Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

56. mukharōganidānam

Adhikarana mukharoganidAnam (1) · Śloka 1

अथ मुखरोगनिदानम् | आनूपपिशितक्षीरदधिमत्स्यातिसेवनात् | मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः ||१||

🔊 Audio coming soon

रोगगणत्वसामान्यान्मुखरोगनिदानमुच्यते– आनूपेत्यादि| मुखरोगाश्च पञ्चषष्टिर्भवन्ति| यदाह भोजः– “दन्तेष्वष्टावोष्ठयोश्च मूलेषु दश पञ्च च| नव तालुनि जिह्वायां पञ्च सप्तदशामयाः| कण्ठे त्रयः सर्वसरा एकषष्टिश्चतुःपरा||” इति||१||

Adhikarana vAtajauShTharogalakShaNam (2) · Śloka 2

कर्कशौ परुषौ स्तब्धौ सम्प्राप्तानिलवेदनौ | दाल्येते परिपाट्यते ओष्ठौ मारुतकोपतः ||२|| (सु. नि. अ. १६) |

🔊 Audio coming soon

तत्राष्टावोष्ठगतानाह– वातिकलक्षणमाह– कर्कशावित्यादि| दाल्येते इति विदार्येते| परिपाट्येते इति किञ्चिदवदीर्णत्वचौ भवत इत्यर्थः||२||

Adhikarana pittajauShTharogalakShaNam (3) · Śloka 3

चीयेते पिडकाभिश्च सरुजाभिः समन्ततः | सदाहपाकपिडकौ पीताभासौ च पित्ततः ||३|| (सु. नि. अ. १६) |

🔊 Audio coming soon

पैत्तिकलक्षणमाह– चीयेते इत्यादि| सरुजाभिरिति पित्तकृतरुजान्विताभिः| यद्येवं सदाहपाकपिडकाविति किमर्थमुच्यते? पूर्वेणैव गतार्थत्वात्| नैवं, पक्षान्तरप्रतीत्यर्थं पुनरुच्यते| अयमर्थः– कदाचित् पित्तरुजान्वितबहुपिडकाचितावोष्ठौ, कदाचित् दाहपाकान्वितपिडकाचितौ वा भवतः; अन्यस्त्वाह– अनतिभिन्नार्थत्वादव्यक्तशब्दार्थत्वाच्च दाहपाकातिशयदर्शनार्थं पिडकानुवादः||३||

Adhikarana kaphajauShTharogalakShaNam (4) · Śloka 4

सवर्णाभिश्च चीयेते पिडकाभिरवेदनौ | भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ||४|| (सु. नि. अ. १६) |

🔊 Audio coming soon

कफजमाह– सवर्णाभिरित्यादि| सवर्णाभिरिति ओष्ठसमानवर्णाभिः| अवेदनौ ईषद्वेदनौ||४||

Adhikarana sannipAtajauShTharogalakShaNam (5) · Śloka 5

सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव च | सन्निपातेन विज्ञेयावनेकपिडकाचितौ ||५|| (सु. नि. अ. १६) |

🔊 Audio coming soon

सान्निपातिकलक्षणमाह– सकृदित्यादि| सकृदिति कदाचिद्विकृतिवशादेवं भवति| अनेकपिडकाचिताविति वातादिवेदनान्वितबहुपिडकौ, अनेकवर्णपिडकाचितावित्यन्ये| अनेकाश्च वर्णा वातादीनां कृष्णपीतश्वेताः, अत्र पक्षे सकृत्कृष्णावित्यादिपिडकातोऽन्यत्र कल्पनीयम्||५||

Adhikarana raktajauShTharogalakShaNam (6) · Śloka 6

खर्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ | रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ||६|| (सु. नि. अ. १६) |

🔊 Audio coming soon

रक्तजमाह– खर्जूरेत्यादि| खर्जूरफलवर्णाभिरित्यनेन वर्णमात्रेणैव साधर्म्यं प्रतिपाद्यते, यदि तु सर्वात्मना साधर्म्यमभीष्टं स्यात्, तदा ‘खर्जूरफलतुल्याभिः’ इत्येवोच्येत| रक्तोपसृष्टाविति रक्तदूषितौ||६||

Adhikarana mAMsajauShTharogalakShaNam (7) · Śloka 7

गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुद्गतौ | जन्तवश्चात्र मूर्छन्ति नरस्योभयतो मुखात् ||७|| (सु. नि. अ. १६) |

🔊 Audio coming soon

मांसजमाह– गुरू स्थूलावित्यादि| जन्तवश्चात्र मूर्छन्तीति क्रिमयोऽप्यत्र उच्छ्रिता भवन्ति| उभयतो मुखादिति मुखविवरमपेक्ष्योभयभागयोः, सृक्कणीप्रदेशयोरिति यावत्| मुखादिति ल्यब्लोपे पञ्चमी| ‘उभयतोमुखा’ इति पाठान्तरे उभयसृक्कणीभागो मुखमाश्रयो येषां ते तथा| द्विमुखा इत्यन्ये||७||

Adhikarana medojauShTharogalakShaNam (8) · Śloka 9

सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू | अच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम् ||८|| (सु. नि. अ. १६) | तयोर्व्रणो न संरोहेन्मृदुत्वं च न गच्छति |९|

🔊 Audio coming soon

मेदोजमाह– सर्पिर्मण्डप्रतीकाशावित्यादि| सर्पिर्मण्डप्रतीकाशाविति सर्पिर्मण्डो घृतस्योपरितनस्वच्छभागः| तत्प्रतीकाशौ तत्सदृशौ| तयोरिति तादृशयोः||८||–

