarana 4 (5) · Śloka 5
मैत्रेय ! मिथ्या चिन्त्यत इत्यात्रेयः; किं कारणं, ये ह्यातुराः षोडशगुणसमुदितेनानेन भेषजेनोपपद्यमाना म्रियन्त इत्युक्तं तदनुपपन्नं, न हि भेषजसाध्यानां व्याधीनां भेषजमकारणं भवति; ये पुनरातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते, न तेषां सम्पूर्णभेषजोपपादनाय समुत्थानविशेषो नास्ति; यथा हि पतितं पुरुषं समर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात्, स क्षिप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत्, तद्वत् सम्पूर्णभेषजोपलम्भादातुराः; ये चातुराः केवलाद्भेषजादपि म्रियन्ते, न च सर्व एव ते भेषजोपपन्नाः समुत्तिष्ठेरन्, नहि सर्वे व्याधयो भवन्त्युपायसाध्याः, न चोपायसाध्यानां व्याधीनामनुपायेन सिद्धिरस्ति, न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति , न ह्यलं ज्ञानवान् भिषङ्मुमूर्षुमातुरमुत्थापयितुं; परीक्ष्यकारिणो हि कुशला भवन्ति, यथा हि योगज्ञोऽभ्यासनित्य इष्वासो धनुरादायेषुमस्यन्नातिविप्रकृष्टे महति काये नापराधवान् भवति, सम्पादयति चेष्टकार्यं, तथा भिषक् स्वगुणसम्पन्न उपकरणवान् वीक्ष्य कर्मारभमाणः साध्यरोगमनपराधः सम्पादयत्येवातुरमारोग्येण; तस्मान्न भेषजमभेषजेनाविशिष्टं भवति||५||
सिद्धान्तयति- मिथ्येत्यादि| केवलात् सम्पूर्णात्| न नास्तीत्युभयनकारकरणादस्ति समुत्थानविशेष इत्यर्थः| तद्वदिति क्षिप्रतरमक्लिष्टा एवोत्तिष्ठन्त इत्यर्थः| एवं मन्यते- यद्यप्यदृष्टमेवोत्थाने कारणं, तथाऽपि यदि दृष्टमपि तत्रानुबलं भवति, तदा दृष्टादृष्टोभयबलाच्छीघ्रमेवारोग्यं भवति| सर्व एवेति साध्यव्याधयोऽसाध्यव्याधयश्च; सम्पूर्णभेषजोपपत्तावपि सत्यामसाध्यव्याधयो नोत्तिष्ठन्ते, साध्यव्याधय उत्तिष्ठन्त इति भावः| यद्यप्यसाध्यव्याधिं प्रति सम्पूर्णभेषजोपपत्तिरेव नास्ति, यदुक्तं- “न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति, नह्यलं ज्ञानवान् भिषङ्मुमूर्षुमातुरमुत्थापयितुम्” इति, तथाऽपीह किञ्चिदसम्पूर्णभेषजत्वेऽपि सम्पूर्णभेषजोपपन्न इत्युक्तम्| ये तु साध्यव्याधयस्ते सत्यामेव भेषजसम्पत्तौ जीवन्ति, असत्यां तु भेषजसम्पत्तौ बलवज्जीवनकर्माभावे म्रियन्त एवेति दर्शयन्नाह- न चोपायेत्यादि| उपायेनैव दृष्टार्थेन साध्या उपायसाध्याः| इदमत्राकूतं- यत्- द्विविधं कर्म बलवदबलवच्च; तत्र बलवन्नियतविपाककालं, यथेदं कर्मास्मिन्नेव काले मारयति; अबलवच्च मारकं कर्म मारयत्वेव परं कालानियमेन, तद्यदा दृष्टसामग्रीमनुगुणामपथ्यसेवारूपामौषधाभावरूपां च प्राप्नोति तदा मारयति, यदा तु न प्राप्नोति तदा न मारयति| यदुक्तं जनपदोद्ध्वंसनीये- “कर्म किञ्चित् क्वचित् काले विपाके नियतं महत्| किञ्चिन्न कालनियतं प्रत्ययैः प्रतिबोध्यते” (वि.अ.