Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. mātrāśitīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

द्वितयमिह शास्त्रप्रयोजनं यदातुरव्याधिहरणं स्वस्थस्य स्वास्थ्यरक्षणं च; यदाह- स्वस्थातुरपरायणम् (सू.अ.१) इति; तेनोत्पन्नव्याधिप्रतीकारद्वाराऽऽतुररक्षणं भेषजचतुष्कमभिधाय स्वस्थचतुष्कोऽभिधातव्यः; तत्रापि स्वास्थ्यपरिपालनहेतुषु मात्रावदन्नं प्रधानं; यदाह- प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च (सु.सू.अ.१) इति; तच्चेह मात्रावदन्नं विधीयत इत्यादौ मात्राशितीय एवाभिधीयते| मात्राशितमधिकृत्य कृत्योऽध्यायो मात्राशितीयः| यद्यप्यध्यायादौ ‘मात्राशी’ इति पदमनुश्रूयते, तथाऽपि ‘मात्राशीयः’ इति सञ्ज्ञाप्रणयने कष्टोच्चारणभयात्तदर्थपरपर्यायशब्देनेयं सञ्ज्ञा कृता; यथा “नवेगान्धारणीय” (सू.अ.७) इत्यादिका सञ्ज्ञा||१-२||

Adhikarana 2 (3) · Śloka 3

मात्राशी स्यात्| आहारमात्रा पुनरग्निबलापेक्षिणी||३||

🔊 Audio coming soon

मात्रां मात्रावदन्नमशितुं भोक्तुं शीलं यस्यासौ मात्राशी, यदि वा मात्रयाऽशितुं भोक्तुं शीलं यस्य स तथा| तत्रेह मात्रा अनपायिपरिमाणम्| अशिरयमिहाविशेषेण खाद्यप्राश्यलेह्यपेयानामभ्यवहारे वर्तते| तेन मात्राशी स्यादित्युक्तं खाद्यप्राश्यलेह्यपेयानां मात्रयाऽभ्यवहरणं नोक्तमिति यच्चोच्यते, तन्निरस्तं भवति| दृष्टश्चायमशिः खाद्याद्यभ्यवहारे; यथा- दशमूलहरीतक्यां- “एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्” (चि.अ.१२); तथा- “क्षीराशी तत् प्रयोजयेत्” (चि.अ.१) इति| इतश्चावगन्तव्यमशिरयं सर्वाभ्यवहारे वर्तते, येनैतद्विवरणं सामान्येनैव कृतम्- आहारमात्रा पुनरिति, न पुनरशितमात्रा पुनरिति| मात्रां व्याकरोति- आहारेत्यादि| अग्नेर्बलमुत्कृष्टं मध्यमल्पं वाऽपेक्ष्योत्कृष्टा मध्याऽल्पा वा मात्रा भवतीत्यग्निबलापेक्षिणी| पुनःशब्दो भेषजादिमात्रां व्यायाममात्रां च व्यावर्तयति; तेन न सर्वमात्राऽग्निबलापेक्षिणी; यतो भेषजमात्रा व्याध्यातुरबलापेक्षिणी वक्तव्या, व्यायामस्य तु दोषक्षयाग्निवृद्ध्याद्युत्पादश्रमक्लमाद्यनुत्पादापेक्षिणी, व्यवस्थापयितव्या| यदि वा पुनःशब्दः पौनःपुन्ये, तेनाहारमात्रा पुनः पुनरग्निबलमपेक्षते| एतदुक्तं भवति- यदेकस्मिन् पुरुषे एकदा याऽग्निबलेन व्यवस्थापिता मात्रा सा न सर्वकालं भवति, यत ऋतुभेदेन वयोभेदेन च तस्यैवाग्निः कदाचिद्विवृद्धो भवति, यथा- हेमन्ते यौवने च, कदाचिन्मन्दो भवति, यथा- वर्षासु वार्धक्ये च; तेनाग्निबलभेदान्मात्राऽप्येकरूपा न भवति, किन्तु तत्कालभवमग्निबलमपेक्ष्य पुनः पुनर्मात्राऽपि भिद्यत इति||३||

Adhikarana 3 (4) · Śloka 4

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति||४||

🔊 Audio coming soon

अग्निबलापेक्षित्वमेव विवृणोति- यावद्धीत्यादि| यावदिति यावत्परिमाणम्| हिशब्दो हेतौ| अस्येति भोक्तुः| अशनं चतुर्विधमपि भोज्यम्| अशितं भुक्तम्| प्रकृतिं वातादीनां रसादीनां च साम्यावस्थाम्| अनुपहत्य विकारमकृत्वेत्यर्थः| यथाकालमिति निशाशेषे| तावदिति पूर्वप्रमाणावच्छिन्नमशनं प्रत्यवमृशति| द्वितीयमस्येति ग्रहणमन्यत्र प्रतिषेधार्थम्| तेन यस्यैव यावती मात्रा निर्विकारा, तस्यैव सा मन्तव्या नान्येषां, प्रतिपुरुषमग्निबलस्य भिन्नत्वात्| यद्यपि चैकस्मिन्नपि पुरुषे कालादिभेदेनाग्निबलभेदो भवति, तथाऽप्येकपुरुष एकमात्रामवधार्य कियन्तमपि कालं तयैव मात्रया अग्निबलभेदहेत्वभावे सति व्यवहारो भवत्येव| मात्राप्रमाणं मात्रेयत्ता; मात्राप्रमाणशब्देन चेह मात्राप्रमाणवदिति बोद्धव्यम्; अन्यथा, तावच्छब्देनावच्छिन्नाशनवाचिना मात्राप्रमाणशब्दस्य गुणवाचिनः सामानाधिकरण्यं न स्यात्| ननु, प्रकृतिमनुपहत्येति न कर्तव्यं विशेषणं, न ह्याहारो यो यथाकालं जरां याति स मात्रादोषाद्विकारं करोति, करोति तु द्रव्यस्वभावसंस्कारादिदोषात्; यथा मन्दकलकुचादयो यथाकालं जरां गच्छन्तोऽपि दोषजनका भवन्त्येव; न तावताऽपि तत्र मात्रा दुष्यति, यथा वक्ष्यति त्रिविधकुक्षीये- “न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां भिन्नफलत्वात्” (वि.अ.२) इति| नैवं, द्विविधा हि मात्रा रसविमाने वक्तव्या- सर्वग्रहरूपा, परिग्रहरूपा च; तत्र समुदितस्याहारस्य परिमाणं सर्वग्रहः, मधुराम्लादीनामाहारावयवानां प्रत्येकं मात्रया ग्रहणं परिग्रहः; तेन यत्राहारसमुदायपरिमाणं समुचितमेव गृह्यते, आहारावयवानां तु मधुरादीनां स्वभावहितानामप्ययथोक्तमानं स्यात्, तत्राहारावयवमात्रावैषम्याद्धातुवैषम्यं भवत्येव, अयथाकालं जरागमनं च स्यात्; तदुक्तं- प्रकृतिमनुपहत्येति विशेषणम्| अन्ये तु व्याख्यानयन्ति- ‘अस्य’ इति, ‘अशनम्’ इति, अशितम् इति च पदत्रयं प्रकरणादेव लभ्यते; यत् पुनः क्रियते तद्विशेषप्रतिपादनार्थम्| तेन, अस्येत्यनेन परीक्षको भोक्ताऽधिक्रियते, अशनमित्यनेन च प्रशस्तमशनं प्रकृतिकरणसंयोगदेशकालाविरुद्धमुच्यते, अशितमित्यनेन च यथाविधिभोजनमुच्यते; तदेवं सर्वगुणसम्पन्न आहारो मात्रावानुच्यते||४||

