Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. tisraiṣaṇīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये चतुष्पादमारोग्यकारणं व्यवस्थापितं, ततश्चतुष्पादसम्पत्त्या प्राप्तारोग्येण सता यदनुष्ठेयं प्राणपरिपालनसाधनं, तथा धनार्जनसाधनं, तथा धर्मार्जनसाधनं, तदिहैषणात्रयरूपमभिधीयत इत्यनन्तरं तिस्रैषणीयोऽभिधीयते| तिस्रैषणाशब्दोऽस्मिन्नस्तीति मत्वर्थीयश्छः, अत्रानुकार्यानुकरणयोर्भेदाविवक्षया यलोपासिद्धेरभावात् संहितया ‘तिस्रैषणीयः’ इति सञ्ज्ञायते, अध्यायान्ते “तिस्रैषणीये मार्गाश्च” इति श्लोकपादं करिष्यति; यद्यप्यन्येऽप्यत्र शब्दाः सन्ति, तथाऽपि प्रधानत्वेनायं गृह्यते||१-२||

Adhikarana 2 (3) · Śloka 3

इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति| तद्यथा- प्राणैषणा, धनैषणा, परलोकैषणेति||३||

🔊 Audio coming soon

इहेति भोगार्थिपुरुषाधिकारे, यतो मोक्षार्थिपुरुषं प्रति धनैषणा सर्वथैवानुपयुक्ता| पुरुषेणेति पदं कुर्वन् य एव पुरुष एषणात्रयमन्विष्यति स एव पुरुषो भण्यते नान्यः, पशुतुल्यत्वादिति दर्शयति| पौरुषं शारीरं बलं, पराक्रमस्तु शौर्याख्यं मानसं बलम्| इहेति इह जन्मनि, अमुष्मिन्निति जन्मान्तरे| इष्यतेऽन्विष्यते साध्यतेऽनयेत्येषणा| प्राणो जीवितं, तत् साध्यते दीर्घत्वेन रोगानुपहतत्वेन चानयेति प्राणैषणा| एवं धनैषणा| परलोकोपकारकस्य धर्मस्यैषणा परलोकैषणा| कामैषणा तु प्राणैषणाधनैषणयोरन्तर्भावनीया, शरीरसम्पत्तिधनसम्पत्तिसाध्यत्वात् कामस्य; यदि वा कामैषणायां स्वत एव पुरुषः प्रवृत्तो भवति नोपदेशमपेक्षत इति तदेषणोपदेशो न कृतः||३||

Adhikarana 3 (4) · Śloka 4

आसां तु खल्वेषणानां प्राणैषणां तावत् पूर्वतरमापद्येत| कस्मात्? प्राणपरित्यागे हि सर्वत्यागः| तस्यानुपालनं- स्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रशमनेऽप्रमादः, तदुभयमेतदुक्तं वक्ष्यते च; तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति||४||

🔊 Audio coming soon

प्राणैषणायाः प्रथमानुष्ठाने उपपत्तिमाह- आसां त्वित्यादि| त्रयाणां मध्ये द्वे पूर्वे भवतः, तृतीयायाः सर्वोत्तरत्वेनापूर्वत्वात्; तेन द्वयोस्तर इति न्यायात् पूर्वतरं प्राणैषणेति साधुस्तरप्रयोगः| प्राणशब्दो जीवितवचन एकवचनान्तोऽप्यस्ति; यदुक्तं- “दशैवायतनान्याहुः प्राणो येषु प्रतिष्ठितः” (सू.अ.३०) इति, तेन प्राणप्रत्यवमर्शकं ‘तस्य’ इति पदमेकवचनेन युक्तमेव| विकारान् प्रशमयतीति विकारप्रशमनं चिकित्सा, तस्मिन्| अप्रमादः अवधानेनानुष्ठानम्| वक्ष्यते चेति निखिलेन शास्त्रेण| प्राणानुपालनादिति प्राणानुपालनसाधनात्; तेन प्राणानुपालनदीर्घायुष्ट्वयोरर्थाभेदात् साध्यसाधनभावो नास्तीति यच्चोच्यते तन्निरस्तं भवति| प्रथमेति प्राधान्यात् प्राणैषणा||४||

Adhikarana 4 (5) · Śloka 5

अथ द्वितीयां धनैषणमापद्येत, प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति ; न ह्यतः पापात् पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः, तस्मादुपकरणानि पर्येष्टुं यतेत| तत्रोपकरणोपायाननुव्याख्यास्यामः; तद्यथा- कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि, यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन् दीर्घजीवितं जीवत्यनवमतः पुरुषो भवति | इति द्वितीया धनैषणा व्याख्याता भवति||५||

🔊 Audio coming soon

अथेति प्राणैषणानन्तरम्| द्वितीयामिति हेतुगर्भं विशेषणं, यस्मादियमेव द्वितीया प्राणैषणानन्तरमवश्योपादेयत्वेन, तत इयमेवोच्यत इत्यर्थः| प्राणैषणामनु चास्याः प्राधान्यं दर्शयति- प्राणेभ्यो हीत्यादि| पापशब्देन पापकार्यं दुःखमुच्यते| उपकरणम् आरोग्यभोगधर्मसाधनीभूतो धनप्रपञ्चः, स यस्य नास्त्यसावनुपकरणः| धनोपायानिति वक्तव्ये उपकरणोपायानिति यतः करोति, तेन धनस्य भोगधर्मसाधनार्थमेवोत्पादमिच्छन्ति, न पुनः कृपणस्येव विनियोगशून्यस्य सुसंवर्धितमात्रकरणार्थम् | अन्यान्यपीति प्रतिग्रहाध्यापनादीनि| वृत्तिः वर्तनं, पुष्टिः धनसम्पत्तिः| अनवमतः अनवज्ञातो बहुमानगृहीत इति यावत्| दीर्घं जीवितं जीवति धारयतीत्यर्थः, अनेकार्थत्वाद्धातूनां; यदि वा दीर्घजीवितं यथा स्यात्तथा जीवतीति क्रियाविशेषणत्वेन व्याख्येयम्||५||

Adhikarana 5 (6) · Śloka 6

अथ तृतीयां परलोकैषणामापद्येत| संशयश्चात्र, कथं? भविष्याम इतश्च्युता नवेति; कुतः पुनः संशय इति, उच्यते- सन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः, सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति; श्रुतिभेदाच्च- ‘मातरं पितरं चैके मन्यन्ते जन्मकारणम् | स्वभावं परनिर्माणं यदृच्छां चापरे जनाः’ || इति | अतः संशयः- किं नु खल्वस्ति पुनर्भवो न वेति||६||

🔊 Audio coming soon

परलोकैषणां व्याकरोति- अथेत्यादि| अत्र च परलोकस्य दुर्ज्ञेयत्वेन चार्वाकादिनास्तिकासम्मतत्वेन च परलोकं प्रमाणेन व्यवस्थापयितुं निर्णयार्थं प्रमाणप्रवृत्तिविषयं संशयमेव तावत् परलोके दर्शयति- संशयश्चात्रेत्यादि| इतश्च्युता इह जन्मनि मृताः, भविष्यामो जन्मान्तर इत्यर्थः| संशयहेतुं पृच्छति- कुतः संशयः पुनरिति| वादिविप्रतिपत्तिं संशयहेतुमाह- उच्यत इत्यादि| प्रत्यक्षपरा अनुमतप्रत्यक्षैकप्रमाणाः| परोक्षत्वात प्रत्यक्षाविषयत्वात्| पुनर्भवस्य जन्मान्तरस्य| नास्ति पुनर्भवो नास्ति कर्मफलं नास्त्यात्मेत्यादिनास्तिना प्रचरतीति नास्तिकः, तस्य भावो नास्तिक्यम्| यत प्रत्यक्षप्रमाणेनोपलभ्यते घटपटादि, तदेव परमस्ति; नोपलभ्यते च प्रत्यक्षेण परलोकः, तस्मान्नास्ति परलोक इति नास्तिकाभिप्रायः| अस्ति पुनर्भव इति येषां मतं तान् दर्शयति- सन्तीत्यादि| सन्ति चेत्यत्र ‘अपरे’ इति वाक्यशेषः| आगमप्रत्ययात् आगमप्रामाण्यात्| आगमं च पुनर्भवप्रतिपादकं दानतपोयज्ञेत्यादि दर्शयिष्यत्यग्रे| इच्छन्तीत्यत्र ‘ये’ इति वाक्यशेषः| एवं तावद्वादिविप्रतिपत्तिरेका संशयकारणं दर्शिता; संशयहेत्वन्तरमाह- श्रुतिभेदाच्चेत्यादि| श्रूयत इति श्रुतिः; प्रतिवादिवचनमेवङ्ग्रन्थनिबद्धम्| एतानि च मातापितरावेव जन्मकारणमित्यादीनि पुनर्भवप्रतिक्षेपकाणि वचनानि| आगमप्रत्ययादस्ति पुनर्भव इति यो ब्रूते, तद्वचनेन समं वादिविप्रतिपत्तिरूपतयैव संशयकारणं भवतीत्यत उक्तमुपसंहारे ‘अतः संशयः’ इति| एके मन्यन्ते जन्मकारणमिति जन्मकारणमिति पदं मातरं पितरं तथा स्वभावं तथा परनिर्माणमिति पदत्रयेण सम्बध्यते; यदृच्छां चाऽपरे जना इत्यत्र मन्यन्ते जन्मकारणमिति पदं सम्बध्यते| मातापितरावेवात्मान्तरनिरपेक्षावपत्योत्पादने कारणं, तेन पूर्वशरीरं परित्यज्य शरीरान्तरपरिग्रहरूप आत्मनः परलोको नास्तीति प्रथमवादिनः पक्षः| परिदृश्यमानपृथिव्यादिभावानामेवायं स्वभावो- यत्- संयोगविशेषान्मिलिताः सन्तश्चेतनं पुरुषादिलक्षणं कार्यविशेषमारभन्ते, यथा सुराबीजादीनि प्रत्येकममदकराण्यपि मदकरं मद्यमारभन्ते, नात्र कश्चिदात्मा विद्यते यस्य परलोकः स्यादिति स्वभाववादिनो भावः| पर ऐश्वर्यादिगुणयुक्त आत्मविशेषः, तेन संसार्यात्मनिरपेक्षिणा निर्माणं परनिर्माणं, तत्रापि परस्यैवैश्वर्यादिगुणयुक्तस्यात्मविशेषस्य प्रभावाद्भूतानि चेतयन्ते नात्मान्तरमस्तीति परलोकाभावः| यदृच्छा कारणाप्रतिनियमेनोत्पादः; न कारणप्रतिनियमेन कार्योत्पादोऽवधारयितुं शक्यते, अवधारकप्रमाणानां प्रामाण्यानवधारणात्; तस्मादात्मैव पुनर्भवमनुभवतीति न वाच्यमिति यादृच्छिकस्याभिप्रायः||६||

