Adhikarana vAtAdyAdhikyAjjaTharAnalasya caturvidhatvam (1) · Śloka 1
अथाग्निमान्द्याजीर्ण-विसूचिकालसक-विलम्बिकानिदानम् |
मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः |
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ||१||
अर्शःकार्यत्वादग्निमान्द्यादीनां तान्याह– मन्द इत्यादि| मन्दस्य दुर्जयत्वात् प्रागभिधानम्| कफपित्तानिलाधिक्यादिति यथाक्रमं मन्दादिषु योज्यम्| तत्साम्यादिति तेषां कफादीनां साम्यात्| समोऽविकृतः, धातुसाम्यहेतुरित्यर्थः| एतस्याविकारस्यापि विकारप्रस्तावेऽभिधानं प्रकृतिज्ञानानन्तरीयकं विकृतिज्ञानमिति बोधनार्थम्| जाठर इति धात्वग्निभूताग्निव्यवच्छेदार्थम्||१||
Adhikarana viShamAdyagnibhedAnAM kAryaM, samAgni-mandAgni-viShamAgni-tIkShNAgnilakShaNAni ca (2-4) · Śloka 4
विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान् |
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ||२||
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते |
स्वल्पाऽपि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ||३||
कदाचित् पच्यते सम्यक्कदाचिन्न विपच्यते |
मात्राऽतिमात्राऽप्यशिता सुखं यस्य विपच्यते |
तीक्ष्णाग्निरिति तं विद्यात् समाग्निः श्रेष्ठ उच्यते ||४||
प्रतिलोमतन्त्रयुक्त्या तेषां रूपमाह– विषम इत्यादि| वातजान् रोगानिति वातनानात्मजानामशीतेरन्यतमान् सामान्यजांश्च ज्वरातीसारादीन्, एवं पित्तनानात्मजानामोषचोषादीनां चत्वारिंशतोऽन्यतमान्, एवं कफनानात्मजानां विंशतेरालस्यादीनामन्यतमान्| एते च विकाराश्चरके महारोगाध्याये (च. सू. अ. २०) एव द्रष्टव्याः| समेत्यादि| समा उचिता, मात्रा आहारस्य, सम्यग्यस्य विपच्यते स समाग्निः| तीक्ष्णाग्निरिति तं विद्यादिति छेदः| मात्राऽतिमात्रेत्युपलक्षणं, तेनाजीर्णगुरुभोजनादिकमपि लक्षणीयम्| यदुक्तमन्यत्र– “अतिमात्रमजीर्णेऽपि गुरु चान्नमथाश्नतः| दिवाऽपि स्वपतो यस्य पच्यते सोऽग्निरुत्तमः||” इति| तीक्ष्णग्रहणेन भस्मकस्यावरोधः, अत्यन्ततीक्ष्णाग्निरेव हि ‘भस्मक’ इत्युच्यते| यदुक्तं चरके– “नरे क्षीणकफे पित्तं कुपितं मारुतानुगम्| स्वोष्मणा पावकस्थाने बलमग्नेः प्रयच्छति|| तदा लब्धबलो देहं विरुजेत् सानिलोऽनलः| अभिभूय पचत्यन्नं तैक्ष्ण्यादाशु मुहुर्मुहुः|| पक्त्वाऽन्नं ततो धातून् शोणितादीन् पचत्यपि| ततो दौर्बल्यमातङ्कान् मृत्युं चोपनयेन्नरम्|| भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति| तृट्कासदाहमूर्छाः स्युर्व्याधयोऽत्यग्निसम्भवाः||” (च. चि. अ. १५) इति||२-४||
Adhikarana ajIrNabhedAH (5-6) · Śloka 6
आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः |
अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ||५||
(सु. सू. अ. ४६) |
अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च |
वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरम् ||६||