Adhikarana 4 (5) · Śloka 5

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति| तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते||५||

🔊 Audio coming soon

मात्रालक्षणमुपदिश्य व्यवहारोपयोगिनं द्रव्यभेदेन मात्राभेदं दर्शयति- तत्र शालीत्यादि| तत्र लघुवर्ग एव प्रथमं पठ्यते, पथ्यतमत्वात्; तत्राप्यादौ रक्तशालिराहारद्रव्यप्रधानत्वात्| कपिञ्जलो गौरतित्तिरिः, एणः कृष्णसारः, शरभो महाशृङ्गी हरिणः, शम्बरस्तद्विशेषः| अन्नपानविधौ “शीतः स्निग्धोऽगुरुः स्वादुः” (सू.अ.२७) इति षष्टिकगुणकथने “अगुरुः” इत्यकारप्रश्लेषो द्रष्टव्यः, तेनेह षष्टिकस्य लघुत्वप्रतिपादनं न विरुध्यते| अपि समुच्चये, तेन प्रकृतिलघूनि करणलघूनि च लाजादीनि मात्रापेक्षीणि भवन्तीति लभ्यते| एवं प्रकृतिगुरूण्यपीत्यत्रापि संस्कारगुरुशक्तुपिण्डादिग्रहणं वाच्यम्| आदिशब्दोऽत्र प्रकारवाची, शालिषष्टिकादिगणाभावात्| विकृतिशब्दः पिष्टेक्षुक्षीरैः सम्बध्यते, क्षीरविकृतिः क्षीरकृता भक्ष्याः; पिशितमानूपौदकाभ्यां सम्बध्यते||५||

Adhikarana 5 (6) · Śloka 6

न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानीतराणि, तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यात्, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्; सैषा भवत्यग्निबलापेक्षिणी मात्रा||६||

🔊 Audio coming soon

ननु, यदि लघु हितमपि स्वगुणकरणे मात्रामपेक्षते, गुरु चाहितमपि मात्रापरिगृहीतं हितमेव स्यात्, तत् किं गौरवलाघवोपदेशेनेत्याशङ्क्याह- न चैवमित्यादि| लघूनि यद्यप्याकाशवाय्वग्निगुणबहुलानि भवन्ति, तथाऽप्याकाशस्याग्निदीपनं प्रति तथाविधसामर्थ्याभावात् वाय्वग्न्योस्त्वग्निदीपकत्वाद् वाय्वग्निगुणबहुलानीत्युक्तम्| तस्मात् कारणाल्लघूनि मात्रया तावदग्निं दीपयन्ति; स्वगुणादपि वाय्वग्निगुणबाहुल्यादग्निसन्धुक्षणस्वभावानि स्युः| मात्राव्यतिक्रमे समानेऽपि लघुगुरुद्रव्ययोर्लघुद्रव्यस्य विशेषं दर्शयति- अल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि; सौहित्यं मात्रातिक्रमेण तृप्तिः| गुरूणीत्यादौ पुनःशब्दो व्यावृत्त्यर्थः| असामान्यादिति विरोधार्थे नञ्, असितमिति यथा; तेनासामान्यादिति अग्निविरुद्धपृथ्वीतोयगुणबाहुल्यादित्यर्थः| ‘अन्यसामान्यात्’ इतिपाठपक्षेऽप्यन्यशब्दो विरुद्धवचन एव, तेन तथाऽपि स एवार्थः| अतश्चेत्यादिना मात्राव्यतिक्रमे गुरौ गरीयांसं दोषं दर्शयति| ननु, दृश्यन्ते केचन भारिकादयः पुरुषा सौहित्योपयुक्तगुरुद्रव्याहारेऽपि निर्दोषाः, तत् किमुच्यतेऽतिमात्रं दोषवन्तीत्याशङ्क्याह- अन्यत्रेत्यादि| व्यायामकृतमग्निबलं व्यायामाग्निबलम्| यद्यपि कालाहितबलोऽग्निर्मात्राऽधिकगुरुद्रव्यक्षमो भवति, यदुक्तं- “पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः” (सू.अ.६) इति, तथाऽपि व्यायामाहितबलो वह्निर्नितरां बलवान् भवतीत्ययमेव प्रधानपरिग्रहादुक्तः| ये तु व्यायामादिति चाग्निबलादिति हेतुद्वयं वर्णयन्ति, तेषामेवं सति व्यायामापेक्षिण्यशनमात्रा स्यादिति प्रकरणविरुद्धोऽर्थः स्यात्| प्रतिज्ञातमर्थं न्यायसम्पादितमुपसंहरति- सैषेत्यादि| सेति अग्निबलापेक्षिणी प्रतिज्ञाता मात्रा, एषेति न्यायेनाग्न्यपेक्षित्वेन निर्वाहिता||६||

Adhikarana 6 (7) · Śloka 7

न च नापेक्षते द्रव्यं; द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते, लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम्||७||

