Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

38. galagaṇḍagaṇḍamālāpacīgranthyarbudanidānam

Adhikarana galagaNDasya sAmAnyalakShaNam (1) · Śloka 1

अथ गलगण्ड-गण्डमालापची-ग्रन्थ्यर्बुदनिदानम् | निबद्धः श्वयथुर्यस्य मुष्कवल्लम्बते गले | महान् वा यदि वा ह्रस्वो गलगण्डं तमादिशेत् ||१|| (सु. नि. अ. ११) |

🔊 Audio coming soon

वृद्धियुक्तमुष्कसमानलिङ्गत्वात्तदनन्तरं गलगण्डनिदानम्| तस्य सामान्यलिङ्गमाह– निबद्धः श्वयथुरित्यादि| निबद्धोऽनुबन्धवान्| मुष्कवदण्डवत्| भोजेऽप्युक्तम्– “महान्तं शोथमल्पं वा हनुमन्यागलाश्रयम्| लम्बन्तं मुष्कवद्दृष्ट्वा गलगण्डं विनिर्दिशेत्||” इति||१||

Adhikarana galagaNDasamprAptiH (2) · Śloka 2

वातः कफश्चापि गले प्रदुष्टो मन्ये च संश्रित्य तथैव मेदः | कुर्वन्ति गण्डं क्रमशः स्वलिङ्गैः समन्वितं तं गलगण्डमाहुः ||२|| (सु. नि. अ. ११) |

🔊 Audio coming soon

तस्य सम्प्राप्तिमाह– वात इत्यादि| वातकफमेदांसि पृथक् गलगण्डकारणानि, तेन त्रय एव गलगण्डाः; पैत्तिकस्तु न भवत्येव, व्याधिस्वभावात्; चातुर्थकज्वरवत्| चातुर्थके हि वचनम्– “चातुर्थको दर्शयति प्रभावं द्विविधं ज्वरः| जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः||” (च. चि. अ. ३) इति| क्रमश इत्यनेन शनैरेव वर्धनं दर्शयति| स्वलिङ्गैः समन्वितमिति “निबद्धः श्वयथुः” इत्यादिना उक्तगलगण्डलिङ्गैरन्वितम्||२||

Adhikarana vAtajagalagaNDalakShaNam (3) · Śloka 4

तोदान्वितः कृष्णसिरावनद्धः श्यावोऽरुणो वा पवनात्मकस्तु | पारुष्ययुक्तश्चिरवृद्ध्यपाको यदृच्छया पाकमियात्कदाचित् ||३|| वैरस्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रशोषः |४| (सु. नि. अ. ११) |

🔊 Audio coming soon

वातजमाह– तोदान्विते इत्यादि| चिरवृद्धिरिति विकारप्रभावात् वातजोऽपि चिरेण वर्धते| यदृच्छया पाकमियादिति कारणाप्रतिनियमेन कदाचित् पाकं याति, कारणाप्रतिनियमश्च बाह्योऽभिप्रेतः, आभ्यन्तरस्तु पाककारणं पित्तं रक्तं च नियतमेव| कदाचिदिति न सर्वकालम्| “यदृच्छया चैव भवेत् कदाचित्” इति पाठान्तरे ‘पाक’ इति शेषः||३||–

Adhikarana shleShmajagalagaNDalakShaNam (4-5) · Śloka 5

स्थिरः सवर्णो गुरुरुग्रकण्डूः शीतो महांश्चापि कफात्मकस्तु ||४|| चिराभिवृद्धिं भजते चिराद्वा प्रपच्यते मन्दरुजः कदाचित् | माधुर्यमास्यस्य च तस्य जन्तोर्भवेत्तथा तालुगलप्रलेपः ||५|| (सु. नि. अ. ११) |

🔊 Audio coming soon

श्लेष्मजमाह– स्थिर इत्यादि| सवर्ण इति प्रकृतिसमवर्णः||४-५||

Adhikarana medojagalagaNDalakShaNam (6) · Śloka 7

स्निग्धो गुरुः पाण्डुरनिष्टगन्धो मेदोभवः कण्डुयुतोऽल्परुक् च | प्रलम्बतेऽलाबुवदल्पमूलो देहानुरूपक्षयवृद्धियुक्तः ||६|| स्निग्धास्यता तस्य भवेच्च जन्तोर्गलेऽनुशब्दं कुरुते च नित्यम् |७| (सु. नि. अ. ११) |