अग्निमान्द्याजीर्णयोः परस्परकारणत्वादजीर्णान्याह– आममित्यादि| त्रिभिरिति कफादिभिरेकैकशो यथासङ्ख्येन| रसशेषत इति रसाय शेषो रसशेषः, प्रकृतिविकृतिभावे चतुर्थी; यथा– यूपाय दारु यूपदारु; अथवा “रसशब्देन रसवानाहारोऽभिप्रेतो लक्षणया, तेन रसशब्देन रसवानाहारोऽभिधीयते, तस्य शेषोऽपरिणतिलक्षणो रसशेष” इति जेज्जटः| ननु, यद्येवं तदा आमविदग्धविष्टब्धानामन्यतमरूपस्यावश्यम्भावित्वान्न तेभ्यो भेदः; किञ्च तल्लिङ्गैरम्लोद्गारादिभिर्भवितव्यं, तथाच सत्युद्गारशुद्धौ रसशेषाजीर्णलक्षणस्यानुदयप्रसङ्गः? उक्तं हि सुश्रुते– “उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य| रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम्||” इति (सु. सू. अ. ४६)| आरोग्यमञ्जर्यां नागार्जुनोऽप्याह– “उद्गारेऽपि विशुद्धतामुपगते काङ्क्षा न भक्तादिषु स्निग्धत्वं वदनस्य सन्धिषु रुजा कृत्वा शिरोगौरवम्| मन्दाजीर्णरसे तु लक्षणमिदं, तत्रातिवृद्धे पुनर्हृल्लासज्वरमूर्छनादि च भवेत् सर्वामयक्षोभणम्||” इति| नैवम्, अवश्यम्भाविविदग्धादिरूपस्याप्याहारशेषस्यात्यल्पत्वेन न तदनुरञ्जितोद्गारोदयप्रसङ्गः, अकालबुभुक्षायामिव| यदाह सुश्रुतः– “स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति| भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति||” (सु. सू. अ. ४६) इति| तन्त्रान्तरेऽप्याहारापाकजं रसशेषलक्षणमुक्तम्– “आमं विदग्धं विष्टब्धं रसशेषमथापि च| चतुर्विधमजीर्णं स्यादाहारापरिपाकतः||” इति| गदाधरस्त्वाह– “रसे शेषो रसशेषः, आहारजनिते रसे शेष आहारावयवोऽनुप्रविष्टोऽलक्ष्यमाणः क्षीरे नीरमिव रसशेषः|” इति| ननु, आमाजीर्णादिभ्यो रसशेषस्य को भेदः? उच्यते– आमादित्रयमन्नजं, रसशेषस्त्वाहाररसजः; वातिकादिव्यपदेशश्चात्र न कृतः, अल्पत्वाद्वातादिलिङ्गानां; हेतुलक्षणचिकित्साभेदाच्चास्य भेद इति| अजीर्णमिति तद्विरोधे नञ्, जीर्णं पक्वं, तद्विरुद्धमजीर्णम्; यथा– असितम्| सर्वमजीर्णं त्रिदोषजम्, एकदोषव्यपदेशस्तूत्कटैकदोषलिङ्गत्वेनोक्त इति व्याख्यानयन्ति; यतस्त्रैदोषिकमेवाजीर्णकारणमुक्तम्– “अत्यम्बुपानात्” इत्यादि| अजीर्णादपि दोषत्रयकोपो भवति| यदुक्तं सुश्रुते– “अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्|” (सु. सू. अ. ४६) इति| अजीर्णं पञ्चमं केचिदित्यादि| निर्दोषम् आध्मानादिदुष्टेरकारकम्| दिनपाकि चेत्यहोरात्रेणाहारः पच्यते इत्युत्सर्गः, यत्र तु मात्राकालासात्म्यादिदोषादपरदिने पच्यते तद्दिनपाकि| कालव्यतिक्रमेण पच्यमानमप्याध्मानादिकं न करोतीति पूर्वेभ्यो भेदः| एतदभिधानस्य तु प्रयोजनं पाककालप्रतीक्षणं, नैशाजीर्णे भोजननिषेधात्| प्राकृतं प्रतिवासरमिति प्राकृतमवैकारिकं, प्रतिवासरं प्रतिदिनं क्रियमाणम्| अयमभिसन्धिः– अद्यैव भुक्तमन्नं किं जीर्णमजीर्णं वा? न तावज्जीर्णं, क्षुत्पिपासामलोत्सर्गादेर्जीर्णलक्षणस्यानुदयात्; तस्मादजीर्णं, तच्चाध्मानादिकं न करोतीति पूर्वेभ्यो भिन्नम्| तस्य चाभिधानप्रयोजनम्– पाकार्थं वामपार्श्वशयनाद्याचारसेवा| उक्तं हि सुश्रुते– “भुक्त्वा पादशतं गत्वा वामपार्श्वेन संविशेत्| शब्दरूपरसस्पर्शगन्धांश्च मनसः प्रियान्|| भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति||” (सु. सू. अ. ४६) इति| न चात्राहारस्य निषेधः, तस्य शास्त्रेण विहितत्वात्| चरके तु– “तस्य लिङ्गमजीर्णस्य” इत्यादिना “घोरमलविषं च ” इत्यन्तेनान्नविषाख्यमजीर्णं” पठितं, तच्च पित्तादिसंसृष्टरसशेषाजीर्णमेवेति व्याचक्षते; तेन रसशेष एव तस्यान्तर्भाव इति पृथक् पठितम्||५-६||