३) इति| अस्य त्वर्थं प्रपञ्चेन तत्रैव दर्शयिष्यामः| न च वाच्यम्- अदृष्टमेव सर्वत्र कारणं, तच्च नियतकालविपाकमेव, यदुच्यते- “नाकाले जायते कश्चिन्नाकाले म्रियते तथा| जगत् कालवशं सर्वं कालः सर्वत्र कारणम्” इति; यतः, यदेवादृष्टं तदेव दृष्टयागादिब्रह्मवधादिजन्यं किञ्चित्| यद्दृष्टेनानुपपन्नं, तत्रादृष्टकल्पना प्रामाणिकी, यत्तु दाहादि दृष्टेनैवाग्निसम्बन्धेनोपपद्यते तत्र का कथाऽदृष्टस्य दृष्टकार्यान्यथानुपपत्तिपरिकल्पनीयस्य; तेन य इमे दुर्बलेन कर्मणा दृष्टबलवदपथ्यसेवाजनितदोषबलादारब्धा व्याधयस्ते बलवता चतुष्पादसम्पन्नेन भेषजेन दोषक्षयकेनोपायेन परं साध्याः, तदभावे तु दुर्बलेनापि कर्मणा दृष्टदोषबलादारब्धा व्याधयो न निवर्तन्त इति| यदुक्तं- “दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते| दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते” (वि.अ.३) इति| अनुपायेन अभेषजेन| अयं भेषजसमुदायः सर्वगुणसम्पन्न इत्यर्थः; असाध्ये व्याधौ चिकित्सां कुर्वन् वैद्य एव यथोक्तगुणो न भवतीत्यर्थः| नह्यलं न समर्थः; यद्यसाध्यतां जानाति तदा न प्रवर्तत एव, अथ न जानाति तदा ज्ञानवानेव न भवतीति भावः| चतुष्पादसम्पदाऽवश्यं व्याधिप्रशमो भवतीति दृष्टान्तेनाह- यथा हीत्यादि| इष्वासो धानुष्कः| अस्यन् क्षिपन्| नातिविप्रकृष्टे सन्निहिते| अनपराध इति लक्ष्यभ्रंशरहितः| इष्टं कार्यं लक्ष्यवेधलक्षणम्||५||
Adhikarana 5 (6) · Śloka 6
इदं च नः प्रत्यक्षं- यदनातुरेण भेषजेनातुरं चिकित्सामः , क्षाममक्षामेण, कृशं च दुर्बलमाप्याययामः, स्थूलं मेदस्विनमपतर्पयामः, शीतेनोष्णाभिभूतमुपचरामः, शीताभिभूतमुष्णेन, न्यूनान् धातून् पूरयामः, व्यतिरिक्तान् ह्रासयामः, व्याधीन् मूलविपर्ययेणोपचरन्तः सम्यक् प्रकृतौ स्थापयामः; तेषां नस्तथा कुर्वतामयं भेषजसमुदायः कान्ततमो भवति||६||
भेषजस्य रोगप्रशमकर्तृत्वे उपपत्त्यन्तरमाह- इदं चेत्यादि| अनातुरेणेति आतुरगुणविपरीतेन| आतुरमनातुरेण चिकित्साम इति यदुक्तं, तस्यैव विवरणं- क्षाममक्षामेणेत्यादि| क्षामो निर्द्रवः| कृशं च दुर्बलमाप्याययाम इति सन्तर्पयामः| व्यतिरिक्तानिति अतिरिक्तानित्यर्थः | मूलविपर्ययेणेति कारणविपर्ययेण, तच्च प्रभावादिति बोद्धव्यं; तेन विषविकारस्य विषेणोपचरणमेतत् प्रत्यक्षं चान्यदुपगृहीतं भवति| कान्ततमो विकारप्रशमकत्वेनाभीष्टतमः; अन्येऽर्थधर्मोपायाः कान्ताः कान्ततराश्च, अयं तु भेषजसमुदायः सर्वोच्छेदकरोगहरत्वेन कान्ततमः||६||
Adhikarana 6 (7-8) · Śloka 8
भवन्ति चात्र- साध्यासाध्यविभागज्ञो ज्ञानपूर्वं चिकित्सकः|
काले चारभते कर्म यत्तत् साधयति ध्रुवम्||७||
अर्थविद्यायशोहानिमुपक्रोशमसङ्ग्रहम् |
प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत्||८||
ज्ञानपूर्वमिति भेषजादिज्ञानपूर्वं, यत् कर्मारभते तत् कर्म चिकित्सितरूपं, साधयति ‘साध्यं’ इति शेषः| असाध्यव्याधौ न प्रवर्तितव्यमिति शिक्षयति- अर्थेत्यादि| अर्थः अर्थलाभः, हानिः क्षतिः| उपक्रोशो जनापवादः| असङ्ग्रहः चिकित्सार्थमनुपादानं; यदि ‘वा असद्ग्रह’ इति पाठः, तदा चासद्ग्रहो राजदण्डेनासत्पुरुषैश्चाण्डालादिभिर्ग्रहणम्||७-८||