🔊 Audio coming soon

ननु, यद्यप्यग्निबलापेक्षिणी मात्रा, तत् कस्मादेकरूप एवाग्नौ लघूनां द्रव्याणां भूयसी मात्रा भवति, गुरूणां ततस्त्रिभागोचिता अर्धा वेत्याह- न चेत्यादि| द्रव्यमपेक्षत इत्यर्थः| त्रिभागसौहित्यं मनाग्गुरुभिः| एवं गौरवप्रकर्षापकर्षादन्यदपि कल्पनीयम्| लघूनामपि नातिसौहित्यमित्यत्र सौहित्यशब्दस्तृप्तिमात्रे वर्तते, तेन लघूनि तृप्त्यतिक्रमेण न भोक्तव्यानि, एवं हि तेषां मात्रातिक्रमो न स्यात् | अग्नेर्युक्तिः स्वमानावस्थितिः, तदर्थम्| ननु, गुरूणां तावदतिमात्रोपयोगोऽग्निपरिपालनार्थं निषिध्यतां, येन गुरूण्यग्न्यसमानानि; लघूनि पुनरग्निसमानानि, तत्तेषां कथमतिमात्रोपयोगो वह्निमान्द्यमावहतीति? ब्रूमः- लघूनां द्रव्याणां सामान्यमभिभूयातिमात्रत्वमेवाग्निमान्द्यं करोति, यथा- चक्षुस्तैजसं, तेजःसहकृतं च पश्यति, तदेव तेजोतियोगादुपहन्यते; तथा शस्त्रमश्मसम्भवम्, अश्मयोगाच्च तीक्ष्णं सम्पद्यते, अश्मन्येव च मिथ्यायोगात् प्रतिहतं भवति; तदुक्तं शालाक्ये- यत्तेजो ज्योतिषां दीप्तं शारीरं प्राणिनां च यत्| संयुक्तं तेजसा तेजस्तद्धि रूपाणि पश्यति|| तदेव चक्षुस्तान्येव ज्योतींष्यति तु पश्यतः| विकारं भजतेऽत्यर्थमथवाऽपि विनश्यति|| शस्त्रस्याश्मा यथा योनिर्निशितं च तदश्मनि| तीक्ष्णं भवत्यतियोगात्तत्रैव प्रतिहन्यते इति||७||

Adhikarana 7 (8) · Śloka 8

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति||८||

🔊 Audio coming soon

एवं तावद्व्युत्पादिताऽग्निबलद्रव्यापेक्षिणी मात्रा, मात्रान्वितं च भोज्यं भोक्तव्यमित्युक्तं, मात्राशितत्वे को गुण इत्याह- मात्रावद्धीत्यादि| इहावश्यमिति नियमो विरोधिकारणान्तराभावे सति बोद्धव्यः; यतो यद्यपि पूर्ववदशनाशितोपयोक्तृपदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणादिगुणसम्पन्नमन्नं लभ्यते, तथाऽपि कालविपर्ययप्रज्ञापराधासात्म्यशब्दस्पर्शरूपरसगन्धाः सन्त्येवाहारजन्यबलादिविरोधकाः; यदाह- “सन्ति ह्यृतेऽप्यहिताहारादन्या रोगप्रकृतयः” (सू.अ.२८) इति; तेन मात्रापरिगृहीताः शुभा अपि प्रकृत्यादयः प्रायो बलादिहेतवो भवन्तीति मात्रावदाहारस्तुत्यर्थमवश्यमिति कृतम्| सुखयुक्तमायुः सुखायुः, यदि वा सुखं चायुश्चेति मन्तव्यं; स्वरूपेणापि चायुर्मृग्यमिति प्राक् प्रतिपादितमेव||८||

Adhikarana 8 (9) · Śloka 9

भवन्ति चात्र- गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि| न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः||९||

🔊 Audio coming soon

भवन्ति चात्रेति| तन्त्रकारस्य समयोऽयं- यत् पूर्वव्याख्यातार्थसङ्ग्रहार्थं यदा श्लोकेन वक्तुमारभते तदा ‘भवति चात्र’ इति करोति| पिष्टमयं पिष्टविकारः| तस्मादिति गुरुत्वात्| पृथुकाः ‘चिप्पिटा’ इति लोकप्रसिद्धाः| न जातु न कदाचित्| मात्रां खादेदिति अनपायिपरिमाणवन्तं खादेत्||९||

Adhikarana 9 (10-11) · Śloka 11

वल्लूरं शुष्कशाकानि शालूकानि बिसानि च| नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्||१०|| कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे| मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत्||११||

🔊 Audio coming soon

वल्लूरं शुष्कमांसम्| नाभ्यसेन्न निरन्तरमुपयुञ्ज्यात्| अनभ्यासहेतुमाह- गौरवादिति| मांसं कृशम् अपुष्टं रोगादुपरतमृगादिसम्भवमित्यर्थः | एतच्चापथ्यत्वादेव निषिद्धं, न गौरवादिति ब्रुवते| कूर्चिकः क्षीरेण समं दधि तक्रं वा पक्वं; किलाटः कूर्चिकपिण्डः, नष्टक्षीरस्य घनो भाग इत्यन्ये| शौकरमिति शूकरमांसं, शौकरसाहचर्याद्गव्यमाहिषे अपि मांसे एव बोद्धव्ये| यवकः शूकधान्यविशेषः| वक्ष्यति हि- “यवकः शूकधान्यानामपथ्यतमत्वे प्रकृष्टतमो भवति” (सू.अ.२५) इति||१०-११||

Adhikarana 10 (12) · Śloka 12

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्| आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्||१२||

🔊 Audio coming soon

अभ्यस्यान् दर्शयति- षष्टिकानित्यादि| इह षष्टिक आदौ पठ्यते रक्तशालिमनु प्रधानत्वख्यापनार्थम्| आन्तरीक्षमिति आन्तरीक्षं पानीयम्| पयः क्षीरम्| जाङ्गलमिति जाङ्गलदेशभवं मृगादिमांसम्| इह सैन्धवाभ्यासोऽन्नसंस्कारत्वेन मात्रयाऽभिप्रेतः; तेन, “त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पल्यो लवणं क्षारः” (वि.अ.१) इति यद्वक्ष्यति तेन समं विरोधो न भवति, तत्र लवणातियोगस्य प्रतिषिद्धत्वात्||१२||

Adhikarana 11 (13) · Śloka 13

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते| अजातानां विकाराणामनुत्पत्तिकरं च यत्||१३||

