Adhikarana 1 (1-2) · Śloka 2
अथातः स्रोतसां विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पूर्वस्मिन्नध्याये परीक्षामभिधाय तत्परीक्षणीयं शरीरं दुष्टादुष्टस्रोतोविभागेन वक्तुं स्रोतसां विमानमुच्यते||१-२||
Adhikarana 1 (1-2) · Śloka 2
अथातः स्रोतसां विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
पूर्वस्मिन्नध्याये परीक्षामभिधाय तत्परीक्षणीयं शरीरं दुष्टादुष्टस्रोतोविभागेन वक्तुं स्रोतसां विमानमुच्यते||१-२||
Adhikarana 2 (3) · Śloka 3
यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः| सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति| स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||
🔊 Audio coming soon
मूर्तिमन्त इति असर्वगतद्रव्यपरिमाणवन्तः, असर्वगतद्रव्यपरिमाणं हि मूर्तिरुच्यते| भावविशेषा इति उत्पत्तिमन्तो विशेषाः| अत्र हेतुमाह- सर्व इत्यादि| अभिनिर्वर्तन्त इति सन्तानन्यायेन| स्रोतांसीत्यादि| खलुशब्दो हेतौ| परिणाममापद्यमानानामिति पूर्वपूर्वरसादिरूपतापरित्यागेनोत्तरोत्तररक्तादिरूपतामापद्यमानानाम्| अयनार्थेनेतिवचनान्न स्थिराणां धातूनामभिवाहीनि भवन्ति स्रोतांसि, किन्तु देशान्तरप्रापणेनाभिवाहीनि भवन्ति| एवं मन्यते- रक्तस्य वृद्धिः शोणितरूपतया परिणमता रसेन मिलितेन कर्तव्या, स च स्थानान्तरस्थस्य रसस्य रुधिरेण समं मेलको न गमनमार्गं स्रोतःसञ्ज्ञकमन्तरा भवति| अयं तावदभिसन्धिः- स्रोतःकारणिको हि धातूनां प्रायो रक्तादीनामुत्तरधातुपोषकभागपरिणामो भवति, तच्चाप्युत्तरधातुपोषणं नान्तरेण स्रोतो भवति; यश्च रक्ते न्यायः, स सर्वत्र शारीरे भावे; न चान्यस्रोतसाऽन्यधातुपुष्टिः सम्भवति, सर्वपोष्याणां भिन्नदेशत्वात्; न ह्यभिन्नेन स्रोतसा भिन्नदेशवृक्षयोः सेचनमस्ति| मनस्तु यद्यपि नित्यत्वेन न पोष्यं, तथाऽपि तस्येन्द्रियप्रदेशगमनार्थं स्रोतोऽस्त्येव| तच्च मनःप्रभृतीनामतीन्द्रियाणां कृत्स्नमेव शरीरं स्रोतोरूपं वक्ष्यति| दोषाणां तु सर्वशरीरचरत्वेन यथास्थूलस्रोतोऽनभिधानेऽपि सर्वस्रोतांस्येव गमनार्थं वक्ष्यन्ते, सूक्ष्मजिज्ञासायां तु वातादीनामपि प्रधानभूता धमन्यः सन्त्येव; यदुक्तं सुश्रुते- “तासां वातवाहिन्यो दश” (सु.शा.अ.७) इत्यादि| नच चरके सुश्रुते इव धमनीसिरास्रोतसां भेदो विवक्षितः||३||
Adhikarana 3 (4-5) · Śloka 5
अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्| न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४|| अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||
🔊 Audio coming soon
सर्वगतत्वादिति स्रोतसां सर्वशरीरावयवगतत्वादित्यर्थः| सर्वसरत्वादित्युत्तरेण सम्बध्यते| दोषप्रकोपणमपथ्यं दोषप्रशमनं वा पथ्यं सर्वस्मिञ् शरीरप्रदेशे दोषरूपं सत् तथा भेषजरूपं सद्गच्छति; तेन सर्वत्र स्रोतो विद्यते; तेन स्रोतोमयः पुरुष इति पूर्वपक्षः| तं निषेधति- न त्वित्यादि| यस्य हि स्रोतांसि यद्घटितानीत्यर्थः, यच्च वहन्तीति यद्रसादि वहन्तीत्यर्थः, यच्चावहन्तीति यच्च पुष्यन्तीत्यर्थः, यत्र चावस्थितानीति यत्र मांसादौ सम्बद्धानीत्यर्थः, तत् सर्वं धमनीभ्योऽन्यत्; तस्मान्न स्रोतोरूप एव पुरुष इत्यर्थः||४-५||
Adhikarana 4 (6-7) · Śloka 7
तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६|| तद्यथा- प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति; वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च| तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्||७||
🔊 Audio coming soon
प्रकोपविज्ञानतश्चेति यथा स्रोतसां प्रकोपो विज्ञायते तथा व्याख्यास्याम इति योजना| अनुक्तार्थज्ञानायेति अनुक्तस्रोतोज्ञानाय| ज्ञानवतामिति अनुक्तार्थज्ञानसमर्थानाम्| ज्ञानवन्तो ह्यनेन लिङ्गेनानुक्तमपि स्रोतोऽनुमिमते| विज्ञानाय चाज्ञानवतामिति यथोक्तमात्रज्ञानाय च मन्दबुद्धीनामित्यर्थः| तद्वदिति सर्वशरीरचराणाम्| चेतनावच्छरीरमित्यनेनाचेतनकेशनखादिप्रदेशं सत्त्वादिगमने निषेधति, दोषास्तु तत्रापि यान्तीति| अयनभूतमिति मार्गभूतम्| अधिष्ठानभूतमिति स्थानरूपम्||६-७||
Adhikarana 5 (8) · Śloka 8
तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः| शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च| मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च| मेदोवहानां स्रोतसां वृक्कौ मूलं वपावहनं च| अस्थिवहानां स्रोतसां मेदो मूलं जघनं च| मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च| शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च| प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्| मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्| स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||
🔊 Audio coming soon
प्राणवहानामिति प्राणसञ्ज्ञकवातवहानाम्| एतच्च प्राणाख्यविशिष्टस्य वायोर्विशिष्टस्रोतः, सामान्येन तु वायोः सर्वा एव धमन्य इति न विरोधः| मूलमिति प्रभवस्थानम्| अतिसृष्टं वा अतिबद्धं वेति विकल्पेन बोद्धव्यम्, अतिसृष्टातिबद्धयोरेकत्रासम्भवात्| अल्पाल्पं वा तथाऽभीक्ष्णं वेति च विकल्पः| क्लोम हृदयस्थपिपासास्थानम्| वपावहनं वपा उदरस्था स्निग्धवर्तिका यामाहुर्जनास्तैलवर्तिकेति| सुश्रुते तु “मेदोवहानां मूलं वृक्कौ कटी च” (सु.शा.अ.) इत्युक्तं; तदत्रातीन्द्रियार्थदर्शिगम्ये नास्मद्विधानां बुद्धयः प्रभवन्ति | अस्थ्यपि द्रवरूपमस्त्येव स्रोतोवाह्यमिति कृत्वा अस्थिवहानामित्युक्तम्| यद्यपि विविधाशितपीतीये रसादीनां दुष्टिलक्षणमुक्तं न रसादिस्रोतसां, तथाऽपि रसादिदुष्ट्या रसादिवहधमनीनामपि दुष्टेः साधारणत्वेनोक्तं- रसादिवहस्रोतसां विज्ञानान्युक्तानीति| ये तु ब्रुवते- रसादिदुष्टेरभिन्नैव तद्वहधमनीदुष्टिरिति, तेषां मते पृथग्धमनीदुष्ट्यभिधानमनुपपन्नं, तथा धमनीदुष्ट्या यद्धातुदुष्टिं वक्ष्यति “तेषां प्रकोपात् स्थानस्थाश्चैव” इत्यादिना तदनुपपन्नम्| धमनीदुष्ट्या तु तद्वाह्यदुष्टिरवश्यं भवतीति कृत्वा धातुदुष्टिलक्षणैरेवेह धमनीदुष्टिरुक्ता, रक्तादिधातुदुष्ट्यतिरिक्तं तु धमनीदुष्टिलक्षणम् “अतिप्रवृत्तिः” इत्यादिनाऽत्रैव वक्ष्यति| अस्वेदनादिकं स्वेदवहदुष्टिलक्षणं कुष्ठपूर्वरूपेऽप्यस्ति; तेन यत्रान्यत्कुष्ठपूर्वरूपदर्शनं भवति तत्र कुष्ठपूर्वरूपता निश्चेतव्या, एतावन्मात्रलक्षणोदये तु स्वेदवहधमनीदुष्टिरिति| धमनीनामिह मूलज्ञाने यद्यपि साक्षात् प्रयोजनं नोक्तं, तथाऽपि मूलोपघाताद्वृक्षाणामिव धमनीनां महानुपघातो भवतीति ज्ञेयम्, अत एव सुश्रुते स्रोतोमूलविद्धलक्षणान्युक्तानि||८||
Adhikarana 6 (9) · Śloka 9
स्रोतांसि, सिराः, धमन्यः, रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः, मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति| तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च| स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः| तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||
🔊 Audio coming soon
स्रोतसां व्यवहारार्थं पर्यायानाह- स्रोतांसीत्यादि| संवृतासंवृतानीत्येका सञ्ज्ञा, तत्राग्रे संवृतानि मूलेऽसंवृतानि| स्थानादिपर्यायान् केचिद्धमनीमूलस्य पर्यायानाचक्षते; अन्ये त्वेतानपि धमनीपर्यायानाहुः, धमन्योऽपि हि रसादिस्थानं भवन्त्येवेति कृत्वा| स्थानस्था इति आशयस्थाः| मार्गगाश्चैवेति धमनीभिर्गच्छन्तः| इतरेषां चेत्यादिनोक्तमर्थं स्रोतांसि चेत्यादिना विवृणोति| स्रोतांसि धातवश्च दुष्टाः प्रत्यासन्नानि स्रोतांसि धात्वन्तराणि च स्वदोषसङ्क्रान्त्या दूषयन्तीत्यर्थः| दोषस्वभावादिति दोषाणामेवायं स्वभावो यद्दूषकत्वं , न धात्वन्तराणां; तेन धातुना दुष्टिर्धातुदुष्टिः धातुगतदोषकृतैव ज्ञेया||९||
Adhikarana 7 (10-22) · Śloka 22
भवन्ति चात्र- क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च| प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०|| औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्| अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११|| अतिमात्रस्य चाकाले चाहितस्य च