Adhikarana 1 (1-2) · Śloka 2
अथातो जनपदोद्ध्वंसनीयं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
द्विविधो हेतुर्व्याधिजनकः प्राणिनां भवति- साधारणः, असाधारणश्च; तत्रासाधारणं प्रतिपुरुषनियतं वातादिजनकमाहाराद्यभिधाय बहुजनसाधारणं वातजलदेशकालरूपं साधारणरोगकारणमभिधातुं जनपदोद्ध्वंसनीयोऽभिधीयते||१-२||
Adhikarana 2 (3) · Śloka 3
जनपदमण्डले पञ्चालक्षेत्रे द्विजातिवराध्युषिते काम्पिल्यराजधान्यां भगवान् पुनर्वसुरात्रेयोऽन्तेवासिगणपरिवृतः पश्चिमे घर्ममासे गङ्गातीरे वनविचारमनुविचरञ्छिष्यमग्निवेशमब्रवीत्||३||
जनपदवसत्युपलक्षितं मण्डलं जनपदमण्डलं, ‘पञ्चालक्षेत्रे’ इति तस्य विशेषणम्| द्विजातिवराध्युषित इति वचनेन महाजनसेवितेऽपि देशेऽधर्मवशाज्जनपदोद्ध्वंसो वक्ष्यमाणो भवतीति दर्शयति| पश्चिमे घर्ममास इति ज्येष्ठे| वनविचारमनुविचरन्निति वनं विचर्य विचर्यानुविचरन्नित्यर्थः||३||
Adhikarana 3 (4) · Śloka 4
दृश्यन्ते हि खलु सौम्य! नक्षत्रग्रहगणचन्द्रसूर्यानिलानलानां दिशां चाप्रकृतिभूतानामृतुवैकारिका भावाः, अचिरादितो भूरपि च न यथावद्रसवीर्यविपाकप्रभावमोषधीनां प्रतिविधास्यति, तद्वियोगाच्चातङ्कप्रायता नियता|
तस्मात् प्रागुद्ध्वंसात् प्राक् च भूमेर्विरसीभावादुद्धरध्वं सौम्य! भैषज्यानि यावन्नोपहतरसवीर्यविपाकप्रभावाणि भवन्ति|
वयं चैषां रसवीर्यविपाकप्रभावानुपयोक्ष्यामहे ये चास्माननुकाङ्क्षन्ति, यांश्च वयमनुकाङ्क्षामः|
न हि सम्यगुद्धृतेषु सौम्य! भैषज्येषु सम्यग्विहितेषु सम्यक् चावचारितेषु जनपदोद्ध्वंसकराणां विकाराणां किञ्चित् प्रतीकारगौरवं भवति||४||
ऋतुविकाराय भूता ऋतुवैकारिकाः; ऋतुविकारश्चोपलक्षणं, तेन जलदेशवातविकाराय भूता इति मन्तव्यं; यतो भूम्यादीनामपि विकृतिं वक्ष्यति| किंवा ऋत्वननुरूपा ऋतुवैकारिकाः; तेन, ऋत्वननुरूपलक्षणमेव नक्षत्रादीनां विकृतिरित्युक्तं भवति; ग्रीष्मे हि नक्षत्राणि निर्मलानि भवन्ति, तानि यदि तुषारच्छन्नानि ग्रीष्मे भवन्ति, तदा विकृतानि भवन्तीति बोद्धव्यम्| भूरपि चेत्यपिवचनाज्जलानिलौ च ग्राहयति; तेन, भूस्तावदोषधीनां प्रधानं कारणं, सा रसादीन्न प्रतिविधास्यति; जलवातावपि चौषधीनां रसादीन्न प्रतिविधास्यत इत्युक्तं भवति| प्रतिविधास्यतीति जनयिष्यति| उद्धरध्वमिति बहुवचनं बह्वन्तेवासियुक्ताग्निवेशाभिप्रायेण; अग्निवेशस्तु प्रधानत्वेनैक एवेति ‘अग्निवेश’ इतिपदेन तथा ‘सौम्य’ इतिपदेन सम्बोध्यते; भेषजोद्धरणं तु बहुभिरेव कर्तव्यमित्यभिप्रायेण बहुवचनम्| भवति हि प्रधानं सम्बोध्य गणसम्पाद्यक्रियायां बहुवचनं; यथा- सेनापते युध्यध्वमिति| अन्ये तु सौम्यपदं भेषजविशेषणं कुर्वन्ति| ये चास्माननुकाङ्क्षन्ति ये चास्मान् भिषजोऽनुकाङ्क्षन्तीत्यर्थः, यांश्च वयमनुकाङ्क्षामश्चिकित्स्यत्वेन| एतेन, ये वैद्यमनुकाङ्क्षन्ति ते वैद्यप्रियत्वेन साध्याः, असाध्या हि वैद्यद्विष उक्ताः; वैद्याश्च यानिच्छन्ति ते साध्यरोगा एव, असाध्यान् हि वैद्या नेच्छन्ति| एतेनान्येषामपि येषां भेषजसाध्या रोगास्ते आसामोषधीनां रसादीनुपयोक्ष्यन्तीत्यर्थः| यदि च ये अस्मद्गताः, यांश्च वयं प्रयोजनवशादनुगताः, ते उपयोक्ष्यन्तीति व्याख्यायते, तदा आत्रेयस्य पक्षरागित्वेनाप्तत्वं न सम्भवति, “सर्वप्रजानां पितृवच्छरण्यः” (चि.अ.५) इति वचनाच्चास्य नीरागत्वमुक्तम्||४||
Adhikarana 4 (5) · Śloka 5
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- उद्धृतानि खलु भगवन्! भैषज्यानि, सम्यग्विहितानि, सम्यगवचारितानि च; अपि तु खलु जनपदोद्ध्वंसनमेकेनैव व्याधिना युगपदसमानप्रकृत्याहारदेहबलसात्म्यसत्त्ववयसां मनुष्याणां कस्माद्भवतीति||५||
