Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

30. mūtrakr̥cchranidānam

Adhikarana mUtrakRucchranidAnaM, samprAptishca (1-2) · Śloka 2

अथ मूत्रकृच्छ्रनिदानम् | व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्रुतपृष्ठयानात् | आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ ||१|| पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथवा कोपमुपेत्य बस्तौ | मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् ||२|| (च. चि. अ. २६) |

🔊 Audio coming soon

सप्तोत्तरे मर्मशते त्रीणि मर्माणि शिरोहृदयबस्तयः प्रधानानि| तत्र हृदयगतविकारानभिधाय बस्तिगतविकारानाह– व्यायामेत्यादि| मूत्रकृच्छ्राणीति मूत्रस्य कृच्छ्रेण महता दुःखेन प्रवृत्तिः| अष्टाविति दोषैः पृथक् त्रीणि, सन्निपातेनैकं, शल्यजपुरीषजशुक्रजाश्मरीजानीत्येकैकानि| ननु, शर्कराजं मूत्रकृच्छ्रं सुश्रुतेन पठितं; तच्चात्र सङ्ग्रहेऽपि पठितम्– “अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे|” इत्यादिना, तत् कथमष्टौ? नव प्राप्नुवन्ति| उच्यते– शर्करा अश्मरीभेद एव| यदाह दृढबलः– “एषाऽश्मरी मारुतभिन्नमूर्तिः स्याच्छर्करा मूत्रपथात् क्षरन्ती|” (च. चि. अ. २६) इति| अतोऽश्मरीजेनैव शर्कराजग्रहणमिति मन्यमानो दृढबलः अष्टावित्यपठत्||१-२||

Adhikarana vAtaja-pittaja-kaphaja-sannipAtaja-shalyAbhighAtaja-shakRutpratighAtaja-ashmarIja-shukrajamUtrakRucchralakShaNam (3-8) · Śloka 8

तीव्रार्तिरुग्वङ्क्षणबस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् | पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ||३|| बस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे | सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ||४|| (च. चि. अ. २६) | मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु वा | मूत्रकृच्छ्रं तदाघाताज्जायते भृशदारुणम् ||५|| वातकृच्छ्रेण तुल्यानि तस्य लिङ्गानि निर्दिशेत् | शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः ||६|| आध्मानं वातशूलं च मूत्रसङ्गं करोति च | अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहरेत् ||७|| (सु. उ. तं. अ. ५९) | शुक्रे दोषैरुपहते मूत्रमार्गे विधाविते सशुक्रं मूत्रयेत् कृच्छ्राद्बस्तिमेहनशूलवान् ||८||

🔊 Audio coming soon

मूत्रकृच्छ्रस्य वातजादिभेदेन लक्षणान्याह– तीव्रेत्यादि| सलिङ्गस्य समेढ्रस्य| सपिच्छं पिच्छिलम्| कृच्छ्रतमं कष्टसाध्यम्| कृच्छ्रं मूत्रकृच्छ्रम्| मूत्रवाहिष्विति मूत्रवहस्रोतःसु| अश्मरीहेतु तत्पूर्वमिति अश्मरीहेत्विति लक्ष्यपदं, तत्पूर्वमिति लक्षणपदं, तत्पूर्वमश्मरीपूर्वकम्||३-८||

Adhikarana mUtrakRucchrahetutvenoktayorashmarIsharkarayoH samAnatA~avAntarabhedashca (9-12) · Śloka 12

अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे | विशेषणं शर्करायाः शृणु कीर्तयतो मम ||९|| पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना | विमुक्तकफसन्धाना क्षरन्ती शर्करा मता ||१०|| हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः | तया भवति मूर्छा च मूत्रकृच्छ्रं च दारुणम् ||११|| मूत्रवेगनिरस्ताभिः प्रशमं याति वेदना | यावदस्याः पुनर्नैति गुडिका स्रोतसो मुखम् ||१२|| (सु. उ. तं. अ. ५९) |

🔊 Audio coming soon

मूत्रकृच्छ्रहेतुत्वेनोक्तयोरश्मरीशर्करयोः समानतामवान्तरभेदं चाह– अश्मरीत्यादि| अश्मरी शर्करा चैवेत्यनन्तरं ‘एते’ इत्यध्याहार्य ‘तुल्यसम्भवलक्षणे’ इत्यनेन द्विवचनान्तेन सम्बन्धनीयं, यथा– “तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी|” इत्यादिवत्| तुल्यः सम्भव उत्पत्तिकारणं लक्षणं च ययोस्ते तथा, “तुल्ये सम्भवलक्षणैः” इति पाठान्तरे तुल्ये सदृशे, कैरित्यत उक्तम्– सम्भवलक्षणैरिति; ‘तुल्या सम्भवलक्षणैः’ इति पाठान्तरे स एवार्थः| विशेषणं विशेषः| तमेव विवृणोति– पच्यमानेत्यादि| कफसन्धानं कफेनावयवसंश्लेषः; कफ एव वा सन्धानं कफसन्धानं, सन्धीयतेऽनेनेति व्युत्पत्त्या| तेन पित्तपाकवातशोषौ सन्धानविमोक्षहेतुत्वेनोक्तौ| क्षरन्तीति बस्तितः| चरके हि– “स्याच्छर्करा मूत्रपथात् क्षरन्ती|” (च. चि. अ. २६) इत्येवं पठितम्| कुक्षौ शूलमिति सम्बन्धः| तया शर्करया इति||९-१२||

Adhikarana puShpikA · Śloka 30

इति श्रीमाधवकरविरचिते माधवनिदाने मूत्रकृच्छ्रनिदानं समाप्तम् ||३०||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां मूत्रकृच्छ्रनिदानं समाप्तम्||३०||