Adhikarana krimINAM sa~gkhyA (1-2) · Śloka 1
अथ क्रिमिनिदानम् |
क्रिमयश्च द्विधा प्रोक्ता बाह्याभ्यन्तरभेदतः |
बहिर्मलकफासृग्विड्जन्मभेदाच्चतुर्विधाः ||१||
नामतो विंशतिविधा बाह्यास्तत्र मलोद्भवाः |
(वा. नि. अ. १४) |
अजीर्णात् क्रिमिसम्भव इत्यतोऽजीर्णानन्तरं क्रिमिनिदानमाह– क्रिमय इत्यादि| तत्र बाह्यास्त्वगुपलेपकबाह्यमलसम्भवाः, आभ्यन्तरा आमाशयादिसम्भवाः, ते देशभेदेन द्वैविध्येनोक्ताः कारणभेदाच्चतुर्धा भवन्तीत्याह– बहिर्मलेत्यादि| बहिर्मलो गात्रोपलेपी स्वेदादिरुक्त एव बहिर्मलादिषु चतुर्षु जन्म बहिर्मलादिजन्म तद्भेदात्| त एव चतुर्विधा नामभेदेन विंशतिविधा भवन्ति, विंशत्यतिरिक्ताश्चातिसूक्ष्माः कृमयः सहजाश्चरकेणोक्ताः, ते चावैकारिकत्वेन रोगाधिकारे नोच्यन्ते, विंशतिविधास्तु क्रिमयो दोषप्रकोपणद्वारेण ज्वरशूलादीन् जनयन्तीति रोगा उच्यन्ते||१-२||–
Adhikarana bAhyakrimilakShaNam (2-3) · Śloka 3
तिलप्रमाणसंस्थानवर्णाः केशाम्बराश्रयाः ||२||
बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः |
द्विधा ते कोठपिडकाकण्डूगण्डान् प्रकुर्वते ||३||
(वा. नि. अ. १४) |
उक्तान् बाह्यान् विवृणोति– बाह्यास्तत्र मलोद्भवा इति| तिलानामिव प्रमाणं परिमाणं, संस्थानमाकृतिः, वर्णश्च श्वेतः कृष्णो वा येषां यूकादिरूपाणां ते तथा| केशाम्बराश्रया इति अम्बरं वस्त्रम्| बहुपादा इति यूकाः, सूक्ष्मा इति लिक्षाः||२-३||
Adhikarana kriminidAnam (4) · Śloka 4
अजीर्णभोजी मधुराम्लनित्यो द्रवप्रियः पिष्टगुडोपभोक्ता |
व्यायामवर्जी च दिवाशयानो विरुद्धभुक् संलभते क्रिमींस्तु ||४||
तेषां निदानमाह– अजीर्णेत्यादि| अजीर्णे भोजनशीलोऽजीर्णभोज| मधुराम्लनित्यः सततमधुराम्लभोज| विरुद्धं क्षीरमत्स्यादि||४||
Adhikarana krimivisheShe nidAnavisheShaH (5) · Śloka 5
माषपिष्टाम्ललवणगुडशाकैः पुरीषजाः |
मांसमत्स्यगुडक्षीरदधिशुक्तैः कफोद्भवाः ||५||
विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि |
(सु. उ. तं. अ. ५४) |
क्रिमिविशेषे निदानविशेषमाह– माषेत्यादि||५||–
Adhikarana AbhyantarakrimilakShaNam (6) · Śloka 6
ज्वरो विवर्णता शूलं हृद्रोगः सदनं भ्रमः ||६||
भक्तद्वेषोऽतिसारश्च सञ्जातक्रिमिलक्षणम् |
(सु. उ. तं. अ. ५४) |
आभ्यन्तरक्रिमिलक्षणमाह– ज्वर इत्यादि||६||–
Adhikarana kaphajakrimilakShaNam (7-10) · Śloka 10
कफादामाशये जाता वृद्धाः सर्पन्ति सर्वतः ||७||
पृथुब्रध्ननिभाः केचित् केचिद्गण्डूपदोपमाः |
रूढधान्याङ्कुराकारास्तनुदीर्घास्तथाऽणवः ||८||
श्वेतास्ताम्रावभासाश्च नामतः सप्तधा तु ते |