उद्द्धृतानीति वचनमभूते भूतवच्चेति प्रयोगाद्बोद्धव्यं, यथा- अचिरकर्तव्ये कृतमिति वदन्ति; न हि वचनकाल एव ओषधीनामुद्धरणं सम्भवतीति| एकेनेति एकजातीयेन| असमानप्रकृत्यादीनां समानकारणाभावान्न तुल्यरूपो व्याधिर्भवितुमर्हतीति प्रश्नार्थः||५||
Adhikarana 5 (6) · Śloka 6
तमुवाच भगवानात्रेयः- एवमसामान्यावतामप्येभिरग्निवेश! प्रकृत्यादिभिर्भावैर्मनुष्याणां येऽन्ये भावाः सामान्यास्तद्वैगुण्यात् समानकालाः समानलिङ्गाश्च व्याधयोऽभिनिर्वर्तमाना जनपदमुद्ध्वंसयन्ति|
ते तु खल्विमे भावाः सामान्या जनपदेषु भवन्ति; तद्यथा- वायुः, उदकं, देशः, काल इति||६||
समानलिङ्गा इति तुल्यलिङ्गाः||६||
Adhikarana 6 (7-8) · Śloka 8
तत्र वातमेवंविधमनारोग्यकरं विद्यात्; तद्यथा-यथर्तुविषममतिस्तिमितमतिचलमतिपरुषमतिशीतमत्युष्णमतिरूक्षमत्यभिष्यन्दिनमतिभैरवारावमतिप्रतिहत- परस्परगतिमतिकुण्डलिनमसात्म्यगन्धबाष्पसिकतापांशुधूमोपहतमिति (१); उदकं तु खल्वत्यर्थविकृतगन्धवर्णरसस्पर्शं क्लेदबहुलमपक्रान्तजलचरविहङ्गमुपक्षीणजलेशयमप्रीतिकरमपगतगुणं विद्यात् (२); देशं पुनः प्रकृतिविकृतवर्णगन्धरसस्पर्शं क्लेदबहुलमुपसृष्टं सरीसृपव्यालमशकशलभमक्षिकामूषकोलूकश्माशानिकशकुनिजम्बूकादिभिस्तृणोलूपोपवनवन्तं प्रतानादिबहुलमपूर्ववदवपतितशुष्कनष्टशस्यं धूम्रपवनं प्रध्मातपतत्रिगणमुत्क्रुष्टश्वगणमुद्भ्रान्तव्यथितविविधमृगपक्षिसङ्घमुत्सृष्टनष्टधर्मसत्यलज्जाचारशीलगुणजनपदं शश्वत्क्षुभितोदीर्णसलिलाशयं प्रततोल्कापातनिर्घातभूमिकम्पमतिभयारावरूपं रूक्षताम्रारुणसिताभ्रजालसंवृतार्कचन्द्रतारकमभीक्ष्णं ससम्भ्रमोद्वेगमिव सत्रासरुदितमिव सतमस्कमिव गुह्यकाचरितमिवाक्रन्दितशब्दबहुलं चाहितं विद्यात् (३); कालं तु खलु यथर्तुलिङ्गाद्विपरीतलिङ्गमतिलिङ्गं हीनलिङ्गं चाहितं व्यवस्येत् (४); इमानेवन्दोषयुक्तांश्चतुरो भावाञ्जनपदोद्ध्वंसकरान् वदन्ति कुशलाः; अतोऽन्यथाभूतांस्तु हितानाचक्षते||७||
विगुणेष्वपि खल्वेतेषु जनपदोद्ध्वंसकरेषु भावेषु भेषजेनोपपाद्यमानानामभयं भवति रोगेभ्य इति||८||
यथर्तुविषममिति ऋत्वननुरूपम्| अपगतगुणमिति जीवनपिपासाहरत्वाद्युक्तजलगुणरहितम्| प्रकृतिवर्णादेर्विकृता वर्णादयो यस्य देशस्य तं प्रकृतिविकृतवर्णगन्धरसस्पर्शम्| श्माशानिकशकुनिः गृध्रः| अपूर्ववदिति परिचितमप्युपहतत्वेनापूर्वमिव दृश्यते| उत्सृष्टाश्च नष्टाश्च धर्मसत्यलज्जागुणा जनैर्यत्र स तथा; तत्र ये धर्मादियुक्तास्ते उत्सृजन्ति धर्मादीनि, ये तु धर्मादीनि सर्वथा अज्ञानान्नाचरन्ति तान् प्रति नष्टान्येव धर्मादीनि| गुह्यकाक्रान्तो हि देशो यथा आक्रन्दनशब्दबहुलो भवति तादृशम्||७-८||
Adhikarana 7 (9-11) · Śloka 11
भवन्ति चात्र- वैगुण्यमुपपन्नानां देशकालानिलाम्भसाम्|
गरीयस्त्वं विशेषेण हेतुमत् सम्प्रवक्ष्यते||९||
वाताज्जलं जलाद्देशं देशात् कालं स्वभावतः|
विद्याद्दुष्परिहार्यत्वाद्गरीयस्तरमर्थवित् ||१०||
वाय्वादिषु यथोक्तानां दोषाणां तु विशेषवित्|
प्रतीकारस्य सौकर्ये विद्याल्लाघवलक्षणम्||११||
वैगुण्यमित्यादिना दुष्टानां वातादीनां यस्य य उत्कर्षो येन च हेतुना तदाह| स्वभावतो दुष्परिहार्यत्वादिति स्वभावादेव वातापेक्षया जलं दुष्परिहरं भवति, जलाच्च देशः, देशाच्च कालः| वातो हि निवातदेशसेवया दुष्टः परिह्रियते, न तथा जलं, तद्धि देहवृत्त्यर्थमवश्यं सेव्यं; जलमपि च यदि महता प्रयत्नेन त्यज्यते, देशस्तु जलापेक्षया दुष्परिहरो भवति, तद्व्यतिरेकेणावस्थातुमशक्यत्वात्; देशोऽपि यदि देशान्तरगमनेन त्यज्यते, कालस्तु सर्वथा त्यक्तुमशक्य इति सर्वेष्वेव गरीयान्| ‘गरीयः परम्’ इति पाठे यद्यतः परं, तत्ततो गरीयो विद्यादिति योजना| एतद्विपर्ययेण लाघवमाह- वाय्वादिष्वित्यादि| प्रतीकारस्य सौकर्य इति यथोक्तविधया वातादिपरित्यागस्य सुकरत्वेनेत्यर्थः||९-११||
Adhikarana 8 (12-18) · Śloka 18
