Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

31. mūtrāghātanidānam

Adhikarana mUtrAghAtanidAnam (1) · Śloka 1

अथ मूत्राघातनिदानम् | जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश | प्रायो मूत्रविघाताद्यैर्वातकुण्डलिकादयः ||१||

🔊 Audio coming soon

मूत्रविकारसाधर्म्यात् मूत्राघातानाह– जायन्त इत्यादि| मूत्रकृच्छ्रमूत्राघातयोश्चायं विशेषः– मूत्रकृच्छ्रे कृच्छ्रत्वमतिशयितम्, ईषद्विबन्धः; मूत्राघाते तु विबन्धो बलवान्, कृच्छ्रत्वमल्पमिति| मूत्रविघाताद्यैर्मूत्रवेगविधारणादिभिः; आद्यशब्देन पुरीषशुक्रवेगविघातादीनां रूक्षाशनादीनां च ग्रहणम्| वातकुण्डलिकादयस्त्रयोदशेति सम्बन्धः||१||

Adhikarana vAtakuNDalikAlakShaNam (2-3) · Śloka 3

रौक्ष्याद्वेगविघाताद्वा वायुर्बस्तौ सवेदनः | मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः ||२|| मूत्रमल्पाल्पमथवा सरुजं सम्प्रवर्तते | वातकुण्डलिकां तां तु व्याधिं विद्यात् सुदारुणम् ||३|| (सु. उ. तं. अ. ५८) |

🔊 Audio coming soon

वातकुण्डलिकामाह– रौक्ष्यादित्यादि| आविश्येत्यावृत्य; ‘आविध्य’ इति पाठान्तरे स एवार्थः| चरति गच्छति| विगुणः कुपितः| कुण्डलीकृत इति वात्यावद्बस्तावेव भ्रमंस्तिष्ठतीति||२-३||

Adhikarana aShThIlAlakShaNam (4) · Śloka 4

आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम् | कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ||४||

🔊 Audio coming soon

अष्ठीलामाह– आध्मापयन्नित्यादि| रुद्ध्वेति बस्तिगुदमेव| अष्ठीलातुल्यत्वादष्ठीला, सा च वातव्याधावुक्ता||४||

Adhikarana vAtabastilakShaNam (5-6) · Śloka 6

वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः | निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ||५|| मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः | वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ||६|| (सु. उ. तं. अ. ५८) |

🔊 Audio coming soon

वातबस्तिमाह– वेगमित्यादि| बस्तिकुक्षिनिपीडित इति बस्तौ कुक्षौ च निपीडितः सम्पिण्डितो वायुरिति सम्बन्धः; ‘बस्तिकुक्षी निपीडयन्’ इति पाठान्तरे बस्तिकुक्ष्यो रुजाकर इति||५-६||

Adhikarana mUtrAtItalakShaNam (7) · Śloka 7

चिरं धारयतो मूत्रं त्वरया न प्रवर्तते | मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ||७||

🔊 Audio coming soon

मूत्रातीतमाह– चिरमित्यादि| त्वरया न प्रवर्तते इति मूत्रमित्यर्थः| मेहमानस्य मूत्रं त्यजतः| ‘वहमानस्य’ इति पाठान्तरं सुगमम्||७||

Adhikarana mUtrajaTharalakShaNam (8-9) · Śloka 9

मूत्रस्य वेगेऽभिहते तदुदावर्तहेतुकः | अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ||८|| नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् | तन्मूत्रजठरं विद्यादधोबस्तिनिरोधनम् ||९|| (सु. उ. तं. अ. ५८) |

🔊 Audio coming soon

मूत्रजठरमाह– मूत्रस्य वेग इत्यादि| तदुदावर्तहेतुक इति मूत्रवेगधारणजनितोदावर्तनिमित्तः| अधोबस्तिनिरोधनमिति बस्तेरधोभागे विबन्धकारकम्||८-९||

Adhikarana mUtrotsa~ggalakShaNam (10-11) · Śloka 11

बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः | मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ||१०|| स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् | विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसञ्ज्ञितः ||११|| (सु. उ. तं. अ. ५८) |

🔊 Audio coming soon

मूत्रोत्सङ्गमाह– बस्तावित्यादि| नाले मेढ्रे, मणौ मेढ्राग्रे| प्रवृत्तं सज्जेतेति संसक्तं सन्न प्रवर्तते| सरक्तं वा प्रवाहत इति प्रवाहणकुपितवायुना बस्त्यादिभेदजनितरक्तयुक्तं मूत्रं प्रवर्तते||१०-११||

Adhikarana mUtrakShayalakShaNam (12) · Śloka 12

रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ | मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ||१२|| (सु. उ. तं. अ. ५८) |

🔊 Audio coming soon

मूत्रक्षयमाह– रूक्षस्येत्यादि| तदाह्वयमिति मूत्रक्षयाख्यं, कारणे कार्योपचारात्||१२||

Adhikarana mUtragranthilakShaNam (13) · Śloka 13

अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् | अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ||१३|| (वा. नि. अ. ९) |

🔊 Audio coming soon

मूत्रग्रन्थिमाह– अन्तरित्यादि| अन्तर्बस्तिमुखे बस्तिमुखस्याभ्यन्तरे| ग्रन्थिर्गुडकाकारः| ननु, स्थानवेदनाकारणानामभिन्नत्वादश्मर्या सह को भेदः? उच्यते– अश्मर्यां पित्तादिकं संहन्यते, अत्र तु रक्तमेव| उक्तं हि तन्त्रान्तरे– “रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्| ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्|| अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते||” इति| विशेषज्ञानं तु कुत इति चेत्? अश्मरीपूर्वरूपोक्तस्य मूत्रे बस्तसगन्धत्वादेर्भावाभावाभ्याम्||१३||

