Adhikarana 1 (1-2) · Śloka 2
अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः ||१||
इति ह स्माह भगवानात्रेयः||२||
सम्प्रति वातादिवद्बहुविकारकर्तृत्वेन शोणितस्य शोणितविकाराणां पूर्वोक्तानेवोपक्रमान् लङ्घनबृंहणादीन् विशेषेण दर्शयितुं विधिशोणितीयोऽभिधीयते| इयमप्यर्थपरा सञ्ज्ञा ||१-२||
Adhikarana 2 (3) · Śloka 3
विधिना शोणितं जातं शुद्धं भवति देहिनाम्|
देशकालौकसात्म्यानां विधिर्यः सम्प्रकाशितः||३||
विधिनेति सम्यगाहाराचारविधिना| शुद्धं भवतीत्यत्र भवति विद्यत इत्यर्थः, उत्पादस्य जातशब्देनैवोक्तत्वात्| केन विधिनेत्याह- देशेत्यादि| सात्म्यशब्दस्य देशादिभिः प्रत्येकमन्वयः| ओकसात्म्यम् अभ्याससात्म्यम्| सम्प्रकाशित इति तस्याशितीये (सू.अ.६), सम्प्रकाशित इत्यत्र ‘तेन’ इति शेषः; अतो यः सम्प्रकाशितो विधिस्तेन विधिनेति सम्बन्धः| अन्ये व्याख्यानयन्ति- शोणितं जातं तावद्भवति, तच्च कारणान्तरदुष्टं सद्विधिना यथोक्तेन पुनः शुद्धं भवतीति योजनीयम्||३||
Adhikarana 3 (4) · Śloka 4
तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा|
युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते||४||
विशुद्धं शोणितं किं करोतीत्याह- तद्विशुद्धमित्यादि| तेन विधिना विशुद्धं तद्विशुद्धं; किंवा तदिति शोणितम्| प्राणः शोणितं ह्यनुवर्तत इति शोणितान्वयव्यतिरेकमनुविधीयते| यदुक्तं- “दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः| शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्”- (सू.अ.२९) इति||४||
Adhikarana 4 (5-10) · Śloka 10
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः|
तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च||५||
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः|
पिण्डालुमूलकादीनां हरितानां च सर्वशः||६||
जलजानूपबैलानां प्रसहानां च सेवनात्|
दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च||७||
विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च|
भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च||८||
अत्यादानं तथा क्रोधं भजतां चातपानलौ|
छर्दिवेगप्रतीघातात् काले चानवसेचनात्||९||
श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा|
शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||१०||
शुद्धिहेतुमभिधाय दुष्टिहेतुमाह- प्रदुष्टेत्यादि| प्रदुष्टं स्वप्रकृतिविपरीतम्| अन्यैश्च तद्विधैरिति प्रदुष्टपानकादिभिः; किंवा ‘अन्नैः’ इति पाठः| तथाऽतिलवणक्षारैरित्यादि केचिद्भेषजविषयं वर्णयन्ति, तद्विधैरिति वचनेनान्नपानस्यातिलवणादेर्गृहीतत्वात्| निष्पावः श्वेतशिम्बिः| अत्यादानं तृप्तिमतिक्रम्य भोजनम्| काले चेति शोणितदुष्टियुक्ते शरत्काले| अजीर्णेऽध्यशनमजीर्णाध्यशनं; किंवा अजीर्णस्यापक्वस्याशनमजीर्णाशनम्, अध्यशनं तु पूर्वान्नशेषे यद्भुज्यते, यदाह- “भुक्तस्योपरि यद्भुक्तं तदध्यशनमुच्यते” (चि.अ.१५)||५-१०||
Adhikarana 5 (11-17) · Śloka 17
ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः|
मुखपाकोऽक्षिरागश्च पूतिघ्राणास्यगन्धिता||११||
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः|
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्||१२||
वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता|
सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्||१३||
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः|
क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता||१४||
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः|
तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्||१५||
