Adhikarana hRudroganidAnam (1) · Śloka 1
अथ हृद्रोगनिदानम् |
अत्युष्णगुर्वन्नकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः |
सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ||१||
गुल्मस्य हृदयं स्थानमुक्तम्, अतो हृदयसङ्कीर्तनात् हृद्रोगारम्भः| प्रसङ्गः सातत्येन सेवा, अत्युष्णादयो यथायोग्यं वातादीनां क्रिमेश्च निदानमिति बोध्यम्||१||
Adhikarana hRudrogasya samprAptipUrvakaM lakShaNam (2) · Śloka 2
दूषयित्वा रसं दोषा विगुणा हृदयं गताः |
हृदि बाधां प्रकुर्वन्ति हृद्रोगं तं प्रचक्षते ||२||
(सु. उ. तं. अ. ४३) |
तस्य सम्प्राप्तिं सामान्यलक्षणं चाह– दूषयित्वेत्यादि| दूषयित्वा रसमिति रसस्य हृदयाश्रयत्वात्| विगुणाः कुपिताः| हृद्रोगमिति वाच्ये यद्बाधाग्रहणं, तद्दोषभेदेन बाधावैचित्र्यज्ञापनार्थं, बाधाशब्देन चात्र नानाविधा पीडेति जेज्जटः, भङ्गवत् पीडेति गयदासः| हृद्रोगमिति ‘वा शोकष्यञ्रोगेषु’ इति रोगे परे हृदयस्य हृद्भावः, अथवा हृदो रोगो हृद्रोगः||२||
Adhikarana vAtikahRudrogalakShaNam (3) · Śloka 3
आयम्यते मारुतजे हृदयं तुद्यते तथा |
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ||३||
(सु. उ. तं. अ. ४३) |
वातिकहृद्रोगलक्षणमाह– आयम्यत इत्यादि| आयम्यते आकृष्यत इव| तुद्यते सूच्येव| निर्मथ्यते दण्डेनेव| दीर्यते द्विधेव क्रियते| स्फोट्यते आरयेव| पाट्यते कुठारेणेव||३||
Adhikarana paittikahRudrogalakShaNam (4) · Śloka 4
तृष्णोष्मादाहचोषाः स्युः पैत्तिके हृदयक्लमः |
धूमायनं च मूर्छा च स्वेदः शोषो मुखस्य च ||४||
(सु. उ. तं. अ. ४३) |
पैत्तिकलक्षणमाह– तृष्णेत्यादि| ऊष्मा किञ्चिद्दाहः| हृदयक्लमः हृदयाकुलत्वं, ग्लानिरिति यावत्||४||
Adhikarana shlaiShmikahRudrogalakShaNam (5) · Śloka 5
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् |
माधुर्यमपि चास्यस्य बलासावतते हृदि ||५||
(सु. उ. तं. अ. ४३) |
श्लैष्मिकमाह– गौरवमित्यादि| बलासावतते कुपितकफव्याप्ते, “दोषा दुष्टा दूषयितारो भवन्ति” इत्यागमात्||५||
Adhikarana sAnnipAtikahRudrogalakShaNaM, krimijahRudrogalakShaNaM ca (6) · Śloka 6
विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं क्रिमिजं सकण्डूम् |
(च. चि. अ. २६) |
उत्क्लेदः ष्ठीवनं तोदः शूलं हृल्लासकस्तमः |
अरुचिः श्यावनेत्रत्वं शोथश्च क्रिमिजे भवेत् ||६||
(सु. उ. तं. अ. ४३) |
सान्निपातिकमाह– विद्यादित्यादि| सर्वलिङ्गमित्यनेन प्रकृतिसमसमवायारब्धत्वमुक्तं, तेन चिकित्साऽप्यस्य प्रत्येकं वातादिजस्य या सा मिलितैव कार्या| अपचाराच्चेह ग्रन्थिरुत्पद्यते ततः क्रिमिसम्भवः| उक्तं हि चरकेण– “त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते| तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते|| मर्मैकदेशे सङ्क्लेदं रसश्चास्योपगच्छति| सङ्क्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः||” (च. सू. अ. १७) इति| तस्यैवेदं लक्षणमाह– तीव्रार्तितोदं क्रिमिजं सकण्डूमिति| उत्क्लेद इत्यादिना तमोऽन्तं त्रिदोषजहृद्रोगलक्षणं; तत्र तोदशूले वातात्, उत्क्लेदहृल्लासौ कफात्, तमः पित्तात्, ष्ठीवनं कफपित्तात्| अरुचिरित्यादिना क्रिमिजस्येति जेज्जटः; गयदासस्त्वाह– श्यावनेत्रत्वपर्यन्तेन त्रिदोषजलक्षणमिति| स्यादेतत्, त्रिदोषजपदं न तावदत्र सुश्रुतेन पठितम्; अतः सर्वमेव उत्क्लेदादि शोथान्तं क्रिमिजलक्षणं भविष्यति| नैवं, “विद्यात्त्रिदोषं त्वपि सर्वलिङ्गं तीव्रार्तितोदं क्रिमिजं सकण्डूम्|” (च. चि. अ. २६) इति दृढबलस्य वाक्यात्| उत्क्लेद इत्यादिस्तु एक एव श्लोकः सुश्रुतेन पठितः, नतु पृथक् सन्निपातलक्षणं, ततस्त्रिदोषजस्यानभिधाने सुश्रुते न्यूनत्वं स्यात्| त्रिदोषाश्मरीवत्तस्यासम्भव एवेति चेत्? नैवं, तन्त्रान्तरेषु पठितत्वात्| तथाच हारीतः– “सर्वाणि रूपाणि च सन्निपाताच्चिरोत्थितं चापि वदन्त्यसाध्यम्|” इति| चरकेऽप्युक्तम्– “हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः|” (च. सू. अ. १७) इति; तथा ‘त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते|’ (च. सू. अ. १७) इत्यादि| कण्ठरवेण तु त्रिदोषजपदं यन्न पठितं सुश्रुतेन, तत् क्रिमिजस्यापि त्रिदोषजत्वख्यापनार्थमित्याचक्षते| ननु, दोषजावान्तरावस्थाविशेषत्वात् क्रिमिजोऽपि दोषज एव, तत् कथं हृदामयः पञ्चविध इति? नैवं, रोगजस्यापि रोगस्य पृथक्त्वदर्शनात्| यदुक्तम्– ‘निदानार्थकर’ (च. चि. अ. ८) इत्यादि| द्विदोषजस्त्वनुक्तोऽपि प्रकृतिसमसमवायत्वाद्बोध्यः||६||
Adhikarana hRudrogopadravAH (7-8) · Śloka 8
मर्मैकदेशं सङ्क्लेदं रसश्चाप्युपगच्छति |
सङ्क्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः ||७||
क्लमः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः |
क्रिमिजे क्रिमिजातीनां श्लैष्मिकाणां च ये मताः ||८||
सर्वेषामुपद्रवानाह– क्लम इत्यादि| श्लैष्मिकाणां कृमीणां ये उपद्रवास्ते क्रिमिजहृद्रोगेऽपि स्युः| ते च हृल्लासास्यस्रवणाविपाकादयः||७-८||
Adhikarana puShpikA · Śloka 29
इति श्रीमाधवकरविरचिते माधवनिदाने हृद्रोगनिदानं समाप्तम् ||२९||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां हृद्रोगनिदानं समाप्तम्||२९||