Adhikarana abhighAtajauShTharogalakShaNam (9) · Śloka 10

क्षतजाभौ विदीर्येते पाट्येते चाभिघाततः ||९|| ग्रथितौ च तथा स्यातामोष्ठौ कण्डूसमन्वितौ |१०| (सु. नि. अ. १६) |

🔊 Audio coming soon

अभिघातजमाह– क्षतजाभावित्यादिना| अत्र कफरक्तयोरप्यनुबन्धो बोद्धव्यः| यदुक्तं भोजे– “क्षतावभिहतौ वाऽपि रक्तावोष्ठौ सवेदनौ| भवतः सपरिस्रावौ कफरक्तप्रदूषितौ||” इति| वायुरप्यत्राभिघाताल्लभ्यते, अयं चाभिघातजशोथात् यथोक्तलक्षणकारणभेदेन तथा वातिकौष्ठप्रकोपादपि कफरक्तरूपहेतुभेदयोगाद्भिद्यते||९||–

Adhikarana shItAdalakShaNam (10-11) · Śloka 11

शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्तते | दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ||१०|| दन्तमांसानि शीर्यन्ते पचन्ति च परस्परम् | शीतादो नाम स व्याधिः कफशोणितसम्भवः ||११|| (सु. नि. अ. १६) |

🔊 Audio coming soon

दन्तमूलगतान् पञ्चदश व्याकरोति| शीतादमाह– शोणितमित्यादि| दन्तवेष्टेभ्य इति दन्तबन्धनमांसेभ्यः| अकस्मादिति अभिघातादिनिमित्तं विना| ‘शीर्यन्त’ इत्यस्य स्थाने, ‘पच्यन्त’ इति गदाधरः, व्याचष्टे च– ‘स्वयम्’ इति शेषः| पचन्ति च परस्परमित्यन्योन्यं पचन्ति, पाकोष्मदूषितशोणितसञ्चरणेन||१०-११||

Adhikarana dantapuppuTalakShaNam (12) · Śloka 12

दन्तयोस्त्रिषु वा यस्य श्वयथुर्जायते महान् | दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ||१२|| (सु. नि. अ. १६) |

🔊 Audio coming soon

दन्तपुप्पुटकमाह– दन्तयोरित्यादि| अयं च दन्तयोस्त्रिष्वित्यभिधानात् द्वित्रिदन्तनियतः; कफरक्तजत्वेऽपि शौषिराद्भिन्नोऽयं, रुजालालास्रावाभावात्||१२||

Adhikarana dantaveShTalakShaNam (13) · Śloka 13

स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च | दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ||१३|| (सु. नि. अ. १६) |

🔊 Audio coming soon

दन्तवेष्टमाह– स्रवन्तीत्यादि| स्रवन्ति पूयरुधिरमित्यत्र ‘दन्तमूलानि’ इति शेषः| चला दन्ता भवन्ति चेति चकारेण पचन्ति चेति द्रष्टव्यम्||१३||

Adhikarana shauShiralakShaNam (14) · Śloka 14

श्वयथुर्दन्तमूलेषु रुजावान् कफरक्तजः | लालास्रावी स विज्ञेयः शौषिरो नाम नामतः ||१४|| (सु. नि. अ. १६) |

🔊 Audio coming soon

शौषिरलिङ्गमाह– श्वयथुरित्यादि| नामत इति प्रसिद्धितः||१४||

Adhikarana mahAshauShiralakShaNam (15) · Śloka 15

दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्यते | यस्मिन् स सर्वजो व्याधिर्महाशौषिरसञ्ज्ञितः ||१५|| (सु. नि. अ. १६) |

🔊 Audio coming soon

महाशौषिरलिङ्गमाह– दन्ता इत्यादि| तालु चाप्यवदीर्यत इत्यत्र चकारेण दन्ता ओष्ठौ चाप्यवदीर्यन्ते इति बोद्धव्यम्| सप्तरात्राच्चायं मारकः| यदाह भोजः– “सदाहो दन्तमूलेषु शोथः पित्तकफानिलात्| जातः कफं क्षपयति क्षीणे तस्मिंस्तु शोणितम्|| विवृद्धमनिशं दन्तान् ताल्वोष्ठमपि दारयेत्| महाशौषिर इत्येतत् सप्तरात्रान्निहन्त्यसून्||” इति| यस्मिन् शौषिरे एवमपि भवति, स महाशौषिर इति गदाधरः||१५||

Adhikarana paridaralakShaNam (16) · Śloka 16

दन्तमांसानि शीर्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् | पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ||१६|| (सु. नि. अ. १६) |

🔊 Audio coming soon

परिदरमाह– दन्तमांसानीत्यादि| दन्तमांसस्य परिदारणात् परिदरसञ्ज्ञा||१६||

Adhikarana upakushalakShaNam (17) · Śloka 17

वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च | यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः ||१७|| (सु. नि. अ. १६) |

🔊 Audio coming soon

उपकुशलक्षणमाह– वेष्टेष्वित्यादि| ताभ्यामिति दाहपाकाभ्याम्| सोपकुश इति निर्देशोऽसिद्धत्वानित्यत्वात् साधुः, तेन स उपकुश इत्यर्थः||१७||

Adhikarana vaidarbhalakShaNam (18) · Śloka 18

घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् | चला भवन्ति दन्ताश्च स वैदर्भोऽभिघातजः ||१८|| (सु. नि. अ. १६) |

🔊 Audio coming soon

वैदर्भलिङ्गमाह– घृष्टेष्वित्यादि| संरम्भ इति शोथः, वेदनापाकौ वा||१८||

Adhikarana khalivardhanalakShaNam (19) · Śloka 19

मारुतेनाधिको दन्तो जायते तीव्रवेदनः | खलिवर्धनसञ्ज्ञोऽसौ जाते रुक् च प्रशाम्यति ||१९|| (सु. नि. अ. १६) |