🔊 Audio coming soon

मेदोजमाह– स्निग्ध इत्यादि| देहानुरूपक्षयवृद्धियुक्त इति देहक्षये क्षयं, देहवृद्धौ च वृद्धिं यातीत्यर्थः| गलेऽनुशब्दमिति अनुनादं करोति| ‘गले तु शब्दम्’ इति पाठान्तरं सुगमम्||६||–

Adhikarana galagaNDasyAsAdhyalakShaNam (7) · Śloka 8

कृच्छ्राच्छ्वसन्तं मृदुसर्वगात्रं संवत्सरातीतमरोचकार्तम् ||७|| क्षीणं च वैद्यो गलगण्डयुक्तं भिन्नस्वरं चापि विवर्जयेच्च |८| (सु. नि. अ. ११) |

🔊 Audio coming soon

असाध्यतामाह– कृच्छ्राच्छ्वसन्तमित्यादि| कृच्छ्राच्छ्वसन्तं दुःखेन श्वासविमोक्षकारिणम्| भिन्नस्वरं स्वरभेदवन्तम्||७||–

Adhikarana gaNDamAlAlakShaNam (8) · Śloka 9

कर्कन्धुकोलामलकप्रमाणैः कक्षांसमन्यागलवङ्क्षणेषु ||८|| मेदःकफाभ्यां चिरमन्दपाकैः स्याद्गण्डमाला बहुभिश्च गण्डैः |९| (सु. नि. अ. ११) |

🔊 Audio coming soon

स्थानतुल्यतया गण्डमालामिहैवाह– कर्कन्धुकोलामलकप्रमाणैरित्यादि| कर्कन्धुः शृगालकोलिः, कोलं बृहद्बदरम्| मेदःकफाभ्यामिति मेदो दूष्यं, कफो दोषोऽत्रारम्भकः, मेदःकफौ प्राधान्येनोक्तौ; तेन वातपित्तसम्बन्धोऽप्यत्र द्रष्टव्यः| यदाह भोजः– “वातपित्तकफा वृद्धा मेदश्चापि समाचितम्| जङ्घयोः कण्डराः प्राप्य मत्स्याण्डसदृशान् बहून्|| कुर्वन्ति ग्रन्थितांस्तेभ्यः पुनः प्रकुपितोऽनिलः| तान् दोषानूर्ध्वगो वक्षःकक्षमन्यागलाश्रितः|| नानाप्रकारान् कुरुते ग्रन्थीन् सा त्वपची मता| तां तु मालाकृतिं विद्यात् कण्ठहृद्धनुसन्धिषु|| गण्डमालां विजानीयादपचीतुल्यलक्षणाम्|” इति| स्याद्गण्डमालेति मालातुल्यगण्डयोगात् गण्डमाला| गलमात्र एव गण्डमाला चरके पठिता| यथा– “मेदःकफाच्छोणितसञ्चयोत्थो गलस्य मध्ये गलगण्ड एकः स्याद्गण्डमाला बहुभिश्च गण्डैः” (च. चि. अ. १२) इति||८||–

Adhikarana apacIlakShaNam (9-10) · Śloka 10

ते ग्रन्थयः केचिदवाप्तपाकाः स्रवन्ति नश्यन्ति भवन्ति चान्ये ||९|| कालानुबन्धं चिरमादधाति सैवापचीति प्रवदन्ति तज्ज्ञाः | साध्याः स्मृताः पीनसपार्श्वशूलकासज्वरच्छर्दियुतास्त्वसाध्याः ||१०||

🔊 Audio coming soon

गण्डमालातुल्यतया अपचीमाह– ते ग्रन्थय इत्यादि| ते इति गण्डमालारम्भकदोषदूष्यकृता ये ग्रन्थयस्त एवेत्यर्थः| कालानुबन्धं चिरमिति चरकलानुबन्धम्| सैवापचीति तादृशी अमालारूपा अपची भण्यते| सैवापचीति इतिशब्देनाभिहितत्वात् प्रवदन्तीति क्रियायोगेऽपि न द्वितीया| अपचीनिरुक्तिश्चापरापरोपचीयमानतया| अत एव “चयप्रकर्षादपचीं वदन्ति|” (सु. नि. अ. ११) इति सुश्रुतः| चयप्रकर्षश्चापरापरभवनेनैव, साधुत्वं च नैरुक्त्येन विधिना| यदुक्तम्– “वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ| धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्||” इति| अत एवोक्तम्– नश्यन्ति भवन्ति चान्य इति| साध्याः स्मृता इति छेदः| पीनसादिभिरुपद्रवैरसाध्याः| अयं तु ग्रन्थिः चरके गण्डमालायामस्ति; सङ्ग्रहकारेण तु गण्डमालया सह तुल्यत्वादपच्या अपच्यामेव ग्रन्थिः पठितः||९-१०||

