Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

59. nētrarōganidānam

Adhikarana nayanarogahetuH (1-3) · Śloka 3

अथ नेत्ररोगनिदानम् | उष्णाभितप्तस्य जले प्रवेशाद्दूरेक्षणात् स्वप्नविपर्ययाच्च | स्वेदाद्रजोधूमनिषेवणाच्च छर्देर्विघाताद्वमनातियोगात् ||१|| द्रवात्तथाऽन्नान्निशि सेविताच्च विण्मूत्रवातक्रमनिग्रहाच्च | प्रसक्तसंरोदनकोपशोकाच्छिरोऽभिघातादतिमद्यपानात् ||२|| तथा ऋतूनां च विपर्ययेण क्लेशाभिघातादतिमैथुनाच्च | बाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च नेत्रे विकाराञ्जनयन्ति दोषाः ||३|| (सु. उ. तं. अ. १) |

🔊 Audio coming soon

इन्द्रियाधिष्ठानगतविकारपारिशेष्यान्नेत्ररोगाभिधानम्| एते च नयनरोगा वातपित्तकफरक्तसन्निपातागन्तुजाः सन्तः षट्सप्ततिः| यदाह सुश्रुतः– “तैस्त्रिभिस्त्रिंशदुक्तास्ते कफेनाप्यधिकास्त्रयः| रक्तजाः षोडश प्रोक्ताः सर्वजाः पञ्चविंशतिः|| बाह्यौ पुनर्द्वौ च तथा रोगाः षट्सप्ततिः स्मृताः||” (सु. उ. तं. अ. १) इति| षट्सप्ततिश्चैते रोगा आश्रयभेदेन सुश्रुतेनैव विभक्ताः|| यदाह– “नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः| शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः|| सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु| द्वौ च बाह्याश्रयावन्यावनिमित्तनिमित्तजौ|| षट्सप्ततिर्नेत्ररोगाः सङ्ग्रहेण प्रकीर्तिताः|” (सु. उ. तं. अ. १) इति| नेत्रप्रमाणं च सुश्रुतेनैवोक्तं “विद्याद् द्व्यङ्गुलबाहुल्यं स्वाङ्गुष्ठोदरसम्मितम्| द्व्यङ्गुलं सर्वतः सार्धं भिषङ्नयनबुद्बुदम्||” (सु. उ. तं. अ. १) इति| द्व्यङ्गुलबाहुल्यं विस्तारेण, अन्तःस्वाङ्गुष्ठोदरसम्मितम्, द्व्यङ्गुलं सर्वतः सार्धमायामेन| अन्ये द्व्यङ्गुलबाहुल्यमिति यदुक्तं तत्र द्व्यङ्गुलमाननियमं स्वाङ्गुष्ठोदरसम्मितमित्यनेनाहुः| अयमर्थः– स्वेनाङ्गुष्ठोदरेण सम्मितं द्व्यङ्गुलबहुलं, द्व्यङ्गुलं सर्वतः सार्धमिति चायामविस्ताराभ्यां बोद्धव्यमिति| ननु, यद्यर्धतृतीयाङ्गुलायामं नेत्रं तर्हि “द्व्यङ्गुलायतं च नयनम्” (सु. सू. अ. ३५) इत्यातुरोपक्रमणीयोक्तं विरुध्यते? नैवं, वर्त्ममण्डलं गृहीत्वा गणनयाऽर्धतृतीयाङ्गुलं, तद्विरहात् द्व्यङ्गुलायतमिति न विरोधः| नयनरोगहेतुमाह– उष्णाभितप्तस्येत्यादि| उष्णेनातपादिना सन्तप्तदेहस्य जलावगाहनात्, शीतावृतदेहस्योर्ध्वगतेनोष्मणा |नयनतेजसोऽभिभवाच्चक्षूरोगोदयः स्वेदाद्रजोधूमनिषेवणाच्चेति घर्मरजोधूमानां नयनसम्बन्धानां हेतुत्वम्| छर्देर्विघातात् वान्तिवेगविघातात्| वमनातियोगादतिवान्तेः| विण्मूत्रवातक्रमनिग्रहात् विण्मूत्रवातानां क्रमेण शनैः शनैर्निग्रहात् वेगविधारणात्| प्रसक्तसंरोदनशोककोपादिति प्रसक्तं निरन्तरं कृतसंरोदनादेरित्यर्थः| ऋतुविपर्ययेण एकर्तुचर्याया अन्यर्तौ करणेन| क्लेशाभिघातात् क्लेशः कायादिदुःखं, तेनाभिसम्बन्धात्; बाष्पनिग्रहात् अश्रुवेगधारणात्| यदुक्तम्– “आनन्दजं वाऽप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि| शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन||” इति| नयनरोगसम्प्राप्तिश्च सुश्रुते पठ्यते– “ सिरानुसारिभिर्दोषैर्विगुणैरूर्ध्वमाश्रितैः| जायन्ते नेत्रभागेषु रोगाः परमदारुणाः||” (सु. उ. तं. अ. १) इति||१-३||

Adhikarana abhiShyandabhedAH (4) · Śloka 4

वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्विधः | प्रायेण जायते घोरः सर्वनेत्रामयाकरः ||४||

🔊 Audio coming soon

सामान्यपूर्वकत्वात् विशेषस्य, तथा सर्वनयनरोगहेतुत्वाच्च, आदौ सर्वनयनगतमभिष्यन्दमाह– वातादित्यादि| घोर इति दुःसहवेदनः| सर्वनेत्रामयाकर इति सर्वेषां नेत्ररोगाणामधिमन्थादीनामाकर उत्पत्तिकरत्वात्; आकरः स्थानम्| अत एवाह सुश्रुतः– “प्रायेण सर्वे नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः|” (सु. उ. तं. अ. १) इति||४||

Adhikarana vAtAbhiShyandalakShaNam (5) · Śloka 5

निस्तोदनस्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोऽभितापाः | विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ||५|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

वाताभिष्यन्दरूपमाह– निस्तोदनेत्यादि| निस्तोदनं सूचीव्यधनवद्व्यथा, स्तम्भनं जडिमा, सङ्घर्षः करकरिका, पारुष्यं रूक्षता, शिरोऽभितापः शिरोव्यथा| विशुष्कभावो दूषिकारहितत्वं, न त्वास्रावरहितत्वं, शिशिराश्रुतेत्युक्तेः||५||

Adhikarana pittAbhiShyandalakShaNam (6) · Śloka 6

दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च | उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ||६|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

पैत्तिकलक्षणमाह– दाहप्रपाकावित्यादि| प्रपाकः प्रकृष्टपाकः| शिशिराभिनन्दा शीतेच्छा| धूमायनं धूमस्योद्वमनम्| बाष्पसमुच्छ्रयो बाष्पबाहुल्यम्||६||

Adhikarana kaphAbhiShyandalakShaNam (7) · Śloka 7

उष्णाभिनन्दा गुरुताऽक्षिशोथः कण्डूपदेहावतिशीतता च | स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ||७|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

कफजलिङ्गमाह– उष्णाभिनन्देत्यादि| उपदेहः पिच्चटबाहुल्यम्| शीतता नेत्रस्य| पिच्छिल इति स्रावविशेषणम्| कफाभिपन्ने कफयुक्ते| नयने चक्षुषि| भवन्ति जायन्ते||७||

Adhikarana raktAbhiShyandalakShaNam (8) · Śloka 8

ताम्राश्रुता लोहितनेत्रता च नाड्यः समन्तादतिलोहिताश्च | पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ||८|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

रक्ताभिष्यन्दलक्षणमाह– ताम्राश्रुतेत्यादि| पित्तस्य लिङ्गानीति पित्ताभिष्यन्दलिङ्गानि||८||

Adhikarana adhimanthAnAmabhiShyandajatvam (9) · Śloka 9

वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् | तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ||९|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

अधिमन्थानामभिष्यन्दजत्वमाह– वृद्धैरित्यादि| तावन्त इति अभिष्यन्दैर्वातपित्तकफरक्तजैश्चत्वारोऽधिमन्थाः प्रत्येतव्याः| तीव्रवेदना इति सामान्यलक्षणम्| वेदनाशब्दश्चात्र व्यथामात्रवाची, तेन वातिकाभिष्यन्दाद्वातिक एवाधिमन्थस्तीव्रवातजनिततोदादिसकलवेदनः, एवं पित्तजकफजरक्तजाश्चाधिमन्थाः प्रत्येतव्याः||९||

Adhikarana adhimanthasya sAmAnyalakShaNam (10) · Śloka 10

उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा | शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः ||१०|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

अस्यापरं सामान्यलक्षणमाह– उत्पाट्यत इत्यादि| शिरसोऽर्धमित्यत्र पूर्वक्रिये सम्बध्येते, तेन शिरसोऽर्धमुत्पाट्यते तथा निर्मथ्यते चेत्यर्थः| शिरसोऽर्धे च वेदना व्याधिप्रभावात्| स्वलक्षणैरिति यथोक्तवाताद्यभिष्यन्दलक्षणैः| स चाधिमन्धः स्यन्दात्मकः||१०||

Adhikarana adhimanthasya doShabhedena kAlAvadhiH (11) · Śloka 11

हन्याद्दृष्टिं श्लैष्मिकः सप्तरात्रादधिमन्थो रक्तजः पञ्चरात्रात् | षड्रात्राद्वातिको वै निहन्यान्मिथ्याचारात् पैत्तिकः सद्य एव ||११|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

यावता कालेन मिथ्याचाराद्दृष्टिं हन्ति तमाह– हन्यादित्यादि| सद्य एवेति श्लेष्मणि सप्तरात्रस्योक्तत्वात् सद्यःशब्देनात्र त्रिरात्रमुक्तं, वैद्यके हि सद्यःशब्दस्य त्रिरात्रसप्तरात्रवाचित्वेन दृष्टत्वात्| कालावधिरत्र व्याधिस्वभावात्||११||

Adhikarana netrarogasya sAmatvalakShaNam (12) · Śloka 12

उदीर्णवेदनं नेत्रं रागशोथसमन्वितम् | घर्षनिस्तोदशूलाश्रुयुक्तमामान्वितं विदुः ||१२||

🔊 Audio coming soon

लङ्घनप्रलेपादिविधानार्थम् अञ्जनादिनिषेधार्थं च नेत्ररोगस्य सामत्वलक्षणमाह– उदीर्णवेदनमित्यादि| उदीर्णवेदनमुद्गतबहुवेदनम्| घर्षः करकरिका| लङ्घनादिविधानार्थमञ्जनादिनिषेधार्थं च तन्त्रान्तरम्– “स्वेदः प्रलेपस्तिक्तान्नं धूमो दिनचतुष्टयम्| लङ्घनं चाक्षिरोगाणामामानां पाचनानि षट्|| अञ्जनं सर्पिषः पानं कषायं गुरुभोजनम्| नेत्ररोगेषु सामेषु स्नानं चापि विवर्जयेत्||” इति||१२||

Adhikarana netrarogasya nirAmatvalakShaNam (13) · Śloka 13

मन्दवेदनता कण्डूः संरम्भाश्रुप्रशान्तता | प्रशस्तवर्णता चाक्ष्णोः सम्पक्वदोषमादिशेत् ||१३||

🔊 Audio coming soon

निरामलक्षणमाह– मन्देत्यादि| संरम्भाश्रुप्रशान्ततेति संरम्भः शोथः तस्य, अश्रुणो नेत्रजलस्य च प्रशमः||१३||

Adhikarana sashotha-ashothanetrapAkali~ggam (14) · Śloka 14

कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः | संरम्भी पच्यते यस्तु नेत्रपाकः स शोथजः | शोथहीनानि लिङ्गानि नेत्रपाके त्वशोथजे ||१४|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

सशोथपाकलिङ्गमाह– कण्डूपदेहाश्रुयुत इत्यादि| पक्वोदुम्बरसन्निभ इति लोहितः| संरम्भीति शोथवान्; कार्तिकस्तु महारम्भवानित्याह; शोथस्त्वनुक्तोऽपि गम्यते, तत्प्रधानत्वात् पाकस्य, उत्तरत्र शोथहीनानीत्यस्याभिधानाच्च| अयं त्रिदोषजः, एवमशोथपाकश्च||१४||

Adhikarana hatAdhimanthalakShaNam (15) · Śloka 15

उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य | रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ||१५|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

हताधिमन्थलक्षणमाह– उपेक्षणादित्यादि| अयं रोगो विदेहे दृष्ट्युत्क्षेपलक्षण एकः, अन्यः सकलनयनशोषलक्षणः पठ्यते| तद्यथा– “अन्तर्गतः सिराणां तु यदा तिष्ठति मारुतः| स तदा नयनं प्राप्य शीघ्रं दृष्टिं निरस्यति|| तस्यां निरस्यमानायां निर्मन्थन्निव मारुतः| नयनं निर्वमत्याशु शूलतोदाधिमन्थनैः||” इति| इदं दृष्टिनिर्गमलक्षणम्, अत एवैतस्मिन्नर्थे सुश्रुते केचित् पठन्ति– “अन्तः सिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन्| हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः||” इति| विदेह एव सकलाक्षिशोषः पठ्यते– “अथवा शोषयेदक्षि क्षीणतेजोबलादयम्| तत्पद्ममिव संशुष्कमवसीदति लोचनम्|| हताधिमन्थं तं विद्यादसाध्यं वातकोपतः||” इति| अतः शोषार्थे उपेक्षणादक्षीत्यादि श्लोकोऽवगन्तव्यः| सादयतीति शोषयति| रुजाभिरुग्राभिरिति रुजाभिस्तोदादिभिर्महतीभिरुपलक्षितः||१५||

