Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

4. trividharōgaviśēṣavijñānīyavimānam

Adhikarana 1 (1-2) · Śloka 2

अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

जनपदोद्ध्वंसनीयेऽविशेषेण सर्वेऽपि रोगा उक्ताः, तेषां विशेषो यथा ज्ञातव्यस्तदुपदेष्टुं त्रिविधरोगविशेषविज्ञानीयोऽभिधीयते||१-२||

Adhikarana 2 (3) · Śloka 3

त्रिविधं खलु रोगविशेषविज्ञानं भवति; तद्यथा आप्तोपदेशः, प्रत्यक्षम्, अनुमानं चेति||३||

🔊 Audio coming soon

रोगाणां विशेषो यथा वक्ष्यमाणो विज्ञायते येन तद्रोगविशेषविज्ञानम्, उपदेशप्रत्यक्षानुमानरूपं प्रमाणत्रयम्| अत्र तु युक्तेरनुमानान्तर्गतत्वादेव न पृथक्करणम्| एतच्च प्रमाणत्रयं क्वचिद्रोगे मिलितं, क्वचिद्द्वयं, क्वचिदेकं परीक्षायां वर्तते; येन, नान्तरे वह्निमान्द्यादौ प्रत्यक्षमवश्यं व्याप्रियते||३||

Adhikarana 3 (4) · Śloka 4

तत्राप्तोपदेशो नामाप्तवचनम्| आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च| तेषामेवङ्गुणयोगाद्यद्वचनं तत् प्रमाणम्| अप्रमाणं पुनर्मत्तोन्मत्तमूर्खरक्तदुष्टादुष्टवचनमिति ; प्रत्यक्षं तु खलु तद्यत् स्वयमिन्द्रियैर्मनसा चोपलभ्यते| अनुमानं खलु तर्को युक्त्यपेक्षः||४||

🔊 Audio coming soon

तिस्रैषणीये प्रथममनुमानादिलक्षणान्युक्तानि, पुनरिह ‘तत्रोपदेशो नाम’ इत्यादिनाऽऽप्तोपदेशादिलक्षणाभिधानं प्रकरणागतत्वात् क्रियते, प्राकरणिको ह्यर्थोऽनुच्यमानो न्यूनो भवति| अवितर्केत्यादि|- वितर्कः कथन्ता अनिश्चितज्ञानमिति यावत्, स्मृतिः स्मरणज्ञानं, विभाग एकदेशः; एतद्विपर्ययान्निश्चयेनानुभवेन च कार्त्स्न्येन च ये भावान् जानते, तेऽवितर्कस्मृतिविभागविदः| वितर्कादिवेदी तु नाप्तः, प्रतिपाद्यवस्त्वशेषविशेषाविज्ञानात्| स्मृतिज्ञानं च यद्यपि प्रमाणमूलमेव, तथाऽपि वर्तमानक्षणे स्मृतिज्ञानविषयार्थस्य नावश्यविद्यमानतेति न तत् प्रमाणमिति भावः; किंवा, स्मृतिज्ञानं स्मृतिशास्त्रजं ज्ञानं गणितज्ञानं च; एतच्च ज्ञानद्वयं साक्षादर्थादर्शकं दुरवबोधेन मिथ्याज्ञानत्वसम्भवादप्रमाणमपीति नोपादेयम्| अथ सम्यग्ज्ञानवन्तोऽपि रागादिवशादन्यथा व्याहरन्तीत्याह- निष्प्रीत्युपतापदर्शिन इति|- निष्प्रीत्या निरुपतापेन च द्रष्टुं शीलं येषां ते तथा| एतेन यथार्थदर्शी निर्दोषश्चाप्तो भवतीत्युक्तं भवति| एवम्भूतं चाप्तत्वं कस्यचिद्ब्रह्मादेः सर्वत्रैव भवति, लौकिकस्य तु यस्मिन्नेव विषये वितर्कादि न भवति तत्रैवोपदेशः प्रमाणमिति ज्ञेयम्| अप्रमाणमिति नावश्यं प्रमाणतयाऽवधार्यते, रागादिदुष्टत्वादित्यर्थः| दुष्टश्चासावदुष्टश्चेति दुष्टादुष्टः, तेन पिता हि पुत्रस्य दुष्टोऽप्यदुष्टत्वादाप्त एव भवति; किंवा दुष्टो वञ्चकः| स्वयमिन्द्रियैर्मनसा चेत्यनेन यदात्मनेन्द्रियैश्चक्षुरादिभिरव्यवधानेन गृह्यते रूपादि तत् प्रत्यक्षमिति बाह्यं प्रत्यक्षं गृह्णाति; मनसा चेत्यनेन च मनसाऽव्यवधानेन यदुपलभ्यते सुखादि, तच्च मानसं प्रत्यक्षं गृह्णाति| तर्कोऽत्राप्रत्यक्षं ज्ञानम्| युक्तिः सम्बन्धोऽविनाभाव इत्यर्थः; तेनाविनाभावजं परोक्षज्ञानमनुमानमित्यर्थः||४||