🔊 Audio coming soon

मात्राशीत्यादिना स्वास्थ्यपरिपालनोपाय उच्यते, अतिबहु च स्वस्थपरिपालनं तन्त्रे वक्तव्यं, तच्चेहाभिधीयमानं ग्रन्थगौरवमावहति, अनभिधीयमानं च ग्रन्थस्य न्यूनतामापादयति; अतस्तत्सूत्रमात्रेणोद्देष्टुमाह- तच्चेत्यादि| सुष्ठु निर्विकारत्वेनावतिष्ठत इति स्वस्थः, तस्य भावः स्वास्थ्यम्; उद्वेजकधातुवैषम्य विरहितधातुसाम्यमित्यर्थः| तच्च स्वास्थ्यमुभयथा परिपाल्यते विशुद्धाहाराचाराभ्यां सदा क्षीयमाणशरीरपोषणेन, प्रत्यवायहेतुपरिहारेण च; यथा- दीपपरिपालनं स्नेहवर्तिदानात् पोषणेन क्रियते, तथा शलभवातादिनिर्वापकहेतुपरिहारेण च| शरीरप्रत्यवायहेतुश्च द्विविधः- बुद्धिदोषाद्विषमशरीरन्यासादिर्वातादिकारकः, दुष्परिहरश्च कालविशेषः स्वभावादिह हेमन्तादिः कफचयादिकारकः| तत्र श्लोकपूर्वार्धेन स्वास्थ्यपोषकहेतुमाह, उत्तरार्धेन तु अजातानामित्यादिना स्वास्थ्यविघातकहेतुपरिहारमाह| यद्यपि चाजातानां विकाराणामनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमाने च करोत्यर्थो मुख्यो नास्ति, तथाऽपीदमेवाजातविकाराणामनुत्पत्तिकरणं यत्तद्विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेषजनितदोषहरणं , यथा वक्ष्यति- “माधवप्रथमे मासि नभस्यप्रथमे पुनः| सहस्यप्रथमे चैव वाहयेद्दोषसञ्चयम् ” (सू.अ.७) इति; तथा हेत्वन्तरनिरपेक्षोत्पद्यमानचक्षुःश्लेष्महरणार्थमञ्जनम्; एवमादि||१३||

Adhikarana 12 (14) · Śloka 14

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्| स्वस्थवृत्तिमभिप्रेत्य गुणतः सम्प्रवक्ष्यते||१४||

🔊 Audio coming soon

अत ऊर्ध्वमित्यादि| अतः स्वास्थ्यानुवृत्तिकारणकथनादूर्ध्वं, कार्यम् अवश्यकार्यं, स्वस्थवृत्तिमभिप्रेत्य स्वस्थवृत्तानुष्ठाने, अक्ष्यञ्जनाद्यवश्यं कार्यमित्यर्थः; अञ्जनशब्दोऽभ्यञ्जनेऽपि वर्तते, तदर्थमक्ष्यञ्जनमित्युक्तम्| अञ्जनमेवादावुपाहितं प्रधानावयवचक्षुःपरिपालकत्वात्| उक्तं च- “चक्षुः प्रधानं सर्वेषामिन्द्रियाणां विदुर्बुधाः| घननीहारयुक्तानां ज्योतिषामिव भास्करः” इति| यदि वा स्वस्थवृत्तमधिकृत्य यदञ्जनादि, तदुच्यते; रोगेषु तु यदञ्जनादि, तद्रोगचिकित्सासु वक्तव्यम्| यद्यपि चैतदञ्जनादि रोगहरमपि वक्तव्यं, तथाऽपि प्रायः स्वस्थवृत्तमतमेतदिति स्वस्थवृत्तमभिप्रेत्येत्युक्तम्||१४||

Adhikarana 13 (15) · Śloka 15

सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्| पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्||१५||

🔊 Audio coming soon

सौवीरमित्यादि| सुवीरानदीभवं सौवीरम्| नित्यं प्रत्यहम्| अक्ष्णोरिति द्विवचनमक्षिगोलकद्वयेऽप्यञ्जनविधानार्थम्| पञ्चरात्राष्टरात्रग्रहणमदूरान्तरकाले नियमदर्शनार्थम्| तेन दोषकालमपेक्ष्यार्वाङ्मध्ये ऊर्ध्वं च कर्तव्यं स्रावणमञ्जनमिति भवति||१५||

Adhikarana 14 (16-17) · Śloka 18

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्| ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्||१६|| दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्| विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति||१७|| तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते|१८|

🔊 Audio coming soon

स्रावणाञ्जनप्रकरणोपपत्तिमाह- चक्षुरित्यादि| चक्षुरिन्द्रियस्य तैजसस्य श्लेष्मत आप्यात्तैजसविरुद्धत्वेन हेतुना, विशेषादिति वातापित्तभयादधिकत्वेन भयं भवति| श्लेष्मजये च स्रावणं प्रधानं, तस्मात् स्राव्यमित्यर्थः| स्रावणाञ्जनकालं नियमयति- निशायामित्यादि| ध्रुवमवश्यं निशायामेव, अञ्जनं प्रत्यासन्नत्वात् स्रावणाञ्जनम्| जतूकर्णेनापि स्रावणरसाञ्जनं निशायामेव विहितं; यदुक्तं- “सप्ताहाद्रसाञ्जनं नक्तम्” इति| शालाक्येऽप्युक्तं- “विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति | रात्रौ स्वप्नगुणाच्चाक्षि पुष्यत्यञ्जनकर्षि(र्शि)तम्” इति| सौवीराञ्जनं तु विरेचनं न भवति, चक्षुःप्रसादमात्रं करोति, तेन तद्दिवाक्रियमाणं न विरोधि| अन्ये तु व्याख्यानयन्ति- ध्रुवं नित्यकर्तव्यं सौवीराञ्जनं यत्तन्निशि कर्तव्यं, स्रावणाञ्जनं तु श्लेष्मोद्रेकविषये(यि) वमनवत् पूर्वाह्ण एव कर्तव्यम्||१६-१७||-

Adhikarana 15 (18-19) · Śloka 20

यथा हि कनकादीनां मलिनां विविधात्मनाम्||१८|| धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः| एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः||१९|| दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्|२०|

