Adhikarana 1 (1-2) · Śloka 2
अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
मात्राशितीये मात्रावदाहारस्य बलादिहेतुत्वं प्रतिपादितं, तच्च ऋतुसात्म्यमपेक्ष्य कृतस्याहारस्य भवति; तेन, ऋतुप्रविभागपूर्वकमृतुसात्म्याभिधायकं तस्याशितीयं ब्रूते||१-२||
Adhikarana 2 (3) · Śloka 3
तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते|
यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्||३||
अशिताद्यादिति अशितपीतलीढजग्धात्| बलं वर्णश्चेति चकारेण पूर्वाध्यायोक्तसुखायुषी अपि गृह्येते; यदि वा बलवर्णाभ्यामेव नान्तरीयकं कृत्स्नं धातुसाम्यकार्यं सुखादि गृह्यते| विदितमित्यनेन सम्यक्ज्ञानपूर्वकमृतुसात्म्यानुष्ठानं दर्शयति| चेष्टाग्रहणेन व्यवायव्यायामाभ्यङ्गादीनां ग्रहणम्| चेष्टाहारव्यपाश्रयं चेष्टाहारगोचरम्||३||
Adhikarana 3 (4) · Śloka 4
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्|
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च||४||
ऋतुज्ञानमन्तरा ऋतुसात्म्यज्ञानं न सम्भवतीत्यृतूनामुपयुक्तस्वरूपज्ञानार्थमाह- इहेत्यादि| ऋतुप्रतिपादनप्रस्तावे संवत्सरं विद्यादिति संवत्सरप्रतिपादनमृतूनामेव मिलितानां संवत्सरत्वप्रतिपादनार्थम्| मेलकश्च बुद्ध्या व्यवह्रियते , न तु परमार्थतः ऋतूनां मेलकोऽस्ति| ऋतूनां संवत्सरात्मकत्वं पुनः पुनस्त एवर्तवः परावर्तन्त इति ज्ञानार्थमवश्यं प्रतिपादनीयम्| इहेति इह प्रकरणे, षडङ्गं विद्यात्; अन्यत्र तु रोगभिषग्जितीयादौ तत्तत्कार्यवशादन्यथाऽपि| उक्तं च- “शीतोष्णवर्षलक्षणः काल” इत्यादि| षडङ्गमिति समाहारे द्विगुः, ऋतुव्यतिरेकेण संवत्सरस्याविद्यमानत्वात्; यदि वा समुदायिभ्योऽन्यः समुदाय इत्याश्रित्य बहुव्रीहिः कार्यः| तत्रेति ऋतुविभागकथने| उदग् उत्तरां दिशं प्रति, अयनं गमनमुदगयनम्| आददाति क्षपयति पृथिव्याः सौम्यांशं प्राणिनां च बलमित्यादानम्| त्रीन् शिशिरादीनित्यनेनैव लब्धेऽपि ग्रीष्मान्तत्वे ग्रीष्मान्तानिति शिशिरस्यादिरिति विग्रहस्य तथाऽऽदिशब्दस्य प्रकारवाचितायाः प्रतिषेधार्थम्| एवं हेमन्तान्तानिति च व्याख्येयम्| दक्षिणां दिशं प्रति अयनं दक्षिणायनम्| विसृजति जनयति आप्यमंशं प्राणिनां च बलमिति विसर्गः| सञ्ज्ञाप्रणयनं च व्यवहारार्थं, निरुक्तिप्रतीयमानार्थप्रतिपादनार्थं च||४||
Adhikarana 4 (5) · Śloka 5
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः|
आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते||५||
विसर्गधर्मं निर्दिशति- विसर्गे पुनरित्यादि| यद्यपि चादानमादौ पठितं, तथाऽपि प्रतिलोमतन्त्रयुक्त्याऽऽदौ विसर्गगुणकथनं; यदि वा प्रथममादानस्योत्तरायणरूपस्य प्रशस्तत्वादग्रेऽभिधानम्, इह तु विसर्गस्य बलजनकत्वेनाभिप्रेतत्वादग्रेऽभिधानम्| नातिरूक्षा इति सौम्यविसर्गकालसम्बन्धेन मन्दीकृतरौक्ष्याः प्रवान्तीति| इतरे पुनरादान इति अप्रशान्तातिरूक्षाश्च, आग्नेयादानसम्बन्धाहितरूक्षत्वात् | सोमश्चेत्यादि प्रकृतेन विसर्गेण सम्बध्यते| अव्याहतबल इति कालमार्गमेघवातादिभिस्तदा सूर्यस्य सोमपरिपन्थिनो हतबलत्वात्| शिशिराभिः शीताभिः| शश्वदिति छेदः| सौम्यः