चतुर्ष्वपि तु दुष्टेषु कालान्तेषु यदा नराः|
भेषजेनोपपाद्यन्ते न भवन्त्यातुरास्तदा||१२||
येषां न मृत्युसामान्यं सामान्यं न च कर्मणाम्|
कर्म पञ्चविधं तेषां भेषजं परमुच्यते||१३||
रसायनानां विधिवच्चोपयोगः प्रशस्यते|
शस्यते देहवृत्तिश्च भेषजैः पूर्वमुद्धृतैः||१४||
सत्यं भूते दया दानं बलयो देवतार्चनम्|
सद्धृत्तस्यानुवृत्तिश्च प्रशमो गुप्तिरात्मनः||१५||
हितं जनपदानां च शिवानामुपसेवनम्|
सेवनं ब्रह्मचर्यस्य तथैव ब्रह्मचारिणाम्||१६||
सङ्कथा धर्मशास्त्राणां महर्षीणां जितात्मनाम्|
धार्मिकैः सात्त्विकैर्नित्यं सहास्या वृद्धसम्मतैः||१७||
इत्येतद्भेषजं प्रोक्तमायुषः परिपालनम्|
येषामनियतो मृत्युस्तस्मिन् काले सुदारुणे||१८||
येषां न मृत्युसामान्यमिति न मृत्युजनकदैवसाम्यं येषामस्तीत्यर्थः| सामान्यं न च कर्मणामिति नच मारककर्मसामान्यं येषामस्तीत्यर्थः| केचिद्धि सम्भूयैव जन्मान्तरे ग्रामदाहादिकर्म कुर्वते स्म, तत्कर्मबलात् संहतमृत्यव एव भवन्ति; किंवा पृथगपि मारकं कर्म कृतं केषाञ्चिदेककालं विपच्यमानं भवति, तेऽपि समकालभृत्यवो भवन्ति| तत्र, न मृत्युसामान्यमित्यनेनोत्पन्नरिष्टत्वादेव केचिदसाध्या इति दर्शयति, न कर्मसामान्यमित्यनेन केचिच्चाजातरिष्टा अपि नियतमारककर्मवशादसाध्या भवन्तीति दर्शयति; किंवा न मृत्युसामान्यमित्यनेन च मारको व्याधिः साधारण उच्यते, न कर्मसामान्यमित्यनेन च मारकव्याधिजनकं कर्मोच्यते| पूर्वमुद्धृतैरिति व्यापत्तेः पूर्वं गृहीतैः| गुप्तिः मन्त्रादिना रक्षा| अनियत इति वचनेन दुर्बलकर्मारब्धो हि मृत्युः पार्यत एवैवं प्रतिकर्तुमिति दर्शयति||१२-१८||
Adhikarana 9 (19-20) · Śloka 20
इति श्रुत्वा जनपदोद्ध्वंसने कारणानि पुनरपि भगवन्तमात्रेयमग्निवेश उवाच- अथ खलु भगवन्! कुतोमूलमेषां वाय्वादीनां वैगुण्यमुत्पद्यते? येनोपपन्ना जनपदमुद्ध्वंसयन्तीति||१९||
तमुवाच भगवानात्रेयः- सर्वेषामप्यग्निवेश! वाय्वादीनां यद्वैगुण्यमुत्पद्यते तस्य मूलमधर्मः, तन्मूलं वाऽसत्कर्म पूर्वकृतं; तयोर्योनिः प्रज्ञापराध एव|
तद्यथा- यदा वै देशनगरनिगमजनपदप्रधाना धर्ममुत्क्रम्याधर्मेण प्रजां वर्तयन्ति, तदाश्रितोपाश्रिताः पौरजनपदा व्यवहारोपजीविनश्च तमधर्ममभिवर्धयन्ति, ततः सोऽधर्मः प्रसभं धर्ममन्तर्धत्ते, ततस्तेऽन्तर्हितधर्माणो देवताभिरपि त्यज्यन्ते; तेषां तथाऽन्तर्हितधर्मणामधर्मप्रधानानामपक्रान्तदेवतानामृतवो व्यापद्यन्ते; तेन नापो यथाकालं देवो वर्षति न वा वर्षति विकृतं वा वर्षति, वाता न सम्यगभिवान्ति, क्षितिर्व्यापद्यते, सलिलान्युपशुष्यन्ति, ओषधयः स्वभावं परिहायापद्यन्ते विकृतिं; तत उद्ध्वंसन्ते जनपदाः स्पृश्याभ्यवहार्यदोषात् ||२०||
कुतोमूलं किम्मूलमित्यर्थः| तस्य मूलमधर्म इति ऐहिकमधर्मं दर्शयति| तन्मूलं वेति तस्य वातादिवैगुण्यस्य मूलं पूर्वकृतं वा कर्म| तेनैहिको वाऽधर्मो जन्मान्तरकृतो वाऽधर्मो वातादिवैगुण्यस्य कारणमिति ब्रूते| तद्यदा देशेत्यादिना त्वैहिकमेवाधर्मं यद्वक्ष्यति हेतुतया तत् प्रत्यक्षत्वेन स्फुटसिद्धान्तार्थं, नतु जन्मान्तरकृताधर्मस्याकारणत्वेनेति ज्ञेयम्| तयोरिति ऐहिकजन्मान्तरीययोरधर्मयोः| योनिरिति कारणम्| स्पृश्याभ्यवहार्यदोषादिति स्पृश्यस्य वा जलादेरभ्यवहार्यस्य च कृत्स्नस्य दुष्टत्वात्| एतच्च प्राधान्येन ज्ञेयं; तेन दुष्टपवनगन्धदोषोऽपि ज्ञेयः, असात्म्यगन्धोऽपि दुष्टवाते उक्तः||१९-२०||
Adhikarana 10 (21) · Śloka 21
तथा शस्त्रप्रभवस्यापि जनपदोद्ध्वंसस्याधर्म एव हेतुर्भवति|
येऽतिप्रवृद्धलोभक्रोधमोहमानास्ते दुर्बलानवमत्यात्मस्वजनपरोपघाताय शस्त्रेण परस्परमभिक्रामन्ति, परान् वाऽभिक्रामन्ति, परैर्वाऽभिक्राम्यन्ते||२१||