🔊 Audio coming soon

खलिवर्धनलिङ्गमाह– मारुतेनेत्यादि| जाते रुक् च प्रशाम्यतीति उत्थिते अधिके दन्ते प्रभावाद्वेदनाया अभावः||१९||

Adhikarana karAlalakShaNam (20) · Śloka 20

शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः | करालान् विकटान् दन्तान् करालो न स सिध्यति ||२०||

🔊 Audio coming soon

कराललक्षणमाह– शनैरित्यादि| करालन् विषमान्| करालस्तु सुश्रुतेऽनुक्तोऽधिकः सङ्ग्रहकारेण पठितः, तेन सुश्रुतोक्तपञ्चदशसङ्ख्याहानिः||२०||

Adhikarana adhimAMsalakShaNam (21) · Śloka 21

हानव्ये पश्चिमे दन्ते महाञ्छोथो महारुजः | लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः |२१| (सु. नि. अ. १६) |

🔊 Audio coming soon

अधिमांसकमाह– हानव्य इत्यादि| अधिमांसक इति सञ्ज्ञायां कन्| हानव्य इति हनुकुहरे| पश्चिम इत्यवसानजे, अन्तजे इति यावत्|२१|–

Adhikarana dantanADIlakShaNam (21) · Śloka 21

दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ||२१|| (सु. नि. अ. १६) |

🔊 Audio coming soon

पञ्च दन्तनाडीराह– दन्तेत्यादि| नाड्यः पञ्च ज्ञेया यथेरिता इति नाडीनिदाने यथोक्ता वातपित्तकफसन्निपातागन्तुनिमित्तास्तथा दन्तमांसगता अपि नाड्यः| एताश्च नाडीव्रणसमानलक्षणा अपि शालाक्यसिद्धान्तेन सङ्ख्यापूरणाय चिकित्साभेदाच्च पुनरुक्ताः||२१||

Adhikarana dAlanalakShaNam (22) · Śloka 22

दीर्यमाणेष्विव रुजा यस्य दन्तेषु जायते | दालनो नाम स व्याधिः सदागतिनिमित्तजः ||२२|| (सु. नि. अ. १६) |

🔊 Audio coming soon

दन्तगतानष्टौ प्राह– दालनमाह– दीर्यमाणेष्वित्यादि| सदागतिनिमित्तज इति सदागतिर्वायुः, तस्मान्निमित्ताज्जात इति| सदागतिनिमित्तत इति वक्तव्ये सदागतिनिमित्तज इति यत् कृतं तद्बलवद्धेतुजन्यवातकृतत्वबोधनार्थमिति कार्तिकः, केवलवातजत्वख्यापनार्थमित्यन्ये ||२२||

Adhikarana krimidantalakShaNam (23) · Śloka 23

कृष्णच्छिद्रश्चलः स्रावी ससंरम्भो महारुजः | अनिमित्तरुजो वाताद्विज्ञेयः क्रिमिदन्तकः ||२३|| (सु. नि. अ. १६) |

🔊 Audio coming soon

क्रिमिदन्तकमाह– कृष्णच्छिद्र इत्यादि| कृष्णच्छिद्र इति दुष्टरक्तजक्रिमिकृतशोथपाकद्वारेण कृष्णच्छिद्र इत्यर्थः| अन्ये ‘कृष्णश्चित्र’ इति पठन्ति; चित्र इति चित्रवान्, अर्शआदित्वादच्| स्रावीति दन्तमूलेषु स्रावो बोद्धव्यः, दन्तानां नीरसत्वेन स्रावाभावात्| अनिमित्तरुज इति अवघट्टनादिनिमित्तं विनैव महारुजत्वेन रुजावानिति कार्तिकः||२३||

Adhikarana bha~jjanakalakShaNam (24) · Śloka 24

वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते | कफवातकृतो व्याधिः स भञ्जनकसञ्ज्ञितः ||२४|| (सु. नि. अ. १६) |

🔊 Audio coming soon

भञ्जनकलक्षणमाह– वक्त्रमित्यादि| वक्त्रं वक्रमिति दन्तभङ्गकारिणा दोषेण वक्त्रस्यापि वक्रत्वम्||२४||

Adhikarana dantaharShalakShaNam (25) · Śloka 25

शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः | पित्तमारुतकोपेन दन्तहर्षः स नामतः ||२५||

🔊 Audio coming soon

दन्तहर्षलक्षणमाह– शीतेत्यादि| “शीतमुष्णं च दशनाः सहन्ते स्पर्शनं न च| यस्य तं दन्तहर्षं तु व्याधिं विद्यात् समीरणात्||” (सु. नि. अ. १६) इति श्लोकान्तरं केचित् पठन्ति| तत्र दन्तहर्षस्य वातजत्वेऽपि उष्णासहत्वं व्याधिप्रभावात्, कफरक्तावृतत्वाद्वा बोद्धव्यम्||२५||

Adhikarana dantasharkarAlakShaNam (26) · Śloka 26

मलो दन्तगतो यस्तु पित्तमारुतशोषितः | शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ||२६||

🔊 Audio coming soon

दन्तशर्करालक्षणमाह– मल इत्यादि| ‘शर्करेव खरस्पर्शा’ इत्यस्य स्थाने ‘सा दन्तानां गुणहरी’ इति क्वचित् पठ्यते, दन्तानां गुणस्य शुक्लत्वदृढत्वादिकस्य हरणशीला||२६||

Adhikarana kapAlikAlakShaNam (27) · Śloka 27

कपालेष्विव दीर्यत्सु दन्तानां सैव शर्करा | कपालिकेति विज्ञेया सदा दन्तविनाशिनी ||२७||