🔊 Audio coming soon

अञ्जनगुणमाह- यथा हीत्यादि| शुद्धिः स्वाभाविकी; साऽऽगन्तुधूल्याद्यपनयनेन निर्मला सति भाति| आश्च्योतनं नेत्रविरेकार्थं द्रवौषधदानं, तच्चेहानभिहितमपि फलैक्यादभिहितम्, आदिशब्देन पुटपाकादीनां ग्रहणम्||१८-१९||-

Adhikarana 16 (20-24) · Śloka 25

हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्||२०|| ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्| ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्||२१|| न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः| वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले||२२|| श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च| पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्||२३|| अङ्गुष्ठसम्मितां कुर्यादष्टाङ्गुलसमां भिषक्| शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः||२४|| स्नेहाक्तामग्निसम्प्लुष्टां पिबेत् प्रायोगिकीं सुखाम्|२५|

🔊 Audio coming soon

इहैवाञ्जनान्ते धूमपानं विधास्यति- “नावनाञ्जननिद्रान्ते” इत्यादिना; अतोऽञ्जनानन्तरं धूमोऽभिधीयते; उक्तं च शालाक्ये- “तीक्ष्णाञ्जनेनाञ्जितलोचनस्य यः सम्प्रदुष्टो न निरेति नेत्रात्| श्लेष्मा शिरःस्थः स तु पीतमात्रे धूमे प्रशान्तिं लभते क्षणेन” इति| हरेणुकामित्यादि| हरेणुका रेणुका| पृथ्वीका कृष्णजीरकम्| केशरं नागकेशरम्| पद्मकं पद्मकाष्ठम्| ध्यामकं गन्धतृणम्| न्यग्रोधादीनां प्लक्षान्तानां त्वचः, तासां विशेषणं शुभा इति| वन्यं कैवर्तमुस्तकम्| शुकबर्हं ग्रन्थिपर्णकम्| शरेषीका शरपुष्पस्य नाली ‘शरिका’ इति प्रसिद्धा| अत्र विधानं- पिष्टैर्भेषजैः शरिका तथा वेष्टयितव्या यथा अष्टाङ्गुलायता अङ्गुष्ठपरिणाहा च वर्तिः स्यात्, तस्यां च शुष्कायां सत्यां शरेषीकामाकृष्य स्नेहेनाभ्यज्याग्निनैकस्मिन्नग्रेऽवदह्य वक्ष्यमाणधूमपाननलिकायामग्ररन्ध्रे निवेश्यातो धूमः पेयः | प्रायोगिकी च नित्यपेयधूमवर्तिसञ्ज्ञा| सुखामित्यनेनाकटुकत्वमनत्ययत्वं च दर्शयति||२०-२४||-

Adhikarana 17 (25) · Śloka 26

वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः||२५|| वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्|२६|

🔊 Audio coming soon

स्नैहिकधूमवर्तिमाह- वसेत्यादि| मधूच्छिष्टं सिक्थकम्| वरौषधैरिति मधुरकविशेषणं; मधुरकाणि जीवनीयानि जीवकर्षभकादीनि| युक्तियुक्तैरित्यनेन तथा वसादिग्रहणं कर्तव्यं, यथा वर्तिः कर्तुं पार्यत इति दर्शयति| वर्तिकरणं च पूर्ववत्| स्नैहिकी स्नेहनकारिका||२५||-

Adhikarana 18 (26) · Śloka 27

श्वेता ज्योतिष्मती चैव हरितालं मनःशिला||२६|| गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने |२७|

🔊 Audio coming soon

वैरेचनिकधूमपानवर्तिं दर्शयति- श्वेतेत्यादि| श्वेता अपराजिता| गन्धाः सुगन्धद्रव्याणि, तेषां विशेषणमगुरुपत्राद्याः, अगुरु च पत्राद्याश्च अगुरुपत्राद्याः; अगुरुपत्राद्याश्च ज्वरे वक्ष्यमाणः “अगुरुकुष्ठतगरपत्र” (चि.अ.३) इत्यादिगणो मन्तव्यः| अगुर्वाद्या इति न कृतं, कुष्ठतगरयोरतितीक्ष्णत्वेन मस्तुलुङ्गकस्रावभयात् परिहारार्थम्| वक्ष्यति च त्रिमर्मीये- “धूमवर्तिं पिबेद्गन्धैरकुष्ठतगरैस्तथा” (सि.अ.९) इति, शालाक्येऽप्युक्तं- “नतकुष्ठे स्रावयतो धूमवर्तिप्रयोजिते| मस्तुलुङ्गं विशेषेण तस्मात्ते नैव योजयेत्” इति; सुश्रुतेऽप्युक्तं- “एलादिना तगरकुष्ठवर्ज्येन” (सू.चि.अ.४०) इति||२६||-

Adhikarana 19 (27-32) · Śloka 33

गौरवं शिरसः शूलं पीनसार्धावभेदकौ||२७|| कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः| दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः||२८|| पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः| हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे||२९|| श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका| खालित्यं पिञ्जरत्वं च केशानां पतनं तथा||३०|| क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता| धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम्||३१|| शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च| न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः||३२|| धूमवक्त्रकपानस्य व्याधयः स्युः शिरोगताः|३३|

🔊 Audio coming soon

धूमपानगुणान् दर्शयति- गौरवमित्यादि| शिरोरुहाः केशाः; कपालाश्च शिरस एव| बलिनोऽपीति बलवत्कारणा अपीत्यर्थः| ऊर्ध्वजत्रुजत्वेनैव शिरोगता अपि लब्धास्ते पुनरभिधीयन्ते विशेषविधानार्थम्||२७-३२||-

Adhikarana 20 (33-35) · Śloka 36

प्रयोगपाने तस्याष्टौ कालाः सम्परिकीर्तिताः||३३|| वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते| स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च| नावनाञ्जननिद्रान्ते चात्मवान् धूमपो भवेत्| तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः||३५|| रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः|३६|