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः|
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः||१६||
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः|
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत्||१७||
उपकुशः मुखरोगविशेषः; यदुक्तं सुश्रुते- “वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च| यस्मिन्नुपकुशो नाम पित्तरक्तकृतो गदः” (सु. नि. १६) इति| कुष्ठ इत्युक्तेऽपि चर्मदलाभिधानं विशेषार्थम्| शोणिताश्रया इति भाषया शोणितस्य वातादिवत् स्वातन्त्र्येण रोगकर्तृत्वं निराकरोति| अनुक्तभूरिशोणितरोगग्रहणार्थमाह- शीतोष्णेत्यादि| आद्यग्रहणात्तीक्ष्णमृद्वादीनां ग्रहणम्| सम्यगिति पूर्वेण योजनीयम् | तत्र शीतोष्णस्निग्धरूक्षाद्यैरिति शोणितवृद्धिमनपेक्ष्य वातादिजयार्थमात्रप्रयुक्तैरिति मन्तव्यम्| येन शोणितव्याधेरपि शान्तिर्वक्ष्यमाणरक्तपित्तहरक्रियादिभिः शीतोष्णस्निग्धादिक्रियाप्रविष्टैव, ततश्च शोणितरोगस्यापि शीतादिक्रियाभिरेव शोणितप्रतिकूलाभिः प्रशमो भवति; प्रवृद्धशोणिताश्रयास्तु वातादय आश्रयप्रभावान्न स्वचिकित्सामात्रेण प्रशाम्यन्ति||११-१७||
Adhikarana 6 (18) · Śloka 18
कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम्|
विरेकमुपवासं च स्रावणं शोणितस्य च||१८||
शोणितरोगचिकित्सामाह- कुर्यादित्यादि| रक्तपित्तहरक्रियादयो यथायोग्यतया बोद्धव्याः||१८||
Adhikarana 7 (19) · Śloka 19
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा|
रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा||१९||
उक्तशोणितस्रावणप्रमाणमाह- बलेत्यादि| बलदोषप्रमाणादिति बलस्य तथा दोषस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य; दोषशब्दो ह्ययं रोगे वर्तते| विशुद्ध्या रुधिरस्य चेति यावता स्रावणेन शोणितं विशुद्धं भवति| आशयं स्थानं दुष्टशोणिताश(श्र)यमिति यावत्| यथा- स्वल्पे कुष्ठे स्तोकमेव विशुद्ध्यर्थमुपादेयं, महति कुष्ठे बहु स्रावणीयम्| यदुक्तं- “प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम्” (चि. ७) इति| एषु च पक्षेषु यद्यत्रानत्ययं भवति तत्तत्र ग्राह्यम्||१९||
Adhikarana 8 (20-21) · Śloka 21
अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु|
पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च||२०||
ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमद्घनम्|
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम्||२१||
दुष्टरक्तलक्षणमाह- अरुणाभमित्यादि| स्त्यायति घनं भवति||२०-२१||
Adhikarana 9 (22) · Śloka 22
तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्|
गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम्||२२||
तपनीयं लोहितसुवर्णम्, इन्द्रगोपः स्वनामप्रसिद्धः कीटविशेषः| विशुद्धरक्तलिङ्गे नानावर्णता वातादिप्रकृतित्वान्मनुष्याणाम्||२२|
Adhikarana 10 (23) · Śloka 23
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्|
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः||२३||
नात्युष्णादिभोजने हेतुमाह- तदेत्यादि| अतिशीतमग्निमान्द्यं करोति, अत्युष्णं च प्रचलस्यासृजो नितरां प्रचलतां करोति, तस्मान्नात्युष्णशीतम्| लघु दीपनीयं चाग्निदीप्त्यर्थमेव||२३||
Adhikarana 11 (24) · Śloka 24
प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्|
सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||२४||
सम्प्रति शोणितादर्शनेनापि विशुद्धरक्तज्ञानार्थं लक्षणमाह- प्रसन्नेत्यादि| अव्याहता पक्तिश्च वेगश्च पुरीषादीनां यस्य स तथा||२४||
Adhikarana 12 (25-29) · Śloka 29
यदा तु रक्तवाहीनि रससञ्ज्ञावहानि च|
पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता मलाः||२५||
मलिनाहारशीलस्य रजोमोहावृतात्मनः|
प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा||२६||
मदमूर्च्छायसन्न्यासास्तेषां विद्याद्विचक्षणः|
यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु||२७||
दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते|
मनो विक्षोभयञ्जन्तोः सञ्ज्ञां सम्मोहयेत्तदा||२८||
पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्|
सञ्ज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते||२९||
सम्प्रति रक्तवाहिधमनीदुष्ट्या ये व्याधयो भवन्ति तानाह- यदा त्वित्यादि| सञ्ज्ञावहानीति सञ्ज्ञाहेतुमनोवहानि, मनसस्तु केवलमेव शरीरमयनीभूतं; यदुक्तं- “सत्त्वादीनां पुनः केवलं शरीरमयनीभूतम्” (वि. ५) इत्यादि; किंवा रससञ्ज्ञं धातुमावहन्तीति रससञ्ज्ञवहानि | रसवहधमनीनां तु हृदयं स्थानं, तदुपघाताच्च मोह उपपन्न एव| मला इति दुष्टदोषसञ्ज्ञाः; यदुक्तं- “मलिनीकरणान्मलाः” इति| यथोत्तरं लिङ्गाधिक्यं मदमूर्च्छायसन्न्यासेषु मोहरूपं ज्ञेयं; मदेऽपि हि स्तोको मोहोऽस्ति, उत्तरयोस्तु व्यक्त एव मोहः||२५-२९||
Adhikarana 13 (30-32) · Śloka 33
सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम् |
विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्||३०||
सक्रोधपरुषाभाषं सम्प्रहारकलिप्रियम्|
विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्||३१||
स्वल्पासम्बद्धवचनं तन्द्रालस्यसमन्वितम्|
विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्||३२||
सर्वाण्येतानि रूपाणि सन्निपातकृते मदे|३३|
परुषं ब्रूत इति परुषाभाषः||३०-३२||-
Adhikarana 14 (33) · Śloka 33
जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः||३३||
मदस्वरूपमाह- जायत इत्यादि||३३||
Adhikarana 15 (34) · Śloka 34
यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः|
सर्व एते मदा नर्ते वातपित्तकफत्रयात्||३४||
मदप्रसङ्गेन मद्यविषजयोरपि मदयोश्चातुर्विध्यमाह- यश्चेत्यादि| वातपित्तकफत्रयादिति वातात् पित्तात् कफाद्वातपित्तकफाच्च; एतेन तेषामप्येतदेव लक्षणं वातादिकृतं भवतीति भावः||३४||
Adhikarana 16 (35-41) · Śloka 41
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्|
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||३५||
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च|
कार्श्यं श्यावारुणा च्छायामूर्च्छाये वातसम्भवे||३६||
रक्तं हरितवर्णं वा वियत् पीतमथापि वा|
पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते||३७||
सपिपासः ससन्तापो रक्तपीताकुलेक्षणः|
सम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे||३८||
मेघसङ्काशमाकाशमावृतं वा तमोघनैः|
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते||३९||
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा|
सप्रसेकः सहृल्लासो मूर्च्छाये कफसम्भवे||४०||
सर्वाकृतिः सन्निपातादपस्मार इवागतः|
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः||४१||
मूर्च्छायलक्षणमाह- नीलं वेत्यादि| तत्र वातमूर्च्छाये श्यावारुणा छाया रिष्टरूपत्वान्मरणाय स्याद् वायव्यत्वादिति चोद्यं कुर्वन्ति; उक्तं हि- “वायव्या सा विनाशाय क्लेशाय महतेऽपि वा” (इं. ७) इति| तन्न, अनिमित्ता हि छाया रिष्टं न तु दृश्यमाननिमित्ता, इह च वातसम्बन्धो दृश्यत एव निमित्तं; किंवा “क्लेशाय महतेऽपि वा” इति वचनादेव वायव्यच्छायाया मारकत्वं व्यभिचरितम्| तमोभिर्घनैश्चेति तमोघनैः; किंवा तमोभिरेव घनैः| विना बीभत्सचेष्टितैरिति दन्तखादनाङ्गविक्षेपणादिकं विना||३५-४१||
Adhikarana 17 (42-53) · Śloka 53