अन्त्रादा उदारावेष्टा हृदयादा महागुदाः ||९||
चुरवो दर्भकुसुमाः सुगन्धास्ते च कुर्वते |
हृल्लासमास्यस्रवणमविपाकमरोचकम् ||१०||
मूर्छाच्छर्दिज्वरा नाहकार्श्यक्षवथुपीनसान् |
(वा. नि. अ. १४) |
कफजानाह– कफादित्यादि| कफनिमित्ताः क्रिमयो ये त्वामाशये जायन्ते, ते च वृद्धाः सन्तः सर्वत ऊर्ध्वमधश्च सर्पन्ति; एवं पुरीषजादिषु दृष्टव्यम्| ब्रध्नश्चर्मलता, ‘ब्रध्नी’ इति लोके| रूढं प्ररूढम्| तनवः परिणाहेन, दीर्घा आयामेन, अणवः उभाभ्यामपि स्वल्पाः| ते इति कफजाः| सप्त नामानि विवृणोति– अन्त्रादा इत्यादि| एते च नामविशेषाः केचित् सान्वयाः केचिन्निरन्वया व्यवहारार्थं पूर्वाचार्यैः प्रणीताः; एवं वक्ष्यमाणेष्वपि बोध्यमिति||७-१०||–
Adhikarana raktajakrimilakShaNam (11-12) · Śloka 12
रक्तवाहिसिरास्थानरक्तजा जन्तवोऽणवः ||११||
अपादा वृत्तताम्राश्च सौक्ष्म्यात् केचिददर्शनाः |
केशादा रोमविध्वंसा रोमद्वीपा उदुम्बराः |
षट् ते कुष्ठैककर्माणः सहसौरसमातरः ||१२||
(वा. नि. अ. १४) |
रक्तजानाह-रक्तेत्यादि| रक्तवाहिसिरास्थानाश्च ते रक्तजाश्चेति रक्तवाहिसिरास्थानरक्तजाः; अथवा रक्तवाहिसिरास्थानं यद्रक्तं तज्जाः| नामभेदात्ते षट्, तत्र केशादादयश्चत्वारः, सह सौरसनाममातृनामभ्यां क्रिमिभ्यां वर्तन्ते इति सहसौरसमातरः, एवं षड् भवन्ति| कुष्ठैककर्माण इति कुष्ठमेवैकं कार्यं येषां ते तथा, कुष्ठजनका इति यावत्| उक्तं हि सुश्रुते– “सर्वाणि कुष्ठानि सवातानि सपित्तानि सश्लेष्माणि सक्रिमीणि चोपदिश्यन्ते” (सु. नि. अ. ५) इति ||११-१२||
Adhikarana purIShajakrimilakShaNam (13-16) · Śloka 16
पक्वाशये पुरीषोत्था जायन्तेऽधोविसर्पिणः |
प्रवृद्धाः स्युर्भवेयुश्च ते यदाऽऽमाशयोन्मुखाः ||१३||
तदाऽस्योद्गारनिःश्वासा विड्गन्धानुविधायिनः |
पृथुवृत्ततनुस्थूलाः श्यावपीतसितासिताः ||१४||
ते पञ्च नाम्ना क्रिमयः ककेरुकमकेरुकाः |
सौसुरादाः सशूलाख्या लेलिहा जनयन्ति हि ||१५||
विड्भेदशूलविष्टम्भकार्श्यपारुष्यपाण्डुताः |
रोमहर्षाग्निसदनं गुदकण्डूर्विमार्गगाः ||१६||
(वा. नि. अ. १४) |
पुरीषजानाह– पक्वाशय इत्यादि| अधोविसर्पिण इति विसर्पणं गतिः, गुदनिःसरणशीलाः; ते यदाऽतिवृद्धाः सन्तः आमाशयोन्मुखा भवेयुस्तदाऽस्य रोगिण उद्गारनिःश्वास विड्गन्धानुविधायिनः स्युः पुरीषगन्धयुक्ता भवन्तीति योज्यम्| शेषं सुबोधम्||१३-१६||
Adhikarana puShpikA · Śloka 7
इति श्रीमाधवकरविरचिते माधवनिदाने क्रिमिनिदानं समाप्तम् ||७||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां क्रिमिनिदानं समाप्तम्||७||