Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. pāṇḍurōgakāmalākumbhakāmalāhalīmakanidānam

Adhikarana pANDurogabhedAH (1) · Śloka 1

अथ पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानम् | पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः | चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः ||१|| (च. चि. अ. १६) |

🔊 Audio coming soon

पुरीषजाः क्रिमयः सूक्ष्माः पाण्डुतां जनयन्ति, अतः क्रिमेरनन्तरं पाण्डुरोगमाह– पाण्डुरोगा इत्यादि| पाण्डुत्वेनोपलक्षितो रोगः पाण्डुरोगः| चरके अष्टोदरीयाध्याये “पञ्च पाण्डुरोगाः” (च. सू. अ. १९)इत्यभिधायापि “पाण्डुरोगाः स्मृताः पञ्च” (च. चि. अ. १६) इति यदेतत्पुनश्चरकवचनं तत् “पञ्चानामपि साध्यत्वं बोधयति, नतु पञ्चोन्मादेष्विव सान्निपातिकस्यासाध्यत्वमिति” जेज्जटः; “न्यूनसङ्ख्याव्यवच्छेदार्थमिति” चक्रः| ननु, सुश्रुते हि मृत्तिकाजो न पठितः; मृत्तिकाऽपि दोषप्रकोपद्वारेणैव पाण्डुरोगं जनयतीति; यदुक्तम्– “कषाया मारुतं, पित्तमूषरा, मधुरा कफम्|” (च. चि. अ. १६) इति; निदानभेदाच्च रोगभेदे रोगानन्त्यप्रसङ्गः, वातजस्यापि रूक्षशीताद्यनेकवातनिदानकुपितवातजन्यत्वात्| उच्यते– दोषजत्वाविशेषेऽपि विशिष्टरूपचिकित्साप्रतिपादनार्थं पृथगभिधानं, मूत्रान्त्रवृद्धिवत्; सुश्रुतेन तु पराधिकारेषु न विस्तरोक्तिरित्यभिप्रायेण न पृथक्कृतः| चिकित्सा तु दोषचिकित्सयाऽपि भवतीति||१||

Adhikarana pANDurogasamprAptiH (2) · Śloka 2

व्यायाममम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् | निषेवमाणस्य प्रदूष्य रक्तं दोषास्त्वचं पाण्डुरतां नयन्ति ||२|| (सु. उ. तं. अ. ४४) |

🔊 Audio coming soon

सम्प्राप्तिमाह– व्यायाममित्यादि| रक्तमित्युपलक्षणं, तेन ‘त्वङ्मांसमपि’ दूष्यत्वेन दृढबलेन पठितं, हारीतेन रसोऽपि, इति||२||

Adhikarana pANDurogapUrvarUpam (3) · Śloka 3

त्वक्स्फोटनष्ठीवनगात्रसादमृद्भक्षणप्रेक्षणकूटशोथाः | विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ||३|| (सु. उ. तं. अ. ४४) |

🔊 Audio coming soon

पूर्वरूपमाह– त्वगित्यादि| त्वक्स्फोटनं त्वचः किञ्चिद्विदारणम्| मृद्भक्षणं मृद्भक्षणेच्छा| प्रेक्षणकूटशोथो अक्षिगोलके शोथः| अविपाक आहारस्य| पुरःसराणि पूर्वरूपाणि||३||

Adhikarana vAtikapANDurogalakShaNam (4) · Śloka 4

त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणाभताः | वातपाण्ड्वामये तोदकम्पानाहभ्रमादयः ||४||

🔊 Audio coming soon

वातिकलक्षणमाह– त्वगित्यादि| अत्र कृष्णारुणाभता न पाण्डुतामतिक्रामति, अन्यथा पाण्डुरोगत्वाभावः| उक्तं च सुश्रुते– “सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खुल पाण्डुरोगः|” (सु. उ. तं. अ. ४४) इति| भ्रमादय इति आदिशब्देन भेदशूलादीनां ग्रहणम्||४||

Adhikarana paittikapANDurogalakShaNam (5) · Śloka 5

पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः | भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ||५||

🔊 Audio coming soon

पैत्तिकलक्षणमाह– पीतेत्यादि| ननु, पित्तपाण्ड्वामयीति वक्तुं न युक्तं, पाण्डुरोगस्य पित्तकार्यत्वादेव| उच्यते– इतरदोषासंश्लिष्टप्रबलपित्तजन्यत्वेन पैत्तिकाभिधानं, यथा– पैत्तिकरक्तपित्तमिति||५||