Adhikarana 4 (5) · Śloka 5

त्रिविधेन खल्वनेन ज्ञानसमुदायेन पूर्वं परीक्ष्य रोगं सर्वथा सर्वमथोत्तरकालमध्यवसानमदोषं भवति, न हि ज्ञानावयवेन कृत्स्ने ज्ञेये ज्ञानमुत्पद्यते| त्रिविधे त्वस्मिन् ज्ञानसमुदये पूर्वमाप्तोपदेशाज्ज्ञानं, ततः प्रत्यक्षानुमानाभ्यां परीक्षोपपद्यते| किं ह्यनुपदिष्टं पूर्वं यत्तत् प्रत्यक्षानुमानाभ्यां परीक्षमाणो विद्यात्| तस्माद्द्विविधा परीक्षा ज्ञानवतां प्रत्यक्षम्, अनुमानं च; त्रिविधा वा सहोपदेशेन||५||

🔊 Audio coming soon

ज्ञानसमुदायेनेति ज्ञानसमुदायः प्रमाणसङ्घातः; तेन समुदायेन ‘अयमेवं रोगः’ इत्येवम्भूतनिश्चयोऽध्यवसानम्| त्रिविधे त्वित्यादि| ज्ञायतेऽनेनेति ज्ञानं प्रमाणम्| प्रथमाप्तोपदेशो व्याधिं बोधयति, ततश्चाप्तोपदिष्टं व्याधिं प्रत्यक्षानुमानाभ्यां यथोक्तलिङ्गादिपरीक्षया निश्चिनोति; आगमानुपदिष्टे च व्याधौ अवैद्य इव न प्रत्यक्षेणानुमानेन च व्याधिमुपलभत इत्याह- किं ह्यनुपदिष्टमित्यादि| एवं मन्यते- व्याधिविशेषास्तावद्दुरधिगमनीयाः, नोपदेशमन्तरेण शक्या विज्ञातुं, येऽधिगतवैद्यकशास्त्रास्ते प्रतिपादयन्त्येव व्याधिविशेषान्; तस्मादागमेन ये व्याधीनां हेत्वादिविशेषाः प्रतिपादितास्तान् प्रत्यक्षानुमानाभ्यामुपलभमानो व्याधिं निश्चिनोति; अनुपदेशवांस्तानुपलभमानोऽपि हेत्वादिविशेषानशिक्षितरत्नपरीक्षो यथा रत्नानां विशेषं पश्यन्नपि नावधारयति रत्नविशेषं, तथा नावधारयति व्याधिविशेषमिति भावः| ज्ञानवतामिति आप्तोपदेशवताम्| त्रिविधा वेत्यनेन व्याधिपरीक्षासमये ह्याप्तोपदेशोऽपि व्याप्रियते ग्रहणीमार्दवस्वप्नदर्शनादिप्रतिपत्तौ, तथा दुरधिगमस्थानसंश्रयादिप्रतिपत्तौ, तथा कोष्ठमृदुदारुणत्वादिपरीक्षायां चातुरवचनरूपाप्तोपदेशोऽपि व्याप्रियत इति दर्शयति||५||

Adhikarana 5 (6) · Śloka 6

तत्रेदमुपदिशन्ति बुद्धिमन्तः- रोगमेकैकमेवम्प्रकोपणमेवंयोनिमेवमुत्थानमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवं संस्थानमेवंशब्दस्पर्शरूपरसगन्धमेवमुपद्रवमेवंवृद्धिस्थानक्षयसमन्वितमेवमुदर्क मेवन्नामानमेवंयोगं विद्यात्; तस्मिन्नियं प्रतीकारार्था प्रवृत्तिरथवा निवृत्तिरित्युपदेशाज्ज्ञायते||६||