Adhikarana mUtrashukralakShaNam (14) · Śloka 14

मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्धतम् | स्थानाच्च्युतं मूत्रयतः प्राक् पश्चाद्वा प्रवर्तते ||१४|| भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते | (वा. नि. अ. ९) |

🔊 Audio coming soon

मूत्रशुक्रमाह– मूत्रितस्येत्यादि| मूत्रितस्य मूत्रवेगितस्य| स्थानाच्च्युतं स्वस्थानाद्भ्रष्टं शुक्रम्||१४||–

Adhikarana uShNavAtalakShaNam (15-16) · Śloka 16

व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलान्वितम् ||१५|| बस्तिं मेढ्रं गुदं चैव प्रदहेत् स्रावयेदधः | मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा ||१६|| कृच्छ्रात् पुनः पुनर्जन्तोरुष्णवातं ब्रुवन्ति तम् | (सु. उ. तं. अ. ५८) |

🔊 Audio coming soon

उष्णवातमाह– व्यायामेत्यादि| व्यायामात् विरोधिसौम्यधातुक्षयात्तेजोवृद्ध्या पित्तवृद्धिः| अनिलान्वितमनिलसंयुतम्| ‘अनिलावृतम्’ इति पाठान्तरं सुगमम्| सरक्तमीषल्लोहितम्||१५-१६||–

Adhikarana mUtrasAdalakShaNam (17-18) · Śloka 18

पित्तं कफो द्वावपि वा संहन्येतेऽनिलेन चेत् ||१७|| कृच्छ्रान्मूत्रं तदा पीतं श्वेतं रक्तं घनं सृजेत् | सदाहं रोचनाशङ्खचूर्णवर्णं भवेत्तु तत् ||१८|| शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति तम् | (वा. नि. अ. ९) |

🔊 Audio coming soon

मूत्रसादमाह– पित्तमित्यादि| संहन्येते स्त्यानीक्रियेते| शुष्कमल्पं, तन्मूत्रं पित्तेन रोचनाभं, कफेन शङ्खचूर्णाभं, समस्तवर्णमुक्तसकलवर्णं सन्निपातात्||१७-१८||–

Adhikarana viDvighAtalakShaNam (19-20) · Śloka 20

रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा ||१९|| मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः | विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत् ||२०|| (वा. नि. अ. ९) |

🔊 Audio coming soon

विड्विघातमाह– रूक्षेत्यादि| अनुपद्येत प्राप्नुयात्| विड्गन्धमित्यत्र वाशब्दो द्रष्टव्यः||१९-२०||

Adhikarana bastikuNDalalakShaNam (21-22) · Śloka 24

द्रुताध्वलङ्घनायासैरभिघातात् प्रपीडनात् | स्वस्थानाद्बस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् ||२१|| शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि | पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान् ||२२|| बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् | पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः |२४|

🔊 Audio coming soon

बस्तिकुण्डलमाह– द्रुतेत्यादि| लङ्घनमुत्पतनम्| उद्वृत्तः स्वस्थानादूर्ध्वं गतः, गर्भवदिति गर्भिण्या उदरान्तर्गतापत्यवत्, एतेन बस्तिपुटस्य पार्श्वगमनं दर्शितम्| पीडित इति नाभेरधः| उद्वेष्टनार्तिः उद्वेष्टनरूपाऽऽर्तिः| शस्त्रविषोपमं शस्त्रविषसदृशमिति विभिन्नार्थसूचनार्थं प्रसिद्धानुभवोपदर्शनार्थम्||२१-२२||

Adhikarana bastikuNDalasya doShAntarasaMsRuShTasya lakShaNam (23) · Śloka 24

तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता ||२३|| श्लेष्मणा गौरवं शोथः स्निग्धं मूत्रं घनं सितम् |२४|

🔊 Audio coming soon

वातस्यैव दोषान्तरानुबन्धिनो लक्षणमाह– तस्मिन्नित्यादि| श्लेष्मणा अन्विते तस्मिन्निति बोद्धव्यम्||२३||–

Adhikarana bastikuNDalasya sAdhyAsAdhyavicAraH (24) · Śloka 25

श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति ||२४|| अविभ्रान्तबिलः साध्यो, न तु यः कुण्डलीकृतः |२५|

🔊 Audio coming soon

तस्यैव साध्यत्वासाध्यत्वमाह– श्लेष्मरुद्धबिल इत्यादि| बिलं बस्तिमुखशुषिरम्| पित्तोदीर्णः उपचितपित्तः, स एव अविभ्रान्तबिलोऽनावृतबिलः| कफेन कुण्डलीकृतोऽसाध्य इति बोध्यम्| अकुण्डलीकृतस्तु साध्यत्वेनोक्तः||२४||–

Adhikarana kuNDalIbhUtabasterlakShaNam (25) · Śloka 25

स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च ||२५||

🔊 Audio coming soon

कुण्डलीभूतस्यैव लिङ्गमाह– स्यादित्यादि| एतौ विड्विघातबस्तिकुण्डलौ सुश्रुतेन न पठितौ, तेन हि मूत्रोदकसादमेव द्विधा पठित्वा ‘द्वादश मूत्राघाता’ इत्युक्तं, सर्वानभिधानं तु पराधिकारत्वेनेति मन्तव्यम्||२५||

Adhikarana puShpikA · Śloka 31

इति श्रीमाधवकरविरचिते माधवनिदाने मूत्राघातनिदानं समाप्तम् ||३१||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां मूत्राघातनिदानं समाप्तम्||३१||