Adhikarana shlaiShmikapANDurogalakShaNam (6) · Śloka 6

कफप्रसेकश्वयथुतन्द्रालस्यातिगौरवैः | पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ||६||

🔊 Audio coming soon

श्लैष्मिकलक्षणमाह– कफप्रसेकेत्यादि| कफाद्यः पाण्डुरोगी स शुक्लैस्त्वङ्मूत्रनयनाननैरुपलक्षित इति योज्यम्||६||

Adhikarana sAnnipAtikapANDurogalakShaNam (7) · Śloka 7

ज्वरारोचकहृल्लासच्छर्दितृष्णाक्लमान्वितः | पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः ||७||

🔊 Audio coming soon

सान्निपातिकस्तु प्रकृतिसमसमवेतत्वेनौक्तवातजादिलक्षणैरेव बोद्धव्यः| उक्तं हि चरके– “सर्वान्नसेविनः सर्वे दुष्टा दोषास्त्रिदोषजम्| त्रिलिङ्गं सम्प्रकुर्वन्ति पाण्डुरोगं सुदुःसहम्||” (च. चि. अ. १६) इति| तस्यैव सोपद्रवस्यासाध्यत्वमाह– ज्वरारोचकेत्यादि| हतेन्द्रियः स्वविषयाग्राहकेन्द्रियः||७||

Adhikarana mRujjapANDurogasamprAptiH (8-10) · Śloka 10

मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः | कषाया मारुतं, पित्तमूषरा, मधुरा कफम् ||८|| कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तं च रूक्षयेत् | पूरयत्यविपक्वैव स्रोतांसि निरुणद्ध्यपि ||९|| इन्द्रियाणां बलं हत्वा तेजो वीर्यौजसी तथा | पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ||१०|| (च. चि. अ. १६) |

🔊 Audio coming soon

मृज्जसम्प्राप्तिमाह– मृत्तिकेत्यादि| अन्यतमो मलो वातादिः| ऊषरा सक्षारा| रसादीन् रूक्षयेत्, भुक्तं च रूक्षयेदिति योज्यम्| रौक्ष्यात् प्राकृतिकोद्भूतरौक्ष्यगुणात्| अविपक्वैव कोष्ठधात्वग्निभिः पाकं न गत्वैव, स्रोतांसि रसवहादीनि, पूरयति रुणद्धि च| इन्द्रियाणां बलं स्वविषयग्रहणशक्तिम्| “तेजो दीप्तिः” इति जेज्जटः, ‘ऊष्मा’ इति चक्रः| वीर्यं शक्तिः| ‘ओजः सर्वधातुसारः, सर्वधातुसारभूतं हृदयस्थम्’ इति पराशरः, ‘पराभिभवेच्छा’ इति जेज्जटः||८-१०||

Adhikarana mRujjapANDurogalakShaNam (11) · Śloka 11

शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः | क्रिमिकोष्ठोऽतिसार्येत मलं सासृक्कफान्वितम् ||११|| (च. चि. अ. १६) |

🔊 Audio coming soon

मृज्जस्य लक्षणमाह-शूनाक्षीत्यादि| ‘सर्वपाण्डुरोगेषु क्रिमिकोष्ठता यदा स्यात्तदैतल्लक्षणम्’ इति जेज्जटः, मृत्तिकाजानन्तरपठितत्वेन तस्यैव लक्षणमित्यन्ये| विदेहे तु पठ्यते– “मृद्भक्षणाद्भवेत्पाण्डुस्तन्द्रालस्यनिपीडितः| सश्वासकासशोषार्शः सादारुचिसमन्वितः|| शूनपादाननकरः कृशाङ्गः कृशपावकः|” इति||११||

Adhikarana pANDurogasyAsAdhyalakShaNam (12-15) · Śloka 15

पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति | कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति ||१२|| बद्धाल्पविट् सहरितं सकफं योऽतिसार्यते | दीनः श्वेतातिदिग्धाङ्गश्छर्दिमूर्छातृडर्दितः ||१३|| स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात् | (च. चि. अ. १६) | पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् | पाण्डुसङ्घातदर्शी च पाण्डुरोगी विनश्यति ||१४|| (सु. सू. अ. ३३) | अन्तेषु शूनं परिहीणमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् | गुदे च शेफस्यथ मुष्कयोश्च शूनं प्रताम्यन्तमसञ्ज्ञकल्पम् | विवर्जयेत्पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितं च ||१५|| (सु. उ. तं. अ. ४४) |