Adhikarana grantherlakShaNam (11) · Śloka 11

वातादयो मांसमसृक् प्रदुष्टाः सन्दूष्य मेदश्च तथा सिराश्च | वृत्तोन्नतं विग्रथितं च शोथं कुर्वन्त्यतो ग्रन्थिरिति प्रदिष्टः ||११|| (सु. नि. अ. ११) |

🔊 Audio coming soon

अनन्तरमपचीगुडकतुल्यतया ग्रन्थिमाह– वातादय इत्यादि| वातपित्तकफाः प्रत्येकं दुष्टाः; दुष्टिश्चात्र वृद्धिरेव न क्षयः, क्षीणानां विकारकरणाक्षमत्वात्| यद्येवं तर्हि कथं वातादिक्षये मन्दचेष्टादयः? उच्यते– तत्क्षये विरोधिदोषकोपात्; यथा– मधुरस्निग्धादिभिर्वाते क्षीणे तत्समानत्वात् श्लेष्मा प्रकुप्यति| वचनं हि– “वृद्धिश्चापि विरोधिनाम्|” इति| सन्दूष्य मेदश्च मांसमसृक् सिराश्चेत्यनेन मेदोजः कफसम्बन्धाद्यो भवति तथा सिराजोऽपि वायुना सिरादुष्ट्या यो जन्यते स उच्यते| एवं पञ्च ग्रन्थयः| तथेति सन्दूष्य| मांसमसृगिति अत्रासृजः क्रमोल्लङ्घनेन पाठोऽप्राधान्यप्रतिपादनार्थः, विसर्पे तु शोणितमेव प्रधानम्| अत एव क्वचित् चकारमप्राधान्यसूचकं निवेश्य ‘असृक् च’ इति पाठः| चरके तु ग्रन्थिः वातकफज एव ग्रन्थिविसर्पशब्देनोक्तः| वृत्तोन्नतमिति वृत्तं वर्तुलम्, उन्नतम् उच्छूनम्| विग्रथितं कठिनं, ककखटं वा; विग्रथितत्वादेव ग्रन्थिरिति सञ्ज्ञा||११||

Adhikarana vAtajagranthilakShaNam (12) · Śloka 12

आयम्यते वृश्च्यति तुद्यते च प्रत्यस्यते मथ्यति भिद्यते च | कृष्णो मृदुर्बस्तिरिवाततश्च भिन्नः स्रवेच्चानिलजोऽस्रमच्छम् ||१२|| (सु. नि. अ. ११) |

🔊 Audio coming soon

अनिलग्रन्थिमाह– आयम्यत इत्यादि| आयम्यते आकृष्य दीर्घीक्रियते| वृश्च्यतीति छिनत्तीव, अत्र दिवादेराकृतिगणत्वात् ‘श्यन्’ प्रत्ययः| प्रत्यस्यते क्षिप्यते| मथ्यति आलोडयतीव, अत्रापि पूर्ववत् समाधानम्| भिद्यते विदीर्यत इव| अस्रं स्रावम्||१२||

Adhikarana pittajagranthilakShaNam (13) · Śloka 13

दन्दह्यते धूप्यति वृश्च्यते च पापच्यते प्रज्वलतीव चापि | रक्तः सपीतोऽप्यथवाऽपि पित्ताद्भिन्नः स्रवेदुष्णमतीव चास्रम् ||१३|| (सु. नि. अ. ११) |

🔊 Audio coming soon

पित्तग्रन्थिमाह– दन्दह्यत इत्यादि| दन्दह्यते अत्यर्थं दह्यते अग्निनेव| पापच्यते भृशं पच्यत इव क्षारेण, किंवा उत्क्वथ्यत इव| प्रज्वलतीव ज्वलन् भस्मीभवतीव||१३||