Adhikarana vAtaparyayali~ggam (16) · Śloka 16

वारंवारं च पर्येति भ्रुवौ नेत्रे च मारुतः | रुजश्च विविधास्तीव्राः स ज्ञेयो वातपर्ययः ||१६||

🔊 Audio coming soon

वातपर्ययलिङ्गमाह– वारंवारमित्यादि| पर्यायेण क्रमेण कदाचिद्भ्रुवि, कदाचिल्लोचने, वायुस्तीव्रां रुजां करोतीति वातपर्यायार्थः||१६||

Adhikarana shuShkAkShipAkalakShaNam (17) · Śloka 17

यत् कूणितं दारुणरूक्षवर्त्म सन्दह्यते चाविलदर्शनं यत् | सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ||१७|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

शुष्काक्षिपाकमाह– यत् कूणितमित्यादि| कूणितमिति निमीलितम्| दारुणं कठिनं रूक्षं च वातशोषात् वर्त्म यस्य तद्दारुणरूक्षवर्त्म| सन्दह्यते सदाहं भवति| आविलदर्शनमाकुलदर्शनम्| सुदारुणं कृच्छ्रोन्मीलनम्| प्रतिबोधने उन्मेषणे| सुदारुणं सुकठिनमिति गदाधरः| शुष्काक्षिपाकोपहतं तदक्षीति तच्छुष्केणाक्षिपाकेन उपहतमक्षीत्यर्थः| अयं रोगः सरक्तवातजन्यः| यदाह करालः– “कूणितं खरवर्त्माक्षि कृच्छ्रोन्मीलाविलेक्षणम्| सदाहं सासृजाद्वाताच्छुष्कपाकान्वितं वदेत्||” इति||१७||

Adhikarana anyatovAtalakShaNam (18) · Śloka 18

यस्यावटुकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा | कुर्याद्रुजं वै भ्रुवि लोचने च तमन्यतोवातमुदाहरन्ति ||१८|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

अन्यतोवातमाह– यस्येत्यादि| अवटुर्घाटा| मन्ये ग्रीवापार्श्वसिरे| अन्यतो वेति उक्तप्रदेशादितरत्र पृष्ठे, सप्तम्यर्थे तसिः| अन्यत्र वातस्य कारणस्यावस्थानम्, अन्यत्र लोचने भ्रुवि च रुजां करोतीत्यन्यतोवातः| विदेहेऽप्युक्तम्– “ मन्ययोरन्तरे वायुरुत्थितः पृष्ठतोऽपि वा| करोति भेदं निस्तोदं शङ्खे चाक्ष्णोर्भ्रुवोस्तथा|| तमाहुरन्यतोवातं रोगं दृष्टिविदो जनाः||” इति||१८||

Adhikarana amlAdhyuShitalakShaNam (19) · Śloka 19

श्यावं लोहितपर्यन्तं सर्वं चाक्षि प्रपच्यते | सदाहशोथं सास्रावमम्लाध्युषितमम्लतः ||१९||

🔊 Audio coming soon

अम्लाध्युषितमाह– श्यावमित्यादि| श्यावमीषन्नीलम्| अम्लत इत्यम्लभोजनात्| अम्लाध्युषितमिति पित्ताध्युषितं, कारणे कार्योपचारात्||१९||

Adhikarana sirotpAtalakShaNam (20) · Śloka 20

अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः | मुहुर्विरज्यन्ति च याः स तादृग्व्याधिः सिरोत्पात इति प्रदिष्टः ||२०|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

सिरोत्पातमाह– अवेदना वाऽपीत्यादि| अक्षिराज्य इति अक्षिसिराः| विरज्यन्तीति विरक्ता भवन्ति, विशेषरक्ता भवन्तीत्यर्थः| रक्तजोऽयम्||२०||

Adhikarana sirApraharShalakShaNam (21) · Śloka 21

मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः | ताम्राभमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ||२१|| (सु. उ. तं. अ. ६) |

🔊 Audio coming soon

सिराप्रहर्षमाह– मोहादित्यादि| अयमपि रक्तजः| इति सर्वगताः||२१||

Adhikarana savraNashuklalakShaNam (22) · Śloka 22

निमग्नरूपं तु भवेद्धि कृष्णे सूच्येव विद्धं प्रतिभाति यद्वै | स्रावं स्रवेदुष्णमतीव यच्च तत् सव्रणं शुक्ल(क्र)मुदाहरन्ति ||२२|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

सन्धिवर्त्मशुक्लकृष्णदृष्टिगतेषु मध्ये प्राधान्याद्दृष्टिगतेषु वक्तुमुचितेषु स्वल्पवक्तव्यतया दृष्टिमण्डलप्रत्यासत्त्या कृष्णगतविकाराभिधानम्| तत्र सव्रणशुक्ललक्षणमाह– निमग्नरूपमित्यादिना| रूपग्रहणमाभासनिषेधार्थं, तेन निमग्नरूपमेव| यत् सूच्येवेत्युपमानं वर्तुलत्वख्यापनाय सूचीव्यधनवद्वेदनादर्शनाय च| स्रावं स्रवेदुष्णमिति स्रवेदुष्णमित्येतावतैव लब्धे स्रावे पुनः स्रावग्रहणं निरन्तरस्रावं लक्षयति| अतिशब्दस्तूष्णेन सम्बध्यत इति कार्तिकः| उष्णस्रावता रक्तात्मकत्वात्| शुक्लस्यात्र चात्यन्तरुक् बोद्धव्या, सव्रणत्वात्| यदाह अव्रणलक्षणे सुश्रुतः– ‘नातिरुगश्रुयुक्तं’ (सु. उ. तं. अ. ५) इति| तत् स्रवणं सक्षतं, क्षते तु रुजा युक्तैव, नयने तु सुकुमारे विशेषेणोदाहरन्ति विदेहप्रभृतयः| विदेहेऽप्युक्तम्– “रक्तराजीनिभं कृष्णे छिन्नाभं यच्च लक्ष्यते| सूच्यग्रेणेव तच्छुक्लमुष्णाश्रुस्रावि सव्रणम्||” इति||२२||

Adhikarana savraNashuklasya sAdhyAsAdhyatA (23) · Śloka 23

दृष्टेः समीपे न भवेत्तु यच्च न चावगाढं न च संस्रवेद्धि | अवेदनं वा न युग्मशुक्लं तत् सिद्धिमायाति कदाचिदेव ||२३|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

अस्यासाध्यतया निर्दिष्टस्यावस्थावशेन पाक्षिकीं सिद्धिमाह– दृष्टेः समीप इत्यादि| क्षतं हि स्वभावत एव संश्रयोपघातकरम्, अतो दृष्टिसमीपे न साध्यम्; उक्तविपर्ययात्तु दृष्टिसमीपेऽपि सुखसाध्यमव्रणम्| न चावगाढमेकत्वग्गतम्| विपर्ययात्त्ववगाढमप्यव्रणं सिध्यति| अत एवाव्रणे वक्ष्यति– गम्भीरजातमिति| न च संस्रवेदिति न चात्यर्थं स्रवेत्, संशब्दस्यातिशयार्थत्वात्| अवेदनं मन्दवेदनं, रक्तस्य कफानुगमात्; वातानुगमादतिवेदनं तु न सिध्यति| युग्मं च क्षतशुक्लं कदाऽपि न सिध्यति||२३||

Adhikarana avraNashuklalakShaNam (24) · Śloka 24

स्यन्दात्मकं कृष्णगतं सचोषं शङ्खेन्दुकुन्दप्रतिमावभासम् | वैहायसाभ्रप्रतनुप्रकाशमथाव्रणं साध्यतमं वदन्ति ||२४|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

इदानीमव्रणशुक्रलक्षणमाह– स्यन्दात्मकमित्यादि| स्यन्दात्मकमभिष्यन्दनिमित्तकं, सर्वेषामक्षिरोगाणामभिष्यन्दनिमित्तत्वेऽपि चास्य नियमप्रतिपादनार्थमभिधानम्| वैहायसाभ्रप्रतनुप्रकाशमिति विहायसि स्थितं वैहायसं, ‘तस्य निवासः’ इत्यण्, विहायो नभः; आकाशस्थिताभ्रवत् प्रतनुप्रकाशमित्यर्थः| एतेनाच्छत्वं प्रतिपाद्यते| शुक्लत्वं तु शङ्खेन्दुकुन्दप्रतिमावभासमित्यनेनैव लब्धम्| वैहायसाभ्रग्रहणं सजलाभ्रव्यवच्छेदार्थं, तद्धि प्रायः पार्वतं भवतीति कार्तिकः| साध्यतमं सुखसाध्यम्| ननु, गम्भीरजातमित्यादिना कृच्छ्राभिधानेनैव तद्विपर्ययेण सुखसाध्यत्वावगतिः सेत्स्यति, तत् किं साध्यतमाभिधानेन? नैवम्, असत्यत्र साध्यतमाभिधाने उभयत्रापि कृच्छ्रत्वभ्रान्तिः स्यादतस्तदभिधानम्||२४||

Adhikarana avraNashuklasyAvasthAbhedena kRucchrasAdhyatvam (25) · Śloka 25

गम्भीरजातं बहुलं च शुक्लं चिरोत्थितं चापि वदन्ति कृच्छ्रम् | विच्छिन्नमध्यं पिशितावृतं वा चलं सिरासूक्ष्ममदृष्टिकृच्च | द्वित्वग्गतं लोहितमन्ततश्च चिरोत्थितं चापि विवर्जनीयम् ||२५|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

अव्रणस्यैवावस्थाभेदेन कृच्छ्रत्वमाह– गम्भीरजातमित्यादि| गम्भीरजातं द्वित्रित्वग्गतम्| बहुलं प्रतनुनोऽभ्राद्घनम्| अव्रणस्यैवावस्थाभेदेनासाध्यत्वमाह– विच्छिन्नमध्यमित्यादि| विच्छिन्नमध्यं विदीर्णमांसत्वात् सच्छिद्रं, निम्नमिति यावत्; तद्विपर्ययं तु पिशितावृतमुन्नतमांसरूपतया| चलमित्यनवस्थितम्| सिरासूक्ष्ममिति सिरावृतत्वात् सूक्ष्मम्; अन्ये ‘ सिरासक्तम्’ इति पठन्ति, व्याचक्षते च– सिरासक्तं यतस्ततश्चलं, सिराणां चलत्वात्; सिरा हि मत्स्यवत् परिवर्तमाना मुहुर्मुहुश्चलन्ति; अन्ये ‘ सिराशुक्लम्’ इति पाठान्तरं व्याचक्षते; सिराभिः शुक्लं, सिराशुक्लं सिराशुक्लत्वहेतुकं; न हि सिराभवनं शुक्लत्वे हेतुरिति गदाधरः| अदृष्टिकृदिति दर्शनाभावकारि, दृष्टेः समीपे न भवेदित्यस्य विपर्ययोऽयम्| द्वित्वग्गतं द्विपटलाश्रितम्, एतदपरलिङ्गसहितमसाध्यं, न तु केवलं; द्वित्वग्गतस्य कृच्छ्रत्वाभिधानात्| लोहितमन्ततश्चेति मध्ये शुक्लमन्ते लोहितं, व्रणाकारेण||२५||

Adhikarana avraNashuklasyAsAdhyalakShaNam (26) · Śloka 26

उष्णाश्रुपातः पिडका च नेत्रे यस्मिन् भवेन्मुद्गनिभं च शुक्लम् | तदप्यसाध्यं प्रवदन्ति केचिदन्यच्च यत्तित्तिरिपक्षतुल्यम् ||२६|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

न केवलमेवंविधं परमसाध्यं किन्त्वन्यादृशमपीत्यत आह– उष्णाश्रुपात इत्यादि| पिडका च नेत्र इत्यन्तं द्वित्वग्गतशुक्ले| तथाऽऽह विदेहः– “एकत्वग्गतमेवं स्यात् द्वित्वग्गतमिदं भवेत्| चोषोष्णस्रावदाहास्तु तृष्णा च पिडकोद्गमः||” इति मुद्गनिभं च शुक्लमित्याकारेण, एतद्द्वित्वग्गतम्| तथा च विदेहः– “व्यक्तमुद्गफलाकारं शुक्लं द्वित्वग्गतं भवेत्|” इति| द्वित्रित्वग्गतस्याव्रणशुक्रस्य कृच्छ्रत्वे एतत् पिडकोद्गममुद्गफलाकारत्वेनैवासाध्यत्वं बोध्यम्| अन्ये पुनः सव्रणशुक्लस्य विच्छिन्नमध्यमित्यादिकमसाध्यलक्षणं वर्णयन्ति| अत्र पक्षे द्वित्वग्गतमिति केवलमेवासाध्यलक्षणम्, एतन्न चावगाढमित्यस्य विपर्ययः| लोहितमन्ततः, उष्णाश्रुपातः पिडका चेत्यादि द्वित्वग्गतशुक्ललक्षणमिति| किन्त्वियमत्रासङ्गतिः– विच्छिन्नमध्यं सच्छिद्रं, तद्यदि सच्छिद्रत्वं सव्रणशुक्लस्याभ्युपगम्यते, तदा निमग्नरूपमित्यनेनैव सिद्धत्वात् पुनरुक्तं स्यात्, किञ्च सव्रणशुक्लानन्तरमस्य पाठो विफलः स्यात्| अन्ये तु सव्रणाव्रणशुक्लविषयं सामान्यमसाध्यलक्षणमेतदाहुः; यथायोग्यतया क्वचिल्लिङ्गान्तरयोगेन च व्यवस्थेति च वर्णयन्ति| असाध्यत्वं विदेहदन्येषां मतेनाह– केचिदित्यादि| तित्तिरिपक्षतुल्यमिति शबलम्; एतच्चानिषेधादनुमतम्||२६||