🔊 Audio coming soon

असाध्यलक्षणमाह– पाण्डुरोग इत्यादि| ‘पाण्डुरोगश्चिरोत्पन्नः कालप्रकर्षात् खरीभूतो जठरतां गतो न सिध्यति, अचिरोत्पन्नोऽपि शूनानां मध्ये यो वा पीतानि पश्यति स पाण्डुरोगी न सिध्यतीत्यपरमसाध्यलक्षणम्’ इति जेज्जटस्य योजना| चक्रस्त्वाह– ‘चिरोत्पन्नः खरीभूतोऽत्यर्थरूक्षितसर्वधातुर्न सिध्यति, तथा कालप्रकर्षादित्यादिनाऽपरमसाध्यलक्षणम्’ इति| अत्र शूनानां शोथवतां मध्ये यो वा पीतानि पश्यति स न सिध्यतीति| ‘शूनो ना’ इति पाठान्तरे ना पुरुषः| ‘शूनाङ्गो यो वा पीतानि पश्यति’ इति पाठान्तरं सुगमम्| अपरमसाध्यलक्षणमाह– बद्धेत्यादि| अत्र सकफत्वेऽपि बद्धत्वाल्पत्वहरितत्वानि व्याधिप्रभावात्; बद्धाल्पस्थाने बहुलमिति पाठान्तरम्| विट्शब्दो नपुंसकोऽप्यस्तीत्येतन्निर्देशादेवोन्नेयमित्याहुः| अपरमसाध्यलक्षणमाह– दीन इत्यादि| दीनः ग्लानः| श्वेतातिदिग्धाङ्ग इति श्वेतवर्णलिप्ताङ्ग इवेत्यर्थः| स नास्ति नष्ट इव असाध्य इत्यर्थः| अपरमाह– असृगित्याद| अपरमसाध्यलक्षणमाह– पाण्डुदन्तेत्यादि| पाण्डुसङ्घातदर्शीति नयनरश्मिसहचरितं बहिर्निर्गतं पित्तं सम्पिण्डितं पश्यति| अपरमसाध्यलक्षणमाह– अन्तेष्वित्यादि| अन्तेषु बाहुजङ्घाशिरःसु, शूनं शोथयुक्तम्| परिहीणमध्यं दुर्बलमध्यदेहम्| एतद्वैपरीत्येनापरमसाध्यलक्षणमाह– म्लानमित्यादि| म्लानं दुर्बलम्| असञ्ज्ञकल्पं मृतप्रायम्| एवंविधं पाण्डुकिनं पाण्डुरोगिणं यशोऽर्थी वैद्यो विवर्जयेदिति| अत्र सौश्रुतश्लोके ‘पाण्डुकिनम्’ इत्यत्र “ पालकिनम्” इति पाठान्तरं, युक्तं चैतत्; एवं हि पठ्यमाने पाण्डुरोगावस्थाविशेषस्य पालकिनो लक्षणमपि कृतं स्यात्| उक्तं हि सुश्रुते– “ सकामलापालकिपाण्डुरोगः कुम्भाह्वयो” लाघवकोऽलसाख्यः| (सु. उ. तं. अ. ४४) इति| अनेनैवाभिप्रायेण कश्चिदभियुक्तो लिखितवान्– “अन्ते शूनः कृशो मध्येऽन्यथा च गुदशेफसि| शूनो ज्वरातिसारार्तो भृतकल्पस्तु पालकी||” इति||१२-१५||

Adhikarana kAmalAyA nidAnasamprAptipUrvakaM lakShaNam (16-18) · Śloka 18

पाण्डुरोगी तु योऽत्यर्थं पित्तलानि निषेवते | तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते ||१६|| हारिद्रनेत्रः स भृशं हारिद्रत्वङ्नखाननः | रक्तपीतशकृन्मूत्रो भेकवर्णो हतेन्द्रियः ||१७|| दाहाविपाकदौर्बल्यसदनारुचिकर्षितः | कामला बहुपित्तैषा कोष्ठशाखाश्रया मता ||१८|| (च. चि. अ. १६) |