Adhikarana 6 (7) · Śloka 7

तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च| कस्मात्? प्रत्यक्षं ह्यल्पम्; अनल्पमप्रत्यक्षमस्ति, यदागमानुमानयुक्तिभिरुपलभ्यते; यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव सन्ति चाप्रत्यक्षाणि||७||

🔊 Audio coming soon

पुनर्भवास्तित्वपक्षं गृहीत्वा प्राह- तत्रेत्यादि| बुद्धिमानिति प्रशस्तबुद्धियुक्तः| नास्त्येव परलोक इति विपर्ययज्ञानं नास्तिक्यबुद्धिः, तां जह्यात्| परलोकविषयो विपर्ययो यथा धर्मानुष्ठानं प्रति विरोधकः, तथा स्तोकक्रमेणास्ति परलोको न वेति संशयोऽपि धर्मानुष्ठानं प्रति विरोधक इत्याह- विचिकित्सां चेति; विचिकित्सां जह्यादिति सम्बन्धः, विचिकित्सा सन्देहः, सा चेह प्रकृतत्वात् परलोकविषयैव| अत्रैव हेतुप्रश्नपूर्वकं हेतुमाह- कस्मादित्यादि| अप्रत्यक्षत्वात् परलोको नास्तीति प्रथमवादिमतं दूषयति- प्रत्यक्षमित्यादि| यथा, प्रत्यक्षं प्रमाणमव्यभिचारिप्रमाजनकत्वेन; तथाऽऽगमादीन्यपि तथाभूतप्रमाजनकत्वात् प्रमाणान्येव; ततश्च प्रत्यक्षाविषयत्वेनैव यत् पुनर्भवस्य नास्तित्वं व्यवस्थाप्यते तन्न युक्तमिति प्रकरणार्थः| पुनर्भवसाधकानि चागमादीन्यग्रे वक्ष्यमाणानि सन्त्येवेति भावः| आगमादीनि लक्षणतोऽग्रेऽभिधास्यन्ते| प्रत्यक्षाविषयत्वे सत्यपि यान्यन्यप्रमाणसिद्धानि सन्ति तान्याह- यैरेवेत्यादि| प्रत्यक्षमिति प्रत्यक्षविषयं घटादि| सन्तीति इन्द्रियोपक्रमणीयोक्तानुमानगम्यत्वादिति बोद्धव्यम्||७||

Adhikarana 7 (8) · Śloka 8

सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्मनोनवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच्च प्रत्यक्षानुपलब्धिः; तस्मादपरीक्षितमेतदुच्यते- प्रत्यक्षमेवास्ति, नान्यदस्तीति||८||

🔊 Audio coming soon

इतश्च प्रत्यक्षानुपलब्धिर्न वस्त्वभावनिश्चयकारिकेत्याह- सतामित्यादि| सतामित्यग्रे वक्ष्यमाणातिसन्निकर्षाद्यभावे प्रत्यक्षेणैव गृह्यमाणत्वेन सतामित्यर्थः| प्रत्यक्षानुपलब्धिरित्यतिसन्निकर्षादिभिः सह प्रत्येकमभिसम्बध्यते| अतिसन्निकर्षादनुपलब्धिर्यथा- नयनगतकज्जलादेः, अतिविप्रकर्षाद्यथा- दूराकाशगतस्य पक्षिणः, आवरणाद्यथा- कुड्यादिपिहितस्य घटादेः, करणदौर्बल्याद्यथा- कामलाद्युपहतस्य चक्षुषः पटशौक्ल्याद्यप्रतिभानं, मनोनवस्थानाद्यथा- कान्तामुखनिरीक्षणप्रहितमनसः पार्श्वागतवचनानवबोधः, समानाभिहाराद्यथा- बिल्वराशिप्रविष्टस्य बिल्वस्येन्द्रियसम्बद्धस्यापि भेदेनाग्रहणम्, अभिभवाद्यथा- मध्यन्दिने उल्कापातस्य, सौक्ष्म्याद्यथा- त्रिचतुर्हस्तप्रमाणदेशवर्तिनः क्रिमिविशेषलिख्यादेरग्रहणम्||८||

Adhikarana 8 (9-10) · Śloka 10

श्रुतयश्चैता न कारणं, युक्तिविरोधात्| आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि सञ्चरेत्| द्विविधं सञ्चरेदात्मा सर्वोवाऽवयवेन वा||९|| सर्वश्चेत् सञ्चरेन्मातुः पितुर्वा मरणं भवेत्| निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः||१०||

🔊 Audio coming soon

सम्प्रति श्रुतिभेदवादिमतं दूषयति- श्रुतयश्चेत्यादि| न कारणमिति न पुनर्भवप्रतिषेधे कारणमित्यर्थः| युक्तिविरोधात् उपपत्तिविरोधात्| अपत्यशरीरे मातापित्रोः कारणत्वमनुमतमेव, यतस्तथाविधे मातापित्रोः कारणत्वे सत्यपि चैतन्यहेतोरात्मनः परलोकादागमने प्रेत्यभावोऽखण्डित एवेति| चैतन्यमपत्यस्य मातापित्रोरपि चैतन्यहेतुर्य आत्मा तत एव भवतीति यो मन्यते तं प्रत्याह- आत्मा मातुरित्यादि| द्विविधं द्विप्रकारम्| सर्व इति मातरं पितरं परित्यज्यापत्यं गच्छेत्; अवयवेनेति एकोऽवयवो वाऽऽत्मनो मातरि पितरि वा तिष्ठेत्, अन्यश्चैकदेश आत्मनोऽपत्यं गच्छेत्| प्रथमपक्षे दूषणमाह- सर्वश्चेत्यादि| निरन्तरमिति च्छेदः, निरन्तरं तत्कालमेव, यदि मातुरात्माऽपत्यं सञ्चरेत्तदा तत्कालमेव मातुर्मरणं, यदि तु पितुरात्माऽपत्यं सञ्चरेत्तदा तत्कालमेव पितुर्मरणं, स्यादिति| द्वितीयं पक्षं दूषयति- नावयव इत्यादि| सूक्ष्मस्येति अस्थूलस्य; स्थूलानां पृथिव्यादीनामवयवा भवन्ति, न तु सूक्ष्माणामाकाशकालमनोबुद्धिप्रभृतीनां; ततश्चावयवाभावादात्मनोऽवयवेन सञ्चरणं दूरमपास्तमित्यर्थः||९-१०||

Adhikarana 9 (11) · Śloka 11

बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते| येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा||११||

🔊 Audio coming soon

अथ शङ्क्यते- माऽऽत्मा मातापित्रोः सञ्चरतु, बुद्धिस्तु तयोर्मनो वाऽपत्यं सञ्चरतु, अत एवापत्यस्य चैतन्यं भविष्यतीत्याह- बुद्धिर्मनश्चेत्यादि| निर्णीते व्यवस्थापिते प्रमाणेन, किम्भूतेनेत्याह- यथैवात्मा निरवयवत्वेनावयवसञ्चरणाक्षमस्तथा तत्कालमेव मातापितृपरित्यागप्रसङ्गेन कार्त्स्न्येनापि सञ्चरितुमक्षमः, तथा ते अपि बुद्धिमनसी निरवयवत्वान्नैकदेशेन सञ्चरेयातां, मातापित्रोस्तत्कालमेवाबुद्धिमत्त्वामनस्कत्वप्रसङ्गाच्च न कार्त्स्न्येन सञ्चरेयातामिति भावः| दूषणान्तरमाह- येषामित्यादि| येषां मतिरिति मातापितरावेवापत्ये चैतन्यकारणमित्येवंरूपा| चतुर्विधा योनिरिति जरायुजाण्डजसंस्वेदजोद्भिज्जलक्षणा| एवं मन्यते- संस्वेदजानां मशकादीनां तथोद्भिज्जानां गण्डूपदादीनां चेतनानां मातापितरौ न विद्येते; ततस्तेषामचैतन्यं स्यात्, मातापित्रोश्चेतनकारणयोरभावादिति||११||

Adhikarana 10 (12) · Śloka 12

विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम्| संयोगे च वियोगे च तेषां कर्मैव कारणम्||१२||

🔊 Audio coming soon

स्वाभाविकवादिनो भूतचैतन्यपक्षं दूषयति- विद्यादित्यादि| स्वभावकृतं स्वाभाविकम्| षण्णां धातूनामिति पृथिव्यप्तेजोवाय्वाकाशात्मनाम्, एषां च धातुत्वं शरीरधारणाज्जगद्धारणाच्च| स्वलक्षणम् आत्मीयमव्यभिचारि लक्षणं; तच्च पृथिव्याः काठिन्यादि, अपां द्रवत्वादि, तेजस उष्णत्वादि, वायोस्तिर्यग्गमनादि, आकाशस्याप्रतिघातादि आत्मनो ज्ञानादि; एतेन, एतदेव परमेषां लक्षणं स्वाभाविकं, न तावदात्मरहितानामेषां चैतन्यमपि स्वाभाविकमस्तीति दर्शयति| ततश्च यत् प्रत्येकं भूतानां न सम्भवति तन्मिलितानामपि न सम्भवति चैतन्यं; यतो भूतानामपि संयोगाच्चैतन्यसम्भवे बहूनि चेतनानि स्युर्बाल्याद्यवस्थाभेदात्, ततश्च ज्ञातृभेदात् प्रतिसन्धानानुपपत्तिरिति भावः; आत्मसम्बन्धेन तु चैतन्यं सम्मतमेव, परं तत्रापि गर्भोत्पत्तौ भूतानामात्मसम्बन्धे तथा मरणे भूतानामात्मनो वियोगे कर्मैव जन्मान्तरकृतं कारणं, नान्यत्| तत् भूतसंयोगविभागकारणजन्मान्तरकृतकर्मस्वीकारात् प्रेत्यभावः स्वीकृतो भवतीति भावः||१२||