सोमगुणप्रधानः| आग्नेयम् अग्निगुणप्रधानम्, अप्रतिहतबलत्वेनेत्यर्थः| नन्वेतावतैवादित्यचन्द्रवातानां बलवत्त्वमबलवत्त्वं च कथं भवतीत्याह- तावेतावित्यादि| कालो देवतारूपः, स च नित्यरूपोऽपि प्राणिनामदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबलवायुबलसोमबलादीन् करोति; स्वभावः सूर्यस्य सौम्यांशक्षयकर्तृत्वादिर्वायोर्विरूक्षणादिः सोमस्याप्यायनादिः; मार्गो दक्षिण उत्तरश्च, तत्र दक्षिणः कर्कटादयो धनुरन्ताः, मकरादिरुत्तरः| एते च कालस्वभावमार्गपरिग्रहा यथासम्भवं बोद्धव्याः; न हि सोमे मार्गपरिग्रहः क(कि)ञ्चिद्विशेषमावहति, वायोश्च मार्गपरिग्रह एव नास्ति| परिगृहीताः सम्बद्धाः| कालर्त्वादीनां निर्वृत्तिप्रत्ययभूता निष्पत्तिकारणभूताः, उपदिश्यन्ते ‘आचार्यैः’ इति शेषः; कालः संवत्सरोऽयनद्वयं च, ऋतवः शिशिरादयः, देहस्य बलं देहबलम्| अन्ये तु ब्रुवते- संवत्सरस्यायनद्वयस्य च ऋतुमेलकरूपत्वादृतुग्रहणेनैव ग्रहणं लब्धं, तेन कालग्रहणमृतुविशेषणं, तेन कालरूपः ऋतुरिति स्त्रीणामेवार्तवदर्शनं यदृतुस्तद्व्यावर्त्यते| प्रत्ययभूता इत्यत्र भूतशब्द उपमाने| केचिद्व्याख्यानयन्ति- ‘अर्कवायू’ इत्येकतया पठित्वा ‘सोमश्च’ इति यत् पृथक् पठति, तेनार्कवाय्वोर्मिलितयोरादानं प्रति कारणत्वं, विसर्गं प्रति पृथगेव सोमस्य कारणत्वमिति दर्शयति| एवं बलहरणबलकरणादिष्वपि बोद्धव्यम्||५||
Adhikarana 5 (6) · Śloka 6
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति||६||
तत्रेत्यादि| आददान उच्छोषयन्| जगतः स्थावरजङ्गमस्य| स्नेहं सारं सौम्यभागमित्यर्थः| न केवलं रविः, वायवश्च शोषयन्तः स्नेहमिति सम्बन्धः| तीव्राश्च रूक्षाश्च तीव्ररूक्षाः; यदि वा तीव्रं रौक्ष्यं येषां ते तीव्ररूक्षाः; एतच्चादाने तीव्रेण रविणा सम्बन्धाद्वायोर्भवति योगवाहित्वाद्वायोः| उक्तं हि- “योगवाही(हः) परं वायुः संयोगादुभयार्थकृत्” (चि.अ.३) इत्यादि| यथाक्रममिति शिशिरे रौक्ष्यमल्पं तिक्तं रसमल्पं च दौर्बल्यं, तथा वसन्ते मध्यं रौक्ष्यं कषायं रसं मध्यं दौर्बल्यं, तथा ग्रीष्मे प्रकृष्टं रौक्ष्यं कटुकं रसं महच्च दौर्बल्यं दर्शयति| यद्यपि च कषायो रसो रूक्षतमः कटुकश्च रूक्षतरः, यदुक्तं- “रौक्ष्यात् कषायो रूक्षाणां प्रवरो मध्यमः कटुः” (सू.अ.२६) इत्यादि; रौक्ष्यप्रकर्षश्च ग्रीष्मे, मध्यबलं च रौक्ष्यं वसन्ते, तथाऽपि वाय्वग्निगुणबाहुल्यात् कटुकस्य वाय्वग्निगुणबहुले ग्रीष्मकाल एवोत्पत्तिः, पवनपृथिव्युत्कर्षवति तु वसन्ते पवनपृथिव्युत्कर्षजन्यस्य कषायस्योत्पत्तिः| यदुक्तं- “वाय्वग्निगुणभूयिष्ठत्वात् कटुकः, पवनपृथिव्यतिरेकात् कषायः” (सू.अ.२६) इति| पृथिव्याद्युत्कर्षश्च कालविशेषप्रभावकृतः कार्यदर्शनादुन्नेयः| अभिवर्धयन्त इति वचनाद्यथास्वकाले तिक्तादीनामभिवृद्धिः सूच्यते, तेन न तदैकरसत्वम्| अत्र च क्रमवद्रौक्ष्योत्पत्तितिक्ताद्युत्पत्ती अपि दौर्बल्योत्पत्तौ कारणं, यतो रौक्ष्यमुत्पादयन्त इति तिक्तकषायकटुकानभिवर्धयन्त इति च हेतुगर्भविशेषणद्वयं कृत्वा दौर्बल्यमावहन्तीत्युक्तम्||६||
Adhikarana 6 (7) · Śloka 7
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति||७||