🔊 Audio coming soon

तत्रेत्यादिनाऽऽप्तोपदेशगम्यमाह| प्रकोपणं वायो रूक्षत्वादिहेतुः| योनिः वातादयः| आत्मा स्वभावः; यथा- रोहिण्या दारुणत्वं, सन्न्यासस्य शीघ्रोपक्रमणीयत्वादि| अधिष्ठानं शरीरमवयवा मनश्च| इयं प्रतीकारार्था प्रवृत्तिः, यथा- ज्वरे लङ्घनपाचनाद्यर्था प्रवृत्तिः| निवृत्तिश्च प्रतीकारार्था यथा- नवज्वरे दिवास्वप्नस्नानादौ निवृत्तिरित्यादि मन्तव्यम्||६||

Adhikarana 6 (7) · Śloka 7

प्रत्यक्षतस्तु खलु रोगतत्त्वं बुभुत्सुः सर्वैरिन्द्रियैः सर्वानिन्द्रियार्थानातुरशरीरगतान् परीक्षेत, अन्यत्र रसज्ञानात्; तद्यथा- अन्त्रकूजनं, सन्धिस्फुटनमङ्गुलीपर्वणां च, स्वरविशेषांश्च, ये चान्येऽपि केचिच्छरीरोपगताः शब्दाः स्युस्ताञ्छ्रोत्रेण परीक्षेत; वर्णसंस्थानप्रमाणच्छायाः , शरीरप्रकृतिविकारौ, चक्षुर्वैषयिकाणि यानि चान्यान्यनुक्तानि तानि चक्षुषा परीक्षेत; रसं तु खल्वातुरशरीरगतमिन्द्रियवैषयिकमप्यनुमानादवगच्छेत्, न ह्यस्य प्रत्यक्षेण ग्रहणमुपपद्यते, तस्मादातुरपरिप्रश्नेनैवातुरमुखरसं विद्यात्, यूकापसर्पणेन त्वस्य शरीरवैरस्यं, मक्षिकोपसर्पणेन शरीरमाधुर्यं, लोहितपित्तसन्देहे तु किं धारिलोहितं लोहितपित्तं वेति श्वकाकभक्षणाद्धारिलोहितमभक्षणाल्लोहितपित्तमित्यनुमातव्यम्, एवमन्यानप्यातुरशरीरगतान् रसाननुमिमीत; गन्धांस्तु खलु सर्वशरीरगतानातुरस्य प्रकृतिवैकारिकान् घ्राणेन परीक्षेत; स्पर्शं च पाणिना प्रकृतिविकृतियुक्तम्| इति प्रत्यक्षतोऽनुमानादुपदेशतश्च परीक्षणमुक्तम्||७||

🔊 Audio coming soon

अङ्गुलीपर्वणां च स्फुटनमिति सम्बन्धः| अन्येऽपि चेति कासहिक्काशब्दादयः| यानि चान्यानीत्यनेन लक्षणप्रभादीनि गृह्यन्ते| यूकापसर्पणेन शरीरवैरस्यमिति विरसाद्धि शरीराद्यूका अपसर्पन्ति; एवं यूकाद्यनपसर्पणेन प्राकृतरसयुक्तं शरीरमनुमातव्यम्| धारिलोहितमिति जीवशोणितमित्यर्थः; श्वकाकभक्षणादिज्ञेयं यद्धारि रक्तं तत् पित्तादुष्टत्वेनाविरसं श्वादयो भक्षयन्ति, नतु पित्तदुष्टं रक्तपित्तमिति भावः| अत्र एवंशब्दस्पर्शरूपरसगन्धमित्युपदेशं कृत्वा शब्दानन्तरं चक्षुर्ग्राह्यं रूपं दर्शयञ् शब्दादिपरीक्षायाश्च क्रमनियमाभावं सूचयति||७||