Adhikarana 11 (13) · Śloka 13

अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः| पर आत्मा स चेद्धेतुरिष्टोऽस्तु परनिर्मितिः||१३||

🔊 Audio coming soon

परनिर्माणपक्षं दूषयति- अनादेरित्यादि| अत्र परनिर्माणपक्षे शरीरस्यात्मरहितस्य परेण निर्माणं वाऽभिप्रेतं स्यात्, आत्मनो वाऽपि परेण निर्माणमभिप्रेतं स्यात्; आत्मनः परनिर्माणं दूषयति- अनादेरित्यादि| नित्यस्य चेतनाधातोरिति आत्मनः; नेष्यते नित्यस्योत्पादककारणाभावादिति भावः; नित्यत्वं चात्मनः शारीरे प्रतिपादयिष्यति| अथ शरीरमात्रस्य परनिर्माणमभिप्रेतं, तदनुमतमेव; परेणाऽऽत्मना धर्माधर्मसहायेन तस्य क्रियमाणत्वादित्याह- पर इत्यादि| हेतुरिष्ट इति शरीरोत्पादे हेतुरिष्ट इत्यर्थः; अस्तु परनिर्मितिरीदृशी प्रेत्यभावाविरोधिनीति भावः| एवं मन्यते- परेणैश्वर्यादिगुणयुक्तेनात्मविशेषेणैतच्चेतनं शरीरं क्रियमाणं चेतनाहेतुभूतातिरिक्तात्मसम्बन्धमन्तरा (चेतनायुक्तं ) कर्तुं न पार्येत, घटादिवदचेतनत्वप्रसङ्गात्; चेतनाहेतुश्चात्मा नित्यत्वेन न क्रियते, तस्माच्चेतनाहेतुनित्यत्वेन जन्मान्तरसम्बन्धिनमात्मानं गृहीत्वा शरीरं चेतनं परः करोतीति स्वीकरणीयम्; एवमपि चेश्वरदरिद्रादिजगद्वैचित्र्यदर्शनादात्मनो धर्माधर्मयोगवैचित्र्यं कल्पनीयं; तथाच सत्यात्मन एव धर्माधर्मसहायताऽवश्यं स्वीकरणीया, तस्मात् स एव शरीराद्युत्पत्तौ कारणमस्तु किमपरेणेहात्मविशेषकल्पनेन; यदि वा, एवमात्मन्यनेकजन्मसम्बन्धिनि संसारहेतुधर्माधर्मगुणशालिनि सिद्धे अस्तु सोऽप्यात्मविशेषः कारणम्, अतो न काचित् क्षतिरिति||१३||

Adhikarana 12 (14-15) · Śloka 15

न परीक्षा न परीक्ष्यं न कर्ता कारणं न च| न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च||१४|| नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः| पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः||१५||

🔊 Audio coming soon

यदृच्छावादिमतं दूषयति- न परीक्षेत्यादि| यदृच्छावादी खल्वेकमपि प्रमाणं नानुमन्यते, ततश्च तस्याप्रामाणिकत्वात् प्रमाणं विनैव यत्किञ्चिद्ब्रुवतो न श्रद्धेयं वचनं भवति, तस्मादुपेक्षणीय एवायमिति प्रकरणाभिप्रायः| यदृच्छया अपरिस्थितपक्षतया, उपहत इहलोकपरलोकानुपयुक्त आत्मा यस्य स यदृच्छोपहतात्मा; तस्य परीक्षा नास्तीति परीक्षाहेतूनां प्रमाणानामभावादित्यर्थः; परीक्ष्यमपि नास्ति, परीक्षकप्रमाणाभावादेव; एवं कर्ताऽपि नास्ति तत्कारणमपि नास्ति, प्रमाणास्वीकारादिति भावः; तथा सर्वजनसिद्धा देवादयोऽपि न सन्तीत्यभिधानेन नास्तिकस्य वर्जनीयत्वं दर्शयति| पातकेभ्यो ब्रह्मावधादिभ्यः; परं श्रेष्ठं; नास्ति परलोक इत्यादिको ग्रहो नास्तिकग्रहः; नास्तिकबुद्ध्या ह्युच्छृङ्खलः पुरुषः सर्वमपि पातकं करोतीति भावः||१४-१५||

Adhikarana 13 (16) · Śloka 16

तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः| सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम्||१६||

🔊 Audio coming soon

नास्तिकतापरित्यागेन यथाकर्तव्यतामाह- तस्मादित्यादि| एतामिति नास्तिकबुद्धिम्| अमार्गे अधर्मे प्रसृता अमार्गप्रसृता| बुद्धिरेव प्रदीपो बुद्धिप्रदीपः, तेन प्रत्यक्षादिप्रमाणेन पश्येदित्यर्थः| यथातथमिति यथास्वरूपम्||१६||

Adhikarana 14 (17) · Śloka 17

द्विविधमेव खलु सर्वं सच्चासच्च; तस्य चतुर्विधा परीक्षा- आप्तोपदेशः, प्रत्यक्षम्, अनुमानं, युक्तिश्चेति||१७||

🔊 Audio coming soon

सम्प्रति परपक्षं दूषयित्वा स्वपक्षपरलोकसाधनानि प्रमाणान्यवतारयति- द्विविधमित्यादि| सर्वमिति यत्किञ्चित् प्रमाणप्रतीयमानं, तद्द्विविधं; तद्द्वैविध्यमाह- सच्चासच्च; सदिति विधिविषयप्रमाणगम्यं भावरूपम्, असदिति निषेधविषयप्रमाणगम्यमभावरूपम्| परीक्ष्यते व्यवस्थाप्यते वस्तुस्वरूपमनयेति परीक्षा प्रमाणानि, आप्तोपदेशादय उत्तरग्रन्थे स्फुटा भविष्यन्ति||१७||

Adhikarana 15 (18-19) · Śloka 19

आप्तास्तावत्- रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये| येषां त्रिकालममलं ज्ञानमव्याहतं सदा||१८|| आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम्| सत्यं, वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः ||१९||

🔊 Audio coming soon

आप्तोपदेशं दर्शयितुमाप्तमेव तावदाह- आप्ता इत्यादि| निःशेषेण मुक्ता निर्मुक्ताः| तपोज्ञानबलेनेति रजस्तमोनिर्मुक्तौ कारणत्वेन योजनीयम्| त्रिकालमिति अतीतानागतवर्तमानविषयम्| अमलमिति यथार्थग्राहित्वेन| अव्याहतमिति क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन| आप्ती रजस्तमोरूपदोषक्षयः, तद्युक्ता आप्ताः ; शासति जगत्कृत्स्नं कार्याकार्यप्रवृत्तिनिवृत्त्युपदेशेनेति शिष्टाः; बोद्धव्यं विशेषेण बुद्धमेतैरिति विबुद्धाः; आप्ताः, शिष्टाः, विबुद्धा इति सञ्ज्ञात्रयेणाप्तानां लोके प्रसिद्धिं दर्शयति; तेषामाप्तानां वाक्यमसंशयं निश्चितं सत्यं यथार्थमित्यर्थः| तद्वाक्यसत्यत्वे हेतुमाह- वक्षन्ति ते कस्मादसत्यं नीरजस्तमा इति| नीरजस्तमा इति तमप्प्रत्ययान्तः शब्दः, तेन नीरजस्त्वप्रकर्षेण तमोऽपि व्युदस्तं भवति; न हि सर्वथा नीरजस्के पुरुषे तमो भवति; यदुक्तं- “नारजस्कं तमः” (वि.अ.६) इति| वक्षन्ति ते कस्मादसत्यं न कस्मादपीत्यर्थः; असत्यं मिथ्याज्ञानाद्वाऽभिधीयते, सम्यग्ज्ञाने सत्यपि रागद्वेषाभ्यां वाऽभिधीयते, तच्च त्रितयमपि मिथ्याज्ञानरागद्वेषरूपं रजस्तमोनिर्मुक्ते सत्त्वगुणोद्रेकादमलविज्ञाने न सम्भवतीत्यर्थः; यदि वा ‘नीरजस्तमसो मृषा’ इति पाठः सुगमः| एतच्चाप्तलक्षणं सहजाप्तब्रह्माद्यभिप्रायेण, लौकिकानां तु पुरुषाणामाप्तत्वं प्रतिविषयसम्यग्ज्ञानसम्भवने तद्विषयरागद्वेषासम्भवेन च बोद्धव्यम्; एतेन, आप्तोपदेश इति शब्दरूपप्रमाणलक्षणमुक्तं भवति; बुद्धिप्रमाणपक्षे तु, आप्तोपदेशजनिता बुद्धिः प्रमाणमिति बोद्धव्यम्||१८-१९||

Adhikarana 16 (20) · Śloka 20

आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते| व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं स निरुच्यते||२०||

🔊 Audio coming soon

प्रत्यक्षलक्षणमाह- आत्मेन्द्रियेत्यादि| सन्निकर्षादिति सम्बन्धात्; स च सम्बन्धः- संयोगः, समवायः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, विशेषणविशेष्यभावलक्षणो बोद्धव्यः| व्यक्ता इत्यनेन व्यभिचारिणीमयथार्थबुद्धिं संशयं च निराकरोति| तदात्वे तत्क्षणम्; अनेन च प्रत्यक्षज्ञानानन्तरोत्पन्नानुमानज्ञानं स्मरणं च परम्परयाऽऽत्मेन्द्रियमनोर्थसन्निकर्षजं व्यवच्छिनत्ति; आत्मादिचतुष्टयसन्निकर्षाभिधानं च प्रत्यक्षकारणाभिधानपरं; तेन, ‘इन्द्रियार्थसन्निकर्षात् प्रवर्तते या’ इत्येतावदेव लक्षणं बोद्धव्यम्; एतेन सुखादिविषयमपि प्रत्यक्षं गृहीतं भवति; तत्र हि चतुष्टयसन्निकर्षो नास्ति, आत्मसन्निकर्षस्तु प्रमाणज्ञानसाधारणत्वेनैव लक्षणानुपयुक्तः | इह च प्रत्यक्षफलरूपाऽपि बुद्धिः प्रत्यक्षशब्देनाभिधीयते, तथैव लोकव्यवहारात्; परमार्थतस्तु यतो भवतीन्द्रियादेरीदृशी बुद्धिस्तत् प्रत्यक्षम्||२०||