Adhikarana akShipAkAtyayalakShaNam (27) · Śloka 27

श्वेतः समाक्रामति सर्वतो हि दोषेण यस्यासितमण्डलं च | तमक्षिपाकात्ययमक्षिरोगं सर्वात्मकं वर्जयितव्यमाहुः ||२७|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

इदानीमक्षिपाकात्ययमाह– श्वेत इत्यादि| दोषेण यः कृतः श्वेतः स समाक्रामति| सर्वात्मकं त्रिदोषजम्; अन्ये तु ‘स्यन्दात्मकम्’ इति पठित्वा अभिष्यन्दात्मकमाहुः| तदा सर्वेषामभिष्यन्दमूलत्वाद्विशेषार्थमभिधानम्||२७||

Adhikarana ajakAjAtalakShaNam (28) · Śloka 28

अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः | विगृह्य कृष्णं प्रचयोऽभ्युपैति तच्चाजकाजातमिति व्यवस्येत् ||२८|| (इति कृष्णजाः) | (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

अजकाजातमाह– अजापुरीषप्रतिम इत्यादि| अजापुरीषप्रतिमः शुष्काजपुरीषतुल्यः| सलोहित ईषल्लोहितः| विगृह्य कृष्णमिति स्वोच्छ्रायेण कृष्णदेशं महत्त्वाद्विच्छिद्य| प्रचय इति प्रकृष्टश्चयः उद्गम इति यावत्| अजकाया मेदोवत् संश्रयस्तृतीयत्वग्गतत्वेन मेदसः प्रचयो बोद्धव्यः| तथाच विदेहः– “कृष्णेऽक्ष्णोर्यद्भवेच्छुक्लं छागलीविट्समप्रभम्| सान्द्रपिच्छिलरक्तास्रं त्रित्वग्गमजकेति सा||” इति| इति कृष्णजाः||२८||

Adhikarana prathamapaTalasthadoShalakShaNam (29) · Śloka 29

प्रथमे पटले दोषा यस्य दृष्ट्यां व्यवस्थिताः | अव्यक्तानि स रूपाणि कदाचिदथ पश्यति ||२९|| (सु. उ. तं. अ. ५) |

🔊 Audio coming soon

कृष्णाश्रितत्वाद् दृष्टिमण्डलस्य दृष्टिजा उच्यन्ते| दृष्टिप्रमाणं तु सुश्रुतेनोक्तम्– “मसूरदलमात्रां तु पञ्चभूतप्रसादजाम्|” (सु. उ. तं. अ. ७) इति| अत्र मसूरदलमात्रामिति मसूरार्धदलमात्रां, तथा च निमिः– “पञ्चभूतात्मिका दृष्टिर्मसूरार्धदलोन्मितिः|” इति| ननु, एवं तर्हि विरुध्यते, यदाह स एव पुनः– “नेत्रायामत्रिभागं च कृष्णमण्डलमुच्यते| कृष्णात् सप्तममिच्छन्ति दृष्टिं दृष्टिविदो जनाः||” (सु. उ. तं. अ. १) इति, अत्र कृष्णसप्तमभागत्वेन दृष्टेरुक्तत्वात्| उच्यते– कृष्णसप्तमभागत्वेनापि मसूरार्धदलप्रमाणा दृष्टिरित्येक एवार्थः| ननु, एवमातुरोपक्रमणीयोक्तं “ द्व्यङ्गुलायतं नयनं, नयनत्रिभागपरिमाणा तारका, नवमस्तारकांशो दृष्टिमण्डलम्|” (सु. सू. अ. ३५) इति विरुध्यते| उच्यते– तत्र मण्डलाभिधानेन मण्डलसहिताया दृष्टेरुक्तिः, अत्र तु मण्डलरहिताया इति; मतभेदाद्वा न विरोधः, तारकानवमांशो दृष्टिरिति शल्यमतं, तारकासप्तमांशो दृष्टिरिति शालाक्यसिद्धान्तेन| ननु, एवं तर्हि “दृष्टिश्च रोमकूपाश्च न वर्धन्ते” (सु. शा. अ. ४) इति शारीरोक्तं विरुध्यते, यतः कृष्णसप्तमभागत्वेन दृष्टेरुक्तत्वात् कृष्णवृद्ध्या तद्वृद्धेः सम्भवात्| नैवम्, अङ्गान्तरवन्न बहु वर्धत इत्यभिप्रायेणोक्तं दृष्टिर्न वर्धत इति| दृष्ट्यां च चत्वारि पटलानि| रसरक्ताश्रयं बाह्यं, द्वितीयं मांससंश्रयं, तृतीयं मेदःसंश्रयं, चतुर्थं कालकास्थिसंस्थितम्| तथा च सुश्रुतः– “तेजोजलाश्रितं बाह्यं तेष्वन्यत् पिशिताश्रितम्| मेदस्तृतीयं पटलमाश्रितं त्वस्थि चापरम्| पञ्चमांशसमं दृष्टेस्तेषां बाहुल्यमिष्यते||” (सु. उ. तं. अ. १) इति| अत्र तेजःशब्देन रक्तं, जलशब्देन च रसो व्याख्यातः| तेषु पटलेषु बाह्यादिभेदेनाधिष्ठानविशेषप्रभावात् दोषाणां लिङ्गविशेषमाह– प्रथमे पटल इत्यादि| प्रथमे पटले सर्वाभ्यन्तरे पटले कालकास्थिसंश्रये; न तु बाह्ये, तत्र प्रथमं दोषलिङ्गानुपलब्धेः; यदि तु कुष्ठादिवद्बाह्यं प्रथमं प्रदूष्याभ्यन्तरे दोषानुप्रवेशः स्यात्तदा प्रागेव रोगस्तत्रोपलभ्येत्, न चैवं दृश्यते| तथाच विदेहः– “दृष्टेरन्तरमाद्यं तु पटलं समभिद्रुताः|” इत्यारभ्य “एकैकमनुपद्यन्ते पर्यायात् पटलान्तरम्|” इति| प्रथमे पटल इत्यादिग्रन्थात् पूर्वं केचित् “ सिराभिरभिसम्प्राप्य विगुणोऽभ्यन्तरे भृशम्|” (सु. उ. तं. अ. १) इति श्लोकार्धं सम्प्राप्तिरूपं पठन्ति सुश्रुते, तच्च ‘ सिरानुसारिभिर्दोषैः’ (सु. उ. तं. अ. १) इत्यनेनैव गतार्थमित्यनार्षं टीकाकारैर्व्याख्यातम्| रूपाणीति रूपवन्ति द्रव्याणि| कदाचिदथ पश्यतीत्यनेनात्राधिष्ठानविशेषाद्दोस्याल्पबलता उक्ता भवति| अव्यक्तरूपाण्यपि वक्ष्यमाणभ्रमरारुणवर्णादियुक्तानि वातेन, पित्तेनादित्यखद्योतादिपीतनीलवर्णानि, कफेन सितवर्णानि, रक्तेन रक्तवर्णानि, सन्निपातेन चित्रवर्णानि; एवं द्वितीयतृतीयचतुर्थपटलेष्वपि व्याख्येयम्||२९||

Adhikarana dvitIyapaTalagatadoShalakShaNam (30-32) · Śloka 32

दृष्टिर्भृशं विह्वलति द्वितीयं पटलं गते | मक्षिकामशकांश्चापि जालकानि च पश्यति ||३०|| मण्डलानि पताकांश्च मरीचिं कुण्डलानि च | परिप्लवांश्च विविधान् वर्षमभ्रं तमांसि च ||३१|| दूरस्थानि च रूपाणि मन्यते स समीपतः | समीपस्थानि दूरे च दृष्टेर्गोचरविभ्रमात् ||३२|| यत्नवानपि चात्यर्थं सूचीपाशं न पश्यति | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

द्वितीयपटलगतस्य लिङ्गमाह– दृष्टिर्भृशं विह्वलतीत्यादि| विह्वलति पुनः पुनः असम्यग्रूपं गृह्णाति, तथा अविद्यमानान् मक्षिकादीन् पश्यति; अथवा मक्षिकेत्यादिना विह्वलत्वमेव व्याक्रियते| जालकानि जालान्येव| मरीचीनिति रश्मीन्| परिप्लवानिति मण्डूकादीनां परि सर्वतः प्लवान् गतीः| विविधानिति ऊर्ध्वाधस्तिर्यग्गतश्लेष्मादिदोषवर्णेन च नानाविधान्, अन्ये परिप्लवान् विविधानिति नानावर्णान् जलप्लवानित्याचक्षते| गोचरविभ्रमादिति विषयभ्रान्तेः| सूचीपाशं न पश्यतीति सतोऽपि सूक्ष्मस्यानुपलम्भः; सूचीपाशं सूचीरन्ध्रं, पाशं वा गुणम्||३०-३२||–

Adhikarana tRutIyapaTalagatadoShalakShaNam (33-34) · Śloka 34

ऊर्ध्वं पश्यति नाधस्तात्तृतीयं पटलं गते ||३३|| महान्त्यपि च रूपाणि छादितानीव चाम्बरैः | कर्णनासाक्षिहीनानि विकृतानीव पश्यति ||३४|| यथादोषं च रज्येत दृष्टिर्दोषे बलीयसि | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

तृतीयपटलगतस्य लिङ्गमाह– ऊर्ध्वं पश्यतीत्यादि| ऊर्ध्वदर्शनाभिधानादधोदर्शनस्य निषेधसिद्धौ तदभिधानं स्वरूपानुवादार्थम्| ननु, पार्श्वयोरीषद्दर्शनार्थं किमित्येतन्न भवति? उच्यते– ऊर्ध्वाधोगतत्वेनैव पार्श्वस्य परिग्रहादिति कार्तिकः| यदेतद्रूपं पश्यति तत् कीदृशमित्यत आह– महान्त्यपीत्यादि| “छादितानीव चाम्बरैरिति आवृतानीव वस्त्रैः|” ‘अम्बरे’ इति पाठान्तरे आकाशे छादितानि केनापि| विकृतानीवेति छिन्नकरपादादीनि| अत्र रागप्राप्तिमाह– यथादोषं च रज्येत दृष्टिर्दोषे बलीयसीति| अस्यार्थः– यथायथं दोषवर्णैररुणपीतसितादिभिर्युज्यते दृष्टिः; रागश्चात्र वर्णमात्रवचनः| अत एव वक्ष्यति– “कफात् सितः शोणितजः सरक्त” (सु. उ. तं. अ. ७) इति| दोषे बलीयसीति रक्तमांसमेदःसहाये बलवति दोषे, अन्यथा तु तृतीयेऽपि रागो न भवतीति व्यभिचारः सूच्यत इति गदाधरः| ननु, तृतीये कथं रागवर्णनं, बाह्यपटलेनावृते दर्शनासम्भवात्? न चाश्मरीवर्णाभिधानवदायुर्वेदप्रामाण्यार्थं भविष्यतीति, अश्मर्या उत्तरकालमाकृष्टौ तथा प्रतीतेः, इह तु न तादृक्| उच्यते– तृतीयपटलगतस्य दोषस्य तथास्वभावाद्बाह्ये रागोपलब्धिः, तृतीयपटलादारभ्य रागोदयः| यदाह विदेहः– “यथास्वं रज्यते दृष्टिर्दोषैस्त्रिपटलस्थितैः| चतुर्थपटलप्राप्तैर्मण्डलं रज्यते तु तैः||” इति||३३-३४||–

Adhikarana adhaUrdhvAdipradeshasthadoShali~ggam (35-37) · Śloka 1

अधःस्थिते समीपस्थं दूरस्थं चोपरिस्थिते ||३५|| पार्श्वस्थिते तथा दोषे पार्श्वस्थं नैव पश्यति | समन्ततः स्थिते दोषे सङ्कुलानीव पश्यति ||३६|| दृष्टिमध्यस्थिते दोषे महद्ध्रस्वं च पश्यति | द्विधा स्थिते द्विधा पश्येद्बहुधा चानवस्थिते ||३७|| (सु. उ. तं. अ. ७) | दोषे दृष्ट्याश्रिते तिर्यक् स एकं मन्यते द्विधा ||१||

