Adhikarana vRuddheH samprAptiH (1-2) · Śloka 3
अथ वृद्धिनिदानम् |
क्रुद्धोऽनूर्ध्वगतिर्वायुः शोथशूलकरश्चरन् |
मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः ||१||
प्रपीड्य धमनीर्वृद्धिं करोति फलकोषयोः |
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः ||२||
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम् |३|
(वा. नि. अ. ११) |
शोथत्वसामान्यात् शोथानन्तरं वृद्धिरभिधीयते| वृद्धेः सम्प्राप्तिमाह– क्रुद्धोऽनूर्ध्वगतिर्वायुरित्यादि| अनूर्ध्वगतिरधोगतिर्वायुः मुष्कौ प्राप्य चरन् गच्छन् वङ्क्षणतो मेढ्रजङ्घासन्धेः सकाशात्; फलकोषाभिवाहिनीरिति फलं च कोषश्च फलकोषौ, अथवा फलयोः कोषौ, तद्वहा धमनीश्च प्रपीड्य सन्दूष्य, वृद्धिं करोति| फलकोषयोरिति द्विवचनमुपलक्षणं, तेनैककोषेऽपि दृश्यमाना वृद्धिः सङ्गता| स वृद्धिरिति “क्तिच्क्तौ च सञ्ज्ञायाम्” इत्यनेन क्तिजन्तो वृद्धिशब्दः पुंलिङ्गः, क्तिन्नन्तस्तु स्त्रीलिङ्गः| वृद्धिः कुरण्डोऽभिधीयते| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां सप्तधेति वचनं न्यूनाधिकसङ्ख्यानिरासार्थं, तेन द्वन्द्वजादिवृद्धेरधिकाया निरासः, असम्भवस्तु तस्या व्याधिस्वभावात्; मूत्रान्त्रवृद्ध्योर्वातवृद्ध्यन्तर्भावात् न्यूनसङ्ख्यानिरासार्थम् अनयोर्वातजत्वेऽपि निमित्तचिकित्साभेदात् पृथगभिधानं, निमित्तभेदनिबन्धन एव व्याधिभेदः| यदुक्तम्– “दोषदूष्यसंसर्गादायतनविशेषान्निमित्ततश्चैषां व्याधीनां भेदः|” (सु. सू. अ. २४) इति| अत आह– मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलमिति||१-२||
Adhikarana vAtaja-pittaja-kaphaja-raktaja-medoja-mUtrajavRuddhilakShaNam (3-6) · Śloka 7
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ||३||
पक्वोदुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् कफाच्छीतो गुरुः स्निग्धः कण्डूमान् कठिनोऽल्परुक् ||४||
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः |
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ||५||
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः |
अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ||६||
मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः |७|
(वा. नि. अ. ११) |
वातजादीनां मूत्रजान्तानां वृद्धीनां क्रमेण लक्षणान्याह– वातेत्यादि| अहेतुरुगिति अनिमित्ततो दाहादिरुक्| रक्तजे ‘कृष्णस्फोटावृत’ इति पित्तजवृद्धिलिङ्गादधिकं; तेन हेतुलिङ्गचिकित्साभेदाद्रक्तजवृद्धिः पृथग्गण्यते| मेदोजे तालफलोपम इति पक्वतालफलमिव नीलवर्तुलः| मूत्रजे मूत्रकृच्छ्रमिति मूत्रकृच्छ्रवत् वेदना| चालयन् फलकोषयोरिति फलकोषयोश्चालयन् चलो भवन्नितस्ततो गच्छन् सोऽधः स्यात्| चालयन्निति स्वार्थिको णिच्||३-६||–
Adhikarana antravRuddhernidAnasamprAptipUrvakaM lakShaNam (7-10) · Śloka 11
वातकोपिभिराहारैः शीततोयावगाहनैः ||७||
धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः |
क्षोभणैः क्षोभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा ||८||
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् |
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ||९||
उपेक्ष्यमाणस्य च मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीं स वायुः |
प्रपीडितोऽन्तःस्वनवान् प्रयाति प्रध्मापयन्नेति पुनश्च मुक्तः ||१०||
यस्यान्त्रावयवाश्लेषान्मुष्कयोर्वातसम्भवात् |
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः ||११||
(वा. नि. अ. ११) |
अन्त्रवृद्धिमाह– वातकोपिभिरित्यादि| धारणं वेगस्योपस्थितस्य, ईरणमप्राप्तस्य| क्षोभणैः क्षुभितोऽन्यैरिति बलवद्विग्रहधनुराकर्षणादिभिः| क्षुद्रान्त्रावयवमिति बृहदन्त्रव्युदासार्थम्| विगुणीकृत्येति सङ्कुचीकृत्य| द्विगुणीकृत्येति पाठान्तरे सङ्कोचेन द्विगुणीकृत्य| स्वनिवेशात् स्वस्थानात्| तदा वङ्क्षणसन्धिस्थः सन् वङ्क्षणसन्धौ ग्रन्थिरूपं साध्यं श्वयथुं करोति, तत्र ग्रन्थिरूपेण स्थित्वा कालान्तरेण फलकोषं गच्छतीति| तां मुष्कवृद्धिमाध्मानरुक्स्तम्भवतीमुपेक्ष्यमाणस्य अचिकित्सितपुरुषस्य| अत्र भोजः– “अन्त्रं द्विगुणमादाय जन्तोर्नयति वङ्क्षणम्| वङ्क्षणात्तद्रुजायुक्तं फलकोषं प्रपद्यते||” इति| प्रध्मापयन्निति उच्छूनयन्| असाध्योऽयमिति कथं? यतोऽस्य चिकित्साऽभिहिता; नैवम्, अप्राप्तफलकोषायामयं चिकित्साविधिः; प्राप्तफलकोषा त्वसाध्या; याप्यायां वा तस्यां चिकित्साविधिः| यदुक्तं भोजे– “याप्यां तामन्त्रजां विदुः|” इति| ब्रध्ननिदानं तु तन्त्रान्तरे पठ्यते| तद्यथा– “अत्यभिष्यन्दिगुर्वन्नसेवनान्निचयं गतः| करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु|| ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नमिति निर्दिशेत्||” इति||७-१०||
Adhikarana puShpikA · Śloka 37
इति श्रीमाधवकरविरचिते माधवनिदाने वृद्धिनिदानं समाप्तम् ||३७||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां वृद्धिनिदानं समाप्तम्||३७||