Adhikarana 17 (21-22) · Śloka 22

प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते| वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्||२१|| एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्| दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः||२२||

🔊 Audio coming soon

अनुमानस्वरूपमाह- प्रत्यक्षेत्यादि| प्रत्यक्षग्रहणं व्याप्तिग्राहकप्रमाणोपलक्षणार्थं, तेन प्रत्यक्षपूर्वमिति व्याप्तिग्राहकप्रमाणपूर्वकम्| त्रिविधमित्यनेनानुमानत्रैविद्ध्यं दर्शयति; तेन, कार्यात् कारणानुमानं, यथा- गर्भदर्शनान्मैथुनानुमानं; तथा कारणात् कार्यानुमानं, यथा- बीजात् सहकारिकारणान्तरयुक्तात् फलानुमानं; तथाऽकार्यकारणभूतानां च सामान्यतो दर्शनादनुमानं, यथा- धूमाद्वर्तमानक्षणसम्बन्धादग्न्यनुमानम्; एतत्त्रिविधमनुमानं गृहीतं भवति| त्रिकालमित्यनेन त्रिकालविषयत्वमनुमानस्य दर्शयति| अनुमीयते इत्यत्र ‘येन तदनुमानम्’ इति वाक्यशेषः| तेन, व्याप्तिग्रहणादनु अनन्तरं मीयते सम्यङ्निश्चीयते परोक्षार्थो येन तदनुमानं, व्याप्तिस्मरणसहायलिङ्गदर्शनमित्यर्थः| त्रिविधमिति यदुक्तं तस्योदाहरणं दर्शयति- वह्निरित्यादि| एतच्च व्याकृतमेव | निगूढः अदृश्यमानः| एवं व्यवस्यन्त्यतीतमिति व्यवच्छेदः| बीजादिति सहकारिकारणान्तरजलकर्षणादियुक्तादिति बोद्धव्यम्| अनागतं फलं सदृशं व्यवस्यन्तीति सम्बन्धः| दृष्ट्वा बीजात् फलं जातमित्यनेन बीजफलयोः कारणकार्यलक्षणां व्याप्तिं दर्शयति; यद्यपि च कारणं कार्यं व्यभिचरति, यतो नावश्यं बीजसद्भावे फलं भवति, तथाऽपि सहकारिकारणान्तरयुक्तं बीजं फलं न व्यभिचरतीत्यभिप्रायो बोद्धव्यः; कारणसामग्री च कार्यं न व्यभिचरत्येव||२१-२२||

Adhikarana 18 (23-24) · Śloka 24

जलकर्षणबीजर्तुसंयोगात् सस्यसम्भवः| युक्तिः षड्धातुसंयोगाद्गर्भाणां सम्भवस्तथा||२३|| मथ्यमन्थन(क)मन्थानसंयोगादग्निसम्भवः| युक्तियुक्ता चतुष्पादसम्पद्व्याधिनिबर्हणी||२४||

🔊 Audio coming soon

युक्तेः प्रमाणस्यान्यशास्त्रप्रसिद्धत्वेनोदाहरणान्येव तावद्दर्शयति, उदाहरणे ज्ञाते युक्तेर्लक्षणं सुखेन ज्ञायते इत्यभिप्रायेण- जलकर्षणेत्यादि| कर्षणशब्देन कर्षणसंस्कृता भूमिर्गृह्यते, जलकर्षणबीजर्तुसंयोगात् सस्यस्य सम्भवो भवतीति यज्ज्ञानं तद्युक्तिरिति योजनीयम्| षड्धातुसंयोगात् पञ्चमहाभूतात्मसंयोगात्| तथाशब्दो युक्तिरित्याकर्षति| मथ्यं मन्थनकाष्ठयन्त्रकं, काष्ठं मन्थनं, मन्थानं काष्ठभ्रामणं; किंवा ‘मन्थक’ इति पाठः, तत्र मन्थानं भ्राम्यमाणकाष्ठं; संयोगान्मेलकादिति बोद्धव्यं, यतो मन्थनस्य क्रियारूपस्य संयोगो न सङ्गच्छते; किंवा मन्थनशब्देन मन्थनरज्जुरुच्यते| युज्यते सम्बध्यतेऽनयेति युक्तिः, तया युक्ता युक्तियुक्ता| चतुष्पाद इति वक्तव्ये सम्पद्ग्रहणं गुणवच्चतुष्पादग्रहणार्थम्||२३-२४||

Adhikarana 19 (25) · Śloka 25

बुद्धिः पश्यति या भावान् बहुकारणयोगजान्| युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया||२५||

🔊 Audio coming soon

सम्प्रति युक्तेर्लक्षणमाह- बुद्धिरित्यादि| या बुद्धिर्भावान् पश्यति विषयीकरोति, बहुकारणयोगो बहूपपत्तियोगः, जनिश्चायं ज्ञानार्थे, तेन बहूपपत्तियोगज्ञायमानानर्थान् या बुद्धिः पश्यति ऊहलक्षणा सा युक्तिरिति प्रमाणसहायीभूता| एवमनेन भवितव्यमित्येवंरूप ऊहोऽत्र युक्तिशब्देनाभिधीयते; सा च परमार्थतोऽप्रमाणभूताऽपि वस्तुपरिच्छेदे प्रमाणसहायत्वेन व्याप्रियमाणत्वात्, तथा तयैव ऊहरूपया प्रायो लोकानां व्यवहारादिह प्रमाणत्वेनोक्ता| अत एव प्रदेशान्तरे युक्तिं विना यथोक्तं प्रमाणत्रयं दर्शयिष्यति- “त्रिविधा वा (परीक्षा) सहोपदेशेन” (वि. अ.४) इति वचनात्| तथा, उपमानं गृहीत्वा रोगभिषग्जितीये शब्दादीनि चत्वारि प्रमाणान्यभिधास्यति| त्रिकाला वर्तमानातीतानागतविषया; त्रिकालविषयत्वं चास्यास्त्रिकालानुमानविषयोपदेशकत्वेनैव| त्रिवर्गसाधकत्वं च त्रिवर्गसाधनादेव, ऊहेनैव हि प्रायस्त्रिवर्गानुष्ठाने प्रवृत्तिर्भवति; (प्रमाणपरिच्छेदेन तु प्रचारो विरल एव|) यत्तु बहुकारणजलकर्षणबीजर्तुसंयोगाद्भाविसस्यज्ञानं युक्तिरुच्यते, तच्चानुमानान्नार्थान्तरभूतं; तत्रानुमानाद्भेदो दुष्कर इति नाद्रियामहे; किञ्च कारणेभ्यः कार्यं प्रतीयमानं न कदाऽपि वर्तमानं प्रतीयते, ततश्च त्रिकालेति पराहतं स्यात्| अत्र शान्तरक्षितकमलशीलाभ्यां युक्तिप्रमाणान्तरस्वीकारे पूर्वपक्षसिद्धान्तावुक्तौ- “यस्मिन् सति भवत्येव न भवत्यसतीति च| तस्मादतो भवत्येतद्युक्तिरेषाऽभिधीयते|| प्रमाणान्तरमेवेदमित्याह चरका मुनिः| नानुमानमियं यस्माद्दृष्टान्तोऽत्र न विद्यते” (त.सं.का.१६९२-९३) इति| एतच्छान्तरक्षितवचनं कमलशीलेन व्याख्यातं- “तद्भावभावित्वेन या तत्कार्यताप्रतीतिरियं युक्तिः; इयं च सविकल्पत्वान्न प्रत्यक्षं; नाप्यनुमानं दृष्टान्ताभावात्, तथाहि- दृष्टान्तोऽपि- अत एव तद्भावभावित्वात्तत्कार्यताप्रतिपत्तिः, तत्रापि दृष्टान्तोऽन्योऽन्वेषणीयः , तत्राप्यपर इत्यनवस्था स्यात्; तस्मात् प्रमाणान्तरं युक्तिरित्याह चरको वैद्यः; एवं पूर्वपक्षमुत्थाप्य दूषितं यत्- “कार्यकारणभावस्य प्रतिपत्तिर्न सङ्गता| तस्मादस्यां न भेदोऽस्ति साध्यसाधनयोर्यतः|| तद्भावव्यवहारे तु योग्यतायाः प्रसाधने| सङ्केतकालविज्ञातो विद्यतेऽर्थो निदर्शनम्” (त.सं.का.१६९६-४८)| एतद्व्याख्यातं कमलशीलेन- “युक्तौ न साध्यसाधनयोर्भेदः; तथाहि- अत्र तद्भावभाविता हेतुः, कार्यकारणता च साध्या, न चानयोर्भेद उपलभ्यते पर्यायत्वात्तरुपादपवत्; अथ मतं- न कार्यकारणता साध्यते किन्तर्हि तद्भावव्यवहार इति, तत्राह- तद्भावव्यवहारे इत्यादि; तस्या हेतुफलताया भावस्तद्भावः, तत्र व्यवहारो यः स तद्भावव्यवहारः ज्ञानाभिधानप्रवृत्तिलक्षणमनुष्ठानं, तस्मिन् योग्यता मूढं प्रति साध्यते; ये यद्व्यापारानन्तरनियतोपलम्भस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा- सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलम्भस्वभावा घटादयः; तथा च ताल्वादिव्यापारानन्तरनियतोपलम्भस्वभावाः शब्दा इति स्वभावो हेतुः; ततश्च स दृष्टान्तत्वादनुमानादभेदो युक्तेः”| एतौ च पूर्वपक्षसिद्धान्तौ एवम्भूतयुक्त्यस्वीकारादेवाप्रतिविधेयौ ||२५||

Adhikarana 20 (26) · Śloka 26

एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते| परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः||२६||

🔊 Audio coming soon

उपसंहरति- एषेत्यादि| नास्त्यन्येतिवचनेनार्थापत्त्यसम्भवादीनामन्यतन्त्रमतानां प्रमाणानां निषेधं करोति| प्रस्तुते परीक्षां प्रयोजयति- तया चास्ति उपलभ्यते च पुनर्भव इति||२६||

Adhikarana 21 (27) · Śloka 27

तत्राप्तागमस्तावद्वेदः , यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः, स चाऽऽप्तागमः; आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति||२७||