वर्षेत्यादि| तुशब्दः पूर्वपक्षव्यावृत्तौ| दक्षिणाभिमुखे दक्षिणाशां गन्तुमुद्यत एवार्के, तेन विषुवदुदयोपलक्षितमध्यदेशादुत्तरेण वर्तमानोऽपि रविर्यदैव दक्षिणाशां गन्तुमुद्यतो भवति तदैव क्षीयमाणबलो भवति, उत्तराशागमनप्रकर्षाहितबलप्रकर्षतया तु स्तोकस्तोकक्रमापचीयमानबलोऽपि तथा दुर्बलो न लक्ष्यते| एवमुत्तरायणेऽपि व्याख्येयम्| कालः पूर्वं व्याख्यातः, मार्ग इह दक्षिणाभिमुखः, मेघस्य वातो मेघवातः, वर्षणं वर्षः, एतैरभिहतप्रतापेऽर्क इति सम्बन्धः| वातस्त्विह मेघसम्बन्धाहितशैत्योऽर्कतापपरिपन्थी भवति, शशिनोऽव्याहतबलत्वं सूर्यस्य परिपन्थिनोऽभिहतप्रतापत्वादनुगुणमेघवातवर्षणयोगाच्च| जगति स्थावरजङ्गमे| अत्र च “पृथिव्यग्निभूयिष्ठत्वादम्लः”, “सलिलाग्निभूयिष्ठत्वाल्लवणः” (सू.अ.२६) इत्युक्तं, तत् कथं सौम्ये विसर्गे तयोश्चाग्नेययोरुत्पाद इति न वाच्यम्, यतो बलप्रकर्षवतोऽर्कस्य क्षीयमाणबलस्यापि विषुवपर्यन्तं बलवत्त्वमस्त्येवेति व्युत्पादितमेव||७||
Adhikarana 7 (8) · Śloka 8
भवति चात्र- आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्|
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्||८||
सम्प्रति शिशिरादौ बलह्रासः प्रतिपादितो वर्षादौ च बलोत्कर्षः; तत्र शिशिरे दुर्बला वर्षासु बलवन्तः प्राणिनो भवन्तीत्यादिदुर्ग्रहं निषेद्धुमाह- आदावन्ते चेत्यादि| विसर्गस्यादौ वर्षासु, आदानस्यान्ते ग्रीष्मे, दौर्बल्यं प्रकर्षं प्राप्तं निर्दिशेदिति सम्बन्धः; तथा मध्ये विसर्गस्य शरदि, आदानस्य मध्ये वसन्ते, मध्यं नातिक्षीणं नातिवृद्धं बलं विनिर्दिशेदिति योज्यं; तथाऽन्ते विसर्गस्य हेमन्ते, अग्रे च प्रथमे आदानस्य शिशिरे, श्रेष्ठं बलं विनिर्दिशेदिति योजना| एवं मन्यते- विसर्गप्रकर्षाहितबलप्रकर्षः पुरुष आदानस्यादौ शिशिरे स्तोकक्षीयमाणबलोऽपि बलवान् भवति, यथा- पौषमासान्ताहितवृद्धिप्रकर्षा निशा माघफाल्गुनयोः क्षीयमाणाऽपि दिवसान्महत्येव भवति| अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोश्च मध्यमं बलं बोद्धव्यम्| एवं कालर्तुरसदेहबलकारणत्वमर्कादीनां व्यवस्थापितं, दोषकारणत्वं त्वग्रे ऋतुविधाननिर्देशेऽभिधास्यते||८||
Adhikarana 8 (9-18) · Śloka 18
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली|
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः||९||
स यदा नेन्धनं युक्तं लभते देहजं तदा|
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||
तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्|
औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||
बिलेशयानां मांसानि प्रसहानां भृतानि च|
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्|
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते||१३||
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्|
भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा||१४||
शीतेषु संवृतं सेव्यं यानं शयनमासनम्|
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा|
शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः|
प्रकामं च निषेवेत मैथुनं शिशिरागमे||१७||
वर्जयेदन्नपानानि वातलानि लघूनि च|
प्रवातं प्रमिताहारमुदमन्थं हिमागमे||१८||