Adhikarana ajIrNanidAnam (7-9) · Śloka 9
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात् स्वप्नविपर्ययाच्च |
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||७||
ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन रुग्दैन्यनिपीडितेन |
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्परिपाकमेति ||८||
(सु. सू. अ. ४६) |
मात्रयाऽप्यभ्यवहृतं पथ्यं चान्नं न जीर्यति |
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः ||९||
(च. वि. अ. २) |
अजीर्णकारणमाह– अत्यम्बुपानादित्यादि| सन्धारणादिति वेगानाम् स्वप्नविपर्ययात् दिवास्वप्नादेः| लघु चापीति ‘अपि’ शब्देन स्निग्धोष्णादिगुणयुक्तमपि बोध्यम्| केचित् ‘ईर्ष्याभयक्रोधपरिप्लुतेन’ इत्यादिश्लोकं पठन्ति; स च मानसदोषाजीर्णविषयो बोद्धव्य इति||७-९||
Adhikarana AmAjIrNa-vidagdhAjIrNa-viShTabdhAjIrNa-rasasheShAjIrNalakShaNAni (10-12) · Śloka 13
तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः |
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्तते ||१०||
विदग्धे भ्रमतृण्मूर्छाः पित्ताच्च विविधा रुजः |
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते ||११||
विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः |
मलवाताप्रवृत्तिश्च स्तम्भो मोहाऽङ्गपीडनम् ||१२||
रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे |१३|
उद्दिष्टानामामाजीर्णादीनां लक्षणमाह– तत्रेत्यादि| तत्रेति तेषु मध्ये| गण्डः कपोलः अक्षिकूटः चक्षुर्गोलकः, तद्गतः शोथो भवति प्रभावात्| उद्गारश्च यथाभुक्तमिति मधुरादिरूपः| अविदग्धोऽनम्लः, द्वितीयपाके ह्याहारस्याम्लता दर्शिता| विदग्ध इत्यादि| विविधा वातवेदना तोदभेदादिरूपा| अङ्गपीडनं सामवातवेदनादि| पित्ताच्च विविधा रुज इति ओषचोषादयः| सधूमाम्ल इति धूमोद्गारोऽम्लोद्गारश्च||१०-१२||
Adhikarana ajIrNopadravAH (13) · Śloka 13
मूर्छा प्रलापो वमथुः प्रसेकः सदनं भ्रमः |
उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः ||१३||
(सु. सू. अ. ४६) |
उपद्रवानाह– मूर्छेत्यादि| अतिप्रवृद्धाजीर्णे तु मरणमपि||१३||
Adhikarana ajIrNakAraNeShvatimAtrabhojanasya visheShakAraNatvam (14) · Śloka 14
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः |
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||१४||
उक्ताजीर्णकारणेभ्योऽतिमात्रभोजनस्य विशेषकारणत्वमाह– अनात्मवन्त इत्यादि| अनात्मवन्तो दुष्टमनोयुक्ताः, लोलुपत्वेन तदात्वसुखाकाङ्क्षिण इति| अत एवोक्तम्– पशुवदिति| रोगानीकस्य रोगसमूहस्य विसूच्यादेः, मूलं कारणम्||१४||
Adhikarana ajIrNebhyo visUcyAdisambhavaH (15) · Śloka 15
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् |
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||१५||
(सु. उ. तं. अ. ५६) |