Adhikarana 7 (8) · Śloka 8

इमे तु खल्वन्येऽप्येवमेव भूयोऽनुमानज्ञेया भवन्ति भावाः| तद्यथा- अग्निं जरणशक्त्या परीक्षेत, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दाद्यर्थग्रहणेन, मनोऽर्थाव्यभिचरणेन, विज्ञानं व्यवसायेन, रजःसङ्गेन, मोहमविज्ञानेन, क्रोधमभिद्रोहेण, शोकं दैन्येन, हर्षमामोदेन, प्रीतिं तोषेण, भयं विषादेन, धैर्यमविषादेन, वीर्यमुत्थानेन , अवस्थानमविभ्रमेण, श्रद्धामभिप्रायेण, मेधां ग्रहणेन, सञ्ज्ञां नामग्रहणेन, स्मृतिं स्मरणेन, ह्रियमपत्रपणेन, शीलमनुशीलनेन, द्वेषं प्रतिषेधेन, उपधिमनुबन्धेन , धृतिमलौल्येन, वश्यतां विधेयतया, वयोभक्तिसात्म्यव्याधिसमुत्थानानि कालदेशोपशयवेदनाविशेषेण, गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां, दोषप्रमाणविशेषमपचारविशेषेण, आयुषः क्षयमरिष्टैः, उपस्थितश्रेयस्त्वं कल्याणाभिनिवेशेन, अमलं सत्त्वमविकारेण, ग्रहण्यास्तु मृदुदारुणत्वं स्वप्नदर्शनमभिप्रायं द्विष्टेष्टसुखदुःखानि चातुरपरिप्रश्नेनैव विद्यादिति||८||

🔊 Audio coming soon

भूयोऽनुमानज्ञेया इत्यनेनानुमानगम्यतया वक्ष्यमाणा केचिदग्निबलादय आतुरोपदेशगम्या अपि भवन्तीति सूचयति| मनोऽर्थाव्यभिचरणेनेति सतीन्द्रियाणामर्थसम्बन्धे यदिदं कदाचिच्छब्दं प्रत्येति, कदाचिद्रसमित्याद्ययौगपद्येन सर्वार्थान् प्रत्येति, तेनास्ति कारणानन्तरमिन्द्रियार्थग्राहकं मन इत्यनुमीयते| ज्ञानं व्यवसायेनेति व्यवसायः प्रवृत्तिः, यथा- पेयजले पानार्था प्रवृत्तिः; तेनानुमीयते जलज्ञानमस्य जातं, कथमन्यथा ज्ञानकार्यार्थक्रियायां प्रवर्तत इति| रजः सङ्गेनेति नार्यादिसङ्गेन तत्कारणं रजोऽनुमीयते| अभिद्रोहः परपीडार्था प्रवृत्तिः| दैन्यं रोदनादि| आमोदः नृत्यगीतवादित्राद्युत्सवकरणम्| तोषः मुखनयनप्रसादादिः; एतेन प्रीतिस्तोषमात्रं, हर्षस्तु प्रीतिविशेषो मन-उद्रेककारक इत्युक्तं भवति| धैर्यं विपद्यपि मनसोऽदैन्यम्| वीर्यम् आरब्धदुष्करकार्येष्वव्यावृत्तिर्मनसः| उत्थानेनेति क्रियारम्भेण| अवस्थानं स्थिरमतित्वम्| अविभ्रमेणेति अभ्रान्त्या| श्रद्धाम् इच्छाम्| अभिप्रायेणेति अभ्यर्थनेन| ग्रहणेनेति ग्रन्थादिधारणेन| स्मृतिमिति स्मृतिजनकं संस्कारं; स्मरणेन हि तत्कारणं संस्कारोऽनुमीयते| ह्रियमिति लज्जाम्| अपत्रपेणेति लज्जिताकारेण| शीलमिति सहजं वस्तुषु रागम्| अनुशीलनेनेति अनुशीलनं सन्ततशीलनं तेन; सततं यमर्थं सेवते तच्छीलोऽयमित्यनुमीयते| प्रतिषेधेनेति व्यावृत्त्या| उपेत्य धीयते इति उपधिः छद्म इत्यर्थः, तमनुबन्धेनेत्युत्तरकालीनफलेन; उत्तरकालं हि भ्रात्रादिवधेन फलेन ज्ञायते- यदयमुन्मत्तच्छद्मप्रचारी चन्द्रगुप्त इति| विधेयतयेति विधेयप्रचारेण| वयःप्रभृतीनि व्याधिसमुत्थानान्तानि चत्वारि यथासङ्ख्यं कालादिविशेषेण ज्ञायन्ते| तत्र कालविशेषेण षोडशवर्षादिना वयो बाल्यादि ज्ञायते; देशेन तु भक्तिरिच्छा ज्ञायते, यथा हि- अयं मध्यदेशीयस्तेनास्य गोधूममाषादिष्विच्छाऽनुमीयते; यस्माच्चेदमस्योपशेते तेनेदमस्य सात्म्यमिति ज्ञायते; वेदनाविशेषेण व्याधिसमुत्थानं ज्ञायते, यथा- यस्मादयं सन्तापवेदनावान् तस्मादस्य ज्वरव्याधिसमुत्थानं भूतमित्यादि ज्ञेयम्| गूढलिङ्गमितिविशेषणेनागूढलिङ्गे व्याधौ लिङ्गैरेवावधारिते नोपशयानुपशयाभ्यां परीक्षा करणीयेति दर्शयति| अपचारविशेषेणेति महताऽपचारेण भूरिदोषो भवति, स्वल्पेण स्वल्प इति| कल्याणाभिनिवेशेनेति श्रेयस्करमार्गानुष्ठानेन; एतद्धि अचिरभाविश्रेयसामेव भवति| सत्त्वमिति सत्त्वगुणोद्रेकम्| अविकारेणेति रागद्वेषविकाराभावेन| परिप्रश्नेनैवेतिवचनेन यद्यपि ग्रहणीमार्दवाद्यनुमानादपि पार्यते ज्ञातुं, तथाऽप्यनुमानस्य बुद्धिप्रयासबहुत्वेनातुरपृच्छयैव सुखोपचाररूपया विद्याद् ग्रहणीमार्दवादीनीति दर्शयति| अभिप्रायः भोजनादीच्छा| द्विष्टेष्टशब्देन तु द्विष्टेप्सितप्रेष्यादिग्रहणम्||८||