Adhikarana 7 (9-10) · Śloka 10
सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च|
द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम् ||९||
साध्यानां त्रिविधश्चाल्पमध्यमोत्कृष्टतां प्रति|
विकल्पो, न त्वसाध्यानां नियतानां विकल्पना||१०||
साध्ये प्रवृत्तिरुक्ता, असाध्ये निवृत्तिश्च, तेन साध्यासाध्ययोर्भेदकथनपूर्वकं लक्षणं वक्तुमाह- सुखसाध्यमित्यादि| अकिञ्चित्करत्वेनाविद्यमान उपक्रमो यस्य तदनुपक्रमं; याप्यं त्वनुपक्रमं न भवति, यापनाकर्तृत्वेन किञ्चित्करत्वात्| तत्रोपक्रमस्याल्पमध्यमोत्कृष्टतां प्रतीति अल्पमध्यमोत्कृष्टयोगादित्यर्थः; तेनाल्पसाध्यमल्पोपायसाध्यं, मध्यसाध्यं मध्योपायसाध्यम्, उत्कृष्टसाध्यमुत्कृष्टोपायसाध्यमिति भेदत्रयं साध्यानां भवति| असाध्यानां तु नियतानामिति याप्यव्यतिरिक्तानामनुपक्रमाणां, विकल्पना विकल्पः, नास्तीति एवम्भूताऽल्पासाध्यादिरूपा नास्ति; प्राणहर-वैकल्यकर-सद्यःप्राणहर-कालान्तरप्राणहरत्वादिकल्पना त्वसाध्यानामस्त्येव; यदसाध्यं तदल्पेन मध्येन चोत्कृष्टेन चोपायेनासाध्यमेव; याप्यरूपासाध्यानां त्वल्पोपाययाप्यत्वादिभेदोऽस्त्येव||९-१०||
Adhikarana 8 (11-13) · Śloka 13
हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च|
न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्||११||
न च कालगुणस्तुल्यो न देशो दुरुपक्रमः|
गतिरेका नवत्वं च रोगस्योपद्रवो न च||१२||
दोषश्चैकः समुत्पत्तौ देहः सर्वौषधक्षमः|
चतुष्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम्||१३||
न दोषः प्रकृतिर्भवेदिति व्याध्यारम्भको यो दोषः स तत्प्रकृतावुत्कटो न भवेदित्यर्थः| देशो भूमिरातुरश्च| देशो दुरुपक्रमो यथा- वातव्याधौ तुल्यगुणो मरुः, तथा श्लेष्मव्याधावनूपः| देहश्च दुरुपक्रमो यथा- सर्वव्याधीनामेव मर्मलक्षणो देशः, तथा वातव्याधेः पक्वाशय इत्यादि| गतिरेका एको मार्ग इत्यर्थः, मार्गास्त्रयस्तिस्रैषणीये वक्तव्याः- “शाखा मर्मास्थिसन्धयः कोष्ठश्च” (सू.अ.११) इति| एतच्चोत्सर्गन्यायेनोक्तं, तेन क्वचिद्व्याधिप्रभावादन्यथाऽपि सुखसाध्यत्वादिलक्षणाभिधानेन विरोधो न वक्तव्यः| यदुक्तं- “ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्” इति||११-१३||
Adhikarana 9 (14-16) · Śloka 16
निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले|
कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च||१४||
गर्भिणीवृद्धबालानां नात्युपद्रवपीडितम्|
शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम्||१५||
विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम्|
द्विपथं नातिकालं वा कृच्छ्रसाध्यं द्विदोषजम्||१६||