अजीर्णसम्भवत्वाद्विसूच्यादीनामजीर्णानन्तरं विसूच्यादीनाह– अजीर्णमित्यादि| “आमविष्टब्धविदग्धेषु त्रिषु विसूच्यलसकविलम्बिका यथासङ्ख्यं भवन्ति” इति कार्तिककुण्डः| ‘तन्न’ इति बकुलकरः| यथासङ्ख्ये हि विलम्बिका विदग्धात् प्राप्नोति, तां च कफवाताभ्यां पठिष्यति, तस्मात्त्रिविधाजीर्णाद्यथासम्भवं विसूच्यादीनामुत्पाद इति युक्तम्| उक्तंहि– “अजीर्णात् पवनादीनां विभ्रमो बलवान् भवेत्” इति||१५||
Adhikarana visUcikAnirukti (16-17) · Śloka 17
सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः |
यस्याजीर्णेन सा वैद्यैर्विसूचीति निगद्यते ||१६||
न तां परिमिताहारा लभन्ते विदितागमाः |
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः ||१७||
(सु. उ. तं. अ. ५६) |
विसूच्या निरुक्तिमाह– सूचीभिरित्यादि| ‘बाहुल्याद्वायुः सूचीभिरिव तुदन्’ इति विसूचीनिरुक्तिः| पाण्डुरोगवत् सूचीभिरिव तोदनं विहायान्येऽपि वेदनाभेदा विविधा भवन्त्येव| यदुक्तं तन्त्रान्तरे– “विविधैर्वेदनाभेदैर्वाय्वादेर्भृशकोपतः| सूचीभिरिव गात्राणि भिनत्तीति विसूचिका||” इति विदितागमा विदितायुर्वेदाः| मूढास्तज्ज्ञानानभिज्ञाः| अजितात्मानः अजितेन्द्रियाः अशनलोलुपाः पशुवदप्रमाणभोजिनः||१६-१७||
Adhikarana visUcikAlakShaNam (18) · Śloka 18
मूर्छाऽतिसारो वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः |
वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||१८||
(सु. उ. तं. अ. ५६) |
विसूची लक्षणमाह– मूर्छेत्यादि| वमथुः वान्तिः| शिरसश्च भेदः शिरःशूलम्| अत्र च वमनातीसारौ मिलितौ लक्षणमिति सौश्रुताः सुश्रुते– त्वधोगाया आमातीसारेण ग्रहणम्, ऊर्ध्वगायाश्छर्द्या च| (चरके तु पठ्यते– “ऊर्ध्वं चाधश्च प्रवृत्तामदोषां यथोक्तरूपां विसूचीं विद्यात्||” (च. वि. अ. २) इति| अत ऊर्ध्वगा विसूची भवति, तथाऽधोगाऽपि, चरके आमातीसारस्यापठितत्वात्; चकारादुभयमार्गगाऽपीति चेति व्याचक्षते, ऊर्ध्वगायाश्च अपक्वाहारवमनेन त्रिदोषच्छर्दिभ्यो भेद इति मन्तव्यम्||१८||
Adhikarana alasakalakShaNam (19-20) · Śloka 20
कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति |
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ||१९||
वातवर्चोनिरोधश्च यस्यात्यर्थं भवेदपि |
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु ||२०||
(सु. उ. तं. अ. ५६) |
अलसकमाह– कुक्षिरित्यादि| आनह्यते आध्मायते, मलविष्टम्भस्य वक्ष्यमाणत्वात्| प्रताम्येत् मुह्यति पुरुषः परिकूजति आर्तनादं करोति| निरुद्ध इत्यजीर्णेनाधः प्रतिरुद्धगतिः कुक्षौ वा, तेनोपरि धावति ऊर्ध्वं हृदयकण्ठादिकं गच्छति| ‘अलसक’ इति दोषस्थिरत्वनिमित्ता सञ्ज्ञा| यदुक्तं तन्त्रान्तरे– “प्रयाति नोर्ध्वं नाधस्तादाहारो न विपच्यते| आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः||” इति||१९-२०||
Adhikarana vilambikAlakShaNam (21) · Śloka 21
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य |
विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||२१||
(सु. उ. तं. अ. ५६) |