🔊 Audio coming soon

अधुनाध ऊर्ध्वमेवं यथाप्रदेशं दृष्टौ दोषावस्थाने यथा न पश्यति यादृग्वा पश्यति तथा दर्शयितुमाह– अधःस्थित इत्यादि| समीपस्थं दूरस्थं चेति नैव पश्यतीति सम्बन्धः| समन्तत इति सर्वतः| सङ्कुलानीवेति अन्यान्यरूपेणैव मिश्राणि| अनवस्थित इति अनियतावस्थान इत्यर्थः||३५-३७||–

Adhikarana caturthapaTalagatadoShalakShaNam (38-40) · Śloka 40

तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ||३८|| रुणद्धि सर्वतो दृष्टिं लिङ्गनाशमतः परम् | अस्मिन्नपि तमोभूते नातिरूढे महागदे ||३९|| चन्द्रादित्यौ सनक्षत्रावन्तरीक्षे च विद्युतः | निर्मलानि च तेजांसि भ्राजिष्णून्यथ पश्यति ||४०|| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

चतुर्थपटलगतमाह– तिमिराख्य इत्यादि| आन्ध्योत्पादकतया तिमिरसाधर्म्यात्तिमिराख्यः, दोषो रोगः, “दोषा अपि रोगाख्यां लभन्ते” इत्यागमात्; स एव रोगः सर्वतो दृष्टिरोधाल्लिङ्गनाश उच्यते; लिङ्ग्यते ज्ञायतेऽनेनेति लिङ्गमिन्द्रियं दर्शनशक्तिः, तन्नाशोऽस्मिन्निति लिङ्गनाशः| लिङ्गनाशमतः परं ‘वदन्ति’ इति शेषः| अस्मिन्नपि तमोभूत इति भूतशब्दः सादृश्ये, रूपस्यानुपलम्भादन्धकारसदृशे| नातिरूढे नातिवृद्धे, अतश्चन्द्रादित्यादीनि भास्वन्ति वस्तूनि पश्यति| अन्तरीक्षे चेत्यस्योपादानं भूमेस्तमोमयत्वात्, तत्र च तमोऽभिभवात्तादृशस्य चक्षुषो दर्शनाशक्तेः||३८-४०||

Adhikarana li~gganAshasya nIlikA-kAcasa~jj~jAntaram (41) · Śloka 41

स एव लिङ्गनाशस्तु नीलिका काचसञ्ज्ञितः |४१| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

तस्यैव लिङ्गनाशस्य सञ्ज्ञान्तरमाह– स एव लिङ्गनाशस्त्वित्यादि| यस्तृतीयपटलस्थितः काचसञ्ज्ञितो दोषः स एवोपेक्षया चतुर्थे पटले पुनर्लिङ्गनाशो नीलिका च| तुशब्दः पुनरर्थे| कुतः पुनरयमृजुरेव ग्रन्थो न लगति– नीलिकाकाचाभ्यां पर्यायाभ्यां सञ्ज्ञितो नीलिकाकाचसञ्ज्ञित इति; नैवं, तन्त्रान्तरे तृतीयपटलस्थिते दोषे काचाभिधानात्| यदाह निमिः– “काच इत्येष विज्ञेयो याप्यस्त्रिपटलोत्थितः| चतुर्थपटलप्राप्तो लिङ्गनाशः स उच्यते|| प्रत्याख्येयश्च कफजो व्याधिः साध्यस्तु तद्विदा|” इति| अत्रापि तत्प्रत्ययात् तृतीयपटलस्थस्य काचसञ्ज्ञा, चतुर्थपटलप्राप्तस्य प्रत्याख्येयत्वं प्रत्येतव्यम्| यत् पुनर्लिङ्गनाशोपादानं तत् सकलपर्यायज्ञापकार्थम्| गदाधरस्तु “नीलिकाविशेषिता काचसञ्ज्ञा नीलिकाकाचसञ्ज्ञा” इत्याह; एतेन तृतीयपटलस्थदोषे काचसञ्ज्ञा, चतुर्थे तु सा नीलिकया विशिष्यते इति फलति| एकजातीयतया त्रिचतुःपटलयोरपि रोगाणां षट्त्वमेव, नतु द्वादशत्वं; तेन न सङ्ख्यातिरेकः| इदमिदानीं चिन्त्यते– तृतीयपटलस्थे दोषे काचसञ्ज्ञा तिमिरसञ्ज्ञा च, तर्हि कथं न षट्सङ्ख्याहानिः? काचात्तिमिरस्य भिन्नत्वात्, उक्तं च– “षड् लिङ्गनाशाः” इति; अथ मन्यसे, तिमिरात् काचो न भिद्यते, तस्यावस्थान्तरत्वादिति; न, तद्विपरीतसाधकत्वाद्धेतोः; यतोऽभिष्यन्दसिरोत्पाताभ्यामधिमन्थसिराहर्षयोरवस्थान्तरत्वेऽपि भिन्नत्वं प्रतीयते| उच्यते– भवत्येवं, यद्यवस्थान्तरत्वेऽपि विशिष्टनामप्राप्तिस्तयोरिवास्य प्रथमनामपरित्यागात् स्यात्; न चैवं, “तिमिराख्यः स वै द्षः” (सु. उ. तं. अ. ७) इत्यभिधानात् तथाच ‘तिमिरे रागिणि’ इति वचनात्; तस्मान्नास्यावस्थान्तरे पूर्वनामपरित्यागः, ततस्तिमिरात् काचस्यावस्थान्तरत्वेऽप्यनन्यत्वं साधु, यथा– सत्यपि यौवनत्वे यज्ञदत्तस्य न स्वाभिधेयहानिः, अतो न सङ्ख्यातिरेकप्रसङ्ग इति|४१|–

Adhikarana doShavisheSheNa rUpavisheShadarshanam (41-46) · Śloka 46

वातेन चापि रूपाणि भ्रमन्तीव च पश्यति ||४१|| आविलान्यरुणाभानि व्याविद्धानीव मानवः | पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ||४२|| नृत्यतश्चैव शिखिनः सर्वं नीलं च पश्यति | कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ||४३|| (गौरचामरगौराणि श्वेताभ्रप्रतिमानि च | पश्येदसूक्ष्माण्यत्यर्थं व्यभ्रे चैवाभ्रसम्प्लवम्) | सलिलप्लावितानीव परिजाड्यानि मानवः | पश्येद्रक्तेन रक्तानि तमांसि विविधानि च ||४४|| स सितान्यपि कृष्णानि पीतान्यपि च मानवः | सन्निपातेन चित्राणि विप्लुतानीव पश्यति ||४५|| बहुधा च द्विधा चापि सर्वाण्येव समन्ततः | हीनाधिकाङ्गान्यपि तु ज्योतींष्यपि च भूयसा ||४६|| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

दोषविशेषेण रूपविशेषदर्शनमाह– वातेनेत्यादि| अविशेषेण यदुक्तमेतत् वाते तत् सर्वपटलेषु सम्बध्यते, तुल्यत्वान्न्यायस्य| व्याविद्धानीव कुटिलानीव| खद्योतो ज्योतिरिङ्गणः, शक्रचाप इन्द्रधनुः, गुणान् रूपाणि, आदित्यादीनां रूपाणीत्यर्थः| शिखिनो मयूरान्| सलिलप्लावितानीव परिजाड्यानीति सलिलप्लवनेनैव स्तिमितानीत्यर्थः| सितानीति श्वेतानि| ननु, रक्तेन कथं सितानीत्युच्यन्ते? श्लेष्मणा सितरूपस्य दर्शितत्वात्| नैवं, सितान्यपि कृष्णानि पीतानि पश्यतीति व्याख्यानाददोषः; स इति मानवः| रक्तेन कृष्णपीतदर्शनं पित्तसधर्मकत्वाद्रक्तस्य| चित्राणीति नानावर्णानि| विप्लुतानीवेति विपरीतानि| विपरीतत्वमेव विवृणोति– बहुधेत्यादि| अयमर्थः– सन्निपातेन पूर्वप्रकारेण बहुविधानि द्विविधानि वा सर्वाणि द्रव्याणि पश्यति, तृतीयपटले हीनाधिकाङ्गान्यपीति गदाधरः||४१-४६||

Adhikarana parimlAyisa~jj~jakatimiralakShaNam (47) · Śloka 47

पित्तं कुर्यात् परिम्लायि मूर्छितं पित्ततेजसा | पीता दिशस्तु खद्योतान् भास्करं चापि पश्यति ||४७|| विकीर्यमाणान् खद्योतैर्वृक्षांस्तेजोभिरेव वा | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

पित्तेनापरं परिम्लायिसञ्ज्ञकं तिमिरमाह– पित्तं कुर्यादित्यादि| परिम्लायीति परिम्लायि तिमिरम्; एतच्च रक्तमूर्छितपित्तकृतं पीतं नीलं बोद्धव्यम्| यदाह सात्यकिः– “एवमेव तु विज्ञेया नीलाः पित्तसमुत्थिताः| रक्ताः पित्तोत्थिताः पीताः||” इति| अत्र वचने काच इति विशेष्यत्वेन बोद्धव्यम्| मूर्छितं पित्ततेजसेति पित्तस्य तेजो रक्तं, प्रसादरूपत्वात्; तेन मिश्रितम्| अन्ये तु ‘रक्ततेजसा’ इति पठन्ति, रक्तस्य तेजो बलं रक्ततेजः; केचित् ‘भक्ततेजसा’ इति पठन्ति, भक्तस्य अन्नस्य तेजसा प्रसादेन रसेनेत्यर्थः; रक्ततेजसेत्यत्रापि रक्तार्थं तेजो रक्ततेज इति रस एवाभिधातुं शक्यते, पित्ततेजसेत्यत्रापि पित्तार्थं तेजः पित्ततेजः; पित्तशब्देन समानत्वेन तत्प्रसादत्वेन च रक्तमभिधाय पूर्व एवार्थः कर्तुं शक्यते| तथा च विदेहः– “पित्तं रक्तप्रसादेन मूर्छयित्वा च मारुतम्|” इत्यारभ्य “एष याप्यः स्मृतः काचो म्लायीनाम्ना शरीरिणाम्|” इति| इदं त्वन्यत्र रक्तपित्ताभ्यां पठ्यते| यदुक्तं – “विदधाति परिम्लायि पित्तं रक्तेन सङ्गतम्| तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम्||” इति| अत्रापि यदि रक्तशब्देन रक्तार्थं यत्तद्रक्तमिति कुसृष्ट्या रसोऽभिधीयते, तदा पूर्वेण सह समानार्थमेवैतद्वचनं स्यादिति| परिम्लायिरोगे तिमिरवतः पुंसो रागग्रहणे लिङ्गमाह– पीता दिश इत्यादि| विकीर्यमाणानिति आच्छाद्यमानान्| याप्यश्चायं, तथाहि सात्यकिः– “तृतीयं पटलं प्राप्तं तिमिरं रागि जायते| अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम्|| कृच्छ्रं द्वितीये रागि स्यात् तृतीये याप्यमुच्यते|” इति||४७||–

Adhikarana li~gganAshasya rAgaiH ShaDvidhatvam (48) · Śloka 48

वक्ष्यामि षड्विधं रागैर्लिङ्गनाशमतः परम् ||४८||

🔊 Audio coming soon

वातादिभेदेन षड्विधं तिमिरमभिधाय रागैः षड्विधमाह– वक्ष्यामि षड्विधं रागैरित्यादि| सर्वानुगां तिमिरसञ्ज्ञां विहाय लिङ्गनाशसञ्ज्ञया कीर्तनं रागप्रकर्षप्राप्तेः||४८||

Adhikarana vAtikAdirAgoddeshaH (49) · Śloka 49

रागोऽरुणो मारुतजः प्रदिष्टो म्लायी च नीलश्च तथैव पित्तात् | कफात् सितः शोणितजः सरक्तः समस्तदोषप्रभवो विचित्रः ||४९|| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

वातादिरागोद्देशमाह– रागोऽरुण इत्यादि| म्लायी च नीलश्च तथैव पित्तादिति म्लायी पीतनीलो वर्णः| ननु, शेषे परिम्लायि पठितं तत् कथमधुना वातरोगस्यानन्तरोक्तिः? नैवं, रागकाले वायुरप्यत्रांशेन व्याप्रियते इति प्रतिपादनार्थमिति कार्तिकः| पैत्तिकरूपद्वयस्यैकत्राभिधानेन लाघवं स्यादिति युक्तं, यत्तु प्रागेव न कृतं तदेकविकारशङ्कानिरासार्थम्||४९||

Adhikarana vAtikarAgasya vishiShTalakShaNam (50) · Śloka 50

अरुणं मण्डलं दृष्ट्यां स्थूलकाचारुणप्रभम् |५०| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

उद्देशक्रमेण वातिकरागस्यैव विशिष्टलक्षणमाह– अरुणं मण्डलमित्यादि| अरुणं मण्डलं कीदृशं भवतीत्यत आह– स्थूलकाचारुणप्रभमिति| स्थूलकाचस्येव अरुणा प्रभा यस्य तत्तथा; एतेन बाहुल्यमरुणत्वं च प्रतिपाद्यते| काचोऽत्रारुणो विवक्षितः|५०|–

Adhikarana parimlAyino vishiShTali~ggam (50) · Śloka 50

परिम्लायिनि रोगे स्यान्म्लायि नीलं च मण्डलम् ||५०|| दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम् | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

