Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. vātakalākalīyō'dhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैरभिहिताः, उपयुक्तज्ञानास्तत्कारणवातादयो बहुवाच्यत्वान्नोक्ताः, अतः सम्प्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये; तत्रापि प्राधान्याद्वायुरेव प्रथममुच्यते| कला गुणः, यदुक्तं- “षोडशकलम्” (सू.अ.१०) इति; अकला गुणविरुद्धो दोषः; तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः; यदि वा कला सूक्ष्मो भागः, तस्यापि कला कलाकला; तस्यापि सूक्ष्मो भाग इत्यर्थः||१-२||

Adhikarana 2 (3) · Śloka 3

वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं- किङ्गुणो वायुः, किमस्य प्रकोपणम्, उपशमनानि वाऽस्य कानि, कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्योवेति||३||

🔊 Audio coming soon

अत्रानेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसम्मतिदर्शनार्थं तन्त्रधर्मैतिह्ययुक्तत्वकरणार्थं च| असङ्घातमिति पित्तश्लेष्मवदवयवसङ्घातरहितम्| अनवस्थितमिति चलस्वभावम्| अनासाद्येति चलत्वेनानिबिडावयत्वेन चेति मन्तव्यम्||३||

Adhikarana 3 (4) · Śloka 4

अत्रोवाच कुशः साङ्कृत्यायनः- रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति||४||

🔊 Audio coming soon

रूक्षादयो भावप्रधानाः, तेन रूक्षत्वादयो गुणा मन्तव्याः| दारुणत्वं चलत्वं चलत्वात्, एवं दीर्घञ्जीवितीयोक्तं चलत्वमुक्तं भवति; यदि वा, दारुणत्वं शोषणत्वात् काठिन्यं करोतीति||४||

Adhikarana 4 (5) · Śloka 5

तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच- एवमेतद्यथा भगवानाह, एत एव वातगुणा भवन्ति, स त्वेवङ्गुणैरेवन्द्रव्यैरेवम्प्रभावैश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते, समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति||५||

🔊 Audio coming soon

कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिषेधार्थम्| एवम्प्रभावैरिति प्रभावाद्रौक्ष्यादिकारकैर्धावनजागरणादिभिः, प्रभावाभिधानं च कर्मणां निर्गुणत्वात्| अभ्यस्यमानैरिति असकृत्प्रयुक्तैः||५||

Adhikarana 5 (6-7) · Śloka 7

तच्छ्रुत्वा वाक्यं काङ्कायनो बाह्लीकभिषगुवाच- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपणानि भवन्ति; अतो विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति||६|| तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच- एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपप्रशमनानि भवन्ति| यथा ह्येनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, तथाऽनुव्याख्यास्यामः- वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां, तथाविधेषु शरीरेषु वायुराश्रयं गत्वाऽऽप्यायमानः प्रकोपमापद्यते; वातप्रशमनानि पुनःस्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां, तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते||७||

🔊 Audio coming soon

शरीराणामिति शरीरावयवानाम्| शुषिरकराणि रन्ध्रकराणि| आश्रयमिति समानगुणस्थानम्| आप्यायमानः चीयमानः| दारुणविपरीतो मृदुः, शुषिरविपरीतो घनः| असज्यमानः अनवतिष्ठमानः, क्षीयमाणावयव इति यावत्| एतेनैतदुक्तं भवति- यद्यपि वायुना वातकारणानां वातशमनानां वा तथा सम्बन्धो नास्ति, तथाऽपि शरीरसम्बद्धैस्तैर्वातस्य शरीरचारिणः सम्बन्धो भवति, ततश्च वातस्य समानगुणयोगाद्वृद्धिर्विपरीतगुणयोगाच्च ह्रास उपपन्न एवेति||६-७||

