Adhikarana shlIpadasamprAptiH, vAtaja-pittaja-shlaiShmikashlIpadalakShaNaM ca (1-3) · Śloka 3
अथ श्लीपदनिदानम् |
यः सज्वरो वङ्क्षणजो भृशार्तिः शोथो नृणां पादगतः क्रमेण |
तच्छ्लीपदं स्यात् करकर्णनेत्रशिश्नौष्ठनासास्वपि केचिदाहुः ||१||
वातजं कृष्णरूक्षं च स्फुटितं तीव्रवेदनम् |
अनिमित्तरुजं तस्य बहुशो ज्वर एव च ||२||
पित्तजं पीतसङ्काशं दाहज्वरयुतं मृदु |
श्लैष्मिकं स्निग्धवर्णं च श्वेतं पाण्डु गुरु स्थिरम् ||३||
उत्सेधसाधर्म्यादर्बुदेन सह कफसम्बन्धाव्यभिचारसाम्याच्चाथ श्लीपदनिदानम्| तस्य सम्प्राप्तिमाह– य इत्यादि| वङ्क्षणावस्थानमेवास्य पूर्वरूपम्| क्रमेणेति शनैः शनैः| तत् श्लीपदं स्यादित्यनेन निरुपाधिरेवेयं सञ्ज्ञेति दर्शयति; अन्ये शिलावत् पदं श्लीपदमिति वदन्ति, नैरुक्त्येन च विधिना साधुत्वम्| करकर्णादिगतश्लीपदानां यथोक्तसम्प्राप्त्यभावात् केचिदाहुरिति परमतेनोक्तिः||१-३||
Adhikarana asAdhyashlIpadalakShaNam (4) · Śloka 4
वल्मीकमिव सञ्जातं कण्टकैरुपचीयते |
अब्दात्मकं महत्तच्च वर्जनीयं विशेषतः ||४||
एषामसाध्यतामाह– वल्मीकमिवेत्यादि| सञ्जातं प्रवृद्धं सत् वल्मीकवद्बहुशिखराकारं ग्रन्थिभिरुपचितं यद्भवति तदसाध्यम्| अन्ये तु पुनरमुं ग्रन्थिं कफजलक्षणत्वेन वर्णयन्ति; तन्न मनो धिनोति, सुश्रुते वल्मीकवज्जातस्यासाध्यत्वेनाभिधानात्| तद्यथा– “तत्र संवत्सरातीतमतिमहद्वल्मीकमिव सञ्जातं सम्प्रस्रुतमिति वर्जनीयानि भवन्ति|” (सु. नि. अ. १२) इति| अब्दात्मकमित्यादि| अब्दात्मकं संवत्सरातीतम्, अब्दमेकमिति पाठे तु ‘अतिक्रान्तम्’ इति शेषः| महदिति अत्यन्तमुच्छूनम्| वर्जनीयं विशेषत इति प्रत्याख्येयम्||४||
Adhikarana shlIpadeShu kaphasyAvyabhicAreNa prAdhAnyam (5) · Śloka 5
त्रीण्यप्येतानि जानीयाच्छ्लीपदानि कफोच्छ्रयात् |
गुरुत्वं च महत्त्वं च यस्मान्नास्ति कफं विना ||५||
(सु. नि. अ. १२) |
श्लीपदेषु कफस्याव्यभिचारेण प्राधान्यमाह– त्रीण्यप्येतानीत्यादि| ननु, यद्यव्यभिचारी सर्वत्र कफः कथं तर्हि एकदोषजत्वव्यपदेशः, सर्वस्य द्विदोषजत्वप्रसङ्गात्? उच्यते– अनुबन्धोऽत्र कफः, न त्वनुबन्ध्यः; एतेनात्र न द्विदोषजप्रसङ्ग इत्यभिप्रायः||५||
Adhikarana shlIpadasambhavaheturdeshaH (6) · Śloka 6
पुराणोदकभूयिष्ठाः सर्वर्तुषु च शीतलाः |
ये देशास्तेषु जायन्ते श्लीपदानि विशेषतः ||६||
(सु. नि. अ. १२) |
श्लीपदसम्भवहेतुं देशमाह– पुराणोदकेत्यादि| अनूपदेशे हि सलिलं पतितं बहूदकं निम्नतया न शोषमुपयाति; जाङ्गले तु आग्नेयोन्नतभूभागत्वात् न पुराणोदकभूयिष्ठता| स्तिमितस्यानूपस्य मन्दातपत्वेनोष्णर्तावपि शीततेति अत उक्तम्– “सर्वर्तुषु च शीतलाः” इति| करकर्णादिगतश्लीपदसन्देहे कोपद्वारेण ज्वरेण श्लीपदावधारणं करणीयम्||६||
Adhikarana shlIpadasyAparamasAdhyalakShaNam (7) · Śloka 7
यच्छ्लेष्मलाहारविहारजातं पुंसः प्रकृत्याऽपि कफात्मकस्य |
सास्रावमत्युन्नतसर्वलिङ्गं सकण्डुरं श्लेष्मयुतं विवर्ज्यम् ||७||
अपरमसाध्यलक्षणमाह– यदित्यादि| अत्युन्नतसर्वलिङ्गमिति येन दोषेणारब्धं श्लीपदं तस्यात्युन्नतानि अतिवृद्धानि सर्वाणि लिङ्गानि यत्र तत्तथा| सकण्डुरमिति अत्यन्तकण्डुमत्| श्लेष्मयुतमिति श्लेष्मानुगम्||७||
Adhikarana puShpikA · Śloka 39
इति श्रीमाधवकरविरचिते माधवनिदाने श्लीपदनिदानं समाप्तम् ||३९||
इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां श्लीपदनिदानं समाप्तम्||३९||