🔊 Audio coming soon

कपालिकालक्षणमाह– कपालेष्वित्यादि| कपालेष्विवेति मलसहितदन्तावयवेषु काठिन्यात् कपालतुल्येषु; दन्तमल एव कठिने कपालप्राये दीर्यमाणे सैव शर्करा कपालिका| सदेति बाल्यादौ| अत्रावकाशे हनुमोक्षः सुश्रुते दन्तदेशसामीप्याद्दन्तपीडनाच्च पठितः, स इह सङ्ग्रहकारेण मुख्यदन्तगतत्वाभावान्न पठितः, पठितस्तु हनुग्रहसञ्ज्ञया वातव्याधौ भोजवचनात्| यदुक्तम्– “वाताभिघाताज्जन्तोर्हि हनुसन्धिर्विमुच्यते| निरस्तजिह्वः कृच्छ्रेण भाषितं तत्र गच्छति|| सम्यक् तमनिलव्याधिं हनुमोक्षं विनिर्दिशेत्|” इति||२७||

Adhikarana shyAvadantaka-dantavidradhirogalakShaNam (28-29) · Śloka 29

योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः | श्यावतां नीलतां वाऽपि गतः स श्यावदन्तकः ||२८|| (सु. नि. अ. १६) | दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः | सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ||२९||

🔊 Audio coming soon

श्यावदन्तकमाह– य इत्यादि| यो दन्तोऽसृग्विमिश्रेण पित्तेनाशेषतो दग्धः तथा श्यावतामथवा नीलतां गतो भवति, स श्यावदन्तको ज्ञेयः| श्यावदन्तक इति सञ्ज्ञायां कन्| असाध्योऽयं व्याधिः| अत्रावकाशे हनुमोक्षः सुश्रुते दन्तदेशसामीप्याद्दन्तपीडनाच्च दन्तरोगः पठितः, स इह सङ्ग्रहकारेण मुख्यदन्तगतत्वाभावान्न पठितः, पठितस्तु सङ्ग्रहे हनुग्रहसञ्ज्ञया वातव्याधौ भोजवचनात्| यदुक्तम्– “वाता(भारा)भिघाताज्जन्तोर्हि हनुसन्धिर्विमुच्यते| निरस्तजिह्वः कृच्छ्रेण भाषितं तत्र गच्छति| सम्यक् तमनिलव्याधिं हनुमोक्षं विनिर्दिशेत्||” इति||२८-२९||

Adhikarana vAtajajihvAroga-pittajajihvAroga-kaphajajihvArogalakShaNam (30) · Śloka 30

जिह्वाऽनिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा | पित्तेन दह्यत्युपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च | कफेन गुर्वी बहुला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाभैः ||३०|| (सु. नि. अ. १६) |

🔊 Audio coming soon

सम्प्रति जिह्वागतानाह– जिह्वाऽनिलेनेत्यादि| स्फुटितेति मनाग्विदीर्णा| प्रसुप्तेति सुप्तेव, रसस्यानवबोधात्| शाकच्छदनप्रकाशेति शाकतरुपत्रवत् कण्टकाचितेत्यर्थः; शाको मरुजद्रुमः| पैत्तिककण्टकलक्षणे दह्यतीति आत्मनेपदानित्यत्वात् साधु| अयं च रोगो जाडीति ख्यातः||३०||

Adhikarana alAsalakShaNam (31) · Śloka 31

जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससञ्ज्ञः कफरक्तमूर्तिः | जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ||३१|| (सु. नि. अ. १६) |

🔊 Audio coming soon

अलासमाह– जिह्वेत्यादि| प्रगाढ इति प्रकर्षेण गाढो दारुण इत्यर्थः| तेन ‘जिह्वागतेष्वलासस्तु’ इत्यादिना अलासस्यासाध्यतोक्ता सूच्यते| कफरक्तमूर्तिरिति कफरक्ताभ्यां हेतुभ्यां लब्धमूर्तिः| कफरक्तज इत्यर्थः| जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः, भृशपाकेन पित्तम्, अतस्त्रिदोषजो ज्ञेयः; अत एवास्यानुपक्रमेणासाध्यत्वं, कफरक्तयोस्तु प्राधान्येनाभिधानम्| ‘अधोगतः’ इति पाठान्तरे जिह्वाया अधोगतः||३१||

Adhikarana upajihvikAlakShaNam (32) · Śloka 32

जिह्वाग्ररूपः श्वयथुर्हि जिह्वामुन्नम्य जातः कफरक्तमूलः | लालाकरः कण्डुयुतः सचोषः सा तूपजिह्वा पठिता भिषग्भिः ||३२|| (सु. नि. अ. १६) |

🔊 Audio coming soon

उपजिह्विकामाह– जिह्वाग्ररूप इत्यादि| सचोष इति चोषः साक्षादग्निसम्बन्धेनेवोपतापः, चोषश्चात्र रक्तयोनिना पित्तेन||३२||

Adhikarana kaNThashuNDIlakShaNam (33) · Śloka 33

श्लेष्मासृग्भ्यां तालुमूले प्रवृद्धो दीर्घः शोथो ध्मातबस्तिप्रकाशः | तृष्णाकासश्वासकृत्तं वदन्ति व्याधिं वैद्याः कण्ठशुण्डीति नाम्ना ||३३|| (सु. नि. अ. १६) |

🔊 Audio coming soon

तालुगतानाह| कण्ठशुण्डीमाह– श्लेष्मासृग्भ्यामित्यादि| ध्मातबस्तिप्रकाश इति वायुपूरितचर्मपुटतुल्यः||३३||