वर्धमानबलप्रकर्षवत्तया हेमन्तस्याभिप्रेतत्वात्तत्सात्म्यमेवाग्रे प्राह- शीत इत्यादिना| शीते शीतगुणयुक्ते हेमन्ते, यद्यपि चानुक्ते शीत इति विशेषणे हेमन्तः शीत एव लभ्यते, तथाऽपि न पूर्वं क्वचिद्धेमन्ते शीतत्वं प्रतिपादितमिति प्रतिपाद्यते; यदि वा यदैव हेमन्ते शीतं महद्भवति तदैव विशेषेण वह्निर्बली भवति, नोपक्रममात्रेणापि, ऋतुव्यापत्तौ शीतायोग इति च शीत इति पदेन लभ्यते| हिमसम्बन्धाद्विशेषेण शीतोऽनिलः शीतानिलः; विशेषेण शीतत्वं वायोर्योगवाहित्वाच्छीतकालसम्बन्धादेव लब्धं पुनरभिधीयतेऽग्निसंरोधहेतुत्वात् | वायुर्हि हिमसम्बन्धादेव बहिर्निर्गच्छच्छरीरोष्मणो रोधं कृत्वा कुम्भकारपवनाहितपङ्कलेप इवान्तरस्य वह्नेर्वृद्धिमावहति| एतेन यदुच्यते- असमानाच्छीतवातात् कथमग्निवृद्धिरित्येतदपास्तम्| नह्यत्र शीतो वातोऽग्नित्वेन परिणमते, किं तर्हि निर्गच्छत्तेजःप्रतीपीभूतः| शीतानिलस्य स्पर्शः शरीरसम्बन्ध इत्यर्थः| बलिनां प्राणिनां हेमन्तस्वभावाद्बली भवति; अनेन प्राणिबलवत्त्वमग्निबलवत्त्वे हेतुरिति दर्शयति| उक्तं च हस्तिवैद्यके बालगजानां नीरोगत्वप्रतिपादने; यथा- “अव्याहतादभिप्रायात् प्रीतिः, प्रीतेर्बलं, बलात्| अग्निरग्नेश्च धातूनां बलं , नाशस्ततो रुजाम्” इति| मात्रया यद् गुरु अतिमात्रमित्यर्थः, द्रव्यतश्च द्रव्यस्वभावतश्च यद् गुरु नवधान्यादि, तत्क्षमः| एवम्भूतो बली वह्निर्यदा युक्तं गुरुभूतं चान्नं न लभते, तदा देहजं रसं हिनस्ति क्षयं नयति; देहार्थं देहजातं वा देहजं धातुरूपं रसमित्यर्थः| अत इन्धनाभावे सति रसधातुक्षयाद्वायुः प्रकुप्यति हेमन्ते| हेत्वन्तरमाह वातकोपे- शीतः शीत इति; यस्मादयं शीतगुणो वायुः, तस्माच्छीतकाले हेमन्तलक्षणे समानं कारणमासाद्य कुप्यतीत्यर्थः| अत्र वृद्धो वायुर्मेदस्विनो यथाऽग्निवृद्धिं करोति, न तु वैषम्यमनतिवृद्धत्वात्, तथाऽग्निवृद्धिमेव करोति| यदुक्तं- “मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः| चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि” (सू.अ.२१) इत्यादिनाऽष्टौनिन्दितीये| तस्मादिति देहजरसक्षयभयात्| प्रकरणलब्धेऽपि तुषारसमय इति यत् पुनः करोति, तद्विशेषेण तुषारपाते विशेषेण स्निग्धादीनां भोजनार्थम्| मेद्यानां मेदुराणाम्| औदकानूपमांसादयश्च हेमन्तकालकफचयसंवर्धका अपि महात्ययवातविकारप्रतिपक्षत्वेन व्यवायादिकफचयप्रतिपक्षयुक्तत्वाच्चाभिप्रेताः | औदकाः कूर्मादयोऽन्नपाने वक्ष्यमाणाः, अनूपाः सृमरखड्गादयः, बिलेशया गोधाप्रभृतयः, प्रसहा गोखरादयः| भृतं भट्टित्रमिति प्रसिद्धम्| हेमन्तेऽभ्यस्यत इति पुनर्हेमन्तग्रहणं हेमन्तं व्याप्यैवोष्णोदकसेवोपदर्शनार्थम्| जेन्ताकः स्वेदविशेषो वक्ष्यमाणः| गर्भगृहं गृहकोष्ठकम्| हेमन्त इत्यनेनार्थलब्धेऽपि शीते शीतेष्विति पदं वर्षाकालादावपि शीतप्राप्तौ संवृतयानादिसेवोपदर्शनार्थम्| प्रावारो गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुथकश्चित्रकम्बलः| गुरुणाऽगुरुणेति अगुरुघनप्रलेपेनेत्यर्थः| विशालावायामेन, उपचितौ परिणाहेन| मैथुनसेवोपदेशश्चेह प्राणिनां बलवत्त्वेन शीतप्रतीकारकत्वेन चीयमानकफविरुद्धत्वेन च; सुश्रुतेऽपि हेमन्ते मैथुनसेवोक्ता; यदुक्तं- “तत्रापनीतहाराश्च प्रिया नार्यः स्वलङ्कृताः| रमयेयुर्यथाकामं बलादपि मदोत्कटाः” इति||९-१८||