🔊 Audio coming soon

धूमपानकालं दर्शयति- प्रयोगेत्यादि| प्रयोगपाने प्रायोगिकधूमपाने एतेऽष्टौ कालाः, स्नैहिकपाने तु वातवृद्ध्युपलक्षितः कालः, वैरेचनिकपाने तु श्लेष्मवृद्ध्युपलक्षितो मन्तव्यः| प्रायोगिक एव प्रायः स्वस्थवृत्ताधिकारे, तेन तत्काल एव कण्ठरवेणाभिधीयते; यदि वा प्रयोगपाने सततपाने स्वस्थाधिकार इति यावत्; तेन धूमत्रयस्याप्येते काला भवन्ति| वातकफात्मशब्देन वातात्मानः कफात्मानो वातकफात्मानश्च गृह्यन्ते| पेयाः स्युरित्यादावापाना धूमाभ्यवहारमोक्षाः; एकैकस्मिन् स्नानादिधूमपानकाले त्रिरिति आवृत्तित्रयं कर्तव्याः; ते चावृत्तित्रयेऽपि त्रिधा त्रिधा कर्तव्याः; एकैकस्मिन् धूमपानकाले नव धूमाभ्यवहारमोक्षाः कर्तव्याः; त्रींस्त्रीनभ्यवहारान् कृत्वा विश्रामोऽन्तरा कर्तव्य इत्यर्थः||३३-३५||-

Adhikarana 21 (36-37) · Śloka 38

परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान्||३६|| प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्| हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः||३७|| यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्|३८|

🔊 Audio coming soon

अष्टसु कालेष्वेकस्मिन्नेकस्मिन् दिवसे यस्मिन् धूमे यावान् यावान् पानकालनियमस्तं दर्शयति- परमित्यादि| कालेषु स्नात्वेत्यादिकालेषु| प्रयोगे प्रायोगिकधूमे| स्नैहिके त्वेकमिति स्नैहिकधूमे एकमेव कालं व्याप्य धूमं पिबेदिति योज्यम्| त्रिचतुरिति वैरेच्ये दोषबलापेक्षो विकल्पः||३६-३७||-

Adhikarana 22 (38-40) · Śloka 40

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्||३८|| अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्| तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्||३९|| स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि| शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्||४०||

🔊 Audio coming soon

बाधिर्येत्यादि| धूमज इत्यविधिप्रयुक्तधूमकृते यदि वायुः पित्तानुगो वृद्धस्तदा नावनाञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्तव्यं, शीतं शीतद्रव्यकृतं कर्तव्यं नावनाद्येव, विरूक्षणमपि नावनाद्येव||३८-४०||

Adhikarana 23 (41-45) · Śloka 46

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः| न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि||४१|| न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी| न श्रमे न मदे नामे न पित्ते न प्रजागरे||४२|| न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते| न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम्||४३|| धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च| न तालुशोषे तिमिरे शिरस्यभिहिते न च||४४|| न शङ्खके न रोहिण्यां न मेहे न मदात्यये| एषु धूममकालेषु मोहात् पिबति यो नरः||४५|| रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्|४६|

🔊 Audio coming soon

न विरिक्त इत्यादौ प्रतिनिषेध्यं नकारकरणं निषेधगौरवदर्शनार्थम्| धूमं न भुक्त्वेति पुनर्धूमग्रहणं दध्ना भुक्तवतो विशेषप्रतिषेधार्थम्||४१-४५||-

Adhikarana 24 (46-47) · Śloka 48

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये||४६|| घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्| आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत्||४७|| प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी|४८|

🔊 Audio coming soon

धूमयोग्य इत्यादौ घ्राणेनेति छेदः| प्रतिलोमं गत आस्यपीतो घ्राणं गत इत्यर्थः| हिशब्दद्वयं च हेतौ| तेनायमर्थः- यस्मात् प्रतिलोमं विमार्गं गतो धूमस्तस्माच्चक्षुषी हिंस्यात्, यस्माद्धिंस्यात् तस्माद् घ्राणेन नोद्वमेदिति||४६-४७||-

Adhikarana 25 (48) · Śloka 49

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्||४८|| पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्|४९|

🔊 Audio coming soon

सम्यगुपविष्टः सूपविष्टः| त्रिपर्ययमिति तु यद्यपि पूर्वमेवोक्तम् ‘आपानास्त्रिस्त्रयस्त्रयः’ इत्यनेन, तथाऽपि त्रिपर्ययधूमपानपर्यन्तमृज्वङ्गचक्षुरादि कर्तव्यं नोपक्रममात्र एवेति पुनरभिधानेन दर्शयति| नासिकयाऽपि रन्ध्रैकच्छिद्रं पिधाय पिबेन्न पुनर्नासिकयैव पिबेदिति नियमः||४८||-

Adhikarana 26 (49-50) · Śloka 51

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने||४९|| द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते| ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्||५०|| बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते|५१|

🔊 Audio coming soon

नेत्रं नलिका| चतुर्विंशतिकं चतुर्विंशत्यङ्गुलम्| अध्यर्धं सार्धमित्यर्थः; इह वैरेचनिकनेत्रमेव चतुर्विंशत्यङ्गुलप्रमाणं सार्धं सत् षट्त्रिंशदङ्गुलप्रमाणं प्रायोगिकधूमपाने; तत्तु जतूकर्णप्रत्ययाद्बोद्धव्यम्| यदाह- “सार्धस्त्र्यंशयुतः पूर्णो हस्तः प्रायोगिकादिषु” इति| त्रिकोषाफलितमिति त्रिभिः पर्वभिर्भिन्नैः समन्वितम्||४९-५०||-

Adhikarana 27 (51) · Śloka 52

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः||५१|| नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः|५२|

🔊 Audio coming soon

यथाभिहितनलिकया पाने गुणं दर्शयति- दूरादित्यादि||५१||-

Adhikarana 28 (52-55) · Śloka 56

यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||५२|| कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्| अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||५३|| स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्| तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते||५४|| तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्| शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||५५|| इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|५६|

🔊 Audio coming soon

केचिद्धूमसम्यक्पानादिलक्षणं ग्रन्थं पठन्ति| तत्र, यदा चोरश्चेत्यादि सम्यग्धूमपानलक्षणम्, अविशुद्ध इत्याद्ययोगलक्षणं, ताल्वित्याद्यतियोगलक्षणम्||५२-५५||-

Adhikarana 29 (56-62) · Śloka 63

वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||५६|| प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले| नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७|| न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते| न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||५८|| न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः| मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९|| पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति| सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०|| नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्| मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्||६१|| सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्| न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः||६२|| जीर्यतश्चोत्तमाङ्गेषु जरा न लभते बलम्|६३|