शस्त्रप्रभवस्यापीति बहुजनमारकस्य शस्त्रप्रभवस्येत्यर्थः| आत्मस्वजनपरोपघातायेति अत्र आत्मनः स्वजनस्य परस्य चोपघातो भवति प्राय इत्यर्थः||२१||
Adhikarana 11 (22) · Śloka 22
रक्षोगणादिभिर्वा विविधैर्भूतसङ्घैस्तमधर्ममन्यद्वाऽप्यपचारान्तरमुपलभ्याभिहन्यन्ते||२२||
राक्षसाद्युत्सादोऽपि जनानामधर्मकृत एव भवतीत्याह- रक्षोगणेत्यादि| अन्यद्वा अपचारान्तरमिति यथोक्ताधर्मकारणादन्यदधर्मकारणमशौचादीत्यर्थः||२२||
Adhikarana 12 (23) · Śloka 23
तथाऽभिशापप्रभवस्याप्यधर्म एव हेतुर्भवति|
ये लुप्तधर्माणो धर्मादपेतास्ते गुरुवृद्धसिद्धर्षिपूज्यानवमत्याहितान्याचरन्ति; ततस्ताः प्रजा गुर्वादिभिरभिशप्ता भस्मतामुपयान्ति प्रागेवानेकपुरुषकुलविनाशाय, नियतप्रत्ययोपलम्भादनियताश्चापरे ||२३||
प्रागेवेति झटिति, अनेकपुरुषकुलविनाशायाभिशप्ता भस्मतां यान्तीत्यर्थः| नियतप्रत्ययोपलम्भादनियताश्चापरे भस्मतां यान्तीति योजना| अनियता अमिलिता इत्यर्थः| प्रतिनियतपुरुषाभिशापात् प्रतिनियता एव भस्मतां यान्ति, न सर्वे जना इत्यर्थः||२३||
Adhikarana 13 (24) · Śloka 24
प्रागपि चाधर्मादृते नाशुभोत्पत्तिरन्यतोऽभूत्|
आदिकाले ह्यदितिसुतसमौजसोऽतिविमलविपुलप्रभावाः प्रत्यक्षदेवदेवर्षिधर्मयज्ञविधिविधानाः शैलसारसंहतस्थिरशरीराः प्रसन्नवर्णेन्द्रियाः पवनसमबलजवपराक्रमाश्चारुस्फिचोऽभिरूपप्रमाणाकृतिप्रसादोपचयवन्तः सत्यार्जवानृशंस्यदानदमनियमतपोपवासब्रह्मचर्यव्रतपरा व्यपगतभयरागद्वेषमोहलोभक्रोधशोकमानरोगनिद्रातन्द्राश्रमक्लमालस्यपरिग्रहाश्च पुरुषा बभूवुरमितायुषः|
तेषामुदारसत्त्वगुणकर्मणामचिन्त्यरसवीर्यविपाकप्रभावगुणसमुदितानि प्रादुर्बभूवुः शस्यानि सर्वगुणसमुदितत्वात् पृथिव्यादीनां कृतयुगस्यादौ|
भ्रश्यति तु कृतयुगे केषाञ्चिदत्यादानात् साम्पन्निकानां सत्त्वानां शरीरगौरवमासीत्, शरीरगौरवाच्छ्रमः, श्रमादालस्यम्, आलस्यात् सञ्चयः, सञ्चयात् परिग्रहः, परिग्रहाल्लोभः प्रादुरासीत् कृते|
ततस्त्रेतायां लोभादभिद्रोहः, अभिद्रोहानृतवचनम्, अनृतवचनात् कामक्रोधमानद्वेषपारुष्याभिघातभयतापशोकचिन्तोद्वेगादयः प्रवृत्ताः|
ततस्त्रेतायां धर्मपादोऽन्तर्धानमगमत्|
तस्यान्तर्धानात् युगवर्षप्रमाणस्य पादह्रासः, पृथिव्यादेश्च गुणपादप्रणाशोऽभूत्|
तत्प्रणाशकृतश्च शस्यानां स्नेहवैमल्यरसवीर्यविपाकप्रभावगुणपादभ्रांशः|
ततस्तानि प्रजाशरीराणि हीयमानगुणपादैराहारविहारैरयथापूर्वमुपष्टभ्यमानान्यग्निमारुतपरीतानि प्राग्व्याधिभिर्ज्वरादिभिराक्रान्तानि|
अतः प्राणिनो ह्रासमवापुरायुषः क्रमश इति||२४||
आद्याविर्भावे च रोगाणामधर्म एव कारणमित्याह- प्रागपि चेत्यादि| यज्ञः यज्ञदेवता, विधिः यज्ञविधायको वेदः, विधानं यज्ञकर्म| जवः वेगः| परिग्रहः ममता| अमितमिवातिबहुत्वेनायुर्येषां ते अमितायुषः| सत्ये हि चतुर्वर्षशतमायुः; यदुक्तं भगवता व्यासेन- “पुरुषाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः| कृते” इति| साम्पन्निकानाम् ईश्वराणाम्| कृते इति कृतयुगस्य शेषे| हीयमानगुणपादैरिति यथा यथा त्रेतायाः क्षयो भवति, तथा तथा आहारविहारगुणपादह्रासो भवन्नास्त इति दर्शयति| विहारोऽपि चाधर्मवतां हीनगुणो भवति, तेन न यथावच्छरीरोपष्टम्भनं करोति| उपष्टभ्यमानानीति धातुसाम्येन पाल्यमानानि||२४||
Adhikarana 14 (25-27) · Śloka 27
भवतश्चात्र- युगे युगे धर्मपादः क्रमेणानेन हीयते|
गुणपादश्च भूतानामेवं लोकः प्रलीयते||२५||
संवत्सरशते पूर्णे याति संवत्सरः क्षयम्|
देहिनामायुषः काले यत्र यन्मानमिष्यते||२६||
इति विकाराणां प्रागुत्पत्तिहेतुरुक्तो भवति||२७||
संवत्सरशते पूर्ण इति संवत्सरेण शततमेंऽशे पूर्णे| यत्र यन्मानमिष्यत इति यत्र युगे यन्मानमिष्यते, तस्य शततमेंऽशे पूर्णे वर्ष एकः क्षयं याति| तेन, कलौ शतवर्षायुषि यदा शततमोंऽशो याति क्षयं तदा नवनवतिः परमायुर्भवतीत्याद्यनुसरणीयम्||२५-२७||