विलम्बिकामाह– दुष्टमित्यादि| भुक्तमन्नं कफमारुताभ्यां दुष्टमिति सम्बन्धः| भृशं दुश्चिकित्स्याम् अत्यर्थं दुश्चिकित्स्यां, प्रत्याख्येयां वर्जनीयामित्यर्थः| ननु, अलसकविलम्बिकयोरुभयोरपि वातकफप्रबलयोरूर्ध्वाधोऽप्रवर्तनशीलयोस्तुल्यत्वात् को भेदः? उच्यते अलसके तीव्राः शूलादयो भवन्ति, यदुक्तम्– “पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा| अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्|| शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||” इति||२१||
Adhikarana ajIrNajanyasyAmasya kAryAntaram (22) · Śloka 22
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः |
दोषेण येनावततं शरीरं तल्लक्षणैरामसमुद्भवैश्च ||२२||
(सु. उ. तं. अ. ५६) |
अजीर्णजातान् विसूच्यादीनभिधायाजीर्णजन्यस्यामस्य कार्यान्तरमाह– यत्रस्थमित्यादि| आमं कर्तृ, यत्रस्थं तमेव देशं विशेषेण रुजेत्; एतेनान्यदेशेऽपि किञ्चिद्रुजं करोतीति बोधयति| यत्रेतिसर्वनामशब्देन कुपितवातादीनामिवानियतमेव स्थानमामस्येति दर्शितम्| कै रुजेदित्याह– विकारजातैर्विकारसमूहैः| किम्भूतैरित्याह– दोषेण येन स्वकारणकुपितेन वातादिनाऽवततं व्याप्तं शरीरं, तल्लक्षणैः तल्लिङ्गैस्तोददाहगौरवादिभिः, न केवलं तैरामसमुद्भवैश्च विकारजातैरपाकालसकादिभिरपि| अनेनैव श्लोकेन तन्त्रान्तरोक्तमामवाताख्यं रोगं गृहीतवान् सुश्रुतः, तस्य लक्षणस्य समानत्वादित्याहुः||२२||
Adhikarana visUcyalasakayorasAdhyalakShaNam (23) · Śloka 23
यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञो वम्यर्दितोऽभ्यन्तरयातनेत्रः |
क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||२३||
(सु. उ. तं. अ. ५६) |
विसूच्यलसकयोरसाध्यत्वलक्षणमाह– य इत्यादि| “विलम्बिकायास्तु स्वरूपेणैवासाध्यत्वम्” इति जेज्जटः| अल्पसञ्ज्ञो मोहयुक्तः| अभ्यन्तरयातनेत्रः कोटरान्तःप्रविष्टाक्षिगोलकः| सर्वविमुक्तसन्धिः श्लथीभूतसर्वपर्वास्थिसन्धिः| अपुनरागमाय मरणाय||२३||
Adhikarana jIrNAhAralakShaNaM, visUcikAyA upadravAH, sAmAnyAjIrNalakShaNaM ca (24-27) · Śloka 27
उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः |
लघुता क्षुत्पिपासा च जीर्णाहारस्य लक्षणम् ||२४||
निद्रानाशोऽरतिः कम्पो मूत्राघातो विसञ्ज्ञता |
अमी ह्युपद्रवा घोरा विसूच्यां पञ्च दारुणाः ||२५||
प्रायेणाहारवैषम्यादजीर्णं जायते नृणाम् |
तन्मूलो रोगसङ्घातस्तद्विनाशाद्विनश्यति ||२६||
ग्लानिगौरवविष्टम्भभ्रममारुतमूढताः |
विबन्धो वा प्रवृत्तिर्वा सामान्याजीर्णलक्षणम् ||२७||
अजीर्णप्रतियोगितया जीर्णाहारलक्षणमाह– उद्गारेत्यादि| उद्गारशुद्धिर्धूमाम्लादिरहितत्वम्| उत्साहः शरीरमनसोर्बलम्| उत्सर्गो मलमूत्रप्रवृत्तिः, वेगसहित उत्सर्गो वेगोत्सर्गः| यथोचित उपयुक्ताहारानुरूपः| लघुता देहस्य, विशेषेण कोष्ठस्येति||२४-२७||
Adhikarana puShpikA · Śloka 6
इति श्रीमाधवकरविरचिते माधवनिदानेऽग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानं समाप्तम् ||६||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामग्निमान्द्याजीर्णविसूचिकालसकविलम्बिकानिदानं समाप्तम्||६||