🔊 Audio coming soon

धूमनस्ययोर्नासाद्वारसामान्याद्धूममनु नस्यं ब्रूते- वर्ष इत्यादि| अणूनां स्रोतसां हितमित्यणुतैलं, तच्चाग्रे वक्ष्यमाणम्| शिरःकपालानामेव सिराः सन्धयः स्नायुकण्डराश्च| उत्तमाङ्गेष्विति बहुवचनं शिरसोऽभ्यर्हितत्वात्; यदि वा जरा वलीपलितादिलक्षणा या सा उत्तमा प्रकर्षप्राप्ताऽङ्गेषु मस्तकादिषु निषिध्यते||५६-६२||-

Adhikarana 30 (63-70) · Śloka 71

चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||६३|| प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्| ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||६४|| जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्| हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||६५|| विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि| तैलाद्दशगुणं शेषं कषायमवतारयेत्||६६|| तेन तैलं कषायेण दशकृत्वो विपाचयेत्| अथास्य दशमे पाके समांशं छागलं पयः||६७|| दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः| अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्||६८|| स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः| त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्||६९|| निवातोष्णसमाचारी हिताशी नियतेन्द्रियः| तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्||७०|| प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्|७१|

🔊 Audio coming soon

चन्दनेत्यादौ दार्व्यास्त्वक् दार्वीत्वक्, जीवन्ती सुवर्णनाला स्वनामप्रसिद्धा, सुरभी शूकशिम्बा, पद्मस्य केशरं पद्मकेशरम्| माहेन्द्रे आन्तरिक्षे| शतगुणे तैलादिति योज्यम्| दशगुणमित्येतदपि तैलादिति योजनीयम्| अत्र तु क्वाथ्यभेषजं तावन्मानं ग्राह्यं यावता क्वाथार्थोपात्तं पानीयं भेषजचतुर्गुणं भवति, “क्वाथ्याच्चतुर्गुणं वारि” इत्यस्याबाधितत्वात्, न तु भेषजाच्छतगुणेऽम्भसीत्येवं व्याख्येयं; यदाह जतूकर्णः- “पक्त्वाऽथाम्बुशतप्रस्थे दशभागस्थितेन तु| तैलप्रस्थं पचेत्तेन छागीक्षीरेण संयुतम्” इति| यदि वा, तैलप्रमाणानुमानेनैव “स्नेहाच्चतुर्गुणं क्वाथ्यं” इति परिभाषया क्वाथ्यद्रव्यपरिमाणं व्यवस्थापनीयम्| पिचुनेति तूलकपिण्डिकया| नावनैस्त्रिभिः वारत्रयेणेत्यर्थः| त्र्यहात्त्र्यहादिति एकैकं दिनमन्तरीकृत्य, सप्ताहमिति अन्तरितदिनानि वर्जयित्वा; तेनैकैकस्मिन् ऋतौ त्रयोदशाहान्नस्यप्रयोगः समाप्यते||६३-७०||-

Adhikarana 31 (71-75) · Śloka 76

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्||७१|| भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्| निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्||७२|| निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्| करञ्जकरवीरार्कमालतीककुभासनाः||७३|| शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः| सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च||७४|| जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च| जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च||७५|| दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्|७६|

🔊 Audio coming soon

स्थानप्रत्यासत्त्या दन्तकाष्ठगुणान् दर्शयति- आपोथितेत्यादि| द्विकालं सायं प्रातरिति| दन्तान् पुनातीति दन्तपवनं दन्तकाष्ठम्| निष्कृष्य मलमिति सम्बन्धः| ककुभः अर्जुनः| एवंविधा एवंरसा इत्यर्थः||७१-७५||-

Adhikarana 32 (76-77) · Śloka 77

धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता||७६|| जातीकटुकपूगानां लवङ्गस्य फलानि च| कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा| तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च||७७||

🔊 Audio coming soon

कटुकं लताकस्तूरी| यद्यपि लवङ्गस्य वृन्तमभिप्रेतं तथाऽपि बहूनां फलस्य ग्राह्यत्वाच्छत्रिणो गच्छन्तीति न्यायेन सामान्येन फलमित्युक्तम्||७६-७७||

Adhikarana 33 (78-89) · Śloka 89

हन्वोर्बलं स्वरबलं वदनोपचयः परः| स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा||७८|| न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्| न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||७९|| न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च| परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||८०|| नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते| न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||८१|| बलं शिरःकपालानां विशेषेणाभिवर्धते| दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||८२|| इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् | निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||८३|| न कर्णरोगा वातोत्था न मन्याहनुसङ्ग्रहः| नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||८४|| स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्| भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||८५|| तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते| प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||८६|| स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्| त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः||८७|| न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः| विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||८८|| सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः| भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च||८९||

🔊 Audio coming soon

हन्वोरित्यादि स्नेहगण्डूषगुणाः| नित्यमित्यादि निषेवणादित्यन्तं शिरस्तैलगुणाः| मूर्ध्नि तैलनिषेवणादित्युक्तेऽपि स्नेहार्द्रशिरस इति यत् करोति, तेन यावता तैलेनार्द्रशिराः स्यात्तावन्मूर्ध्नि तैलं सेव्यमिति दर्शयति| स्नेहाभ्यङ्गादित्यादि| उपाङ्गस्नेहदानात्, अक्षो रथस्य चक्रनिबन्धनकाष्ठम्| बहुदृष्टान्तकरणं तु कस्यचित् किञ्चित् प्रसिद्धं भविष्यति न हि सर्वं सर्वत्र प्रसिद्धमित्यभिप्रायेण; यदि वा स्नेहस्य नानाकार्यकरणशक्त्युपदर्शनार्थम्| स्पर्शने स्पर्शनेन्द्रिये वायुरधिकः; वैद्यकदर्शने पाञ्चभौतिकत्वादिन्द्रियस्येत्यर्थः| त्वच्यश्च परमभ्यङ्ग इति चकाराद्वातहितश्च, एतेनाश्रितस्य वाताधिकस्य स्पर्शनेन्द्रियस्य, आश्रयस्य च त्वचो हित इत्युक्तं भवति| बलेन सम्पाद्यं कर्म बलकर्म गुरुभारहरणादि||७८-८९||

Adhikarana 34 (90-92) · Śloka 92

खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः| सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||९०|| जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः| दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||९१|| न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च| न सिरास्नायुसङ्कोचः पादाभ्यङ्गेन पादयोः||९२||