Adhikarana kaphajagranthilakShaNam (14) · Śloka 14

शीतोऽविवर्णोऽल्परुजोऽतिकण्डुः पाषाणवत् संहननोपपन्नः | चिराभिवृद्धश्च कफप्रकोपाद्भिन्नः स्रवेच्छुक्लघनं च पूयम् ||१४|| (सु. नि. अ. ११) |

🔊 Audio coming soon

कफग्रन्थिमाह– शीत इत्यादि| अविवर्णः प्रकृतिवर्णः, ईषद्विवर्ण इति कश्चित्| पाषाणवत् संहननोपपन्न इति पाषाणवत् कठिन इत्यर्थः; किंवा पाषाणवत् भवति, संहननोपपन्न इति संहतान्वितो महानित्यर्थः||१४||

Adhikarana medojagranthilakShaNam (15) · Śloka 15

शरीरवृद्धिक्षयवृद्धिहानिः स्निग्धो महान् कण्डुयुतोऽरुजश्च | मेदःकृतो गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेदः ||१५|| (सु. नि. अ. ११) |

🔊 Audio coming soon

मेदोजग्रन्थिमाह– शरीरेत्यादि| शरीरवृद्धिक्षयवृद्धिहानिरिति शरीरवृद्धिक्षयाभ्यां यथाक्रमं वृद्धिहानी यस्य स तथा| मेदोजेष्वेवं युक्तिः धातुस्वभावात् चिरस्थायित्वाद्वा| गच्छति चात्र भिन्ने पिण्याकसर्पिःप्रतिमं तु मेद इति भिन्ने सति पिण्याकस्तिलकल्कः, सर्पिरत्र स्त्यानं, तत्सदृशं मेदः स्रवति| भोजेन तु मेदोग्रन्थेः सम्प्राप्तिः पठ्यते| यथा– “मेदो वायुर्यदा मांसे निक्षिपेदथवा त्वचि| तत्र मेदोभवग्रन्थिः श्यावो भवति पाण्डुरः|| कृशः कृशे, महान् स्थूले, ग्रन्थिर्भिन्नश्च पीडितः| तिलकल्कनिभः स्रावो घृतवच्चास्य जायते||” इति||१५||

Adhikarana sirAjagrantheH samprAptiH lakShaNaM ca (16-17) · Śloka 17

व्यायामजातैरबलस्य तैस्तैराक्षिप्य वायुस्तु सिराप्रतानम् | सङ्कुच्य सम्पिण्ड्य विशोष्य चापि ग्रन्थिं करोत्युन्नतमाशु वृत्तम् ||१६|| ग्रन्थिः सिराजः स तु कृच्छ्रसाध्यो भवेद्यदि स्यात् सरुजश्चलश्च | स चारुज श्चाप्यचलो महांश्च मर्मोत्थितश्चापि विवर्जनीयः ||१७|| (सु. नि. अ. ११) |

🔊 Audio coming soon

सिराजग्रन्थेः सम्प्राप्तिमाह– व्यायामजातैरित्यादि| सङ्कुच्येति अन्तर्भावितोऽत्र ण्यर्थः, तेन सङ्कोच्येत्यर्थः| सम्पिण्ड्येति संहतीकृत्य| उन्नतमाशु वृत्तमिति अस्य सामान्यलक्षणेनैव सिद्धे पुनस्तदुक्तिरतिशयार्थम्| स च सिराजो ग्रन्थिर्यदि सरुजश्चलश्च स्यात्तदा कृच्छ्रसाध्यः| स चारुजश्चापीत्यादिना न साध्यः| स चेति चकारेणारुजत्वादिधर्मयोगादपरेऽपि ग्रन्थयोऽसाध्या इति सूचयति| यदुक्तं भोजे– “पञ्चैतानरुजो ग्रन्थीन् मर्मजानचलांस्त्यजेत्| कपोलगलमन्यासु दुश्चिकित्स्याश्च सन्धिषु||” इति| अन्ये तु मांसासृग्भ्यां षष्ठं ग्रन्थिं वदन्त एवं पठन्ति– “ मांसासृजं चार्बुदलक्षणेन तुल्यं हि दृष्टं त्वथ लक्षणज्ञैः|” इति किन्त्वनार्षोऽयं पाठः, भोजादिसमानतन्त्रेष्वदृष्टत्वात्||१६-१७||