दोषेषु मदमूर्च्छायाः कृतवेगेषु देहिनाम्|
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना||४२||
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः|
सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः||४३||
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः|
प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः||४४||
दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः|
गृह्णीयात्तलमप्राप्तं तथा सन्न्यासपीडितम्||४५||
अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च|
सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे||४६||
लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च|
आत्मगुप्तावघर्षश्च हितं तस्यावबोधने||४७||
सम्मूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च|
प्रभूतकटुयुक्तानि तस्यास्ये गालयेन्मुहुः||४८||
मातुलुङ्गरसं तद्वन्महौषधसमायुतम्|
तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः||४९||
हिङ्गूषणसमायुक्तं यावत् सञ्ज्ञाप्रबोधनम्|
प्रबुद्धसञ्ज्ञमन्नैश्च लघुभिस्तमुपाचरेत्||५०||
विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च|
पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः||५१||
स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः|
शोणितस्यावसेकैश्च व्यायामोद्घर्षणैस्तथा||५२||
प्रबुद्धसञ्ज्ञं मतिमाननुबन्धमुपक्रमेत्|
तस्य संरक्षितव्यं हि मनः प्रलयहेतुतः||५३||
सन्न्यासस्य मूर्च्छादिभ्यो भेदकं लक्षणमाह- दोषेष्वित्यादि| कृतवेगेष्विति वेगं कृत्वा क्षीणबलेषु, वेगो हि दोषाणां बलक्षयकारणं भवति; यदुक्तं विषमज्वरे- “कृत्वा वेगं गतबला” (चि. ३) इत्यादि| सन्न्यस्यन्ति अचेष्टं कुर्वन्ति | प्राणायतनमिति हृदयम्| मुक्त्वेति अप्राप्य| सद्यःफला इति सद्यः प्रबोधनकारिकास्तीक्ष्णाञ्जनादिकाः| सूचीभिरिति च तोदनेन सम्बध्यते| सम्मूर्च्छितानीति मिलितानि| गालयेदिति यत्नेन मुखे प्रक्षिपेत्| सौवर्चलस्थाने केचित् सौवीरकमाहुः| अनुबन्धं सततम्| प्रलयहेतुत इति मोहहेतुतः||४२-५३||
Adhikarana 18 (54-58) · Śloka 58
स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्|
पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च||५४||
अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिषः|
प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा||५५||
त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः|
शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा||५६||
पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा|
रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते||५७||
रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि|
सेवनान्मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम्||५८||
अष्टाविंशत्यौषधस्येति पानीयकल्याणस्य| तिक्तस्य महतस्तथा तिक्तस्य षट्पलस्य तथा महतस्तिक्तस्येति सम्बन्धः; एते च तिक्तषट्पलमहातिक्तकघृते कुष्ठचिकित्सिते वक्तव्ये| कौम्भं सर्पिर्दशाब्दिकम्||५४-५८||
Adhikarana 19 (59-60) · Śloka 60
तत्र श्लोकौ- विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः|
रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम्||५९||
मदमूर्च्छायसन्न्यासहेतुलक्षणभेषजम्|
विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम्||६०||
Adhikarana puShpikA · Śloka 6
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयो नाम चतुर्विंशोऽध्यायः||२४||
समाप्तो योजनाचतुष्कः||६||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के विधिशोणितीयो नाम चतुर्विंशोऽध्यायः||२४||