🔊 Audio coming soon

तत्र शब्दस्य पुनर्भवप्रतिपादकत्वं दर्शयति- तत्राऽऽप्तागम इत्यादि| प्रथमं वेदं प्रदर्शयन् वेदस्य निरस्तविभ्रमाशङ्कं प्रामाण्यं दर्शयति, यश्चान्योऽपीत्यनेन ग्रन्थेन वेदार्थाविपरीतत्वादिभिर्हेतुभिः परिच्छेदनीयप्रामाण्यायुर्वेदस्मृतिशास्त्रादीनि दर्शयति| शास्त्ररूपो वादः शास्त्रवादः| आप्तागमादिति वेदात्| यज्ञः अग्निष्टोमादिः; ब्रह्माचर्यम् उपस्थसंयमादि| अभ्युदयः स्वर्गः, निःश्रेयसं मोक्षः; अत्र यथायोग्यतया स्वर्गस्य मोक्षस्य च कारणमिति बोद्धव्यम्| एतेन जन्मान्तरभोग्यस्वर्गानेकजन्मलभ्यमोक्षोपदेशेनात्मनः परलोकः कथितो भवतीति भावः||२७||

Adhikarana 22 (28) · Śloka 28

न चानतिवृत्तसत्त्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिश्यते||२८||

🔊 Audio coming soon

आगमान्तरमाह- न चेत्यादि| अनतिवृत्तौ अवनुपशान्तौ सत्त्वदोषौ मनोदोषौ रजस्तमोरूपौ येषां ते तथा, तेषाम्; पुनर्भवो मोक्षः, धर्मद्वारेषु धर्मशास्त्रेषु, अदोषैः निर्मनोदोषैर्महर्षिभिः, उपदिश्यते न, इति सम्बन्धः; तेन पुनर्भव उपदिश्यते इत्यर्थः||२८||

Adhikarana 23 (29) · Śloka 29

धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम् ||२९||

🔊 Audio coming soon

आगमान्तरमृषिवचनमाह- धर्मद्वारेत्यादि| ब्रह्मा अध्यात्मज्ञानं, तत्परैः| कर्मविद्भिः अनुष्ठातव्ययागादिकर्मविद्भिः| अनुपहतसत्त्वगुणो बुद्धेः प्रचारो बोधलक्षणो येषां ते तथा, एतेन विशुद्धबुद्धित्वं दर्शयति| दिव्यमतीन्द्रियार्थदर्शि चक्षुः समाधिरूपं ज्ञानं येषां ते दिव्यचक्षुषः, तैः| दृष्ट्वोपदिष्टः स्वयमनुभूय कथित इत्यर्थः| इतिशब्दो हेतौ| एवमिति आगमेन||२९||

Adhikarana 24 (30) · Śloka 30

प्रत्यक्षमपि चोपलभ्यते- मातापित्रोर्विसदृशान्यपत्यानि, तुल्यसम्भवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः, प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखमायुः, आयुषो वैषम्यम्, इह कृतस्यावाप्तिः, अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये फलविशेषः, मेधा क्वचित् क्वचित् कर्मण्यमेधा, जातिस्मरणम्- इहागमनमितश्च्युतानामिति , समदर्शने प्रियाप्रियत्वम्||३०||

🔊 Audio coming soon

प्रत्यक्षं च यद्यपि पुनर्भवं न गृह्णाति, तथाऽपि तत् पुनर्भवग्राहकानुमानस्य लिङ्गग्रहणे यथा व्याप्रियते तथा दर्शयति- प्रत्यक्षमपीत्यादि| विसदृशानीति कश्चित् कुरूपः, कश्चित् सुरूपः| तुल्यसम्भवानां तुल्योत्पादकारणानां कश्चिद्गौरः कश्चित् कृष्णः, एवं स्वरादावपि विशेषो बोद्धव्यः| दास्यैश्वर्यमिति कस्यचिद्दास्यं कस्यचिदैश्वर्यम्| एवमपरत्रापि विपर्ययः पुरुषभेदेन बोद्धव्यः| सुखासुखमिति आयुषो विशेषणम्| रुदितादयोऽमी अव्युत्पन्नबालगोचरतया बोद्धव्याः; एते च रुदितादयो यथायोगमिष्टानिष्टस्मरणमन्तरा न भवन्ति, स्मरणं च पूर्वज्ञानं विना न भवतीति पूर्वजन्मज्ञानानुमानात् परलोकानुमायका भवन्ति| पूर्वप्रतिपादितं च विसदृशत्वादिवैचित्र्यमुत्तरत्र प्रतिपादनीयं च लक्षणोत्पत्त्यादिकारणान्तरादर्शने सति पूर्वजन्मकृतकारणानुमायकमिति परलोकानुमायकं मन्तव्यम्| लक्षणोत्पत्तिरिति सामुद्रकलक्षणप्रतिपादितलक्षणोत्पत्तिः| कर्मसादृश्ये सेवादिसादृश्ये| मेधा क्वचित् कर्मणि चित्रलेखनास्त्रविद्यादौ| जातेरतीतायाः स्मरणं जातिस्मरणं; तदेव स्मरणं दर्शयति- इहागमनमितश्च्युतानामिति; इह कुले जातोऽस्मि, इतश्च कुलादागतोऽस्मीत्येवमाकारं जातिस्मरणमित्यर्थः यदि वा, इह जन्मनि च्युतानामिह जन्मनि पुनरागमनम्, अनेन च नामभ्रान्त्या यमपुरुषैर्नीतस्य पुनरागमनं दृश्यते| समदर्शने तुल्याकारे क्वचित् पुरुषे प्रियत्वं क्वचित् पुनरप्रियत्वमिति समदर्शने प्रियाप्रियत्वम्| अत्र चावान्तरानुमानभेदो विस्तरभयान्न दर्शितः||३०||

Adhikarana 25 (31) · Śloka 31

अत एवानुमीयते- यत्- स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसञ्ज्ञकमानुबन्धिकं कर्म, तस्यैतत् फलम्; इतश्चान्यद्भविष्यतीति; फलद्बीजमनुमीयते, फलं च बीजात्||३१||

🔊 Audio coming soon

एवं प्रत्यक्षेण लिङ्गग्रहणं दर्शयित्वाऽनुमानमाह- अत एवेत्यादि| स्वकृतम् आत्मना कृतम्| अविनाशीति उपभोगं विनाऽविनाशि| पौर्वदेहिकं पूर्वदेहकृतम्| जन्मान्तराण्यनुगच्छतीत्यानुबन्धिकम्| एतत्फलमिति विसदृशापत्योत्पादादि फलम्; एतच्च सङ्क्षेपाद्व्युत्पादितमेव| इतश्चेति इह जन्मनि कृतात् कर्मणः, अन्यदिति भाविजन्मान्तरं, भविष्यतीत्यनुमीयत इति सम्बन्धः| कथमनुमीयते इत्याह- फलादित्यादि| फलात् फलसदृशापत्यदर्शनात् , बीजं पूर्वजन्मकृतं कर्मादिकारणमनुमीयते; तथा फलं च भाविजन्मान्तरे सुखदुःखादि, बीजादिहजन्मकृतात् कर्मणोऽनुमीयत इति योजना||३१||

Adhikarana 26 (32) · Śloka 32

युक्तिश्चैषा- षड्धातुसमुदयाद्गर्भजन्म, कर्तृकरणसंयोगात् क्रिया; कृतस्य कर्मणः फलं नाकृतस्य, नाङ्कुरोत्पत्तिरबीजात्; कर्मसदृशं फलं, नान्यस्माद्बीजादन्यस्योत्पत्तिः; इति युक्तिः||३२||

🔊 Audio coming soon

तर्करूपयुक्तिविषयतां परलोकस्य दर्शयति- युक्तिश्चैषेत्यादि| षड्धातुसमुदायाद्गर्भजन्मेति वदता आत्मसम्बन्धमन्तरा चेतना गर्भस्य नोत्पद्यते, आत्मा च परलोकसम्बन्ध एवेति परलोकसद्भावे युक्तिरुपदर्श्यते| कर्तृकरणसंयोगात् क्रियेति आत्मानं कर्तारं विना क्रिया परिदृश्यमाना यागादिलक्षणा न भवतीति| आत्मन ऊहं दर्शयति- कृतस्येत्यादिनाऽबीजादित्यन्तेन| परिदृश्यमानदास्यैश्वर्यादिफलेन जन्मान्तरकृतस्य कर्मणः कारणभावं दर्शयति| कर्मसदृशं फलमिति पूर्वकृतशुभकर्मणः शुभं पुत्रधनादि फलम्| अत्र दृष्टान्तमाह- नान्यस्मादित्यादि| नान्यबीजात् शालिबीजादन्यस्य यवाङ्कुरस्योत्पत्तिरित्यर्थः| युक्तिमुपसंहरति- इति युक्तिरिति| अत्र बहुवक्तव्ये प्रमेये तथाविधोपयोगाभावाद्विस्तरभयाच्च विस्तरो न कृतः||३२||

Adhikarana 27 (33) · Śloka 33

एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत; तद्यथा- गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्मानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति; यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गम्| इति तृतीया परलोकैषणा व्याख्याता भवति||३३||

🔊 Audio coming soon

सम्प्रति परलोकं व्युत्पाद्य तदुपयुक्तधर्मसाधनान्याह- एवमित्यादि| धर्मद्वारेषु धर्मसाधनद्वारेषु| इह चातिथिपूजादीनि सद्वृत्तोक्तान्यपि प्रकरणप्राप्तत्वेनोदाहरणार्थं पुनरभिधीयन्ते| देहादिपरीक्षायामवधीयेतेति वचनादवधानोपदर्शनेन देहादीनां क्षयित्वादि धर्मनिरूपणेनोपजायमानां मतिं विषयानभिषङ्गं च जायमानमिच्छन्ति| विषयेषु प्रसक्तिं मनसो वारयित्वाऽऽत्मनि समाधानं मनःसमाधिः| अत्र च सर्वत्र ‘अवधीयेत’ इति सम्बन्धः| स्वर्ग्याणि स्वर्गहितानि स्वर्गकराणीति यावत्| वृत्तेर्धनस्य पुष्टिः वृत्तिपुष्टिः, धर्मैषणायां च वृत्तिपुष्टिकराभिधानं धर्महेतूनां वृत्तिहेत्वविरोधेनाचरणोपदेशार्थम्| यशो लभते धार्मिकोऽयमित्येवमादिख्यातिरूपम्| परलौकैषणा तृतीयैव, ततश्च पुनस्तृतीयेति पदं धर्मस्य प्राणधनकारणत्वेन धर्मैषणायाः प्राणधनैषणात्वप्रसक्तिप्रतिषेधार्थम्||३३||