Adhikarana arbudasamprAptiH (18-19) · Śloka 20

गात्रप्रदेशे क्वचिदेव दोषाः सम्मूर्छिता मांसमसृक् प्रदूष्य | वृत्तं स्थिरं मन्दरुजं महान्तमनल्पमूलं चिरवृद्ध्यपाकम् ||१८|| कुर्वन्ति मांसोच्छ्रयमत्यगाधं तदर्बुदं शास्त्रविदो वदन्ति | वातेन पित्तेन कफेन चापि रक्तेन मांसेन च मेदसा वा ||१९|| तज्जायते तस्य च लक्षणानि ग्रन्थेः समानानि तदा भवन्ति |२०| (सु. नि. अ. ११) |

🔊 Audio coming soon

मांसशोणितदूष्यसाम्यादर्बुदाभिधानम्| तस्य सम्प्राप्तिमाह– गात्रप्रदेशे क्वचिदित्यादि| क्वचिदेवेत्यनेनानियतदेशे, न पुनरपचीवन्नियतदेशे| “सम्मूर्छिता” इति पाठान्तरे सम्मूर्छिता वृद्धाः, दूष्यसंसृष्टा इति कार्तिकः| मांसमसृक् प्रदूष्येति सर्वार्बुदसाधारणं दूष्यं, मांसार्बुदमेदोऽर्बुदयोस्तु विशेषेण मांसदुष्टिः; मांसार्बुदमेदोऽर्बुदयोरपि तद्दूषको दोषोऽस्ति, तेन तत्रापि दोषकर्तृतया सम्प्राप्तिरियं भवति| मांसोच्छ्रयमिति मांसोच्छ्रयतया प्रतीयमानम्| मेदोजेऽपि मांसमुद्गतं भवति| अत्यगाधमिति दूरानुप्रविष्टम्; अत एवानल्पमूलमित्युक्तम्| वातादिभिस्तदर्बुदं जायते भवति, तेन षडर्बुदानि भवन्ति| ग्रन्थेः समानानीति वातपित्तकफमेदोग्रन्थिभिर्वातपित्तकफमेदोऽर्बुदानां लक्षणानि समानानि, शोणितजमांसजयोस्तु लक्षणं पृथक् वक्ष्यति||१८-१९||–

Adhikarana raktArbudalakShaNam (20-21) · Śloka 21

दोषः प्रदुष्टो रुधिरं सिराश्च सङ्कुच्य सम्पिण्ड्य ततस्त्वपाकम् ||२०|| सास्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैराचितमाशुवृद्धम् | करोत्यजस्रं रुधिरप्रवृत्तिमसाध्यमेतद्रुधिरात्मकं तु ||२१|| रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेदर्बुदपीडितस्तु | (सु. नि. अ. ११) |

🔊 Audio coming soon

रक्तार्बुदमाह– दोषः प्रदुष्ट इत्यादि| सङ्कुच्येति अन्तर्भावितोऽत्र ण्यर्थः| अपाकमीषत्पाकं, तेन सास्रावमित्युपपन्नं भवति| दोष उन्नह्यति उच्छ्रितो भवति| सास्रावमीषत्स्रावम्| मांसपिण्डमाशुवृद्धं शीघ्रवर्धनं, मांसाङ्कुरैराचितं करोति, तथा अजस्रं रुधिरप्रवृत्तिमपि करोति; रुधिरं चात्राधिष्ठानभूतं सिरागतं प्रवर्तते न तु पाकात्, ईषदेव स्रावस्य क्लेदरूपस्योक्तत्वात्| किंवा उन्नह्यतीत्यन्तर्भावितण्यर्थः, तेन मांसपिण्डमुन्नाहयति उद्गतं करोति| “दोषाः प्रदुष्टा” इति पाठपक्षे “ सास्रावमुन्नह्य हि” इति पाठः| उन्नह्य उन्नाह्य, अन्तर्भावितण्यर्थत्वात्| हि पादपूरणे||२०-२१||–

Adhikarana mAMsArbudasya samprAptipUrvakaM lakShaNam (22-23) · Śloka 23

मुष्टिप्रहारादिभिरर्दितेऽङ्गे मांसं प्रदुष्टं जनयेद्धि शोथम् ||२२|| अवेदनं स्निग्धमनन्यवर्णमपाकमश्मोपममप्रचाल्यम् | प्रदुष्टमांसस्य नरस्य गाढमेतद्भवेन्मांसपरायणस्य ||२३|| मांसार्बुदं त्वेतदसाध्यमुक्तं... | (सु. नि. अ. ११) |