Adhikarana tuNDikerIlakShaNam (34) · Śloka 34

शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु |३४| (सु. नि. अ. १६) |

🔊 Audio coming soon

तुण्डिकेरीलक्षणमाह– शोथ इत्यादि| प्रागुक्ताभ्यामिति श्लेष्मासृग्भ्याम्| तुण्डिकेरी वनकार्पासीफलं, तत्तुल्यशोथतया तुण्डिकेरी| तोददाहाभ्यामिह वातपित्तानुबन्धो ज्ञेयः|३४|–

Adhikarana adhruShalakShaNam (34) · Śloka 34

मृदुः शोथो लोहितः शोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीव्ररुक् च ||३४|| (सु. नि. अ. १६) |

🔊 Audio coming soon

अध्रुषलक्षणमाह– मृदुरित्यादि| शोणितोत्थ इति रक्तसमुत्थः||३४||

Adhikarana kacchapalakShaNam (35) · Śloka 35

कूर्मोन्नतोऽवेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा तु |३५| (सु. नि. अ. १६) |

🔊 Audio coming soon

कच्छपलक्षणमाह– कूर्मोन्नत इत्यादि| अवेदन इत्यल्पवेदनः| अशीघ्रजन्मेति चिरजः|३५|–

Adhikarana tAlvarbuda-mAMsasa~gghAtalakShaNam (35) · Śloka 35

पद्माकारं तालुमध्ये तु शोथं विद्याद्रक्तादर्बुदं प्रोक्तलिङ्गम् ||३५|| दुष्टं मांसं नीरुजं तालुमध्ये कफाच्छूनं मांससङ्घातमाहुः | (सु. नि. अ. १६) |

🔊 Audio coming soon

ताल्वर्बुदमाह– पद्माकारमित्यादि| पद्माकारमिति पद्मकर्णिकाकारम्| तथाच भोजः– “उपर्येव भवेन्नद्धो यथा पद्मस्य कर्णिका| पार्श्वतश्चाङ्कुरैर्दीर्घैर्नासा चाप्यवसीदति|| श्लेष्मरक्तसमुत्थानं तत्ताल्वर्बुदसञ्ज्ञितम्||” इति| रक्तजत्वाल्लोहितम्| प्रोक्तलिङ्गमिति पूर्वोक्तरक्तार्बुदतुल्यलिङ्गमित्यर्थः||३५||–

Adhikarana tAlupuppuTa-tAlushoSha-tAlupAkalakShaNam (36-37) · Śloka 37

नीरुक् स्थायी कोलमात्रः कफात् स्यान्मेदोयुक्तात् पुप्पुटस्तालुदेशे ||३६|| शोषोऽत्यर्थं दीर्यते चापि तालुः श्वासश्चोग्रस्तालुशोषोऽनिलाच्च | पित्तं कुर्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ||३७|| (सु. नि. अ. १६) |

🔊 Audio coming soon

पुप्पुटमाह– नीरुगित्यादि| पुप्पुटस्तालुदेशे इति तालुपुप्पुटः| तालुशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः| “तालुशोषस्तु पित्तात्” इति केचित् पठन्ति, पित्तस्यापि शोषकत्वात्| केचित्तु वक्ष्यमाणं “पित्तं कुर्यात्” इति पदमत्रापि सम्बध्य श्वासश्चोग्र इति चकारं भिन्नक्रमेण योजयित्वा विभक्तिविपरिणामं च कृत्वा पित्तं तालुशोषं कुर्यादिति व्याचक्षते| किन्त्वयं भोजेऽपि वातादेव पठितः| यदुक्तम्– “तालुशोषो भवेद्वातात्” इत्यादि||३६-३७||

Adhikarana rohiNIsamprAptiH (38) · Śloka 38

गलेऽनिलः पित्तकफौ च मूर्छितौ प्रदूष्य मांसं च तथैव शोणितम् | गलोपसंरोधकरैस्तथाऽङ्कुरैर्निहन्त्यसून् व्याधिरियं हि रोहिणी ||३८|| (सु. नि. अ. १६) |

🔊 Audio coming soon

कण्ठगतास्तु रोहिण्यादयः सप्तदशोच्यन्ते, तत्र पञ्चानां रोहिणीनां सामान्यसम्प्राप्तिमाह– गलेऽनिल इत्यादि| सर्वरोहिण्यः सन्निपातजाः, उत्कर्षाद्वातजादिव्यपदेशः| अन्ये तु “पृथक् समस्ताश्च तथैव शोणितं” इति पठित्वा सुश्रुते एकदोषजत्वमप्याहुः| भोजेऽप्युक्तम्– “ वातपित्तकफा रक्तमेकशः सर्वशोऽपि वा| कण्ठं यदा निषेवन्ते” इत्यादि| निहन्त्यसूनित्यनेन यद्यपि सामान्येनासाध्यत्वमुक्तं तथाऽपि सप्ताहादिना पृथग्दोषत्रयजानामनुपक्रमेणासाध्यत्वम्, एवं रक्तजाया अपि; सन्निपातजायास्तु जन्मनैवासाध्यत्वम्| तदुक्तं भोजेन– “तालुः शुष्यति कण्ठश्च वातेनायाम्यते यदा| कण्ठेऽस्यान्नं प्रसज्येत सप्ताहात् स जहात्यसून्|| उष्यते चुष्यते पित्तात् धूप्यते परिदह्यते| अङ्गारैरिव जह्यात् स प्राणानाशु चतुर्दिनात्||” इति| “कफादन्तर्बहिः शोथः श्वासः कण्ठश्च बाध्यते| यस्य सोऽसून् त्यजेद्रोगी त्र्यहाद्रोहिणिपीडितः|| लक्षणं पित्तरोहिण्या तुल्यं शोणितजन्मनः| सर्वदोषकृता या तु सर्वलिङ्गसमन्विता|| असाध्यां तां विजानीयाद्रोहिणीं सन्निपातजाम्| एषा सद्यो मारयति तिस्र आद्याः क्रियां विना||” इति क्वचित्| भोजे “अन्या सद्यो मारयति” इति पाठः, तदा रक्तजायामप्यसाध्यत्वमायाति; किन्त्वियं साध्यैव, यदुक्तम्– “लेख्याश्चतस्रो रोहिण्यः” (सु. सू. अ. २५) इति| तथा– “साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम्|” (सु. चि. अ. २२) इत्यनेन रक्तजाया अपि चिकित्सोक्ता| किञ्च गलगतेष्वेकैव रोहिणी सन्निपातजा “रोहिणी गले” इत्यनेनासाध्योक्ता| भोजे तु “तिस्र आद्याः क्रियां विना” इत्यभिधानं त्रिदोषजत्वेन प्राधान्यमभिप्रेत्य, खरनादेऽपि सन्निपातजाया एव सद्योमारकत्वमुक्तम्| यदाह– “सद्यस्त्रिदोषजा हन्ति त्र्यहाच्छ्लेष्मसमुद्भवा| पञ्चाहात् पित्तसम्भूता, सप्ताहात् पवनोत्थिता||” इति||३८||