Adhikarana 15 (28-32) · Śloka 33
एवंवादिनं भगवन्तमग्निवेश उवाच- किन्नु खलु भगवन्! नियतकालप्रमाणमायुः सर्वं न वेति||२८||
तं भगवानुवाच- इहाग्निवेश! भूतानामायुर्युक्तिमपेक्षते|
दैवे पुरुषकारे च स्थितं ह्यस्य बलाबलम्||२९||
दैवमात्मकृतं विद्यात् कर्म यत् पौर्वदैहिकम्|
स्मृतः पुरुषकारस्तु क्रियते यदिहापरम्||३०||
बलाबलविशेषोऽस्ति तयोरपि च कर्मणोः|
दृष्टं हि त्रिविधं कर्म हीनं मध्यममुत्तमम्||३१||
तयोरुदारयोर्युक्तिर्दीर्घस्य च सुखस्य च|
नियतस्यायुषो हेतुर्विपरीतस्य चेतरा||३२||
मध्यमा मध्यमस्येष्टा कारणं शृणु चापरम्|३३|
युक्तिमपेक्षत इति दैवपुरुषकारयोर्योगमपेक्षते नियतत्वेऽनियतत्वे चेत्यर्थः| बलं चाबलं च बलाबलं; तत्रायुषो नियतत्वेन बलम्, अनियतत्वेनाबलं ज्ञेयम्| यद्यपि पौर्वदैहिकं कर्मास्थिरत्वेन गतं, तथाऽपि तज्जनितादृष्टस्य विद्यमानत्वात् तद्द्वारा तत्कर्म कारणं भवत्येवेह जन्मन्यपि| पुरुषकारस्त्विह जन्मनि कृतं कर्म सामान्येनोच्यते| तत्र बलिमङ्गलादि अदृष्टजननत्वाद् व्याप्रियते, तथा भेषजादि रसरुधिरादिद्वारा ||२८-३२||-
Adhikarana 16 (33-35) · Śloka 35
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते||३३||
दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते|
दृष्ट्वा यदेके मन्यन्ते नियतं मानमायुषः||३४||
कर्म किञ्चित् क्वचित् काले विपाके नियतं महत्|
किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते||३५||
उदारयोरिति प्रशस्तत्वेनोत्तमयोः| दीर्घस्येति रसायनादिना शतादपि दीर्घस्य; सुखस्येति नीरोगत्वेन; नियतस्येति युगनियतस्य, कलौ वर्षशतप्रमाणस्येत्यर्थः; शतादर्वाङनिनियतमपीह नियतशब्देनोच्यते; तेन न तत्र तस्य दैवपुरुषकारजन्यत्वं घटते, तथाऽपि तस्याप्रशस्तदैवपुरुषकारजन्यत्वात् दैवपुरुषकारजन्यत्वं भवतीति युक्तं; किञ्चानियतायुष एव पुरुषा रसायनाधिकारिणो भवन्ति, नियतायुषं प्रति रसायनस्याकिञ्चित्करत्वात्; रसायनादिकृतं चायुरनियतं प्रशस्तत्वेन प्रशस्तदैवपुरुषकारजन्यं भवतीति युक्तम्| किंवा, दीर्घत्वे सति नियतस्यायुषो हेतुरिति योजना; तेन युगनियतं च शतवर्षं, तथा तदधिकं चानियतं महता कर्मणैव क्रियते; पुरुषकारेण तु महताऽस्य सुखित्वं रोगानुपघातात् क्रियते; रसायनेन च जरादिव्याधिप्रतिघातः क्रियते; रसायनलभ्यमप्यायुर्बलवत्कर्मनियतमेवेति भावः| विपरीतस्य दीर्घत्वेनानियतस्य तथा रोगयुक्तत्वेनासुखस्य| इतरेति हीनयोर्द्दैवपुरुषकारयोर्युक्तिरित्यर्थः| मध्यमामध्यमस्य दीर्घत्वेनादीर्घत्वेनानियतस्य, तथा सुखासुखत्वेनानियतस्यायुषो मध्यमयोः कर्मणोर्युक्तिरित्यर्थः| कारणमिति दैवपुरुषकारयोः परस्परबाधने उपपत्तिमित्यर्थः| दैवमित्यादि| दुर्बलमायुर्जननं दैवं बलवता मारकेण दृष्टापथ्यभोजनादिना विपरीतमरणकार्यजननादुपहन्यते; विशिष्टेन बलवता, इतरत् कर्म दृष्टं पुरुषकाराख्यम्, उपहन्यते पराभूयते| एतद्दैवकर्तृकदृष्टपराभवदर्शनाद्दैवनियतमेव सर्वमायुरिति केचिन्मन्यन्त इत्याह - दृष्ट्वेत्यादि| यदि दृष्टमायुः कारणं स्यात्, न तदा भेषजैः सम्यगुपपादितानां मृत्युः स्यात्; यतश्च सत्यपि चिकित्सिते कर्मवशात्तु मृत्युर्भवति; तेन, यत्रापि चिकित्सा जीवयतीति मन्यन्ते, तत्रापि कर्मैवास्ति जीवनकारणमिति दृष्टशक्तित्वादवधारयाम इति भावः| दैवपुरुषकारयोरुभयोरपि बाध्यत्वं दर्शयन्नेकान्तेन नियतायुःपक्षं व्युदस्यति- कर्मेत्यादि| न क्वचित् कर्म न भवति; यदुच्यते- “नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि| अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्” इति| किञ्चित्त्वकालनियतमिति, यथा- इदं मारकं कर्म न तु क्वचित्काले