🔊 Audio coming soon

खरत्वमित्यादि पादाभ्यङ्गगुणाः| प्रथमं पादयोरिति पदं खरत्वादिविशेषणार्थं, द्वितीयं तु बलादेः कालान्तरोत्पादसूचनार्थं, तृतीयं तु स्फुटनविशेषणार्थं, चतुर्थं तु सिरास्नायुविशेषणार्थं, शिष्टं तु पादाभ्यङ्गेनेति पदं दूरान्तरितस्य पादाभ्यङ्गस्य स्मरणार्थम्||९०-९२||

Adhikarana 35 (93-94) · Śloka 94

दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्| स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||९३|| पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम् | शरीरबलसन्धानं स्नानमोजस्करं परम्||९४||

🔊 Audio coming soon

अभ्यङ्गपूर्वकत्वादुद्वर्तनस्य तमनु परिमार्जनमुद्वर्तनं ब्रूते- दौर्गन्ध्यमित्यादि| स्वेदेन बीभत्सता स्वेदबीभत्सता| शरीरस्य बलेन सन्धानं योजनं करोतीत्यर्थः||९३-९४||

Adhikarana 36 (95-102) · Śloka 102

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्| श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||९५|| वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्| सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||९६|| धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्| हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||९७|| मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्| पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||९८|| पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्| केशश्मश्रुनखादीनां कल्पनं सम्प्रसाधनम्||९९|| चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्| बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||१००|| ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्| घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||१०१|| स्खलतः सम्प्रतिष्ठानं शत्रूणां च निषूदनम्| अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||१०२||

🔊 Audio coming soon

श्रीमदिति शोभायुक्तम्| परिषदि शस्तं पारिषदम्| शस्तं मङ्गल्यम्| व्यसनं सर्पपिशाचाद्यभिघातः| रत्नवदाभरणानि, रत्नं तु विशुद्धमाणिक्यहीरकमुक्ताफलसुवर्णादि| शौचाधानं पानीयेन मृदा च| अभीक्ष्णशः पुनः पुनः| शुचि शुचिताकारकम्| कल्पनं छेदनं, सम्प्रसाधनं मण्डनम्; एतच्च यथायोग्यतया योजनीयं; केशानां प्रसाधनं सम्यग्बन्धनादि; श्मश्रूणां कल्पनमेव, नखस्य तु कल्पनमलक्तकादिदानेन प्रसाधनं च| आदिग्रहणेन नासालोमकल्पनादि गृह्यते| पादयोरिति स्पर्शनहितमित्यनेन व्यसनापहमित्यनेन च सम्बध्यते| पादत्रं पादध्री, पादुकेति यावत्| अत्र च वृष्यत्वचक्षुष्यत्वे प्रभावात्; यदि वा पादसम्बद्धनेत्रपोषिकानाडीप्रत्यवायहरणाच्चक्षुष्यम्| ईती रोगादिदुर्दैवम्| गुप्तिः पिशाचादिभ्यो रक्षा, शङ्करं कल्याणकरम्| अवष्टम्भनं बलप्रदम्| भयघ्नं सर्पादिभ्यः||९५-१०२||

Adhikarana 37 (103) · Śloka 103

नगरी नगरस्येव रथस्येव रथी यथा| स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्||१०३||

🔊 Audio coming soon

सम्प्रत्यनुक्तस्वस्थविध्युपसङ्ग्रहार्थं तथोपदिष्टस्यावधानेन करणार्थमाह- नगरीत्यादि| कृत्येषु करणीयेषूक्तेष्वनुक्तेषु च| नगरदृष्टान्तेनान्तरप्रत्यवायहेतुविघातकारिणि कृत्येऽवधानं दर्शयति, रथदृष्टान्तेन च बाह्यस्पर्शादिपरिहारके कृत्येऽवधानं दर्शयति| नगरोच्छेदे ह्यन्तरो दुष्टजनसम्बन्ध एव हेतुः प्रायो भवति, रथभङ्गे तु बाह्यश्वभ्रविषमपतनादिः||१०३||

Adhikarana 38 (104) · Śloka 104

भवति चात्र- वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः| शममध्ययनं चैव सुखमेवं समश्नुते||१०४||

🔊 Audio coming soon

प्रधानभूतां शरीरप्रत्यवेक्षां कृत्वा स्वस्थेन सता यदन्यच्च कर्तव्यं तदाह- वृत्त्युपायानित्यादि| वृत्तिः वर्तनं, तस्योपायाः कृष्यादयो धनैषणायां तिस्रैषणीये वाच्याः| शमः शान्तिः, अध्ययनं वेदाध्ययनं, निषेवेतेति सम्बन्धः| एवं सति सुखं समश्नुते प्राप्नोति| एतेन कृष्यादिभ्योऽर्थः, शान्त्यध्ययनाभ्यां धर्मः, अर्थधर्माभ्यां च सुखलक्षणः कामः, इति त्रिवर्गानुष्ठानं दर्शितं भवति||१०४||

Adhikarana 39 (105-111) · Śloka 111

तत्र श्लोकाः- मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्| द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते||१०५|| अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना| धूमपानगुणाः कालाः पानमानं च यस्य यत्||१०६|| व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः| पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम्||१०७|| नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा| भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्||१०८|| यदर्थं यानि चास्येन धार्याणि कवलग्रहे| तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये||१०९|| कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने| स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे||११०|| शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे| गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे||१११||

🔊 Audio coming soon

मात्रेत्यादि अध्यायार्थसङ्ग्रहः| मात्रोक्ता यावद्ध्यस्याशनमित्यादिना| तथा द्रव्याणि तत्र शालीत्यादिना| मात्रां चाश्रित्य गुरुलाघवमिति प्रकृतिलघून्यपि मात्रामेवापेक्षन्ते इत्येवम्प्रकारेणोक्तम्| पानस्य मानं पानमानम्, आपानास्त्रिस्त्रयस्त्रय इत्यादि| नस्तःकार्यं यदिति अणुतैलम्| यथेति पिचुनेत्यादि| यदेति प्रावृट्शरदित्यादि| शेषं सुगमम्||१०५-१११||

Adhikarana puShpikA · Śloka 5

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः||५||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां द्वितीये स्वस्थवृत्तचतुष्के मात्राशितीयो नाम पञ्चमोऽध्यायः||५||