Adhikarana 6 (8) · Śloka 8

तच्छ्रुत्वा बडिशवचनमवितथमृषिगणैरनुमतमुवाच वार्योविदो राजर्षिः- एवमेतत् सर्वमनपवादं यथा भगवानाह| यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वा भवन्ति, तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः- वायुस्तन्त्रयन्त्रधरः, प्राणोदानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानामुच्चावचानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योजकः, सर्वेन्द्रियार्थानामभिवोढा, सर्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तको वाचः, प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हर्षोत्साहयोर्योनिः, समीरणोऽग्नेः, दोषसंशोषणः , क्षेप्ता बहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्तागर्भाकृतीनाम्, आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः| कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय , मनो व्याहर्षयति , सर्वेन्द्रियाण्युपहन्ति, विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति, भयशोकमोहदैन्यातिप्रलापाञ्जनयति, प्राणांश्चोपरुणद्धि| प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति; तद्यथा- धरणीधारणं, ज्वलनोज्ज्वालनम्, आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानं, सृष्टिश्च मेघानाम्, अपां विसर्गः, प्रवर्तनं स्रोतसां, पुष्पफलानां चाभिनिर्वर्तनम्, उद्भेदनं चौद्भिदानाम्, ऋतूनां प्रविभागः, विभागो धातूनां, धातुमानसंस्थानव्यक्तिः, बीजाभिसंस्कारः, शस्याभिवर्धनमविक्लेदोपशोषणे , अवैकारिकविकारश्चेति| प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति; तद्यथा- शिखरिशिखरावमथनम्, उन्मथनमनोकहानाम्, उत्पीडनं सागराणाम्, उद्वर्तनं सरसां, प्रतिसरणमापगानाम्, आकम्पनं च भूमेः, आधमनमम्बुदानां , नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, व्यापादनं च षण्णामृतूनां, शस्यानामसङ्घातः, भूतानां चोपसर्गः, भावानां चाभावकरणं, चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः; स हि भगवान् प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः, सुखासुखयोर्विधाता, मृत्युः, यमः, नियन्ता, प्रजापतिः, अदितिः, विश्वकर्मा, विश्वरूपः, सर्वगः, सर्वतन्त्राणां विधाता, भावानामणुः, विभुः, विष्णुः, क्रान्ता लोकानां, वायुरेव भगवानिति||८||

🔊 Audio coming soon

शरीराशरीरचरस्येति वातस्वरूपकथनं, तेन शरीरेषु चरत इति बहिः शरीरेभ्यो वेति च पुनरुक्तं न भवति| अत्रावयवानिति वदन् कार्त्स्न्याभिधानमशक्यं बहुप्रपञ्चत्वादिति दर्शयति| साधयित्वा प्रतिपाद्य| वातकर्मसु प्रत्यक्षाणि वचनादीनि, मनःप्रेरणाद्यनुमेयं, गर्भाकृतिकरणाद्यागमगम्यम्| तन्त्रं शरीरं, यदुक्तं- “तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्” (इं. अ.१२) इति, तदेव यन्त्रं; यदि वा, तन्त्रस्य यन्त्रं सन्धयः| प्राणाद्यात्मा प्राणादिस्वरूपः| चेष्टाविशेषणम्- उच्चावचानां, विविधानामित्यर्थः, किंवा शुभाशुभानामित्यर्थः| नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः, प्रणेता च मनस एवेप्सितेऽर्थे| उद्योजकः प्रेरकः; किंवा ‘उद्योगकारक’ इति पाठः, सोऽप्यभिन्नार्थः| अभिवोढेवाभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन; तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम्| व्यूहकरः सङ्घातकरो रचनाकर इति यावत् | प्रकृतिः कारणं, शब्दकारणत्वं च वायोर्नित्यमाकाशानुप्रवेशात्; उक्तं हि खादीन्यभिधाय- “तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे” (शा. अ.१) इति| तथा पुनरुक्तं खादीन्यभिधाय “विष्टं ह्यपरं परेण” (न्या.द. अ.२. आ.१.सू.६६) इति| श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात्; मूलं प्रधानकारणम्| उत्साहः कार्येषूद्योगो मनसः| योनिः अभिव्यक्तिकारणम्| दोषसंशोषणः शरीरक्लेदसंशोषणः| भेत्ता कर्ता; एतच्च शरीरोत्पत्तिकाले| भूत शब्दः स्वरूपवचनः| उपघातायेति छेदः| गर्भानिति विकृतिमापादयत्यतिकालं धारयतीत्यनेन च सम्बध्यते| आदित्यादीनां सन्तानेनाविच्छेदेन गतिविधानं सन्तानगतिविधानम्| स्रोतसामिति नदीनाम्| प्रविभागो विभक्तलक्षणम् | धातूनामिति पृथिव्यादीनां, धातवः कार्यद्रव्याणि प्रस्तरादीनि; मानं परिमाणं, संस्थानमाकृतिः, तयोर्व्यक्तिरभिव्यक्तिः, तत्र कारणमिति यावत्| बीजस्य शाल्यादेः, अभिसंस्कारोऽङ्कुरजननशक्तिः| अविक्लेदः पाककालादर्वागविक्लिन्नत्वम्, उपशोषणं च पाकेन यवादीनामार्द्राणामेव, अविक्लेदोपशोषणे शस्यानामेव| अवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रकृतिरूपे कारणत्वं ब्रूते| शिखरी पर्वतः| अनोकहो वृक्षः| ऊर्ध्वं वर्तनमुद्वर्तनम्| प्रतिसरणं प्रतीपगमनम्| विसर्जनं विसर्गः, स च पृथङ्नीहारादिभिः सम्बध्यते; नीहारः शिशिरसमूहः, निर्ह्रादो मेघं विना गर्जितम्, अशनिः वज्रभेदोऽग्निः| असङ्घातः अनुत्पादोऽनुपचयो वा| उपसर्गः मरकादिप्रादुर्भावः| मेघसूर्येत्यादौ विसर्गः सृष्टिः| वायुरिह देवतारूपोऽभिप्रेतः, तेन तस्य भूतरूपचतुर्युगान्तकरानिलकरणमविरुद्धम्; एवं यदन्यदप्यनुपपद्यमानं वायोस्तदपि देवतारूपत्वेनैव समाधेयम्| सम्प्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपमुच्यते- स हि भगवानित्यादि| प्रभवः कारणम्| अव्ययः अक्षयः| भूतानामित्युत्तरेण सम्बध्यते| मृत्युयमादिभेदाश्चागमे ज्ञेयाः| सर्वतन्त्राणां सर्वकर्मणां; तन्त्रशब्दः कर्मवचनोऽप्यस्ति, यदुक्तं- “बस्तिस्तन्त्राणां” (सू. अ.२५); कर्मणामित्यर्थः||८||