परिम्लायिनो विशिष्टलिङ्गमाह– परिम्लायिनीत्यादि| अत्र गदाधरस्तु “रक्तजं मण्डलं दृष्ट्यां स्थूलकाचानलप्रभम्|” इति पठित्वा एतदपि परिम्लायिलक्षणमाह, व्याचष्टे च– बाहुल्येन स्थूलकाचस्येव वर्णतः अनलस्येव प्रभा यस्य तत्तथेति, अनलप्रभत्वेन पीतं मण्डलं भवति; पीतं चेषन्नीलं बोद्धव्यं, “म्लायि नीलं च मण्डलम्” इत्यभिधानात्; तथा “पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च|” (सु. उ. तं. अ. ७) इत्युक्तम्; आनीलमीषन्नीलमित्यर्थः| म्लायीति म्लानमिति कार्तिकः| दोषक्षयादिति कर्मक्षयात्; सत्यपि दोषरूपत्वे दर्शनसद्भावात्| ननु, किं तर्हि दोषरूपं तादृशमेवावतिष्ठते उत क्षीणं वा? तत्र न तावदाद्यः पक्षः, दोषाणां कृतकार्याणां तथात्वे दर्शनस्यासङ्गतत्वात्; अथ द्वितीयस्तदा दोषस्यैव क्षयादित्यापतितं किमिति कर्मक्षयादिति स्वीक्रियते? नैवं, विना दोषप्रतीकारं दर्शनोदयाद्विकारस्वभावादिति कार्तिकः| अन्ये तु कालवशात् वातादिदोषस्यैव क्षयात् कदाचिद्दर्शनं स्यादित्याहुः, यतः कालादिजमपि विशेषं क्वचिल्लक्षणत्वेन पठत्येव, दोषशब्देन च कर्मणोऽभिधानमप्रसिद्धं; किंवा दोषक्षये एव कदाचित् कर्मक्षयो हेतुरिष्यतां, कर्मणश्च कदाचित् क्षयो वैचित्र्यात्| अथात्रैव कुत एवम्? उच्यते– अस्यैवंविधकर्मजन्यत्वादिति| गदाधरपाठे रक्तजमित्यत्र रक्तमित्युपलक्षणं, तेन रक्तपित्तजम्||५०||–

Adhikarana vAtikAdirAgANAmuddiShTAnAM lakShaNam (51-54) · Śloka 54

अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ||५१|| पित्तान्मण्डलमानीलं कांस्याभं पीतमेव च | श्लेष्मणा बहुलं पीतं शङ्खकुन्देन्दुपाण्डुरम् ||५२|| चलत्पद्मपलाशस्थः शुक्लो बिन्दुरिवाम्भसः | ( सङ्कुचत्यातपेऽत्यर्थः छायायां विस्तृतो भवेत्) | मृज्यमाने च नयने मण्डलं तद्विसर्पति ||५३|| प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् | दृष्टिरागो भवेच्चित्रो लिङ्गनाशे त्रिदोषजे | यथास्वं दोषलिङ्गानि सर्वेष्वेव भवन्ति हि ||५४|| (सु. उ. तं. अ. ७) | ( तथा नरः पित्तविदग्धदृष्टिः कफेन चान्यस्त्वथ धूमदर्शी | यो ह्रस्वजात्यो नकुलान्धता च गम्भीरसञ्ज्ञाच्च तथैव दृष्टिः) |

🔊 Audio coming soon

रागोऽरुणो मारुतज इत्यादि सूत्रं पूर्वोक्तं विवृणोति– अरुणं मण्डलं वातादित्यादि| पित्तान्मण्डलमानीलमिति आनीलमीषन्नीलं पीतमेव, तेन रक्तसम्बन्धे सति कांस्याभम्| पीतमेव चेति रससम्बन्धे पीतमेव, कांस्याभमापाण्डुपीतमित्यर्थः| केचिदत्र कफजे पठन्ति– “सङ्कुचत्यातपेऽत्यर्थं छायायां विस्तृतो भवेत्|” (सु. उ. तं. अ. ७) इति| शोणितजे प्रवालेत्यादौ प्रवालं स्वनामख्यातं तदाभं, पद्मपत्राभं च रक्तपद्मपुष्पदलाभम्| त्रिदोषजे चित्र इत्यत्र यथास्वं वातादिवर्णविभेदेन चित्रत्वं बोद्धव्यं, यथास्वमित्यस्य वक्ष्यमाणस्यात्रापि सम्बन्धात्; तेनायमर्थः– यथायथं वातादीनां वर्णभेदेन चित्रवर्णो भवति, उद्देशोक्तवर्णचित्रत्वे साक्षादेतादृशविवरणाभाव इति विशेषः| यथास्वं दोषलिङ्गानीत्यस्याभिधानं न्यायसिद्धस्यैवार्थस्य द्योतनार्थम्| दोषलिङ्गानि वातादीनां क्रमेणारुणादिलिङ्गान्युक्तेषु ज्ञातव्यानि||५१-५४||

Adhikarana dRuShTigatarogANAM sa~gkhyA (55) · Śloka 55

षड् लिङ्गनाशाः षडिमे च रोगा दृष्ट्याश्रयाः षट् च षडेव वाच्याः |५५| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

अतः परमुक्तवक्ष्यमाणविकारयोः सङ्ख्याभिधानार्थमाह– षडित्यादि| षड् लिङ्गनाशा इत्युक्तानुवादोऽयम्| षडिमे च रोगा इति पित्तविदग्धदृष्ट्यादयो वक्ष्यमाणाः| ननु, उक्तानुवादो युक्तः, वक्ष्यमाणानां पुनः किमर्थं सङ्ख्योक्तिः? नैवं, पित्तकफविदग्धदृष्ट्यवस्थान्तराभ्यां दिवान्धरात्र्यन्धाभ्यां सङ्ख्याधिक्यनिरासार्थम्, अत एव षडेवेत्यवधारणं कृतं, षट् च षडेव इति मिलित्वा द्वादश; अमुं च ग्रन्थं केचिदत्र सङ्ग्रहे न पठन्त्येव|५५|–

Adhikarana pittavidagdhadRuShTilakShaNam (55-56) · Śloka 56

पित्तेन दुष्टेन सदा तु दृष्टिः पीता भवेद्यस्य नरस्य किञ्चित् ||५५|| पीतानि रूपाणि च तेन पश्येत् स वै नरः पित्तविदग्धदृष्टिः | प्राप्ते तृतीयं पटलं तु दोषे दिवा न पश्येन्निशि चेक्षते सः ||५६|| रात्रौ च शीतानुगृहीतदृष्टिः पित्ताल्पभावादपि तानि पश्येत् | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

पित्तविदग्धदृष्टिलिङ्गमाह– पित्तेनेत्यादि| दृष्टिः पीता भवेदिति प्रथमद्वितीययोः पटलयोरिति गम्यते, यतः परतः “प्राप्ते तृतीयं पटलं” इत्यभिधास्यति| ननु, यद्येवं कथं तिमिरादस्याः पार्थक्यम्? उच्यते– तृतीयपटलप्राप्तिमन्तरेण वर्णासद्भावात्| एतच्च सति वर्णे पटलान्तरगतदोषलिङ्गाभावात् प्रत्येतव्यम्| अस्मिन्नेव व्यवस्थाने तादृक् स्वरूपो दोषः कथमन्यविकारं करोतीति नाशङ्कनीयम्, तज्जनककर्मणो भिन्नत्वेन सामग्रीभेदात्| अयं दिवान्धः, दिवा न पश्येदिति वचनात्| तानीति रूपाणि| दोषे पित्ते||५५-५६||–

Adhikarana shleShmavidagdhadRuShTilakShaNam (57-58) · Śloka 58

तथा नरः श्लेष्मविदग्धदृष्टिस्तान्येव शुक्लानि तु मन्यते सः ||५७|| त्रिषु स्थितोऽल्पः पटलेषु दोषो नक्तान्ध्यमापादयति प्रसह्य | दिवा स सूर्यानुगृहीतदृष्टिः पश्येत्तु रूपाणि कफाल्पभावात् ||५८|| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

श्लेष्मविदग्धदृष्टिलिङ्गमाह– तथा नरः श्लेष्मविदग्धदृष्टिरित्यादि| एतां च प्रथमद्वितीयपटलाश्रितः श्लेष्मा जनयति; परतः ‘त्रिषु’ इत्युक्तेः| तानीति रूपाणि| त्रिषु स्थितोऽल्प इत्यनेन दिवादर्शनं प्रत्यानुकूल्यं ख्याप्यते, यदि हि अनल्पदोषः स्यात्तदा दिवाऽपि दर्शनं न भवेदेव| दोषोऽत्र कफः, तस्यैव प्रक्रान्तत्वात्; अयं नक्तान्धः||५७-५८||

Adhikarana dhUmadarshIlakShaNam (59) · Śloka 59

शोकज्वरायासशिरोऽभितापैरभ्याहता यस्य नरस्य दृष्टिः | धूम्रांस्तथा पश्यति सर्वभावान् स धूमदर्शीति नरः प्रदिष्टः ||५९|| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

धूमदर्शिनो लिङ्गमाह– शोकज्वरायासेत्यादि| शोकादिभिः कारणैः कुपितेन पित्तेनाभ्याहता उपहता दृष्टिरिति प्रत्येतव्यम्, अस्य सुश्रुते रोगसङ्ग्रहे पैत्तिकगणेऽभिधानात्| अयं च रोगो बाह्यपटलस्थेन दोषेण जन्यत इति गदाधरः, तृतीयपटलाश्रितदोषेणेति कार्तिकः| दिवा धूमान् पश्यति, न तु नक्तं; तदा पित्तस्य क्षीणत्वादिति व्याख्यानयन्ति||५९||

Adhikarana hrasvajADyalakShaNam (60) · Śloka 60

यो ह्रस्वजाड्यो दिवसेषु कृच्छ्राद्ध्रस्वानि रूपाणि च तेन पश्येत् |६०| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

ह्रस्वजाड्यलक्षणमाह– यो ह्रस्वजाड्य इत्यादि| तेन ह्रस्वजाड्येन ह्रस्वानि रूपाणि दिवा यः पश्येत् स ह्रस्वजाड्य इति योजना| अत्र दोषो दृष्टिमध्यगतः| यदुक्तम्– “दृष्टिमध्यगते दोषे महद्ध्रस्वं च पश्यति|” इति| अयं पैत्तिकः|६०|–

Adhikarana nakulAndhyalakShaNam (60) · Śloka 60

विद्योतते यस्य नरस्य दृष्टिर्दोषाभिपन्ना नकुलस्य यद्वत् ||६०|| चित्राणि रूपाणि दिवा स पश्येत् स वै विकारो नकुलान्ध्यसञ्ज्ञः | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

नकुलान्ध्यसञ्ज्ञमाह– विद्योतते यस्येत्यादि| नकुलस्य यद्वत् व्यथा दृष्टिर्विद्योतते वर्णेन प्रतिभासते तथाऽस्येत्यर्थः| अतः सर्वदृष्टिमण्डलगतो रागः सर्वदोषवर्णश्च; दोषाभिपन्नेत्यत्र दोषशब्दस्याविशेषित्वादभिशब्दस्याभिव्याप्त्यर्थस्य प्रयोगात्| एतौ ह्रस्वजाड्यनकुलान्ध्यौ चतुःपटलस्थितदोषजन्यौ सरागौ न साध्यौ| तथाच विदेहः– “नक्तमन्धास्तु चत्वारो ये पुरस्तात् प्रकीर्तिताः| तेषामसाध्यो नकुलो ह्रस्वजाड्यस्तथैव च|| विशेषेण भवेयातां द्वौ चतुःपटलाश्रितौ| तौ च सम्प्राप्तरागत्वादसाध्यौ परिकीर्तितौ||” इति| एतौ च रात्र्यन्धौ प्रत्येतव्यौ, दिवा ह्रस्वचित्ररूपदर्शनाभिधानेन रात्रावदर्शनप्रतीतेः| विदेहेन तु नक्तान्ध्ये त्रित्वेऽपि चत्वार इत्युक्तं, नक्तान्ध्यबाहुल्येन दिवान्ध्येऽपि तत्प्रयोगात्; छत्रिणो गच्छन्तीतिवत्||६०||

Adhikarana gambhIrikAlakShaNam (61) · Śloka 61

दृष्टिर्विरूपा श्वसनोपसृष्टा सङ्कोचमभ्यन्तरतस्तु याति ||६१|| रुजावगाढा च तमक्षिरोगं गम्भीरिकेति प्रवदन्ति तज्ज्ञाः | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

गम्भीरिकालक्षणमाह– दृष्टिरित्यादि| विरूपा विकृता| श्वसनोपसृष्टा वातोपगता, सङ्कोचमभ्यन्तरतस्तु यातीति अन्तःसङ्कोचमेति निमज्जतीत्यर्थः; “ सङ्कुच्यतेऽभ्यन्तरतश्च याति” इति पाठान्तरेऽप्ययमेवार्थः, इयमविशेषोक्तिः| सकलपटलगतवातजन्या असाध्या, सुश्रुते गम्भीरिका तथेति निर्देशात्||६१||–