Adhikarana 9 (19-21) · Śloka 21
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्|
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते|
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||
कटुतिक्तकषायाणि वातलानि लघूनि च|
वर्जयेदन्नपानानि शिशिरे शीतलानि च||२१||
शिशिरविधिमाह- हेमन्तेत्यादि| विशेषणं विशेषः; शिशिरस्यादानारम्भत्वेन रौक्ष्यं, तथा मेघमारुतवर्षाः शिशिरेऽधिका भवन्ति तज्जं च शीतमधिकं हेमन्तादस्तीत्यर्थः| तस्मादिति हेमन्ततुल्यत्वाद्विशिष्टरौक्ष्यशीतयुक्तत्वाच्च हैमन्तिको विधिः| निवातमुष्णं त्विति तुशब्दः पक्षान्तरपरिग्रहार्थः; हेमन्तोक्तनिवातोष्णगृहाच्छिशिरे रूक्षातिशीतेऽधिकमुष्णं गृहमाश्रयेदित्यभिप्रायः| केचिदत्रासेव्यप्रतिपादकं ग्रन्थं पठन्ति, स त्वनार्षः||१९-२१||
Adhikarana 10 (22-26) · Śloka 26
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः|
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्|
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्|
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः|
शारभं शाशमैणेयं मांसं लावकपिञ्जलम्||२५||
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा|
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्||२६||
वसन्त इत्यादिना वसन्तविधिमाह| निचितः सञ्चितो वसन्तपूर्वकाले, ईरितो विलायितो वसन्ते| कायाग्निमिति कायनिर्वर्तकमग्निं जाठरं, न तु धात्वग्निविशेषमात्रम्| तत इत्यत्र चकारो लुप्तनिर्दिष्टो बोद्धव्यः, तेन ततोऽग्निवधाच्चेत्यर्थः; यदि वा ततोऽग्निवधानन्तरम्| वमनादीनि वमनप्रधानानि; तेन, आदानमध्यत्वेन यदि वातपित्तप्रकोपस्तथाविधो भवति तदा विरेचनास्थापनानुवासनानामपि प्रवृत्तिर्भवति, शिरोविरेचनं तु कफजयार्थं कर्तव्यमेव| वसन्तशब्देन वमनं प्रति चैत्र एव बोद्धव्यः; येन, दोषचयाद्यर्थं पञ्चकर्मप्रवृत्त्यर्थं चाभिधातव्यप्रावृडाद्यृतुक्रमेण फाल्गुनचैत्रौ वसन्तो भवति, न वैशाखः| अनेनैवाभिप्रायेण पूर्वश्लोकेऽपि सामान्येन निचित इति कृतं, न तु हेमन्ते निचित इति; हेमन्त इत्युक्ते हि रसोत्पत्तिक्रमाभिहितमार्गशीर्षपौषात्मके हेमन्ते प्रकृतत्वाद्दोषचयो बुध्यते, स च नाभिप्रेतः; उक्तस्तु दोषचयादिक्रमोक्तपौषमाघात्मके हेमन्ते श्लेष्मचयः| सुखाम्बुना सुखोष्णाम्बुना| लावकपिञ्जलं मांसमिति सम्बन्धः| भक्षयेदिति च्छेदः| अनुभवेदिति भाषया श्लेष्मक्षयार्थं स्तोकं मैथुनमनुजानाति||२२-२६||
Adhikarana 11 (27-32) · Śloka 32
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः|
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२७||
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः|
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति||२८||
मद्यमल्पं न वा पेयमथवा सुबहूदकम्|
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत् ||२९||
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले|
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके||३०||
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः|