Adhikarana 7 (9-10) · Śloka 10

तच्छ्रुत्वा वार्योविदवचो मरीचिरुवाच- यद्यप्येवमेतत्, किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायां; भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति ||९|| वार्योविद उवाच- भिषक् पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत्, सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनमत्ययभयात्; वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति||१०||

🔊 Audio coming soon

तच्छ्रुत्वेत्यादि सुगमम्| वर्चस्वित्वं तेजस्वित्वम्||९-१०||

Adhikarana 8 (11) · Śloka 11

मरीचिरुवाच- अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा- पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वन्द्वानीति||११||

🔊 Audio coming soon

पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति; न तु पित्तादभेदं, पित्तेनाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात्, तथा पित्तहरस्य सर्पिषोऽग्निवर्धनत्वेनोक्तत्वात्| पक्तिमपक्तिमिति अविकृतिविकृतिभेदेन पाचकस्याग्नेः कर्म, दर्शनादर्शने नेत्रगतस्यालोचकस्य, ऊष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य, भयशौर्यादयो हृदयस्थस्य साधकस्य, रञ्जकस्य तु बहिःस्फुटकार्यादर्शनादुदाहरणं न कृतम्||११||

Adhikarana 9 (12) · Śloka 12

तच्छ्रुत्वा मरीचिवचः काप्य उवाच- सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा- दार्ढ्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वन्द्वानीति||१२||

🔊 Audio coming soon

सोमो जलदेवता, यदि वा चन्द्रः||१२||

Adhikarana 10 (13-15) · Śloka 15

तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच- सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्; सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके; विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति||१३|| तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति||१४|| भवति चात्र- तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे| ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः||१५||

🔊 Audio coming soon

ऐकान्तिकवचनादिति अवधारणादित्यर्थः| निःश्रेयसेन सुखेन| ऋतवस्त्रय इति शीतोष्णवर्षलक्षणाश्चतुर्मासेन ऋतुना| उपघातकाल इति देशोच्छेदकाले||१३-१५||

Adhikarana 11 (16-17) · Śloka 17

तत्र श्लोकौ- गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः| वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः||१६|| महर्षीणां मतिर्या या पुनर्वसुमतिश्च या| कलाकलीये वातस्य तत् सर्वं सम्प्रकाशितम्||१७||

🔊 Audio coming soon

सङ्ग्रहे गुणाः षडिति रूक्षादयः| द्विविधो हेतुरिति वातप्रकोपहेतुर्वातप्रशमहेतुश्च| विविधं नानाप्रकारं सन्निखिलमेव वायोः कर्म, यत् पुनश्चतुर्विधं कुपिताकुपितशरीराशरीरचरभेदेन भवति, तदुक्तमिति योजनीयं; न हि चतुर्विधव्यतिरेकेण वायोः पृथग्विधं कर्मोक्तम्||१६-१७||

Adhikarana puShpikA · Śloka 3

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो नाम द्वादशोऽध्यायः समाप्तः||१२|| इति निर्देशचतुष्कः||३||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के वातकलाकलीयो नाम द्वादशोऽध्यायः||१२|| इति निर्देशचतुष्कः||३||