कालप्रकृतिदूष्याणामिति निर्धारणे षष्ठी| सामान्य इति दोषेण समम्| गर्भिणीवृद्धबालानां सर्व एव व्याधिः कृच्छ्रसाध्यो बोद्धव्यः| नात्युपद्रवपीडितमिति पूर्वेण न योजनीयं, किन्तु स्वतन्त्रमेव| शस्त्रक्षाराग्निकृत्याः शस्त्रक्षाराग्निसाध्याः; एषां यो व्याधिस्तं कृच्छ्रसाध्यं विद्यादिति सम्बन्धः| कृच्छ्रदेशजं मर्मसन्ध्यादिजम्| एकपथस्य विशेषणं- नातिपूर्णचतुष्पदमिति| द्विपथमित्यस्य विशेषणं- नातिकालमिति||१४-१६||
Adhikarana 10 (17-18) · Śloka 19
शेषत्वादायुषो याप्यमसाध्यं पथ्यसेवया|
लब्धाल्पसुखमल्पेन हेतुनाऽऽशुप्रवर्तकम्||१७||
गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्|
नित्यानुशायिनं रोगं दीर्घकालमवस्थितम्||१८||
विद्याद्द्विदोषजं,...|१९|
याप्यत्वेनैवासाध्यत्वे लब्धे यदसाध्यमिति पदं तद्याप्ययापनार्थं क्रियमाणभेषजतया साध्यत्वशङ्कानिरासार्थम्| शेषत्वादायुष इति वचनमायुःशेषे विद्यमान एव याप्यव्याधिप्रादुर्भावो भवतीति दर्शनार्थम्| पथ्यसेवया भेषजसेवया, लब्धमल्पं सुखं यस्मिन् तल्लब्धाल्पसुखम्| प्रवर्तनं प्रवर्तः, अल्पेन हेतुनाऽऽशु शीघ्रं प्रवर्तनं यस्य तदाशुप्रवर्तकं; स्वार्थे अण्| गम्भीरं मेदःप्रभृतिधातुगतम्| नित्यानुशायी नित्यानुबन्धः| विद्याद्द्विदोषजमित्यन्तेन याप्यलक्षणम्||१७-१८||-
Adhikarana 11 (19-20) · Śloka 20
...तद्वत् प्रत्याख्येयं त्रिदोषजम्|
क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम्||१९||
औत्सुक्यारतिसम्मोहकरमिन्द्रियनाशनम्|
दुर्बलस्य सुसंवृद्धं व्याधिं सारिष्टमेव च||२०||
तद्वदित्यादि तु प्रत्याख्येयलक्षणम्| तद्वदित्यनेन गम्भीरादियाप्यलक्षणयुक्तं सत्त्रिदोषजं प्रत्याख्येयमित्यर्थः| औत्सुक्यं हर्षोद्रेकः, अरतिरनवस्थानलक्षणा, सम्मोहो मनसो मोहः||१९-२०||
Adhikarana 12 (21-22) · Śloka 22
भिषजा प्राक् परीक्ष्यैवं विकाराणां स्वलक्षणम्|
पश्चात्कर्मसमारम्भः कार्यः साध्येषु धीमता||२१||
साध्यासाध्यविभागज्ञो यः सम्यक्प्रतिपत्तिमान्|
न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत्||२२||
न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेदिति एवङ्गुणो वैद्यः प्रतिनियमेन यं व्याधिमुपक्रमेत्तं साधयत्येव परं, ततो भेषजस्य व्याधिप्रशमनं प्रति करणत्वावधारणे सति भेषजमभेषजेन समानमिति मैत्रेयसदृशानां कर्मवादिनां मिथ्याबुद्धेरनुत्पाद इति भावः||२१-२२||
Adhikarana 13 (23-24) · Śloka 24
तत्र श्लोकौ- इहौषधं पादगुणाः प्रभवो भेषजाश्रयः|
आत्रेयमैत्रेयमती मतिद्वैविध्यनिश्चयः||२३||
चतुर्विधविकल्पाश्च व्याधयः स्वस्वलक्षणाः|
उक्ता महाचतुष्पादे येष्वायत्तं भिषग्जितम्||२४||
सङ्ग्रहे इहेति इहाध्याये| औषधमिति चतुष्पादम्| पादगुणा इति यदुक्तं पूर्वाध्याये षोडशगुणमिति| प्रभावो भेषजाश्रय इति तद्भेषजं युक्तियुक्तमलमारोग्यायेति||२३-२४||
Adhikarana puShpikA · Śloka 10
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महाचतुष्पादो नाम दशमोऽध्यायः||१०||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने तृतीये निर्देशचतुष्के महाचतुष्पादो नाम दशमोऽध्यायः||१०||