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः||३१||
काननानि च शीतानि जलानि कुसुमानि च|
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः||३२||
मयूखैरित्यादिना ग्रैष्मविधिमाह| मयूखैः तेजोभिः| स्नेहः सार इत्यर्थः| पेपीयते अत्यर्थं पिबति| मन्थः- “सक्तवः सर्पिषा युक्ताः शीतवारिपरिप्लुताः| नात्यच्छा नातिसान्द्राश्च मन्थ इत्यभिधीयते”| मद्यमल्पमिति एकान्तमद्यसात्म्येन; नवेति मद्यस्य स्वभावपाकाभ्यामम्लस्य ग्रीष्मविरुद्धत्वेन; सुबहूदकमिति मद्यसात्म्यस्यैव, मद्यस्योष्णाम्लत्वाद्यपवादार्थं बहुतरं पानीयं प्रक्षिप्य पातव्यमिति दर्शयति; तेनैतत् फलति- यन्मद्यं ग्रीष्मे न पातव्यमेव तावत्; मद्यसात्म्यानां सात्म्यमद्यत्यागे सात्म्यत्यागजा रोगा भवन्ति, तेन तस्याल्पं वा सुबहूदकं वा देयमित्यर्थः| मुक्तैव मणिर्मुक्तामणिः| ग्रीष्मकाले चण्डातपे मध्याह्न इत्यर्थः| मैथुनोपरतिस्तु दिवानिशं बोद्धव्या||२७-३२||
Adhikarana 12 (33-40) · Śloka 40
आदानदुर्बले देहे पक्ता भवति दुर्बलः|
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः||३३||
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च|
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः||३४||
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते|
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्||३५||
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्|
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत्||३६||
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि|
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये||३७||
अग्निसंरक्षणवता यवगोधूमशालयः|
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः||३८||
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा|
माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा||३९||
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्|
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्||४०||
वर्षाविधिमाह- आदानेत्यादि| देहस्य दुर्बलत्वे पक्ताऽपि दुर्बलो भवति, देहबलानुविधायित्वाद्वह्नेः| एतच्च बलिनां बली भवतीत्यत्र व्युत्पादितम्| स दुर्बलो वह्निः| अनिलादीनामिति अनिलप्रधानानाम्| वर्षासु वातादयः कुतः कुप्यन्तीत्याह- भूबाष्पादित्यादि| भूबाष्पः प्रभावादेव त्रिदोषकोपकः| मेघनिस्यन्दो वातश्लेष्मकारकः| अम्लपाकता जलस्य वर्षास्वभावकृता पित्तश्लेष्मकरी| अग्निबले क्षीण इत्यनेनादानाहितमग्निमान्द्यमपि दोषप्रकोपकमिति दर्शयति| अग्निमान्द्यं चापाकविदाहाभ्यां कफपित्तकारि, धातुपोषकरसानुत्पादाच्च धातुक्षयेण वातकारि| एतेन वर्षासु वह्निमान्द्येन वातादिकोपः, वातादिकोपेन च वह्निमान्द्यमिति दर्शितम्| यदुक्तं वाग्भटे- “भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा| वह्निनैव च मन्देन तेष्वित्यन्योऽन्यदूषिषु|| साधारणो विधिः कार्यस्त्रिदोषघ्नोऽग्निदीपनः” (वा.सू.अ.३) इति| उदकप्रधानो मन्थ उदमन्थः| पानम् उदकादि, भोजनं रक्तशाल्यादि, तयोः संस्काराः संस्कारवन्त्यन्नपानानीत्यर्थः| क्षौद्रं च यद्यपि वातप्रकोपि, तथाऽपि वार्षिकक्लेदशमनार्थं स्वल्पमात्रया क्षौद्रान्वितपदेन विहितम्| विशेषशीत इति हेतुगर्भविशेषणं; तेनात्यर्थशीते दिवसे यस्मान्महात्ययस्य वातस्य कोपो भवति ततस्तज्जयार्थं वर्षाकालप्रभावक्रियमाणपित्तचयानुगुणयोरप्यम्ललवणयोरुपयोगः कर्तव्य इति दर्शितं भवति||३३-४०||