Adhikarana 8 (9-14) · Śloka 14

भवन्ति चात्र- आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च| अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः||९|| सर्वथा सर्वमालोच्य यथासम्भवमर्थवित्| अथाध्यवस्येत्तत्त्वे च कार्ये च तदनन्तरम्||१०|| कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति| अमूढः फलमाप्नोति यदमोहनिमित्तजम्||११|| ज्ञानबुद्धिप्रदीपेन यो नाविशति तत्त्ववित् | आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति||१२|| तत्र श्लोकौ- सर्वरोगविशेषाणां त्रिविधं ज्ञानसङ्ग्रहम्| यथा चोपदिशन्त्याप्ताः प्रत्यक्षं गृह्यते यथा||१३|| ये यथा चानुमानेन ज्ञेयास्तांश्चाप्युदारधीः| भावांस्त्रिरोगविज्ञाने विमाने मुनिरुक्तवान्||१४||

🔊 Audio coming soon

यथासम्भवमित्यनेन सर्वत्र परीक्षणीये सर्वप्रमाणासम्भव इति दर्शयति| अथेत्यादि अथ प्रत्येकशब्दादिविषयपरीक्षानन्तरम्| तत्त्वे व्याधितत्त्वे, तथा कार्ये च तत्र साध्ये व्याधौ कर्तव्यलक्षणे, तदनन्तरमध्यवस्येत्; यद्युक्तं तत्त्वं भवति, यच्च कार्यमुक्तं, तत्राध्यवसायं निश्चयं कुर्यादित्यर्थः| अनन्तरमिति अविद्यमानान्तरयोग्यमित्यर्थः| कार्यतत्त्वविशेषाध्यवसायफलमाह- कार्येत्यादि| प्रतिपत्तिः कर्मणां यथार्हतयाऽनुष्ठानम्| अमूढ इति प्रतिपत्तावमूढ इत्यर्थः| ज्ञानं शास्त्रं, तत्कृता बुद्धिः ज्ञानबुद्धिः| आविशति बुद्ध्याऽवगाहत इत्यर्थः| अन्तरात्मानमिति वैद्यपक्षे अन्तःशरीरम्||९-१४||

Adhikarana puShpikA · Śloka 4

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः||४||

🔊 Audio coming soon

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने त्रिविधरोगविशेषविज्ञानीयं विमानं नाम चतुर्थोऽध्यायः||४||