🔊 Audio coming soon

मांसजन्यसम्प्राप्तिमाह– मुष्टिप्रहारादिभिरित्यादि| अश्मोपमं पाषाणवत् कठिनम्| अप्रचाल्यं स्थिरम्| यद्यपि रक्तमांसार्बुदयो रक्तमांसयोर्हेतुत्वेनोक्तिस्तथाऽपि रक्तजे पित्तं, मांसजे वायुरारम्भकः, एवमपि ताभ्यां घृतदुग्धन्यानेन व्यपदेशः| मांसपरायणस्य मांसाशनशीलस्य| तस्य चातिमात्रं मांसवृद्धिः, “मांसं मांसेन वर्धते” इत्यभिधानात्||२२-२३||–

Adhikarana asAdhyArbudam (24) · Śloka 24

...साध्येष्वपीमानि तु वर्जयेच्च | सम्प्रस्रुतं मर्मणि यच्च जातं स्रोतःसु वा यच्च भवेदचाल्यम् ||२४|| (सु. नि. अ. ११) |

🔊 Audio coming soon

साध्येष्वप्यसाध्यप्रकारानाह– साध्येष्वपीत्यादि| सम्प्रस्रुतं स्रावयुक्तं, स्रावश्चात्रापाकित्वेऽपि त्वगवदरणात् मनागवगन्तव्यः| स्रोतःसु नासादिषु| अचाल्यं स्थिरम्||२४||

Adhikarana adhyarbudalakShaNam (25) · Śloka 25

यज्जायतेऽन्यत् खलु पूर्वजाते ज्ञेयं तदद्ध्यर्बुदमर्बुदज्ञैः | यद्द्वन्द्वजातं युगपत् क्रमाद्वा द्विरर्बुदं तच्च भवेदसाध्यम् ||२५|| (सु. नि. अ. ११) |

🔊 Audio coming soon

अध्यर्बुदमाह– यज्जायत इत्यादिना| अधिकमर्बुदम् अध्यर्बुदम्, एतद्द्विरर्बुदमेव| यद्द्वन्द्वजातं युगपत् क्रमाद्वेति द्वन्द्वजातं युग्मेन जातं, युगपदेकदा क्रमेण वा, तद्द्विरर्बुदं न साध्यम्| तथाच भोजः– “अर्बुदे त्वर्बुदं जातं द्वन्द्वजं चानुजं च यत्| द्विरर्बुदमिति ज्ञेयं तच्चासाध्यं विनिर्दिशेत्||” इति||२५||

Adhikarana arbudAnAM pAkAbhAve hetuH (26) · Śloka 26

न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु | दोषस्थिरत्वाद्ग्रथनाच्च तेषां सर्वार्बुदान्येव निसर्गतस्तु ||२६|| (सु. नि. अ. ११) |

🔊 Audio coming soon

अर्बुदानां पाकाभावे हेतुमाह– न पाकमायान्तीत्यादि| सर्वार्बुदानि पित्तरक्तजान्यपि न पाकमायान्ति, कुतः इत्यत आह– कफाधिकत्वान्मेदोबहुत्वाच्च| ननु, अपच्यामपि विशेषतः कफमेदसी अधिके, अथ च तस्याः पाकोऽस्त्येव, इत्यत आह– दोषस्थिरत्वादिति| अपच्यां कालान्तरेण हि रक्तपित्तमधिकं पाकमारभते, तच्चेह दोषस्थिरत्वात् सदा सदृशदोषत्वात् ग्रथितत्वाच्च न पाकारम्भकम्| अन्ये तु दोषस्थिरत्वादिति दोषोच्छ्रायरूपशोथकाठिन्यादित्याहुः; तदप्रयोजनकम्, अन्यत्र दोषोच्छ्रायशोथकाठिन्येऽपि पाकदर्शनात्| अथ कुतो यथोक्तहेतुसम्पदित्याह– निसर्गतस्त्विति| निसर्गतो व्याधिस्वभावात्| भोजेऽप्युक्तम्– “न पच्यते स्थिरत्वाच्च ग्रथितत्वात् स्वभावतः|” इति||२६||

Adhikarana puShpikA · Śloka 38

इति श्रीमाधवकरविरचिते माधवनिदाने गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानं समाप्तम् ||३८||

🔊 Audio coming soon

इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां गलगण्डगण्डमालापचीग्रन्थ्यर्बुदनिदानं समाप्तम्||३८||