Adhikarana 13 (41-48) · Śloka 48
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति||४१||
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्|
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्|
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्|
धाराधरात्यये कार्यमातपस्य च वर्जनम्||४४||
वसां तैलमवश्यायमौदकानूपमामिषम्|
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्||४५||
दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्|
कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्||४६||
हंसोदकमिति ख्यातं शारदं विमलं शुचि|
स्नानपानावगाहेषु हितमम्बु यथाऽमृतम् ||४७||
शारदानि च माल्यानि वासांसि विमलानि च|
शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः||४८||
शरद्विधिमाह- वर्षेत्यादि| उचितम् अभ्यस्तम्, ‘उच समवाये’ इत्यस्माद्धातोः; शीतमुचितान्यङ्गानि येषां, तेषाम्| सहसैवेति पदेनाक्रमेण शरदि तीव्रातपसम्बन्धादनभ्यस्तात् पित्तप्रकोपो न्याय्य इति दर्शयति| आचितमिति वर्षासु| प्राय इत्यनेन वर्षासु पित्तचयप्रतिकूलं विधिं प्रयत्नेनाचरतो न भवत्यपि पित्तचयः, शरदि तु प्रकोपो न भवतीति दर्शयति; एतच्च सामान्यन्यायेन श्लेष्मणो वातस्य च चयप्रकोपयोर्बोद्धव्यं; यदि वा, प्रायः पित्तं प्रकुप्यति श्लेष्मा चानुबलत्वेनेत्यर्थः| यदुक्तं- “तस्य चानुबलः कफः” (चि.अ.३) इति| लघ्विति अग्निसन्धुक्षणार्थम्| अत्र वह्नेः समानेनापि पित्तेन द्रवांशसम्बन्धेनाग्निमान्द्यं क्रियते| यदुक्तं ग्रहण्यध्याये- “आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम्” (चि.अ.१५)| उत्सर्गसिद्ध एव भोजनस्य मात्रावत्त्वे मात्रयेति वचनं मात्रातिक्रमेणेह विशेषतो भूरिदोषत्वदर्शनार्थम्| सुप्रकाङ्क्षितैः सुबुभुक्षितैः| उरभ्रो मेषः| घनात्यय इति पुनर्वचनं शरत्प्रवेश एवैतदुक्तविधिकरणं ग्रन्थाधिक्यात् सूचयतीति व्याख्यानयन्ति; वयं तु पश्यामः- पर्यायशब्दानां पुनः पुनः करणे यत्र तात्पर्यं शास्त्रे प्रतीयते तत्र तदेव वाच्यं, यत्र तु तात्पर्यान्तरं न प्रतीयते तत्र वाक्यभेदेनैव पुनरभिधानमिति| धाराधराणां मेघानामत्ययोऽदर्शनम्| तेन, प्रव्यक्तायां शरदि तिक्तसर्पिःपानं विरेकादि च कार्यम्| क्रमश्चात्राचार्यस्याभिप्रेतः, तेन प्रथमं तिक्तसर्पिष्पानं, तेन पित्ताप्रशान्तौ विरेकः, तेनाप्यशान्तौ शोणितदुष्टौ च सत्यां रक्तमोक्षणं; रक्तं चात्र कालस्वभावाद्दूष्यत्येव प्रायः; यदाह- “शरत्कालस्वभावाच्च शोणितं सम्प्रदूष्यति” (सू.अ.