पञ्चविंशवर्षादौ नियतं, तेन यस्मिन् काले पुरुषकाराख्यं दृष्टकर्मानुगुणं प्राप्नोति तस्मिन् काले सहकारिसान्निध्योपबृंहितबलं मारयति, यदा तु दृष्टमपथ्यसेवादि न प्राप्नोति न तदा मारयति, प्रत्ययैः प्रतिबोध्यत इति दृष्टकारणैरुद्रिक्तं क्रियते| ये तु ब्रुवते- किञ्चित् कर्म कालनियतं यदा पच्यते, तस्मिन् काले पच्यत एवेति कालनियमः; विपाकनियतं तु- इदं कर्म विपच्यत एव, न तु विपच्यत इति न; कालविपाकनियतं तु यथा- इदं कर्म अस्मिन्नेव काले विपच्यत एवेति; एतच्च कालविपाकनियतत्वाद्बलवदुच्यते; एतदेव दृष्टाबाधनीयमिति; तेषां मते, अभुक्तमपि क्षीयते दुर्बलकर्म प्रायश्चित्तादिनेति बोद्धव्यं, परं विपर्ययेऽपि तदा किञ्चित्त्वविपाककालनियतमिति वक्तव्यं स्यात्; किञ्चित्त्वकालनियतमिति वचनात्तु कालनियतमपि||३३-३५||
Adhikarana 17 (36) · Śloka 36
तस्मादुभयदृष्टत्वादेकान्तग्रहणमसाधु|
निदर्शनमपि चात्रोदाहरिष्यमः- यदि हि नियतकालप्रमाणमायुः सर्वं स्यात्, तदाऽऽयुष्कामाणां न मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनाद्याः क्रिया इष्टयश्च प्रयोज्येरन्; नोद्भ्रान्तचण्डचपलगोजोष्ट्रखरतुरगमहिषादयः पवनादयश्च दुष्टाः परिहार्याः स्युः, न प्रपातगिरिविषमदुर्गाम्बुवेगाः, तथा न प्रमत्तोन्मत्तोद्भान्तचण्डचपलमोहलोभाकुलमतयः, नारयः, न प्रवृद्धोऽग्निः, च विविधविषाश्रयाः सरीसृपोरगादयः, न साहसं, नादेशकालचर्या, न नरेन्द्रप्रकोप इति; एवमादयो हि भावा नाभावकराः स्युः, आयुषः सर्वस्य नियतकालप्रमाणत्वात्|
न चानभ्यस्ताकालमरणभयनिवारकाणामकालमरणभयमागच्छेत् प्रणिनां, व्यर्थाश्चारम्भकथाप्रयोगबुद्धयः स्युर्महर्षीणां रसायनाधिकारे, नापीन्द्रो नियतायुषं शत्रुं वज्रेणाभिहन्यात्, नाश्विनावार्तं भेषजेनोपपादयेतां , न महर्षयो यथेष्टमायुस्तपसा प्राप्नुयुः, न च विदितवेदितव्या महर्षयः ससुरेशाः सम्यक् पश्येयुरुपदिशेयुराचरेयुर्वा|
अपि च सर्वचक्षुषामेतत् परं यदैन्द्रं चक्षुः , इदं चाप्यस्माकं तेन प्रत्यक्षं; यथा- पुरुषसहस्राणामुत्थायोत्थायाहवं कुर्वतामकुर्वतां चातुल्यायुष्ट्वं, तथा जातमात्राणामप्रतीकारात् प्रतीकाराच्च, अविषविषप्राशिनां चाप्यतुल्यायुष्ट्वमेव, न च तुल्यो योगक्षेम उदपानघटानां चित्रघटानां चोत्सीदतां; तस्माद्धितोपचारमूलं जीवितम्, अतो विपर्ययान्मृत्युः|
अपि च देशकालात्मगुणविपरीतानां कर्मणामाहारविकाराणां च क्रमोपयोगः सम्यक्, त्यागः सर्वस्य चातियोगायोगमिथ्यायोगानां, सर्वातियोगसन्धारणम् , असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनम्, आरोग्यानुवृत्तौ हेतुमुपलभामहे सम्यगुपदिशामः सम्यक् पश्यामश्चेति||३६||
अतः परमुत्तरमुपसंहरति - तस्मादित्यादि| उभयदृष्टत्वादिति दैवस्य पुरुषकारेण, तथा पुरुषकारस्य दैवेन बाधदर्शनात्| एकान्तग्रहणमिति नियतमेवायुरिति तथा अनियतमेवायुः सर्वमिति चेत्यर्थः| निदृश्यतेऽभिमतः पक्षः साध्यतेऽनेनेति निदर्शनं युक्तरित्यर्थः| अत्रेति अनैकान्तिकपक्षे| यदीत्यादिना प्रकरणेनायुर्जनकस्य दृष्टस्य हेतोः सेवा तथा आयुर्विघातकस्य हेतोरसेवा सर्वप्रामाणिकजनाविवादसिद्धा दर्श्यते| सा च सर्वा यदि नियतमायुः स्यात्तदा अकिञ्चित्करी स्यात्, अनियते चायुषि किञ्चित्करी स्यात्; तस्मादनियतमप्यायुर्भवतीति भावः| न च सर्वत्रैवादृष्टमेव कारणं दृष्टमकिञ्चित्करमेवेति वदतो दृष्टस्यापि त्रिवृतादेर्विरेकादिकर्तृत्वं व्यक्तमेव; अदृष्टस्यैव तु कारणत्वं दृष्टेकार्यानुपपत्तेः कल्पनीयं; तेनादृष्टस्य कारणत्वं दृष्टकारणमूलमित्यर्थः; न च दृष्टकारणोच्छेदः कल्पयितुमपि पार्यते| इष्टयः यज्ञाः| अत्यर्थसर्पणशीला उरगाः सरीसृपोरगाः| आचरेयुर्वा ‘भेषजम् ’ इति शेषः| चक्षुषां परमिति अत्यर्थाभ्रान्तत्वेन| अतुल्यायुष्ट्वमिति ये आहवं कुर्वते ते शस्त्रेण म्रियन्ते, ये तु न कुर्वते ते शस्त्रेण न प्रायो म्रियन्ते| प्रतीकारादप्रतीकाराच्चातुल्यायुष्ट्वमिति योजना| न च तुल्य इत्यादौ चित्रघटो यश्चित्रित इव स्थाप्यते, स हि पानीयवहनादिप्रत्यवायहेत्वभावाच्चिरं तिष्ठति; उदपानघटस्तु जलसम्बन्धात् तथा वहनसमये पतनादिना च शीघ्रमुत्सीदति| हितोपचारमूलमिति हितोपचारमूलमपि| क्रमोपयोगः सम्यगिति योजना| सर्वातियोगसन्धारणं सर्वातियोगानां वर्जनम्||३६||