Adhikarana vAtajAdibhedena rohiNIlakShaNAni (39-41) · Śloka 41

जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधिनो ये | सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढयुक्ता ||३९|| क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजा तु | स्रोतोविरोधिन्यचलोद्गता च स्थिराङ्कुरा या कफसम्भवा सा ||४०|| गम्भीरपाकिन्यनिवार्यवीर्या त्रिदोषलिङ्गा त्रितयोत्थिता च | स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ||४१|| (सु. नि. अ. १६) |

🔊 Audio coming soon

वातजादिभेदेन रोहिणीलक्षणमाह– जिह्वेत्यादि| जिह्वासमन्तादिति जिह्वायाः सर्वत इत्यर्थः| वातात्मकोपद्रवगाढयुक्तेति वातात्मका उपद्रवाः कम्पविनामस्तम्भादयस्तैरतिशयमनुगताः| त्रिदोषजायामनिवार्यवीर्येति क्रिययाऽपि न निवार्यं वीर्यमस्याः, सद्योमारकत्वादित्यर्थः| त्रितयोत्थितेति दोषत्रयोत्थिता| पित्तलिङ्गातिदेशस्याव्यवहितत्वप्रतीत्यर्थं पित्तरोहिण्यनन्तरं रक्तजाया वक्तुमुचितायाः शेषेऽभिधानमितररोहिण्यपेक्षया सुखसाध्यत्वख्यापनार्थमिति केचित्||३९-४१||

Adhikarana kaNThashAlUkalakShaNam (42) · Śloka 42

कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः | खरः स्थिरः शस्त्रनिपातसाध्यस्तं कण्ठशालूकमिति ब्रुवन्ति ||४२|| (सु. नि. अ. १६) |

🔊 Audio coming soon

कण्ठशालूकलक्षणमाह– कोलेत्यादि| कण्टकशूकभूत इति कण्टकवत् शूकवच्च वेदनाजनकः, भूतशब्दः उपमानार्थे; किंवा कण्टकोपलक्षितः शूको जलशूकः, स इव भूतो जातः| कठिनगुडकतया शालूकसमत्वेन कण्ठशालूकम्| शालूकं जलोत्पलकन्दम्||४२||

Adhikarana adhijihvikAlakShaNam (43) · Śloka 43

जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादपि रक्तमिश्रात् | ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्जयेदागतपाकमेनम् ||४३|| (सु. नि. अ. १६) |

🔊 Audio coming soon

अधिजिह्विकामाह– जिह्वाग्ररूप इत्यादि| जिह्वोपरिष्टादित्यनेन जिह्वातलजातामुपजिह्वां व्यावर्तयति| अपि रक्तमिश्रादिति न केवलात् कफाद्भवति, किन्तु रक्तमिश्रादेव कफादित्यर्थः| अप्यवधारणे| आगतपाकत्वेन पित्तमप्यत्र द्रष्टव्यम्||४३||

Adhikarana valayalakShaNam (44) · Śloka 44

बलाश एवायतमुन्नतं च शोथं करोत्यन्नगतिं निवार्य | तं सर्वथैवाप्रतिवार्यवीर्यं विवर्जनीयं वलयं वदन्ति ||४४|| (सु. नि. अ. १६) |

🔊 Audio coming soon

वलयमाह– बलाश एवेत्यादि| बलाशः कफः| अन्नगतिमिति अन्नस्य गतिर्येन स्रोतसा सोऽन्नगतिः अन्नवहमार्गः, अन्नस्य प्रवेशो वा| कफजोऽप्ययं प्रभावादसाध्यः||४४||

Adhikarana balAsalakShaNam (45) · Śloka 45

गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् | मर्मच्छिदं दुस्तरमेनमाहुर्बलाशसञ्ज्ञं निपुणा विकारम् ||४५|| (सु. नि. अ. १६) |

🔊 Audio coming soon

बलाशलिङ्गमाह– गल इत्यादि| मर्मच्छिदमिति प्राणायतनहृदयमर्मच्छिदम्||४५||

Adhikarana ekavRundalakShaNam (46) · Śloka 46

वृत्तोन्नतोऽन्तः श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च | नाम्नैकवृन्दः परिकीर्तितोऽसौ व्याधिर्बलाशक्षतजप्रसूतः ||४६|| (सु. नि. अ. १६) |