२४) इति| दिवेत्यादि|- सूर्यांशुतापादेव दिवेति लब्धे दिवेति सकलदिनव्याप्त्यर्थम्| सूर्यतप्तमिति वक्तव्येंऽशुग्रहणं मेघावरणरहितांशुसूर्यग्रहणार्थम् | सन्तप्तमित्यत्र संशब्दः परितस्तापोपदर्शनार्थः| एवं निशीत्यादि च व्याख्येयम्| चन्द्रांशुग्रहणेन च निशि सौम्यांशसम्बन्धं लक्षयति| कालेनेति शरत्कालस्वभावेन| पक्वमिति वर्षास्वभिनवभूमिसम्बन्धजनितपैच्छिल्यव्यम्लत्वादिदोषरहितम्| यतः पक्वं ततो निर्दोषं दोषाजनकमित्यर्थः| अगस्त्येनाविषीकृतमित्यगस्त्योदयेन प्रभावाद्वर्षासु मेघसम्बद्धोरगलूतादिसम्बन्धात्सविषमविषं भवतीति वाच्यम्| हंसोदकमिति एवम्भूतोदकस्य सञ्ज्ञा; हंसशब्देन सूर्याचन्द्रमसावभिधीयेते, ताभ्यां शोधितमुदकं हंसोदकं; यदि वा हंससेवायोग्यं हंसोदकं, हंसाः किल विशुद्धमेवोदकं भजन्ते| अवगाहः चिरं जलावस्थानम्| शारदानीति माल्यविशेषणमनार्तवकुसुमनिषेधार्थम्| प्रदोष इति निशाप्रवेश एव परं चन्द्ररश्मिसेवा; नोपरि, शिशिरभयात्| अत्र पूर्वर्तुसात्म्यपरित्यागो भविष्यदृतुसात्म्याभ्यासश्च पूर्वर्त्वन्तसप्ताहागाम्यृत्वादिसप्ताहयोः कर्तव्यः| यदुक्तं वाग्भटे- “ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः| तत्र पूर्वो विधिस्त्याज्यः सेवनीयः परः क्रमात्” (वा.सू.अ.३) इति||४१-४८||
Adhikarana 14 (49) · Śloka 49
इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्|
उपशेते यदौचित्यादोकःसात्म्यं तदुच्यते||४९||
उपसंहरति- इत्युक्तमित्यादि| ऋतुसात्म्यप्रसङ्गेनाभ्याससात्म्यं दर्शयति- उपशेते इत्यादि| उपशेते सुखयति, अपथ्यमपि सद्विकारं न जनयति| कुत इत्याह- औचित्यात् अभ्यासादित्यर्थः; अपथ्यमपि हि निरन्तराभ्यासाद्विषमिवाशीविषस्य नोपघातकं भवतीति भावः||४९||
Adhikarana 15 (50) · Śloka 50
देशानामामयानां च विपरीतगुणं गुणैः|
सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च||५०||
देशसात्म्यं रोगसात्म्यं च दर्शयति- देशानामित्यादि| देशानामनूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं स्नेहगौरवविपरीतगुणरौक्ष्यलाघवयुक्तं जाङ्गलमांसमध्वादि; अदनीयमाद्यं, चेष्टितं च व्यायामादि, देशसात्म्यमिच्छन्त्यायुर्वेदविद इत्यर्थः| एवमामयानां च विपरीतगुणमित्यादि व्याख्येयम्| गुणशब्दश्चेह धर्ममात्रवचनः, यथोच्यते- द्रव्यगुणो द्रव्यधर्म इत्यर्थः| तेन विपरीतप्रभावादीनामपि ग्रहणं भवति| आमयशब्देन चामयहेतुरपि गृहीतव्यः| तत आमयविपरीतानाम्, आमयहेतुविपरीतानां, तथा प्रभाववैपरीत्यात्तद्विपरीतार्थकारिणां च ग्रहणं भवति| तदुदाहरणानि यथावसरं निदाने करिष्यामः| आद्यग्रहणेनौषधाहारयोर्ग्रहणं, चेष्टितग्रहणेन स्वप्नाभ्यङ्गादीनां ग्रहणं व्याख्येयम्||५०||
Adhikarana 16 (51) · Śloka 51
तत्र श्लोकः- ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किञ्चन|
तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च||५१||
उक्तमध्यायार्थमुपसंहरति- ऋतावित्यादि| अत्र हेमन्ते असेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथाऽपि ‘स यदा नेन्धनं युक्तं लभते’ इत्यभिधानादल्पभोजनपरिहार उक्त एव भवति; तेन, ऋतावृताविति वीप्सा कृताऽर्थवती भवति; यदि वा छत्रिणो गच्छन्तीति न्यायाद्वीप्सोक्ता| हेमन्तपरिहारविधिवच्च शिशिरपरिहारविधिर्व्याख्येयः| हेतुमदिति उपपत्तिमत्, औचित्यादिहेतुनिर्देशोपपन्नमित्यर्थः||५१||
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम षष्ठोऽध्यायः||६||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने स्वस्थचतुष्के तस्याशितीयो नाम षष्ठोऽध्यायः||६||