Adhikarana sanimittali~gganAsha-animittali~gganAshalakShaNam (62-64) · Śloka 64

बाह्यौ पुनर्द्वाविह सम्प्रदिष्टौ निमित्ततश्चाप्यनिमित्ततश्च ||६२|| निमित्ततस्तत्र शिरोऽभितापाज्ज्ञेयस्त्वभिष्यन्दनिदर्शनः सः | ( विदार्यते सीदति हीयते वा नृणामभिघातहृता च दृष्टिः) | सुरर्षिगन्धर्वमहोरगाणां सन्दर्शनेनापि च भास्करस्य ||६३|| हन्येत दृष्टिर्मनुजस्य यस्य स लिङ्गनाशस्त्वनिमित्तसञ्ज्ञः | तत्राक्षि विस्पृष्टमिवावभाति वैदूर्यवर्णा विमला च दृष्टिः ||६४|| (इति दृष्टिगताः) | (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

तदेवं शारीरान् द्वादश दृष्टिगतविकारानभिधाय सनिमित्तानिमित्तभेदादागन्तुबाह्यजौ नयनविकारौ (लिङ्गनाशौ) दर्शयन्नाह– बाह्यौ पुनर्द्वाविहेत्यादि| सम्प्रदिष्टौ कथितावौपद्रविकाध्याये “ तथा बाह्यौ पुनर्द्वौ” (सु. उ. तं. अ. १) इत्यादिना| बहिर्भवौ बाह्यौ, आगन्तू इत्यर्थः| तत्र सनिमित्तं दर्शयन्नाह– निमित्ततस्तत्रेत्यादि| शिरोऽभितापादिति शिरो अभि सर्वतस्तप्यते येन विषकुसुमगन्धवाहिपवनस्पर्शादिना स शिरोऽभितापस्तस्मात्; तेन समस्तशिरस उपतापान्नयनगतरुधिराधिककोपो दृष्टेरपि शक्तेर्व्याघातः| अभिष्यन्दनिदर्शन इति रक्ताभिष्यन्दलिङ्ग इति गदाधरः; सुश्रुते रोगसङ्ग्रहे सर्वजगणे द्वयोरप्येतयोः पाठात् सन्निपातजाभिष्यन्दलक्षण इति कार्तिकः| अनिमित्तमाह– सुरर्षिगन्धर्वेत्यादि| अनुपलभ्यमानविशिष्टसुरादिदर्शननिमित्तमाहुः| सन्दर्शनेन सम्यग्दर्शनेन, हन्येत हन्तुं सम्भाव्येत, न त्ववश्यं हन्येत इत्यभिप्रायः| (दृष्टिरिति दर्शनमुपलब्धिरित्यर्थः, न तु दृष्टिमण्डलम्, अस्यादृष्टिगतविकारत्वात्| लिङ्गनाशप्रयोगश्चात्र रूपग्रहणाभावसामान्यान्न तु रूढ्या, तस्य चतुर्थपटलस्थतिमिर एव रूढत्वात्|) तच्चेदं दर्शनं किमभिष्यन्दवत् सकलगोलकोपघातकं तिमिरत्वाद्दृष्टिमात्रोपघातकं वेति शङ्कानिरासार्थमाह– तत्राक्षीत्यादि| विस्पष्टमिवेति पूर्वावस्थातो विशेषेण प्रसन्नमिव गोलकावच्छिन्नं चक्षुरवभासते| दृष्टिरपि वैडूर्यवर्णा श्यावा दृष्टिः प्रकृतिवर्णेत्यर्थः| विमलेति विगतकाचादिमला| अयं तात्पर्यार्थः– पूर्वावस्थातः शक्तिमात्रमुपहन्यते, यतो देवादयो हि अवयवमदूषयन्त एव शक्तिमात्रमुपघ्नन्ति| यदुक्तं चरके– “देवादयोऽष्टौ हि महानुभावा न दूषयन्तः पुरुषस्य देहम्| विशन्त्यदृश्यास्तरसा यथैव छायातपौ दर्पणसूर्यकान्तौ||” (च. चि. अ. ९) इति| ( एतौ च बाह्यजौ दृष्ट्याधाननिरूपणीयतया दृष्टिगतावेव, अत एव तदधिकारनिर्दिष्टौ, शारीराभिप्रायेण द्वादशविधत्वमुक्तं, तेन न सङ्ख्यातिरेकः,) द्वावप्येतावसाध्यौ|| इति दृष्टिगताः||६२-६४||

Adhikarana prastAryarmalakShaNam (65) · Śloka 65

प्रस्तार्यर्म तनु स्तीर्णं श्यावं रक्तनिभं सिते |६५|

🔊 Audio coming soon

अथ मण्डलगतनिदानाभिधानपारिशेष्याद् दृष्टिगतानन्तरं शुक्लमण्डलवर्त्मपक्ष्ममण्डलगतानां निदानाभिधानावसरप्राप्तौ वर्त्मादिमण्डलप्रतियोगितया शुक्लमण्डलस्यान्तर्गतत्वात् सौकुमार्येणानन्तरं कृत्वा च निदानोद्देशारम्भः| तत्र प्रस्तारिशब्दाभिधानस्यार्मणो लक्षणमाह– प्रस्तारीत्यादि| प्रस्तारीति लक्ष्यं, शेषं लक्षणम्| तनु अबहलम्| स्तीर्णं विततम्| ( श्यावमीषन्नीलम्| रक्तनिभं रक्तवर्णम्| अत्र श्यावरक्तयोर्विरोधात् समुच्चयाभावेन विकल्पः| अत एवाह निमिः– “समन्ताद्विसृतः श्यावो रक्तो वा मांससञ्चयः| सन्निपातेन दोषाणां प्रस्तार्यर्म तदुच्यते||” इति| गदाधरण ईषन्नीललोहितवर्णसमुच्चय एव दर्शितः| सिते शुक्लभागे)|६५|–

Adhikarana shuklArmalakShaNam (65) · Śloka 65

सश्वेतं मृदु शुक्लार्म शुक्ले तद्वर्धते चिरात् ||६५||

🔊 Audio coming soon

शुक्लार्मलक्षणमाह– सश्वेतमित्यादि| सश्वेतं किञ्चिच्छ्वेतम्| मृदु कोमलम्| परतो वक्ष्यमाणं मांसमिति पदं सिंहावलोकनन्यायेन सम्बन्धनीयम्| सशब्दस्याधिकस्योपादानं सम्यक् श्वेतत्वप्रतिपादनार्थमिति कार्तिकः| शुक्ले शुक्लमण्डले| चिरात् चिरकालेन तद्वर्धते, कफजत्वात्||६५||

Adhikarana raktArmalakShaNam (66) · Śloka 66

पद्माभं मृदु रक्तार्म यन्मांसं चीयते सिते |६६|

🔊 Audio coming soon

रक्तार्मलक्षणमाह– पद्माभमित्यादि| पद्माभमरुणपद्मपत्रनिभम्| मृदु कोमलं, सिते शुक्लमण्डले| चीयते वृद्धिमुपैति| एतद्रक्तजम्|६६|–

Adhikarana adhimAMsArmalakShaNam (66) · Śloka 66

पृथु मृद्वधिमांसार्म बहुलं च यकृन्निभम् |६६|

🔊 Audio coming soon

अधिमांसार्मलक्षणमाह– पृथ्वित्यादि| पृथु विततं, विस्तीर्णमित्यर्थः| बहुलं स्थूलम्| लोहितत्वेन यकृन्निभं, श्याववर्णसम्बन्धोऽप्यत्र ज्ञेयः; यथाऽऽह सुश्रुतः– “विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्|” (सु. उ. तं. अ. ४) इति| अत्र श्यावं वेति वाशब्दः समुच्चये, तेन श्यावं लोहितं चेत्यर्थः| एतच्च त्रिदोषजं, सुश्रुते त्रिदोषजप्रकरणे पठितत्वात्|६६|–

Adhikarana snAyvarmalakShaNam (66) · Śloka 66

स्थिरं प्रस्तारि मांसाढ्यं शुक्लं स्नाय्वर्म पञ्चमम् ||६६||

🔊 Audio coming soon

स्नाय्वर्मलक्षणमाह– स्थिरमित्यादि| स्थिरं कठिनम्| मांसाढ्यं बहुमांसम्| शुष्कमविस्रावि| इदं च प्रस्तार्यर्मोद्भवम्| तथा च निमिः– “प्रस्तारिणोऽर्मणः स्रावं निरुणद्धि यदाऽनिलः| विना स्रावं विशुष्कं तत् स्नाय्वर्मेति प्रकीर्तितम्||” इति| इदं तु सन्निपातजमपि साध्यम्||६६||

Adhikarana shuktikAlakShaNam (67) · Śloka 67

श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनियताः स शुक्तिसञ्ज्ञः |६७| (सु. उ. तं. अ. ७) |

🔊 Audio coming soon

शुक्तिकालक्षणमाह– श्यावा इत्यादि| श्यावाः पाण्डुश्यामाः, पिशितनिभा इति नियमेन भणिताः, ( तेन पिशितस्येव नियमेन भा दीप्तिर्येषां ते तथा, सा च प्रभा श्यावा इति समभिव्याहारेण श्याववर्णैव; नत्वत्र मांसस्योपमानत्वं पिशितनिभशब्दोऽभिधत्ते, वक्ष्यमाणार्जुने रुधिरोपमशब्दवत्, मांसात्मकत्वादेव शुक्तिकायाः)| सितनियता इति सिते शुक्लमण्डले नियताः; शुक्त्याभा जलशुक्तिनिभाः, वर्णसाम्यात्; अत एव शुक्तिसञ्ज्ञः| अयं पित्तजः| अत्र वाग्भटः “पित्तं कुर्यात् सिते बिन्दूनसितश्यावपीतकान्| मलाक्तादर्शतुल्यं वा सर्वं शुक्लं सदाहरुक्|| रोगोऽयं शुक्तिकासञ्ज्ञः सशकृद्भेदतृड्ज्वरः||” (वा. उ. तं. अ. १) इति|६७|–

Adhikarana arjunalakShaNam (67) · Śloka 67

एको यः शशरुधिरोपमश्च बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति ||६७|| (सु. उ. तं. अ. ४) |

🔊 Audio coming soon

अर्जुनलक्षणमाह– एक इत्यादि| एक एव सन् यः शशरुधिरवल्लोहितो बिन्दुरूपश्च विकारस्तमर्जुनं वदन्तीत्यर्थः| उक्तं च कल्याणविनिश्चय– “शक्रगोपनिभं शुक्लेऽर्जुनं रक्तप्रकोपतः|” इति| एतेन बिन्दुरूपत्वे नियमो नास्तीति ज्ञेयम्| अत एव रविगुप्त– “कृष्णभागे सितं बिन्दुं शुक्लं विद्यात् कफात्मकम्| रक्तं च शुक्लभागस्थमर्जुनं शोणितोद्भवम्||” इति||६७||

Adhikarana piShTakalakShaNam (68) · Śloka 68

श्लेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम् | पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसन्निभम् ||६८||

🔊 Audio coming soon

पिष्टकलक्षणमाह– श्लेष्ममारुतकोपेनेत्यादि| पिष्टमिति लक्षणपदम्| पिष्टवदिति आलेपनपिष्टतुल्यं श्वेतत्वेन| पुनः पिष्टकमिति लक्ष्यपदम्| समुन्नतमुच्छूनम्| मलाक्तादर्शसन्निभमिति धूल्यादिम्रक्षितदर्पणतुल्यम्| अयं कफवातजः, अतः कफेनाच्छतया, वातेन किञ्चित् श्यावतया मलाक्तदर्पणनिभत्वमस्येत्यर्थः||६८||

Adhikarana sirAjAlalakShaNam (69) · Śloka 69

जालाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इह जालसञ्ज्ञितस्तु |६९| (सु. उ. तं. अ. ४) |

🔊 Audio coming soon

सिराजाललक्षणमाह– जालाभ इत्यादि| अनुलोमविलोमसिरानिचयरचितनिरन्तरविवरगवाक्षिभावात् जालस्येव आभा आकृतिर्यस्य स तथा| कठिनसिर इत्यनेन सिराणामेव सन्तानोऽयं विकार इति दर्शयति| सरक्त ईषल्लोहितः| सन्तनोति आच्छादयतीति सन्तानः, बहुलवचनात् कर्तरि घञ्| अत्र बिन्दुशब्दोऽनुवर्तनीयः, स सर्वत्र विशेष्यः| जालसञ्ज्ञित इत्यत्र ‘ सिरापूर्व’ इति शेषः, तेन सिराजालसञ्ज्ञित इत्यर्थः| अयं च रक्तजः|६९|–

Adhikarana sirAjapiDakAlakShaNam (69) · Śloka 69

शुक्लस्थाः सितपिडकाः सिरावृता यास्ता ब्रूयादसितसमीपजाः सिराजाः |६९| (सु. उ. तं. अ. ४) |

🔊 Audio coming soon

सिराजपिडकालक्षणमाह– शुक्लस्था इत्यादि| सितपिडका इति सितवर्णाः पिडकाः| सिरावृताः सिराव्याप्ताः| असितसमीपजा इति कृष्णभागाभ्यर्णशुक्लजाः| सिरापरिवृतत्वात् सिराजाः, नतु साक्षात् सिराजाता इति गदाधरः| अयं च त्रिदोषजः, त्रिदोषजसाध्यप्रकरणे सुश्रुतेन पठितत्वात्|६९|–