Adhikarana 28 (34) · Śloka 34

अथ खलु त्रय उपस्तम्भाः, त्रिविधं बलं, त्रीण्यायतनानि, त्रयो रोगाः, त्रयो रोगमार्गाः, त्रिविधा भिषजः, त्रिविधमौषधमिति||३४||

🔊 Audio coming soon

सम्प्रति त्रिसङ्ख्यावच्छिन्नोपोद्धातेनान्यान्यपि त्रिसङ्ख्यावच्छिन्नानि स्वस्थातुरहितत्वेनेह वक्तव्यान्याह- अथ खल्वित्यादि| प्रथममुपस्तम्भा अभिधीयन्ते मूलभूतशरीरधारकत्वेन, तदनु बलमुपस्तम्भाहारादिजन्यत्वात्, तदनु रोगायतनानि बलविरोधकर्तृत्वेन, तदनु रोगास्तज्जन्यत्वेन, तदनु तन्मार्गज्ञानं सुविन्यस्तमेव, तदनु रोगप्रतिषेधार्थं प्रधानकारणवैद्याभिधानं, तदनु तदुपकरणत्वेन भैषज्यम्||३४||

Adhikarana 29 (35) · Śloka 35

त्रय उपस्तम्भा इति- आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् संस्कारमहितमनुपसेवमानस्य , य इहैवोपदेक्ष्यते||३५||

🔊 Audio coming soon

अन्येन स्तभ्यमानं धार्यमाणमुप समीपं प्रधानकारणस्य गत्वा स्तम्भयति धारयतीत्युपस्तम्भः; यथा गृहधारणनियुक्तप्रधानस्तम्भसमीपवर्ती तद्बलाधायक उपस्तम्भः, तथेहापि शरीरस्यायुःसम्प्रवर्तकेन कर्मणा ध्रियमाणस्याहारादयो धारकत्वेनोपस्तम्भा इत्युच्यन्ते| आयतनानि कारणानि ‘रोगस्य’ इति शेषः| ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयो ब्रह्मज्ञानानुगुणा गृह्यन्ते| आहारादयश्चेह प्रधानकल्पनया प्रशस्ता एव गृह्यन्ते, तेन विरूढकाहारादीनां शरीरानुस्तम्भकत्वं नोद्भावनीयम्; अत एव युक्तियुक्तैरिति विशेषणं करिष्यति, युक्त्या प्रशस्तेन योगेन युक्ता युक्तियुक्ताः| ब्रह्मचर्यस्यायुक्तिरनभ्यासादतिमात्रेन्द्रियसंयमनादिरूपा, सा हि मनःक्षोभादिहेतुर्भवति| उपचितं युक्तम्| आयुःसंस्कारात् आयुःकारणं धर्माधर्मावसानं यावदित्यर्थः; संस्कारशब्दः कारणवचनः| आहारादयश्च प्राधान्येनोक्ताः; तेनाभ्यङ्गादीनां शरीरधारकत्वमविरुद्धमेव| नन्वाहारादीनि सम्यगाचरतोऽपि विशेषैरसात्मेन्द्रियार्थसंयोगादिजन्यैर्व्याधिभिरन्तरापि मरणं दृष्टमित्याह- संस्कारमित्यादि| संस्कारं कारणम्| अहितं ‘शरीरस्य’ इति शेषः| य इहैवोपदेक्ष्यत इति ‘त्रीण्यायतनानि’ इत्यादिना ग्रन्थेन||३५||

Adhikarana 30 (36) · Śloka 36

त्रिविधं बलमिति- सहजं, कालजं, युक्तिकृतं च| सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतमृतुविभागजं वयःकृतं च, युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्||३६||

🔊 Audio coming soon

युक्तिः आहारचेष्टयोः सम्यक् शरीरेण योजना| सत्त्वं मनः, मनसो बलं वा यत् ‘उत्साह ’ उच्यते| प्राकृतमिति जन्मादिप्रवृत्तं प्राकृतधातुवृद्ध्या हेत्वन्तरनिरपेक्षं वृद्धं, दृश्यन्ते हि केचित् स्वभावादेव बलिनो दुर्बलाश्च केचित्| ऋतुविभागजम् “आदावन्ते च दौर्बल्यं” (सू.अ.६) इत्याद्युक्तम्| आहारस्य मांससर्पिरादेः, चेष्टाया उचितविश्रामव्यायामादेर्योग आहारचेष्टायोगः; अन्ये तु योगशब्देन रसायनप्रयोगं ग्राहयन्ति||३६||

Adhikarana 31 (37) · Śloka 37

त्रीण्यायतनानीति- अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः| तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः, सर्वशोऽदर्शनमयोगः, अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्टबीभत्सनविकृतवित्रासनादिरूपदर्शनं मिथ्यायोगः; तथाऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः; तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रं घ्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः; तथा रसानामत्यादानमतियोगः, सर्वशोऽनादानमयोगः, मिथ्यायोगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते; तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः||३७||

🔊 Audio coming soon

अर्थानाम् इन्द्रियार्थानाम्| कर्मणः कायवाङ्मनःप्रवृत्तेः| कालस्य शीतोष्णवर्षलक्षणस्य| अतिप्रभावताम् आतपाग्निप्रभृतीनाम्| अत्र हीनमात्रदर्शनं विकारं न करोति, तेन ‘सर्वश’ इत्युक्तम्| अदर्शनं चातिप्रभावतामेव बोद्धव्यम्, अप्रभावतां च घटादीनां दर्शनमतियोगादपि न दोषकरम्; एवमन्यत्रापि सर्वश इति व्याख्येयम्| अतिश्लिष्टं नयनप्रत्यासन्नम्, अतिविप्रकृष्टम् अतिदूरवर्ति, रौद्रम् अद्भुतकारणात्मकं भयजनकं, भैरवम् अनद्भुतमपि व्याघ्रादि, दिष्टं यद्यस्य द्वेष्यं, बीभत्सनं मनस उद्वेगकारकं, विकृतं हीनाङ्गादि, वित्रासनं झटिति भयजनकम्; आदिग्रहणादमेध्यादीनां ग्रहणम्| रौद्रादयो यद्यपि न रूपं किन्त्वाकृतिविशेषाः, तथाऽपि रूपैकार्थसमवायेन चक्षुरर्था एव; न चेहेन्द्रियार्थग्रहणेन रूपादीनामेव परं ग्रहणमिति पूर्वमेव व्याख्यातं, यतः स्पर्शनरसनयोः सम्यग्योगेऽसम्यग्योगे च बहवः स्पर्शरसव्यतिरिक्ताः स्नानाभ्यङ्गादयः प्रकृतिसंयोगसंस्कारादयश्च कारणत्वेन वक्तव्याः| अतिमात्रस्तनितं प्रवृद्धो मेघध्वनिः, पटहः पटहशब्दः, उत्क्रुष्टं दर्पादतिमात्रं शब्दितं, प्रधर्षणं तिरस्कारः| तीक्ष्णो गन्धश्चक्षुर्विरेचनकारकः, यथा- कृष्णजीरकादीनाम्; उग्रो वमनकारको वचादीनाम्; अभिष्यन्दी स्तैमित्यकारको मस्तुसुरासवादीनां ; पूति अत्यर्थक्लिन्नं; विषयुक्तः पवनो विषपवनः; कुणपः शवः| रसानामिति रससहितानां द्रव्याणाम्| इहानादानमिति कुर्वन् हीनयोगोऽपि रसानां विकारकर इति दर्शयति| आहारविधिविशेषायतनानि रसविमाने वक्ष्यमाणानि “प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोत्क्रष्टमानि” (वि.अ.१); तत्र राशिवर्ज्येष्वितिवचनेन राशिं पृथक्करोति, राशेराहारस्य परिमाणरूपस्य यो दोषः- हीनमात्रत्वमतिमात्रत्वं वा, तस्यातियोगायोगाभ्यामेव गृहीतत्वात्; न मिथ्यायोगो राशेः सम्भवति; उक्तं हि- “राशिः पुनर्मात्रामात्राफलविनिश्चयार्थः” (वि.अ.१.) इति| प्रकृत्यादीनां तु दोषादाहारस्य मिथ्यायोग एव परं सम्भवति, यतः प्रकृतिविरुद्धानां माषादीनां भोजनं मिथ्यायोग एवाहारस्य भवति; एवं संस्कारविरुद्धशक्तुपिण्डिकेऽपि मिथ्यायोग एव, तथा संयोगविरुद्धसमधृतमधुसर्पिरुपयोगेऽपि; एवं कालादिविरुद्धोदाहरणमपि रसविमाने प्रतिपादितं सर्वं मिथ्यायोगरूपमेव, तेषामयोगातियोगनिरपेक्षाणामेव दोषकर्तृत्वात्| शीतोष्णादीनामित्यादि| यद्यपि शीतोष्णादीनामभ्यङ्गादीनां च हीनयोगोऽपि रोगकरस्तथाऽपि सर्वशोऽनुपसेवनमिति वचनं सर्वशोऽनुपसेवनस्य भूरिप्रव्यक्तविकारकर्तृत्वाभिप्रायेण| अनानुपूर्व्या यथोक्तक्रमलङ्घनेन, यथा- स्नात्वा उत्सादनं, तथोष्णपीडितस्य सहसा शीतलपानीयावगाहनम्, एवमादि| अभिघातः खङ्गहननादि, भूताः प्राणिनः पिशाचप्रभृतयः| आदिग्रहणाद्यत्किञ्चित् स्पर्शनसम्बद्धं शरीरोपघातकमयोगातियोगव्यतिरिक्तं तद्गृह्यते||३७||

Adhikarana 32 (38) · Śloka 38

तत्रैकं स्पर्शनमिन्द्रियाणामिन्द्रियव्यापकं , चेतः- समवायि, स्पर्शनव्याप्तेर्व्यापकमपि च चेतः; तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः, सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थो ह्युपशयार्थः||३८||