भोजनात्| अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च||१२|| गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्| रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३|| विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च| रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४|| अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च| मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५|| अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्| मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६|| व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्| अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७|| उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्| मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८|| अकालयोनिगमनान्निग्रहादतिमैथुनात्| शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९|| मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्| मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य च||२०|| सन्धारणादत्यशनादजीर्णाध्यशनात्तथा| वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१|| व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् | स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||
🔊 Audio coming soon
यथाक्रमं स्रोतसां दुष्टिकारणमाह- क्षयादित्यादि| दारुणैरित्यत्र ‘कर्मभिः’ इति शेषः| गुरूणि च भजतामिति पूर्वोक्तेन सम्बन्धः| मेद्यानां मेदुराणाम्| अकालयोनिगमनादिति अहर्षकालगमनात्, तथाऽनुचितयोनौ गमनात्| निग्रहादिति शुक्रवेगनिग्रहात्| मूत्रितेत्यादौ मूत्रवेगयुक्तस्य उदकादिसेवनादिति ज्ञेयम्||१०-२२||
Adhikarana 8 (23) · Śloka 23
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः| धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषकः||२३||
🔊 Audio coming soon
आहारश्चेत्यादिना सामान्येन सर्वस्रोतोदुष्टिमाह| दोषगुणैः सम इत्यनेन दोषातिवर्धकत्वं दर्शयति| क्षीणाश्च दोषा नान्यदुष्टिं कुर्वन्ति, किं तु स्वयमेव क्षीणस्वलिङ्गा भवन्तीत्यादि वेदितव्यम्| धातुभिर्विगुण इति धातुविरोधकस्वभाव इत्यर्थः, नतु धातुविपरीतगुणे विगुणः; दिवास्वप्नमेद्यादयो हि मेदसा समानगुणा एव मेदोदूषका उक्ताः||२३||
Adhikarana 9 (24) · Śloka 24
अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा| विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम्||२४||
🔊 Audio coming soon
अतिप्रवृत्तिरित्यादिना सामान्येन स्रोतोदुष्टिलक्षणमाह| अतिप्रवृत्तिरिह स्रोतोवाह्यस्य रसादेर्बोद्धव्या; एवं सङ्गोऽपि रसादेरेव| विमार्गगमनं च यथा- मलस्य मूत्रमार्गगमनमित्यादि||२४||
Adhikarana 10 (25) · Śloka 25
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च||२५||
🔊 Audio coming soon
स्वधातुसमवर्णानीति वाह्यधातुतुल्यवर्णानि| प्रतानः लताप्रपञ्चः||२५||
Adhikarana 11 (26-28) · Śloka 28
प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया| कार्या तृष्णोपशमनी तथैवामप्रदोषिकी||२६|| विविधाशितपीतीये रसादीनां यदौषधम्| रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम्||२७|| मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी| तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी||२८||
🔊 Audio coming soon
प्राणोदकेत्यादिना चिकित्सामाह| प्राणवहानां श्वासिकी, उदकवहानां तृष्णोपशमनी, अन्नवहानामामप्रदोषिकीति बोद्धव्यम्| मूत्रादिवहानामपि त्रयाणां मौत्रकृच्छ्रिक्यादयो यथासङ्ख्यं तिस्रश्चिकित्सा ज्ञेयाः||२६-२८||
Adhikarana 12 (29-31) · Śloka 31
तत्र श्लोकाः- त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्| सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९|| दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च| स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०|| केवलं विदितं यस्य शरीरं सर्वभावतः| शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||
🔊 Audio coming soon
सङ्ग्रहे दुष्टिलक्षणं सामान्यं वाताद्यविशेषितं दुष्टिलक्षणमित्यर्थः, स्रोतोदुष्टिलक्षणानीह वातादिदोषभेदेन नोक्तानीत्यर्थः ; वातादिविशेषेण चेह विस्तरभयाद्दुष्टिर्नोक्ता; तेन वातादिविशेषलिङ्गाधिक्याद्दुष्टिर्निर्णेतव्या| आदौ विनिश्चय इति अध्यायादौ पुरुषस्य धमनीमयत्वादिवादनिश्चय इत्यर्थः| केवलमित्यादिना अत्रोक्तधमन्यादिभेदेन शरीरज्ञानस्योपादेयतामाह||२९-३१||
Adhikarana puShpikA · Śloka 5
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||