Adhikarana balAsagrathitalakShaNam (69) · Śloka 69

कांस्याभोऽमृदुरथ वारिबिन्दुकल्पो विज्ञेयो नयनसिते बलाससञ्ज्ञः ||६९|| (इति शुक्लजाः) | (सु. उ. तं. अ. ४) |

🔊 Audio coming soon

बलासग्रथितलक्षणमाह– कांस्याभ इत्यादि| कांस्यस्येवाभा दीप्तिर्यस्य स तथा सित इत्यर्थः, वारिबिन्दुरिवोच्छूनत्वात्| अमृदुः कठिनः, कफानिलजत्वात्| तथा च विदेहः– “मारुतोत्पीडितः श्लेष्मा शुक्लभागे व्यवस्थितः| जलबिन्दुरिवोच्छूनो ह्यमृदुः कफसम्भवः|| बलासग्रथितं नाम तं शोथं वृत्तमादिशेत्|” इति| ( ‘कोषाभ’ इति कश्चित् पठति, कोषो मांसकुड्मलः, तदाभस्तदाकारः; एतावताऽत्यर्थमुच्छूनत्वं प्रतिपाद्यते, वारिबिन्दुकल्प इति च ईषदुच्छूनताऽपि, नयनसिते शुक्लभागे इत्यर्थः|) बलाससञ्ज्ञ इत्यत्र ग्रथितशब्दलोपः, तेन बलासग्रथित इति सञ्ज्ञा| अत्र सिरोत्पातसिराहर्षौ वाग्भटेन पठितौ| तथा हि– “रक्तराजीनिभं शुक्ले उष्यतेऽपि सवेदनम्| अशोथाश्रूपदेहं च शिरोत्पातः सशोणितम्| उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन्| कुर्यात् सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम्||” (वा. उ. अ. १०) इति|| इति शुक्लजाः||६९||

Adhikarana pUyAlasalakShaNam (70) · Śloka 70

पक्वः शोथः सन्धिजो यः सतोदः स्रवेत् पूयं पूति पूयालसाख्यः |७०| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

अथ मण्डलगतनिदानाभिधानपारिशेष्याद्वर्त्ममण्डलगतनिदानाभिधाने प्राप्ते कनीनिकासन्ध्यादीनां वर्त्ममण्डलाभियोगितयाऽन्तर्गतत्वेनान्तरङ्गत्वात् सन्धिगतनिदानोद्देशारम्भः| ते च सन्धयः षट्| यदाह सुश्रुतः– “पक्ष्मवर्त्मगतः सन्धिर्वर्त्मशुक्लगतोऽपरः| शुक्लकृष्णगतस्त्वन्यः कृष्णदृष्टिगतस्तथा|| कनीनिकागतो ज्ञेयः षष्ठश्चापाङ्गगः स्मृतः|” (सु. उ. तं. अ. १) इति| नासासमीपनेत्रान्तः कनीनिका; चक्षुःपुच्छस्याधो नेत्रान्तोऽपाङ्गः| तत्र पूयालसलक्षणमाह– पक्व इत्यादि| सन्धिज इति कनीनिकासन्धिजः| यदाह विदेहः– “शोथक्लेदसमाविष्टं तोदभेदसमाकुलम्| पूयालसं तु तं विद्यात् सन्धौ कानीनिके नृणाम्||” इति| अयं त्रिदोषजः, सुश्रुतेन साध्यत्रिदोषजप्रकरणे पठितत्वात्|७०|–

Adhikarana shleShmopanAhalakShaNam (70) · Śloka 70

ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकी कण्डूप्रायो नीरुजस्तूपनाहः ||७०|| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

श्लेष्मोपनाहलक्षणमाह– ग्रन्थिरित्यादि| नाल्प इति महान्| अपाकी ईषत्पाकः; अत एव सुश्रुतेऽल्पस्रावः पठितः| दृष्टिसन्धाविति कृष्णदृष्टिमण्डलयोः सन्धावित्यर्थः| कण्डूप्रायः कफप्राबल्यात्| नीरुजोऽल्परुज इत्यर्थः| तथाच विदेहः– “वायुः श्लेष्माणमादाय दृष्टिसन्धौ व्यवस्थितः| अरुणं कठिनं ग्रन्थिं जनयेदल्पवेदनम्|| श्लेष्मोपनाहं तं विद्यात् स्रावान् वक्ष्याम्यतः परम्|” इति| वातश्लेष्मजन्यत्वेऽपि श्लेष्मप्राबल्यात् श्लेष्मोपनाहव्यपदेशः| आश्रयप्रभावादरुणत्वमत्र||७०||

Adhikarana netrasrAvasamprAptiH (71) · Śloka 71

गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् लक्षणैः स्वैरुपेतान् | तं हि स्रावं नेत्रनाडीति चैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ||७१|| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

चतुर्णां स्रावाणां सम्प्राप्तिमाह– गत्वा सन्धीनित्यादि| सन्धीनिति बहुवचननिर्देशात् सर्वनेत्रान्तर्गताश्चत्वारः सन्धयो गृह्यन्ते| अश्रुमार्गेणेति अश्रुवाहिन्यौ धमन्यौ अश्रुमार्गः, “द्वे चाश्रुवाहिन्यौ” (सु. शा. अ. ९) इति सुश्रुतः; अश्रुवहधमनीभ्यामित्यर्थः| ननु, यद्यश्रुवहधमनीभ्यां गत्वा दोषाः स्रावानापादयन्ति, तत् कथं “ सिरानुसारिभिर्दोषैः” इत्याद्युक्ता सम्प्राप्तिर्न व्याहन्यते, सिराधमन्योरन्यत्वात्| उच्यते– सामान्यविशेषत्वात् सम्प्राप्त्यभिधानद्वयस्य; पूर्वा सम्प्राप्तिः सामान्यम्, इतरा च विशेष इति न विरोधः| अथवा “ सिराधमनीस्रोतसामविभागः” (सु. शा. अ. ९) इति परकीयमतेन सिराधमन्योरैक्यादविरोधः| अस्मिन्नर्थे सम्प्राप्त्युक्त एवार्थो निष्पन्नीक्रियते| नेत्रनाडीति चैक इति ‘वदन्ति’ इति शेषः, अनिषेधादनुमतमिदम्| ( दोषाः सन्निपातश्लेष्मरक्तपित्तात्मकाः| लक्षणैर्दोषलक्षणैः| उपेतान् परीतानिति| गदाधरण ‘लक्षणैः’ इत्यस्य स्थाने ‘सर्वतः’ इति पठितं; दोषाः परीतान् स्वलक्षणैरित्यर्थविशेषादधिगन्तव्यम्| चतुर्धेति सान्निपातिककफजरक्तजपित्तजत्वभेदात्| वातजस्तु स्रावो नास्त्येव, व्याधिस्वभावात्; पित्तजगलगण्डवत्)||७१||

Adhikarana pUyasrAvalakShaNam (72) · Śloka 72

पाकात् सन्धौ संस्रवेद्यस्तु पूयं पूयास्रावोऽसौ गदः सर्वजस्तु |७२| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

चतुर्विधस्रावमध्ये पूयास्रावलक्षणमाह– पाकादित्यादि| सर्वजस्त्रिदोषज इत्यर्थः| अस्य प्रत्याख्येयत्वादग्रेऽभिधानं, यद्यप्यन्येऽपि स्रावा असाध्यत्वेनोक्तास्तथाऽपि याप्या बोद्धव्याः| ‘पाकः’ इति पाठे पाकः संस्रवेत् पाकवान् शोथः स्रवेदित्यर्थः, उपचारात्; पाकस्य क्रियामात्रत्वात्|७२|–

Adhikarana shleShmasrAvalakShaNam (72) · Śloka 72

श्वेतं सान्द्रं पिच्छिलं यः स्रवेत्तु श्लेष्मास्रावोऽसौ विकारो मतस्तु ||७२|| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

श्लेष्मस्रावलक्षणमाह– श्वेतमित्यादि| सान्द्रं घनम्||७२||

Adhikarana raktasrAvalakShaNam (73) · Śloka 73

रक्तस्रावः शोणितोत्थो विकारः स्रवेद्दुष्टं तत्र रक्तं प्रभूतम् |७३| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

रक्तस्रावलक्षणमाह– रक्तस्राव इत्यादि| रक्तकृतस्रावो रक्तस्रावः ( रक्तस्राव इत्यनेनैव स्रवेदित्यस्य लब्धत्वात्तदुक्तिर्निरन्तरस्रावप्रतिपादनार्थमिति कार्तिकः; न चैतत् प्रभूतमित्यनेन गतार्थम्, अनिरन्तरतयाऽपि प्रभूतस्रावसम्भवात्)| रक्तस्राव इत्यनेनैव रक्तजत्वे सिद्धे शोणितजो विकार इति यदुच्यते तदत्यन्तकुपितरक्तजत्वप्रतिपादनार्थम्| कार्तिकस्त्वाह– पित्तलिङ्गपरिग्रहार्थं, पित्तेन सह तुल्यत्वात् रक्तस्य| तथाच क्वचित् पाठः “रक्तस्रावः पित्तलिङ्गैरुपेतः” इति|७३|–

Adhikarana pittasrAvalakShaNam (73) · Śloka 73

हरिद्राभं पीतमुष्णं जलाभं पित्तात् स्रावः संस्रवेत् सन्धिमध्यात् ||७३|| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

जलस्रावपर्यायस्य पित्तस्रावस्य लक्षणमाह– हरिद्राभमित्यादि| हरिद्राभं पीतलोहितं बोद्धव्यं, परतः पीतमित्यस्योक्तेः ( जलाभमिति जलवत् स्वच्छम्| उष्णमिति सर्वत्रैव सम्बध्यते| केचित् ‘पीतम्’ इत्यस्य स्थाने ‘नीलम्’ इति पठन्ति| यत्तु ‘जलाभम्’ इत्यस्य स्थाने ‘जलं वा’ इति, तदसङ्गतं, सुश्रुतेनोद्देशावसरे जलस्रावनामतयाऽस्योद्देशात्; तद्धि नाम जलवदास्रावोऽस्येति योगतः समावेशितम्| यदा तु ‘जलं वा’ इति पाठः स्यात्तदा कदाचिज्जलाभता स्यादिति न सर्वत्र योगव्याप्तिरिति)| सन्धिमध्यादिति अविशेषोक्तेः सर्वसन्धिमध्यादिति बोद्धव्यम्| ननु, वातजस्रावः कुतो नोक्तः, वातेन स्रावाभावादिति चेत्; नैवं, वाताभिष्यन्दे ‘शिशिराश्रुता’ इत्युक्तेर्वातजोऽपि स्रावो दर्शितः| उच्यते– विशिष्टे अक्षिप्रदेशे केवलवायोः स्रावजनकत्वं सम्बन्धितव्यमभिधानात्| विदेहेऽपि चत्वार एवोक्ताः– “सन्निपातात् कफाद्रक्तात् पित्तात् स्रावोऽक्षिसन्धिषु|” इति||७३||

Adhikarana parvaNIlakShaNam (74) · Śloka 74

ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोथा | जाता सन्धौ कृष्णशुक्ले... |७४| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

तदेवमसाध्यानां चतुर्णां स्रावाणां लक्षणमभिधाय पर्वणीलक्षणमाह– ताम्रेत्यारभ्य कृष्णशुक्ल इत्यन्तेन| इयं रक्तजा कफानिलजा च, रक्तजत्वमत्र सुश्रुते दर्शितमाधिक्येन|७४|–

Adhikarana alajIlakShaNam (74) · Śloka 74

...ऽलजी स्यात् तस्मिन्नेव ख्यापिता पूर्वलिङ्गै ||७४|| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

अलजीलक्षणमाह– अलजी स्यादित्यादि| तस्मिन्नेवेति शुक्लकृष्णसन्धौ, पूर्वलिङ्गैः पर्वणीलक्षणैरुपेतेत्यर्थः| ननु, एवं सति स्थानलक्षणयोरभेदेनानयोरभेदः स्यादिति चेत्; नैवं, तनुत्वस्थूलत्वाभ्यां पर्वणिकालज्योर्भेदात्| तथाच विदेहः– “शुक्लकृष्णान्तःसन्धौ तु चीयन्तेऽसृक्कफानिलाः| पर्वणीपिडका तैस्तु जायते त्वङ्कुरोपमा|| ताम्रा सदाहचोषोष्णपीतकाश्रुसमाकुला| कफपित्ते तु सम्मूर्छ्य सह रक्तेन मारुतः|| शुक्लकृष्णान्तःसन्धौ तु जनयेद्गोस्तनाकृतिम्| पिडकामलजीं तां तु विद्धि तोदाश्रुसङ्कुलाम्||” इति| कार्तिकस्त्वभेदानुपपत्तिं शङ्कमानः पूर्वलिङ्गैरित्यन्यथा व्याचष्टे– पूर्वोक्तायाः प्रमेहपिडकाया अलज्या लिङ्गैरित्यर्थः| इयं त्रिदोषजा, असाध्या च||७४||

Adhikarana krimigranthilakShaNam (75) · Śloka 75

क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः | नानारूपा वर्त्मशुक्लान्तसन्धौ चरन्त्यन्तर्लोचनं दूषयन्तः ||७५|| (इति सन्धिगताः) | (सु. उ. तं. अ. २) |