🔊 Audio coming soon

ननु चक्षुरादीनि पञ्चेन्द्रियाणि, अतस्तेषां प्रतिनियताः पञ्चासात्म्येन्द्रियार्थसंयोगाः, तत् कथमेकोऽसात्म्येन्द्रियार्थसंयोग इत्याख्यायत इत्याशङ्क्य स्पर्शनेन्द्रियस्य सर्वेन्द्रियव्यापकत्वं दर्शयित्वा सर्वेन्द्रियानुगतं स्पर्शमर्थग्रहणकारणमेकरूपं दर्शयति, ततश्च तस्यैकस्यासात्म्येन्द्रियार्थेन संयोगादुपपन्न एकरूपोऽसात्म्येन्द्रियार्थसंयोग इति दर्शयति- तत्रैकमित्यादिना सात्म्यार्थो ह्युपशयार्थ इत्यन्तेन| एकं स्पर्शनमिति स्पर्शनेन्द्रियमेव, नान्यच्चक्षुरादि| इन्द्रियाणामिति निर्धारणे षष्ठी| इन्द्रियाणि चक्षुरादीनि व्याप्नोतीतीन्द्रियव्यापकं; स्पर्शनं हि सर्वेष्विन्द्रियेष्वस्ति, अत एव स्पृष्ट्वैवार्थमिन्द्रियाणि गृह्णन्ति| तर्हि कथं न सर्वदाऽर्थग्रहणं भवतीत्यत आह- चेत इत्यादिना| श्रोत्रं चास्मद्दर्शने पाञ्चभौतिकं कर्णशष्कुलीगतनभोरूपं, तेन तस्यापि स्पर्शोऽस्ति; चेतःसमवायि मनःसम्बन्धि; मनःसम्बन्धकथनेन चार्थग्रहणं प्रति समर्थत्वं स्पर्शस्य दर्शयति, मनोऽधिष्ठितानामिन्द्रियाणामर्थग्राहकत्वात्| तत् किमणुपरिमाणेन मनसैकत्रस्थितेनैव स्पर्शनस्य सर्वेन्द्रियव्यापकस्य सम्बन्धात् सर्वेन्द्रियाणि प्रवर्तन्ते, तथा सति युगपत्पञ्चज्ञानोत्पत्तिप्रसङ्ग इत्याह- स्पर्शनेन्द्रियव्याप्तेर्व्यापकमपि चेत इति| स्पर्शनेनेन्द्रियाणां व्याप्तिः स्पर्शनेन्द्रियव्याप्तिः, तस्याश्चेतोऽपि व्यापकम्; एतदुक्तं भवति- यावति प्रदेशे स्पर्शनं तिष्ठति तावन्तं देशं मनोऽपि भ्रमति प्रत्यक्षेणार्थग्रहणार्थं, तेन यस्मिन् प्रदेशे यदा मनो वर्तते तदा तेन प्रदेशेन चक्षुरादिरूपेणार्थं गृह्णातीति न युगपज्ज्ञानोत्पत्तिः| प्रकृते योजयति- तस्मादित्यादि| व्यापकश्चासौ स्पर्शश्चेति व्यापकस्पर्शः, तेन कृतस्तन्निबन्धनः; सर्वेन्द्रियाणां भावविशेषः स्वभावविशेषोऽर्थग्रहणकारणीभूतः स्पर्श इत्यर्थः; यमधिकृत्योक्तम्- “स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः” (शा. अ.१) इति; अत्र श्लोके स्पर्शनसम्बन्धकृतः सर्वेन्द्रियस्पर्शः स्पर्शनेन्द्रियसंस्पर्शशब्देनोक्तः, मानसस्तु स्पर्शश्चिन्त्येन विषयेण सताऽपि सम्भवतीति तत्रैव व्याख्येयम्| विशेष इत्यत्र ‘अस्ति’ इति शेषः| सोऽयमेकस्येन्द्रियव्यापकस्य स्पर्शस्यैकरूपोऽसात्म्येन्द्रियार्थसंयोगः, अनुपशयादिति दुःखकर्तृत्वात्, पञ्चविधः चक्षुरसात्म्येन्द्रियार्थसंयोगो घ्राणासात्म्येन्द्रियार्थसंयोग इत्यादिरूपः सन्, पुनस्त्रिविधविकल्पो भवति- अयोगातियोगमिथ्यायोगेनेति भावः| एवं चैकप्रकारस्त्रिप्रकारस्तथा पञ्चदशप्रकारोऽसात्म्येन्द्रियार्थसंयोग उक्तो भवति| अनुपशयशब्देन चक्षुराद्यनुपशयविशेषोऽत्रासात्म्येन्द्रियार्थसंयोगस्य पञ्चविधहेतुत्वोपदेशाद्बोद्धव्यः, न ह्येकरूपोऽनुपशयः पञ्चविधत्वमसात्म्येन्द्रियार्थस्य कर्तुं समर्थः, यतश्चक्षुरादीनां प्रतिनियतान्येवोपघातकान्यतिभास्वररूपादीनि, ततश्च स्पर्शेन्द्रियव्याप्त्याऽपि नैकस्पर्शनेन्द्रियत्वं चक्षुरादीनाम्, एकत्वे ह्येकेन्द्रियोपघातकमन्येषामप्युपघातकं स्यादिति मन्तव्यम्| सात्म्योपशययोरेकार्थतां दर्शयति- सात्म्यार्थो ह्युपशयार्थ इति| एतेनानुपशयेनेन्द्रियार्थसंयोगं दर्शयित्वाऽसात्म्येन्द्रियार्थसंयोग इति सञ्ज्ञाकरणमविरुद्धमिति दर्शितं भवति||३८||

Adhikarana 33 (39) · Śloka 39

कर्म वाङ्मनःशरीरप्रवृत्तिः| तत्र वाङ्मनःशरीरातिप्रवृत्तिरतियोगः; सर्वशोऽप्रवृत्तिरयोगः; वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसङ्क्लेशनादिः शारीरो मिथ्यायोगः, सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादिर्वाङ्मिथ्यायोगः, भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः||३९||

🔊 Audio coming soon

अर्थानामयोगातियोगमिथ्यायोगानभिधाय कर्मणस्तानाह- कर्मेत्यादि| अत्र यद्यपि भूरिप्रधानशरीररोगकर्तृत्वेन पूर्वं शारीरमेव कर्मासात्म्यमभिधातुं युज्यते, तथाऽप्यल्पत्वेन वाङ्मनसे कर्मणी पूर्वमुक्ते, प्रत्येकमिथ्यायोगकथने तु प्राधान्याच्छारीर एव मिथ्यायोगः प्रथमं दर्शितः| अत्रातियोगरूपाऽतिप्रवृत्तिस्तथाऽयोगरूपाऽप्रवृत्तिर्विहितानां कायवाङ्मनः कर्मणां बोद्धव्या, अहिताचरणस्य तु सर्वस्य मिथ्यायोगत्वेन वक्तव्यत्वात्| वेगोदीरणम् अप्राप्तवेगोदीरणम्| विषमशब्दोऽङ्गप्रणिधानान्तैः सबध्यते| अङ्गदूषणम् अतिकण्डूयनादिभिः| सङ्क्लेशनं मद्यातपजलसेचनादिभिः| अबद्धवचनम् असम्बद्धं यावत्तावत्कीर्तनम्| अनुपचारवचनम्| इह चानृतवचनादयोऽधर्मद्वारेण रोगकराः||३९||

Adhikarana 34 (40) · Śloka 40

सङ्ग्रहेण चातियोगायोगवर्जं कर्म वाङ्मनःशरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यात्||४०||

🔊 Audio coming soon

अनुक्तमिथ्यायोगसङ्ग्रहार्थमाह- सङ्ग्रहेणेत्यादि| अहितमिह जन्मनि, अनुपदिष्टमित्यनेन परलोकेऽधर्महेतुतया पापकारकं परदारसेवादि ग्राहयति; एतेन यदुच्यते- अधर्मस्याग्रहणान्न्यूनमेतदायतनकथनमिति, तन्न भवति| शारीरमानसिकवाचनिककर्ममिथ्यायोगेनैवाधर्मोत्पादावान्तरव्यापारेणाधर्मजन्यानां विकाराणां क्रियमाणत्वात्, यथा- अग्निष्टोमेन स्वर्गः क्रियते धर्मोत्पादावान्तरव्यापारेणैव; अन्ये तु कालमिथ्यायोगेऽधर्मं क्षिपन्ति, अधर्मो हि कालवशादेव फलति न तत्कालमिति कृत्वा; एतच्च प्रथमाध्याय एव प्रपञ्चितम्||४०||

Adhikarana 35 (41) · Śloka 41

इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यवस्येत्||४१||

🔊 Audio coming soon

सम्प्रति कर्मासम्यग्योगः प्रज्ञापराधमूलत्वात् प्रज्ञापराध एवोच्यत इति त्रिविधमित्यादिना दर्शयन्, यदुक्तं पूर्वं हेतुत्रयकथने “असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च” इत्यस्याविरोधं दर्शयति; एवं यदग्रे वक्ष्यति ‘कालः पुनः परिणाम उच्यते’ तत्रापि पूर्वोक्ताविरोधोपदर्शनं व्याख्येयमिति| त्रिविधविकल्पमिहातियोगादिरूपम्||४१||

Adhikarana 36 (42) · Śloka 42

शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः| तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः (कालः) कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु (कालः) कालमिथ्यायोगः| कालः पुनः परिणाम उच्यते||४२||

🔊 Audio coming soon

कालातिशययोगादीन् दर्शयति- शीतोष्णेत्यादि| अतिमात्रस्वलक्षणः अतिमात्रशीतादिः| यथास्वलक्षणाच्छीतादेर्विपरीतलक्षणो यथा- हेमन्ते वर्षणं, वर्षासु शीतमित्यादि||४२||

Adhikarana 37 (43) · Śloka 43

इत्यसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति||४३||

🔊 Audio coming soon

आयतनान्युपसंहरति- इतीत्यादि| विकाराणां हेतवो भवन्तीति सम्बन्धः; तथा समयोगयुक्ताः सम्यग्योगयुक्ताः प्रकृतिहेतवो भवन्तीति योज्यं; प्रकृतिः आरोग्यम्||४३||