Adhikarana 18 (37) · Śloka 37
अतः परमग्निवेश उवाच- एवं सत्यनियतकालप्रमाणायुषां भगवन्! कथं कालमृत्युरकालमृत्युर्वाभवतीति||३७||
एवं सतीत्यादि| यत्तावत् कालनियतं तस्याकाले मरणाभावादेव नाकालमृत्युरस्ति, यत्त्वकालनियतं तस्याप्यनियतत्वात् कथं कालमृत्युरकालमृत्युर्वा भवति? अनियते ह्यायुषि कालनियमो नास्ति, नियतकालाच्चार्वागकालमृत्युरुच्यत इति पृच्छार्थः||३७||
Adhikarana 19 (38) · Śloka 38
तमुवाच भगवानात्रेयः- श्रूयतामग्निवेश! यथा यानसमायुक्तोऽक्षः प्रकृत्यैवाक्षगुणैरुपेतः स च सर्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छेत्, तथाऽऽयुः शरीरोपगतं बलवत्प्रकृत्या यथावदुपचर्यमाणं स्वप्रमाणक्षयादेवावसानं गच्छति; स मृत्युः काले|
यथा च स एवाक्षोऽतिभाराधिष्ठितत्वाद्विषमपथादपथादक्षचक्रभङ्गाद्वाह्यवाहकदोषादणिमोक्षादनुपाङ्गात् पर्यसनाच्चान्तराऽवसानमापद्यते, तथाऽऽयुरप्ययथाबलमारम्भादयथाग्न्यभ्यवहरणाद्विषमाभ्यावहरणाद्विषमशरीरन्यासादतिमैथुनादसत्संश्रयादुदीर्ण- वेगविनिग्रहाद्विधार्यवेगाविधारणाद्भूतविषवाय्वग्न्युपतापादभिघातादाहारप्रतीकारविवर्जनाच्चान्तराऽवसानमापद्यते, स मृत्युरकाले; तथा ज्वरादीनप्यातङ्कान्मिथ्योपचरितानकालमृत्यून् पश्याम इति||३८||
यथाकालमिति यावता कालेन प्रत्यवायशून्यस्याक्षस्य क्षयो भवति तस्मिन्नेवेत्यर्थः| स्वप्रमाणक्षयादेवेति युगानुरूपवर्षशतादिप्रमाणक्षयादित्यर्थः| अपथादिति सर्वथा अमार्गगमनात्| अणिमोक्षादिति कीलमोक्षात्| अनुपाङ्गादिति स्नेहादानात्| पर्यसनात् परिक्षेपात्| मिथ्योपचरितानिति असम्यक्चिकित्सतान्| अकालमृत्यूनिति अकालमृत्युकरान्||३८||
Adhikarana 20 (39) · Śloka 39
अथाग्निवेशः पप्रच्छ- किन्नु खलु भगवन्! ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति भिषजो भूयिष्ठं न तथा शीतम्, अस्ति च शीतसाध्योऽपि धातुर्ज्वरकर इति||३९||
सम्प्रति मिथ्योपचारश्रुत्या उष्णतोयं ज्वरेऽप्याग्नेये मिथ्योपचारः स्यादित्याशङ्क्याह- किन्न्वित्यादि| शीतसाध्योऽपिधातुः पित्तमुष्णरूपमित्यर्थः| पानीयं यस्मात् सर्वज्वरितेभ्यो दीयते, तस्मात् पानीयमेवात्र पृच्छति||३९||
Adhikarana 21 (40) · Śloka 40
तमुवाच भगवानात्रेयः- ज्वरितस्य कायसमुत्थानदेशकालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं प्रयच्छन्ति भिषजः|
ज्वरो ह्यामाशयसमुत्थः, प्रायो भेषजानि चामाशयसमुत्थानां विकाराणां पाचनवमनापतर्पणसमर्थानि भवन्ति; पाचनार्थं च पानीयमुष्णं, तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भिषजो भूयिष्ठम्|
तद्धि तेषां पीतं वातमनुलोमयति, अग्निं चोदर्यमुदीरयति, क्षिप्रं जरां गच्छति, श्लेष्माणं परिशोषयति, स्वल्पमपि च पीतं तृष्णाप्रशमनायोपकल्पते; तथायुक्तमपि चैतन्नात्यर्थोत्सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा प्रदेयम्, उष्णेन हि दाहभ्रमप्रलापातिसारा भूयोऽभिवर्धन्ते, शीतेन चोपशाम्यन्तीति||४०||
उत्सन्नपित्ते प्रवृद्धपित्ते||४०||
Adhikarana 22 (41) · Śloka 41
भवति चात्र- शीतेनोष्णकृतान् रोगाञ्छमयन्ति भिषग्विदः|
ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम्||४१||