🔊 Audio coming soon

पाण्डुरोगावस्थायां कामलामाह– पाण्डुरोगीत्यादि| दग्ध्वा सन्दूष्य| रोगाय कामलारूपाय| भेकवर्णः प्रावृषेण्यभेकवर्णः| कोष्ठशाखाश्रयेति एका कोष्ठाश्रया, अपरा शाखाश्रया; शाखा रक्तादयो धातवः| स्वतन्त्राऽपि कामला भवति, यथा राजयक्ष्मा स्वतन्त्रः उपेक्षितेष्वपि कासेषु भवतीत्याहुः||१६-१८||

Adhikarana kumbhakAmalAlakShaNam (19) · Śloka 19

कालान्तरात् खरीभूता कृच्छ्रा स्यात् कुम्भकामला |१९| (च. चि. अ. १६) |

🔊 Audio coming soon

तस्या अवस्थान्तरं कुम्भकामलामाह– कालान्तरादित्यादि| खरीभूतेति पूर्ववद्व्याख्येयम्| कृच्छ्रा च कृच्छ्रसाध्या| कुम्भः कोष्ठः, अन्तःशुषिरसाधर्म्यात्; तद्गता कामला कुम्भकामला, कोष्ठाश्रयेत्यर्थः|१९|–

Adhikarana kAmalAyA asAdhyalakShaNam (19-20) · Śloka 20

कृष्णपीतशकृन्मूत्रो भृशं शूनश्च मानवः ||१९|| सरक्ताक्षिमुखच्छर्दिविण्मूत्रो यश्च ताम्यति | दाहारुचितृडानाहतन्द्रामोहसमन्वितः ||२०|| नष्टाग्निसञ्ज्ञः क्षिप्रं हि कामलावान् विपद्यते | (च. चि. अ. १६) |

🔊 Audio coming soon

कामलाया असाध्यलक्षणमाह– कृष्णेत्यादि| कृष्णेत्यादिना ताम्यतीत्यन्तेनैकमसाध्यलक्षणम्| ताम्यति मुह्यति| दाहेत्यादिना विपद्यते इत्यन्तेनापरमसाध्यलक्षणमिति जेज्जटः||१९-२०||–

Adhikarana kumbhakAmalA~asAdhyalakShaNam (21) · Śloka 22

छर्द्यरोचकहृल्लासज्वरक्लमनिपीडितः ||२१|| नश्यति श्वासकासार्तो विड्भेदी कुम्भकामली |२२|

🔊 Audio coming soon

कुम्भकामलिनोऽसाध्यलक्षणमाह– छर्दीत्यादि||२१||–

Adhikarana halImakalakShaNam (22-23) · Śloka 23

यदा तु पाण्डोर्वर्णः स्याद्धरितः श्यावपीतकः ||२२|| बलोत्साहक्षयस्तन्द्रा मन्दाग्नित्वं मृदुज्वरः | स्त्रीष्वहर्षोऽङ्गमर्दश्च दाहस्तृष्णाऽरुचिर्भ्रमः | हलीमकं तदा तस्य विद्यादनिलपित्ततः ||२३|| ( सन्तापो भिन्नवर्चस्त्वं बहिरन्तश्च पीतता | पाण्डुता नेत्रयोर्यस्य पानकीलक्षणं भवेत्) | (च. चि. अ. १६) |

🔊 Audio coming soon

पाण्डुरोगावस्थायां हलीमकमाह– यदेत्यादि| यदा तु पाण्डोः पाण्डुरोगिणः हरितादिवर्णयुक्तस्यैते उपद्रवा भवन्ति तदा तस्य वातपित्तकोपजं हलीमकं जानीयात्| हरितः शाकवर्णः| श्यावो नीलवर्णः| बलोत्साहक्षयो बलोत्साहयोः क्षीणता| स्त्रीष्वहर्षः स्त्रीरिरंसाया अभावः| अङ्गमर्दः अङ्गमोटनम्| लाघवकालसकादीनां पाण्डुरोगावस्थाविशेषाणां लक्षणं सुश्रुतदिष्वनुस्मर्तव्यमिति||२२-२३||

Adhikarana puShpikA · Śloka 8

इति श्रीमाधवकरविरचिते माधवनिदाने पाण्डुरोगकामलाकुम्भकामलाहलीमकनिदानं समाप्तम् ||८||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां पाण्डुरोगकामलाकुम्भकामला हलीमकनिदानं समाप्तम्||८||