🔊 Audio coming soon

एकवृन्दमाह– वृत्तोन्नत इत्यादि| अन्तःश्वयथुरिति गलस्यान्तर्मध्ये| सदाह इति मन्ददाहः, सहशब्द ईषदर्थे| अपाक्यमृदुरिति अपाकी ईषत्पाकी, अमृदुरीषन्मृदुः; अन्ये ‘ अपाकमृदुः’ इति पठन्ति, अपाकश्चासौ मृदुश्चेति अपाकमृदुः| बलाशक्षतजप्रसूत इति कफरक्तभव इत्यर्थः||४६||

Adhikarana vRundalakShaNam (47) · Śloka 47

समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति | तच्चापि पित्तक्षतजप्रकोपाज्ज्ञेयं सतोदं पवनात्मकं तु ||४७|| (सु. नि. अ. १६) |

🔊 Audio coming soon

वृन्दमाह– समुन्नतमित्यादि| वृन्दमेव पवनानुविद्धं सतोदं स्यात्| ननु, सप्तदश कण्ठगता उक्ताः; उक्तं हि– “सप्तदशामयाः कण्ठे” इति, वृन्देन सहाष्टादश स्युः? उच्यते– एकवृन्दस्यावस्थाविशेष एव वृन्दः, तुल्यस्थानाकृतितो न सङ्ख्यातिरेकः; यद्यप्येकवृन्दः कफरक्तजः, वृन्दस्तु पित्तरक्तजः पठितः, तथा वृन्दस्यैव सतोदत्वेन वातात्मकत्वमुक्तं, तथाऽप्येकवृन्दस्यावस्थाविशेषत्वेन वृन्दः सङ्गच्छत एव; यथा कामलायां तद्भिन्नहेतुलक्षणस्यापि हलीमकस्य सङ्ग्रहः, यथा वातमदात्ययेन ध्वंसकविक्षेपकयोरत्यन्ताभेदेऽपि स एव स्यान्न पुनस्तेन सङ्ग्रहः; भोजेऽप्ययमेकवृन्दज एव पठितः| यदाह– “श्लेष्मरक्तसमुत्थानमेकवृन्दं विभावयेत्| तुल्यस्थानाकृतिर्वृन्दो वृन्दजो रक्तपित्तजः||” इति| वृन्दज इत्येकवृन्दजः| गदाधरस्तु कारणभेदात् धर्मभेदाच्च उत्पन्नत्वेन चैककार्यकारणयोरभेदप्रसङ्गमभिधाय वृन्दशब्दं छन्दोऽनुरोधादादिलोपादेकवृन्द एव वर्णयति, तथाच सति समुन्नतमित्यादिना पित्तानुबन्धसहितबहुलरक्तकृतैकवृन्दस्य लक्षणमुच्यते, सतोदं पवनात्मकं चेत्यनेन च वातानुबन्धैकवृन्दलक्षणमिति व्याख्येयम्| परन्तु वृन्दजो वृन्द इति भोजवचनेनासङ्गतमिदं व्याख्यानम्||४७||

Adhikarana shataghnIlakShaNam (48) · Śloka 48

वर्तिर्घना कण्ठनिरोधिनी या चिताऽतिमात्रं पिशितप्ररोहैः | अनेकरुक् प्राणहरी त्रिदोषाज्ज्ञेया शतघ्नी च शतघ्निरूपा ||४८|| (सु. नि. अ. १६) |

🔊 Audio coming soon

शतघ्नीलक्षणमाह– वर्तिरित्यादि| अनेकरुगिति वातपित्तकफजतोददाहकण्ड्वादिवेदनान्वितेत्यर्थः| शतघ्निरूपेति अयःकण्टकाच्छन्ना महती शिला शतघ्नी, तत्तुल्या| प्राणहरीत्यसाध्या| भोजेऽप्युक्तम्– “शङ्कुनेव गले विद्धा शतघ्न्येषा न सिध्यति|” इति||४८||

Adhikarana galAyulakShaNam (49) · Śloka 49

ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽतिरुग्यः कफरक्तमूर्तिः | संलक्ष्यते सक्तमिवाशनं च स शस्त्रसाध्यस्तु गलायुसञ्ज्ञः ||४९|| (सु. नि. अ. १६) |

🔊 Audio coming soon

गलायुलक्षणमाह– ग्रन्थिरित्यादि| कफरक्तमूर्तिरिति कफरक्तजः| सक्तमिवेति लग्नमिव| अशनं भुक्तम्||४९||

Adhikarana galavidradhilakShaNam (50) · Śloka 50

सर्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्वाः | स सर्वदोषैर्गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ||५०|| (सु. नि. अ. १६) |

🔊 Audio coming soon

गलविद्रधिलिङ्गमाह– सर्वमित्यादि| तस्यैव तुल्यः खलु सर्वजस्येति प्रागुक्तस्य विद्रधेः सन्निपातजस्य तुल्य इत्यर्थः| स च स्थानप्रभावेण सन्निपातज एव, चिकित्साभेदार्थं च पुनः पठितः||५०||

Adhikarana galaughalakShaNam (51) · Śloka 51

शोथो महानन्नजलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता | कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्यते तु ||५१|| (सु. नि. अ. १६) |

🔊 Audio coming soon

गलौघलक्षणमाह– शोथ इत्यादि| वायुगतेर्निहन्तेति अतिमहत्त्वादुदानवायुगतिरोधक इत्यर्थः||५१||

Adhikarana svaraghnalakShaNam (52) · Śloka 52

यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः | कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ||५२|| (सु. नि. अ. १६) |