Adhikarana 38 (44) · Śloka 44

सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभावौ||४४||

🔊 Audio coming soon

इदानीं धातुसाम्यवैषम्यहेतुत्वेन सम्यग्योगायोगौ च प्रतिपाद्य बाह्यानामपि वृक्षघटादीनां सम्यक्स्थितिविनाशयोः सम्यग्योगायोगावेव कारणमिति दृष्टान्तार्थं भावस्वरूपज्ञानार्थं चाह- सर्वेषामित्यादि| भावः सम्यगवस्थानम्, अभावः, असम्यगवस्थानं विनाशो वा; योगात् सम्यग्योगाद्भावः, अयोगादिभ्योऽभावः; यथास्वं युक्तिर्या यस्य भावस्याभावस्य वा युक्तिः स्वकारणयुक्तिः, तदपेक्षिणौ भवत इति सम्बन्धः| यथा- वृक्षस्य भावे अवस्थानेऽनत्यल्पपानीययोगादिर्युक्तिः, अभावे तु वृक्षस्य पानीयातपातियोगायोगौ तथा वज्रपातादिर्युक्तिः; ततस्तदपेक्षौ वृक्षस्य भावाभावौ भवत इत्यादि कल्पनीयम्||४४||

Adhikarana 39 (45) · Śloka 45

त्रयो रोगा इति- निजागन्तुमानसाः| तत्र निजः शारीरदोषसमुत्थः, आगन्तुर्भूतविषवाय्वग्निसम्प्रहारादिसमुत्थः, मानसः पुनरिष्टस्य लाभाल्लाभाच्चानिष्टस्योपजायते||४५||

🔊 Audio coming soon

रोगानाह- त्रयो रोगा इत्यादि| इष्टलाभाज्जायते कामहर्षादिः, अनिष्टप्रियवियोगादिलाभाच्च शोकादयः; यदि वा ‘इष्टस्यालाभाल्लाभाच्चानिष्टस्य’ इति पाठः; अत्र तु पाठे चकारादिष्टलाभोऽपि हेतुर्बोद्धव्यः||४५||

Adhikarana 40 (46) · Śloka 46

तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं, न ह्यन्तरेण लोके त्रयमेतन्मानसं किञ्चिन्निष्पद्यते सुखं वा दुःखं वा; तस्मादेतच्चानुष्ठेयं- तद्विद्यानां चोपसेवने प्रयतितव्यम्, आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति||४६||

🔊 Audio coming soon

सम्प्रति मानसव्याधिचिकित्साया अल्पवक्तव्यत्वेनेहैव तच्चिकित्सामाह- तत्रेत्यादि| मानसव्याधिपरीतेनापीति अपिशब्देन शारीरव्याधियुक्तेनापि वक्ष्यमाणमनुष्ठेयमिति सूचयति| त्रयमेतद्धर्मार्थकामरूपं मानसं सुखं वा मानसं दुःखं वा निष्पद्यत इति योज्यम्| तद्विद्य इह मानसव्याधिभेषजवेदी| आत्मदेशेत्यादि|- कोऽहं, किं मे हितमित्यात्मज्ञानं; को देशः, अस्मिन् किमुचितमिति देशज्ञानम्; एवं कालादावपि ज्ञानं बोद्धव्यम्||४६||

Adhikarana 41 (47) · Śloka 47

भवति चात्र- मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्| तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वशः||४७||

🔊 Audio coming soon

सम्प्रत्यमुमेवार्थं सुखग्रहणार्थं श्लोकेनाह- मानसं प्रतीत्यादि|- मानसं विकारमिति भावः| त्रिवर्गस्य धर्मादेः||४७||

Adhikarana 42 (48) · Śloka 48

त्रयो रोगमार्गा इति- शाखा, मर्मास्थिसन्धयः, कोष्ठश्च| तत्र शाखा रक्तादयो धातवस्त्वक् च, स बाह्यो रोगमार्गः; मर्माणि पुनर्बस्तिहृदयमूर्धादीनि, अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः , स मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, स रोगमार्ग आभ्यन्तरः||४८||

🔊 Audio coming soon

अत्र रोगमार्गानाह - त्रय इत्यादि| मर्मास्थिसन्धिभ्यामेको मार्गः| अत्र शाखेतिसञ्ज्ञाकरणं व्यवहारार्थं, तथा रक्तादीनां धातूनां शाखाभिधेयानां वृक्षशाखातुल्यत्वेन बाह्यत्वज्ञापनार्थम्| त्वक्चेति त्वक्शब्देन तदाश्रयो रसोऽपि गृह्यते; साक्षात्तु रसानभिधानं हृदयस्थायिनो रसस्य शाखासञ्ज्ञाव्यवच्छेदार्थं , तस्य हि कोष्ठग्रहणेनैव ग्रहणम्; अनेन न्यायेन यकृत्प्लीहाश्रितं च शोणितं कोष्ठत्वेनैवाभिप्रेतमिति बोद्धव्यं, समानन्यायत्वात् | उक्तं च कोष्ठविवरणे- “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुफ्फुसश्च कोष्ठ इत्यभिधीयते” (सु.चि. अ.२) इति| अस्थिसन्धिविवरणम्- अस्थिसंयोगा इत्यादि| तत्रेति अस्थिसन्धौ| कण्डरा इह तन्त्रे स्थूलस्नायुः| आमस्य पक्वस्य चाशय आमपक्वाशयः| एतच्च मार्गभेदकथनं तदाश्रितव्याधीनां सुखसाध्यत्वादिज्ञानार्थम्||४८||

Adhikarana 43 (49) · Śloka 49

तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः||४९||

🔊 Audio coming soon

सम्प्रति यन्मार्गाश्रितो यो रोगो भवति तं दर्शयति- तत्र गण्डेत्यादि| बहिर्मार्गजाश्चेति विसर्पादीनां विशेषणं विसर्पादयो ह्यन्तर्मार्गभाजोऽपि सम्भवन्त्यतस्तद्व्युदासार्थम्| पक्षशब्दो वधग्रहाभ्यां सम्बध्यते, शोषो धातुशोषः| ज्वरो यद्यपि सर्वशरीरग एव, तथाऽपि विशेषेणामाशयसमुत्थत्वादिहोच्यते| अन्तर्मार्गजाश्चेति विसर्पादिविशेषणम्| अर्शो बहिर्वल्याश्रितं शाखागतम्, अन्यच्च कोष्ठगतम्| बहिर्मार्गजो गुल्मो यो बहिरुत्तुण्डित उपलभ्यते बहिश्च पच्यते स ज्ञेयः, अन्यस्तु सर्वः कोष्ठगत एव||४९||

Adhikarana 44 (50-53) · Śloka 53

त्रिविधा भिषज इति- भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः| सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि||५०|| वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः| लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः||५१|| श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः| वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः||५२|| प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः| जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति||५३||

🔊 Audio coming soon

भिषक्छद्मचरा भिषग्वेशचराः| सिद्धेन प्रसिद्धेन साधिताः सिद्धसाधिताः| वैद्यभाण्डं बस्तिनेत्रादि| प्रतिरूपका वैद्यसदृशाः| व्यपदेशः अन्यसम्बन्धेन कीर्तनम्| अतद्विधा ज्ञानहीनाः||५०-५३||

Adhikarana 45 (54) · Śloka 54

त्रिविधमौषधमिति- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च| तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः||५४||

🔊 Audio coming soon

दैवमदृष्टं तद्व्यपाश्रयं, तच्च यददृष्टजननेन व्याधिप्रत्यनीकं मन्त्रादि; यदि वा दैवशब्देन देवा उच्यन्ते, तानाश्रित्य यदुपकरोति तत्तथा; मन्त्रादयो हि देवप्रभावादेव व्याधिहराः, बल्युपहारादिप्रीताश्च देवा एव प्रभावाद्व्याधीन् घ्नन्ति| अत्र दैवव्यपाश्रयमादावुक्तमाशुव्याधिहरत्वेन| प्रणिपातो देवादीनां शारीरो नमस्कारः, गमनं विदूरदेवादिगमनम्||५४||

Adhikarana 46 (55) · Śloka 55

शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति- अन्तःपरिमार्जनं, बहिःपरिमार्जनं, शस्त्रप्रणिधानं चेति| तत्रान्तःपरिमार्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि, यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति||५५||

🔊 Audio coming soon

सम्प्रति प्रकारान्तरेणोपयुक्तं भेषजत्रैविध्यमाह- शरीरेत्यादि| प्रायःशब्दः शरीरदोषकोप इत्यनेन सम्बध्यते; तेन, मानसदोषजेऽप्युन्मादापस्मारादावञ्जनादि भवतीति दर्शयति; यदि वा प्रायस्त्रिविधमित्यनेन शारीरेऽपि दैवव्यपाश्रयं स्वस्त्ययनादि दर्शयति||५५||

Adhikarana 47 (56-63) · Śloka 63

भवन्ति चात्र- प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा| कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा||५६|| बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते| उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः||५७|| अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते| स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः||५८|| न मूढो लभते सञ्ज्ञां तावद्यावन्न पीड्यते| पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे||५९|| अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते| सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति||६०|| तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्| कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्||६१|| स त्रातारमनासाद्य बालस्त्यजति जीवितम्| गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा||६२|| तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा| भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः||६३||

🔊 Audio coming soon

वैद्यभेदाभिधानप्रसङ्गेनातुरभेदमाह- प्राज्ञ इत्यादि| शर्म सुखमारोग्यमिति यावत्| प्रमादः बुद्ध्वाऽपि रोगमप्रतीकारः| सञ्ज्ञा सम्यग्ज्ञानं व्याधिरयं त्वरया प्रतिकर्तव्य एवमाकारम्| त्रातारं वैद्यमनासाद्य; तथाविधं हि रोगिणं वैद्यो नोपसर्पतीति भावः| बालः अज्ञः| गोधादृष्टान्तेन जीवनार्थं यत्नं कुर्वन्नपि विपद्यत इति दर्शयति| प्रतिकुर्वीत ‘यत्नम्’ इति शेषः||५६-६३||

Adhikarana 48 (64-65) · Śloka 65

तत्र श्लोकौ- एषणाः समुपस्तम्भा बलं कारणमामयाः| तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च||६४|| त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता| भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्||६५||

🔊 Audio coming soon

सङ्ग्रहे धीमता भावा इति छेदः; अष्टौ भावा इति सम्बन्धः| भावेषु विषयेषु| असक्तेन अप्रसक्तेन| येषु एषणादिष्वष्टसु| सर्वमिति धर्मार्थकामाः||६४-६५||

Adhikarana puShpikA · Śloka 11

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः||११||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के तिस्रैषणीयो नामैकादशोऽध्यायः||११||