न केवलं ज्वरे एव शीतोष्णसमुत्थत्वभेदेन उष्णशीतोपचारः, किन्तु सर्वत्रैव व्याधावेवमित्याह- शीतेनेत्यादि| भिषजश्च ते ज्ञानवन्तश्चेति भिषग्विदः||४१||
Adhikarana 23 (42-44) · Śloka 44
एवमितरेषामपि व्याधीनां निदानविपरीतं भेषजं भवति; यथा- अपतर्पणनिमित्तानां व्याधीनां नान्तरेण पूरणमस्ति शान्तिः, तथा पूरणनिमित्तानां व्याधीनां नान्तरेणापतर्पणम्||४२||
अपतर्पणमपि च त्रिविधं- लङ्घनं, लङ्घनपाचनं, दोषावसेचनं चेति||४३||
तत्र लङ्घनमल्पबलदोषाणां , लङ्घनेन ह्यग्निमारुतवृद्ध्या वातातपपरीतमिवाल्पमुदकमल्पो दोषः प्रशोषमापद्यते; लङ्घनपाचने तु मध्यबलदोषाणां, लङ्घनपाचनाभ्यां हि सूर्यसन्तापमारुताभ्यां पांशुभस्मावकिरणैरिव चानतिबहूदकं मध्यबलो दोषः प्रशोषमापद्यते; बहुदोषाणां पुनर्दोषावसेचनमेव कार्यं, न ह्यभिन्ने केदारसेतौ पल्वलाप्रसेकोऽस्ति, तद्वद्दोषावसेचनम्||४४||
न केवलं शीतोष्णसमुत्थयोरेव परं हेतुविपर्ययेण चिकित्सा, किन्त्वपतर्पणादिजेऽपि हेतुविपरीतेनेत्याह- एवमित्यादि| अपतर्पणसन्तर्पणाभ्यां च सर्वं चिकित्सितं गृहीतं, न ह्यपतर्पणसन्तर्पणाभ्यां विनाऽन्यद्विधानान्तरमस्ति चिकित्सायाः; येन सर्व एवोपक्रमाः सन्तर्पणापतर्पणभेदा एव| अत एव विशेषज्ञानार्थमपतर्पणभेदानाह- अपतर्पणमित्यादि| लङ्घनपाचनमितिवचनेन यत्र पाचनं क्रियते तत्रावश्यं स्तोकमात्रया लङ्घनमपिक्रियत इति दर्शयति, पाचनकाले हि यदि बृंहणं क्रियते तदा बृंहणेनाग्नेः प्रतिकूलेन पाचनं न स्यादित्यर्थः| अवकिरणैरिवेत्यत्र इवशब्दोऽनतिबहूदकमिवेत्येवंरूपो ज्ञेयः| अन्यद्वेति लङ्घनादि बृंहणादि च||४२-४४||
Adhikarana 24 (45) · Śloka 45
दोषावसेचनमन्यद्वा भेषजं प्राप्तकालमप्यातुरस्य नैवंविधस्य कुर्यात्|
तद्यथा- अनपवादप्रतीकारस्याधनस्यापरिचारकस्य वैद्यमानिनश्चण्डस्यासूयकस्य तीव्राधर्मारुचेरतिक्षीणबलमांसशोणितस्यासाध्यरोगोपहतस्य मुमूर्षुलिङ्गान्वितस्य चेति|
एवंविधं ह्यातुरमुपचरन् भिषक् पापीयसाऽयशसा योगमृच्छतीति||४५||
अनपवादप्रतीकारो वाच्यप्रतीकारः| अधनस्यानुपकरणत्वेन न चिकित्सा पार्यते कर्तुमित्यर्थः| वैद्यमानी दुरभिमानाद्वैद्योपदेशं न करोति| तीव्राधर्मरुचेः प्रतिक्रियायामधर्मो भवति, न च चिकित्सा सिध्यत्यधर्मप्रतिबन्धात्| मुमूर्षुलिङ्गान्वितस्येति रिष्टयुक्तस्य| पापीयसेति पापहेतुना पापजनकेनायशसा||४५||
Adhikarana 25 (46-48) · Śloka 48
भवति चात्र- तदात्वे चानुबन्धे वा यस्य स्यादशुभं फलम्|
कर्मणस्तन्न कर्तव्यमेतद्बुद्धिमतां मतम्||४६||
(अल्पोदकद्रुमो यस्तु प्रवातः प्रचुरातपः|
ज्ञेयः स जाङ्गलो देशः स्वल्परोगतमोऽपि च||४७||
प्रचुरोदकवृक्षो यो निवातो दुर्लभातपः|
अनूपो बहुदोषश्च, समः साधारणो मतः)||४८||
अनुबन्धे वेति उत्तरकालम्| केचिदल्पोदकद्रुमो यस्त्वित्यादिग्रन्थं जाङ्गलादिदेशलक्षणमत्र पठन्ति||४६-४८||
Adhikarana 26 (49-52) · Śloka 52
तत्र श्लोकाः- पूर्वरूपाणि सामान्या हेतवः सस्वलक्षणाः|
देशोद्ध्वंसस्य भैषज्यं हेतूनां मूलमेव च||४९||
प्राग्विकारसमुत्पत्तिरायुषश्च क्षयक्रमः|
मरणं प्रति भूतानां कालाकालविनिश्चयः||५०||
यथा चाकालमरणं यथायुक्तं च भेषजम्|
सिद्धिं यात्यौषधं येषां न कुर्याद्येन हेतुना||५१||
तदात्रेयोऽग्निवेशाय निखिलं सर्वमुक्तवान्|
देशोद्ध्वंसनिमित्तीये विमाने मुनिसत्तमः||५२||
सङ्ग्रहे पूर्वरूपाणीति नक्षत्रादिविकाराः| सस्वलक्षणाः सस्वविकृतिलक्षणाः, तच्च लक्षणं तत्र वातमेवंविधमित्यादिना प्रोक्तम्| यथायुक्तं च भेषजं सिद्धिं यातीति अनेनोष्णपानीयदानोपपत्त्या सर्वं सङ्गृहीतम्||४९-५२||
Adhikarana puShpikA · Śloka 3
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः||३||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने जनपदोद्ध्वंसनीयविमानं नाम तृतीयोऽध्यायः||३||