🔊 Audio coming soon

स्वरघ्नलक्षणमाह– य इत्यादि| ताम्यमान इति मूर्छां गच्छन्, अथवा तमः पश्यन्| श्वसिति प्रसक्तमिति निरन्तरं श्वसिति| शुष्कविमुक्तकण्ठ इति शुष्को नीरसो विमुक्तश्चास्वाधीनः कण्ठो यस्य स तथा| अस्वाधीनता च किमपि गिलितुमशक्यतया बोद्धव्या| अनिलायनेष्विति अनिलमार्गेषु कफरुद्धेषु सत्सु, वायुगतस्रोतसोर्द्वित्वेऽपि बहुवचनं प्रतानबहुत्वात्| श्वसनादिति वातात्||५२||

Adhikarana mAMsatAnalakShaNam (53) · Śloka 53

प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण | स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः ||५३|| (सु. नि. अ. १६) |

🔊 Audio coming soon

मांसतानलिङ्गमाह– प्रतानवानित्यादि| प्रतानवानिति विस्तारवान्| सुकष्ट इति महादुःखप्रदायी; न तु कृच्छ्रसाध्यः, प्राणप्रणुदिति वचनात्; अथवा पाकतः कष्टसाध्यः, समस्तगलोपरोधे तु प्राणप्रणुत्| ‘स मांसतानः कथितोऽवलम्बी’ इत्यस्य स्थाने ‘स मांसतानेति बिभर्ति सञ्ज्ञाम्’ इति पाठान्तरे मांसतानेत्यत्र इतिशब्देन प्रातिपदिकार्थस्योक्तत्वाद्विभक्त्यभावः| ‘बिभर्ति सञ्ज्ञाम्’ इत्यस्य स्थाने ‘निरुणद्धि चेष्टाम्’ इति कार्तिकः| अस्मिन् व्याख्याने ‘स मांसतान’ इत्यस्यानन्तरं ‘ख्यात’ इति द्रष्टव्यम्||५३||

Adhikarana vidArIlakShaNam (54) · Śloka 54

सदाहतोदं श्वयथुं सुताम्रमन्तर्गले पूतिविशीर्णमांसम् | पित्तेन विद्याद्वदने विदारीं पार्श्वे विशेषात् स तु येन शेते ||५४|| (सु. नि. अ. १६) |

🔊 Audio coming soon

विदारीलक्षणमाह– सदाहतोदमित्यादि| वदन इति स्वरूपपरमिदम्, अन्तर्गल इत्यनेनैव वदनशब्दस्य लब्धत्वात्| पार्श्वे विशेषात् स तु येन शेते इति स पुरुषो येन पार्श्वेन विशेषाद्बाहुल्येन शेते तस्मिन्नेव पार्श्वे विदारी भवतीत्यर्थः| विशेषग्रहणादन्यस्मिन् पार्श्वेऽपि सम्भवोऽस्याः| विदारीसञ्ज्ञा च मांसविदारणेन| भोजेऽप्युक्तम्– “पित्तेन जातो वदने विकारः पार्श्वे विशेषात् स तु येन शेते| स्नायुप्रतानप्रभवो विशेषाद्दाहप्रपाकप्रचुरो विदारी||” इति||५४||

Adhikarana vAtajasarvasara(mukhapAka)-pittajasarvasara(mukhapAka)– kaphajasarvasara(mukhapAka)lakShaNam (55) · Śloka 55

स्फोटैः सतोदैर्वदनं समन्ताद्यस्याचितं सर्वसरः स वातात् | रक्तैः सदाहैस्तनुभिः सपीतैर्यस्याचितं चापि स पित्तकोपात् | अवेदनैः कण्डुयुतैः सवर्णैर्यस्याचितं चापि स वै कफेन ||५५|| (सु. नि. अ. १६) |

🔊 Audio coming soon

सर्वसरास्त्रयोऽभिधीयन्ते– स्फोटैरित्यादिना| मुखगतोष्ठादिसप्तस्थानव्यापकतया सर्वसरत्वं ज्ञेयम्| स्फोटैरिति वदनमिति च उत्तरत्र सम्बन्धनीयम्| आचितं व्याप्तम्| सर्वसरा मुखपाका उच्यन्ते| केचिद्विदेहक्तरक्तजसर्वसरलक्षणं पठन्ति| यथा– “रक्तेन पित्तोदित एव चापि कैश्चित् प्रदिष्टो मुखपाकसञ्ज्ञः|” इति| अयं च पैत्तिक एवान्तर्भूत इति नेह दर्शित इति||५५||

Adhikarana oShThaprakopAdiShvasAdhyAH (56-59) · Śloka 59

ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः | दन्तमूलेषु वर्ज्यौ च त्रिलिङ्गगतिशौषिरौ ||५६|| दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः | जिह्वारोगे बलाशस्तु तालव्येष्वर्बुदं तथा ||५७|| स्वरघ्नो वलयो वृन्दो बलाशश्च विदारिका | गलौघो मांसतानश्च शतघ्नी रोहिणी गले ||५८|| असाध्याः कीर्तिता ह्येते रोगा नव दशैव तु | तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ||५९|| (सु. नि. अ. १६) |

🔊 Audio coming soon

ओष्ठप्रकोपादिष्वसाध्यानाह– ओष्ठप्रकोपे वर्ज्याः स्युरित्यादि| त्रिलिङ्गगतिशौषिराविति त्रिदोषजनाडी त्रिदोषजश्च महाशौषिरोऽसाध्यः| रोहिणी गल इति त्रिदोषजा रोहिणी||५६-५९||

Adhikarana puShpikA · Śloka 56

इति श्रीमाधवकरविरचिते माधवनिदाने मुखरोगनिदानं समाप्तम् ||५६||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां मुखरोगनिदानं समाप्तम्||५६||