🔊 Audio coming soon

क्रिमिग्रन्थिलक्षणमाह– क्रिमिग्रन्थिरित्यादि| ( प्रथमं वर्त्मशुक्लयोः सन्धौ भूत्वा क्रमेण वर्त्मनः पक्ष्मणश्च सन्धिजाताः सम्भावितं प्राप्ताः क्रिमयो यत्र कण्डूं कुर्युः स क्रिमिग्रन्थिः| स चायं क्रिमिग्रन्थिर्वर्त्मशुक्लयोः सन्धौ भवति, तथैव स्थित्वा अन्तर्लोचनं नयनस्याभ्यन्तरं चरन्ति भक्षयन्ति, दूषयन्तः सन्त इत्यर्थः| अत्रैव विदेहः– “वर्त्मशुक्लस्य सन्धौ तु ग्रन्थिः पित्तकफात्मकः| ऊष्मणा पच्यते गाढं तत्र मूर्छन्ति जन्तवः|| सुसूक्ष्मजातचरणा वर्त्मपक्ष्मसमाश्रयाः| ततस्ते पूयसंसृष्टाः पतन्ति क्रिमयस्तथा|| लक्षणैर्विविधैर्युक्ताः सन्निपातसमुत्थिताः| क्रिमिग्रन्थिं तु तं विद्याद्देहिनां नेत्रदूषणम्||” इति| कार्तिकस्त्वन्यथा पठित्वा व्याचष्टे– ) “वर्त्मनः पक्ष्मणश्चापि कण्डूं कुर्युः” इत्यभिधानात् क्रिमिग्रन्थिः पक्ष्मवर्त्मसन्धौ भवतीति गम्यते, कथमन्यथाऽन्यत्रावस्थितैः क्रिमिभिरन्यत्र कण्डूर्जन्यते इति| एतच्च न सम्यक्, वर्त्मशुक्लान्तःसन्धाविति विरोधप्रसङ्गात्|| इति सन्धिगताः||७५||

Adhikarana utsa~ggapiDakAlakShaNam (76) · Śloka 76

अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या | सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ||७६|| (सु. उ. तं. अ. २) |

🔊 Audio coming soon

अथ सन्धिगतरोगाभिधानानन्तरं पारिशेष्यात् वर्त्मशुक्लान्तःसन्धावित्यत्र वर्त्मनिर्देशेन तद्गतरोगनिदानारम्भः| नयनगोलकावरकं निमेषोन्मेषाश्रयं पटलद्वयं वर्त्म उच्यते| सुश्रुते प्रथमोद्दिष्टत्वेन उत्सङ्गपिडकालक्षणमाह– अभ्यन्तरमुखीत्यादि| वर्त्मन एवाभ्यन्तरे मुखं यस्याः सा तथा| (ननु, कथं बाह्यत इति? उच्यते– वास्तूत्सेधेन बहिरप्युन्नततया दर्शनाद्बाह्यत्वं, न तु बाह्यमुखत्वेन)| बाह्यत इति सप्तम्यर्थे तसिल्, एवं वर्त्मन इत्यत्रापि| इयं विदेहसंवादादधरवर्त्मान्तर्जाता बोध्या| ताम्रा ताम्रवर्णा| सोत्सङ्गा सा उत्सङ्गा उत्सङ्गिनी, अर्शआदित्वादच्| उत्सङ्गपिडकेति उत्सङ्गे क्रोडे बह्व्यः पिडका यस्याः सा| ( अन्ये तु सोत्सङ्गा क्रोडीकृतपूया| ‘उत्सङ्गपिडका’ इति नामेयम्| तत्रापि कुक्कुटाण्डरसपूयता चकाराद्बोद्धव्या) स्थूलकण्डुरेति स्थूला चासौ कण्डुरा चेति कर्मधारयः, कण्डुरा कण्डुमती, दोषाणां कफप्राबल्यात्| चकारेणात्र विदेहक्तकाठिन्यादि सङ्गृहीतम्| तथाच विदेहः– “वर्त्मोत्सङ्गेऽधरे जन्तोः सन्निपातात् प्रजायते| अभ्यन्तरमुखी स्थूला बाह्यतश्चापि दृश्यते|| पिडका पिडकाभिश्च चिताऽन्याभिः समन्ततः| उत्सङ्गपिडका नाम कठिना मन्दवेदना|| सा प्रभिन्ना स्रवेत् स्रावं कुक्कुटाण्डरसोपमम्|” इति| सर्वजेति सन्निपातभवा||७६||

Adhikarana kumbhIkAlakShaNam (77) · Śloka 77

वर्त्मान्ते पिडका ध्माता भिद्यन्ते च स्रवन्ति च | कुम्भीकाबीजप्रतिमाः कुम्भीकाः सन्निपातजाः ||७७|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

कुम्भीकालक्षणमाह– वर्त्मान्त इत्यादि| पिडका इति बहुवचननिर्देशाद्बह्व्यः| भिद्यन्ते विदीर्यन्ते तथा स्रवन्ति च| ध्माता इति भिद्यमानाः स्वयमेव पूर्णोदरा भवन्तीति ध्माताः| कुम्भीकाबीजप्रतिमा इति कुम्भीका कच्छदेशोद्भवा दाडिमफलाकारफला लता, तद्बीजेन प्रतिमा यासां ता इत्यर्थः; अन्ये ‘कुम्भीकबीजसदृशा’ इति पठन्ति, तत्र कुम्भीकः कुम्भाडुलता, तद्बीजमपि दाडिमफलबीजाकारं; तत्सदृशाः पिडका उच्यन्ते| कुम्भीशब्दात् ‘इवे प्रतिकृतौ’ इति कन्| एषा त्रिदोषजा असाध्या च||७७||

Adhikarana pothakIlakShaNam (78) · Śloka 78

स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः | रुजावत्यश्च पिडकाः पोथक्य इति कीर्तिताः ||७८|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

पोथकीनां लक्षणमाह– स्राविण्य इत्यादि| स्राविण्यो बहुस्रावाः| गुर्व्य इति गौरवयुताः| रुजावत्य इति रक्तसम्बन्धात्, कफजा अपि वेदनान्विताः||७८||

Adhikarana vartmasharkarAlakShaNam (79) · Śloka 79

पिडका या खरा स्थूला सूक्ष्माभिरभिसंवृता | वर्त्मस्था शर्करा नाम स रोगो वर्त्मदूषकः ||७९|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

वर्त्मशर्करालक्षणमाह– पिडका येत्यादि| खरा खरस्पर्शा| सूक्ष्माभिरभिसंवृतेति सूक्ष्माभिः प्रकरणात् पिडकाभिर्वेष्टिता| अत्रैव विदेहः– “सुसूक्ष्मपिडकाकीर्णा या स्थूला पिडका खरा| जायते सन्निपातात्तु वर्त्मशर्करिकेति सा||” इति||७९||

Adhikarana arshovartmalakShaNam (80) · Śloka 80

एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः | श्लक्ष्णाः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते ||८०|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

अर्शोवर्त्मलक्षणमाह– एर्वारुबीजेत्यादि| एर्वारुः ग्रीष्मकर्कटी| श्लक्ष्णा अकर्कशा| वर्त्मस्था इत्यविशेषिताभिधानादन्तर्बहिश्च वर्त्मनो भवतीति गम्यते| इयं सन्निपातजा| तथाच निमिः– “नीरुजा कठिना वर्त्मपक्ष्मान्तर्बाह्यतोऽपि वा| पिडका सन्निपातेन तदर्शोवर्त्म निर्दिशेत्||” इति||८०||

Adhikarana shuShkArsholakShaNam (81) · Śloka 81

दीर्घाङ्कुरः खरः स्तब्धो दारुणोऽभ्यन्तरोद्भवः | व्याधिरेषोऽभिविख्यातः शुष्कार्शो नाम नामतः ||८१|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

शुष्कार्शोलक्षणमाह– दीर्घाङ्कुर इत्यादि| खरः कर्कशः| स्तब्धः कठिनः, शुष्कत्वात्| दारुणः बहुदुःखदत्वात्| अभ्यन्तरोद्भव इति वर्त्माभ्यन्तरस्थितः| अभिविख्यातः कथितः| नामतः प्रसिद्धितः| सन्निपातजमिदम्| अत्र विदेहः– “वर्त्माभ्यन्तर्गतं त्वर्शः शुष्कं स्थूलं च दारुणम्| जायते सन्निपातेन तच्छुष्कार्शः प्रकीर्तितम्||” इति||८१||

Adhikarana a~jjananAmikAlakShaNam (82) · Śloka 82

दाहतोदवती ताम्रा पिडका वर्त्मसम्भवा | मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽञ्जननामिका ||८२|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

अञ्जननामिकालक्षणमाह– दाहतोदवतीत्यादि| इयं रक्तजा||८२||

Adhikarana bahulavartmalakShaNam (83) · Śloka 83

वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः | सवर्णाभिः स्थिराभिश्च विद्याद्बहुलवर्त्म तत् ||८३|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

बहुलवर्त्मलक्षणमाह– वर्त्मोपचीयत इत्यादि| सवर्णाभिस्त्वक्समानवर्णाभिः| एतत् सन्निपातादेव||८३||

Adhikarana vartmabandhakalakShaNam (84) · Śloka 84

कण्डूमताऽल्पतोदेन वर्त्मशोथेन यो नरः | न स सञ्च्छादयेदक्षि यत्रासौ वर्त्मबन्धकः ||८४|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

वर्त्मबन्धकलक्षणमाह– कण्डूमतेत्यादि| वर्त्मशोथेनोपलक्षितो नरः स चक्षुर्न सञ्च्छादयेत् सम्यक् छादयितुं न शक्नुयादित्यर्थः| एष सन्निपातजः||८४||

Adhikarana kliShTavartmalakShaNam (85) · Śloka 85

मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च | अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्मेति तद्विदुः ||८५|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

क्लिष्टवर्त्मलक्षणमाह– मृद्वल्पवेदनमित्यादि| रक्तजत्वेऽप्यस्याल्पवेदनत्वमधिककफदूषितत्वाद्रक्तस्य| वर्त्मेति विदेहदर्शनाद्वर्त्मद्वयं ग्राह्यम्, अत एव समं युगपदेवेत्यर्थः| अकस्मादित्यहेतोरनियमेनैवेत्यर्थः| ताम्रमित्यनेनोपात्तेऽपि लौहित्ये रक्तमित्युपादानं हेत्वनियमप्रयुक्तं कादाचित्कं लौहित्यमिति द्योतयति| अत्रैव विदेहः– “ श्लेष्मरक्तेन दुष्टेन क्लिष्टं मांसमिवोभयम्| बन्धुजीवनिभं वर्त्म क्लिष्टवर्त्म तदुच्यते||” इति| अन्ये सममनुच्छूनं यावदित्याचक्षते| अत्र पक्षे क्लिष्टत्वं वेदनातियोगादवगन्तव्यम्||८५||

Adhikarana vartmakardamalakShaNam (86) · Śloka 86

क्लिष्टं पुनः पित्तयुतं शोणितं विदहेद्यदा | ततः क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः ||८६|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

वर्त्मकर्दमलक्षणमाह– क्लिष्टं पुनरित्यादि| ( क्लिष्टमिति प्रागुक्तस्य कर्तृत्वेनायमर्थः– क्लिष्टं क्लिष्टवर्त्मैव यदा पित्तलाभ्यासादधिकपित्तं सच्छोणितं विदहेद्विरुद्धदाहेन संयोजयेत्तदा क्लिष्टत्वमापादयति, सङ्क्लेदत्वमापन्नं वर्त्म वर्त्मकर्दम उच्यत इति योज्यम्|) “ततः कृष्णत्वमापन्नम्” इत्यन्ये पठन्ति| तत्र कृष्णत्वं शोणितविदाहेनैव| एवं च सति कृष्णत्वेन कर्दमसञ्ज्ञासमावेशोऽपि घटत इति| कार्तिकस्त्वन्यथा व्याचष्टे– शोणितमिति कर्तृपदं, तेन शोणितं पित्तयुक्तं कर्तृभूतं, यदा पूर्वोक्तं क्लिष्टमेव विदहेदित्यादि सर्वमपरं समानं पूर्वेण| अस्य तु सुश्रुते यत् सान्निपातिकत्वमुक्तं तत् कफपित्तरक्तारब्धत्वात्; वातकरणत्वस्याश्रुतेः||८६||

Adhikarana shyAvavartmalakShaNam (87) · Śloka 87

यद्वर्त्म बाह्यतोऽन्तश्च श्यावं शूलं सवेदनम् | तदाहुः श्याववर्त्मेति वर्त्मरोगविशारदाः ||८७|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

श्याववर्त्मलक्षणमाह– यद्वर्त्म बाह्यत इत्यादि| बहिरन्तश्च श्यावत्वं वातकृतम्| अत्रैव शूलं च जायत इत्यस्यान्ते “सवेदनं सकण्डु च ह्यल्पक्लेदि त्रिदोषजम्|” इत्यपि केचित् पठन्ति, तदप्युपपन्नं; कफात् कण्डूः, अल्पक्लेदि पित्तात्, सवेदनं वातात्| अत्रैव विदेहः– “दुष्टं श्लेष्मा मरुत् पित्तं वर्त्मनोश्चीयते यदा| अग्निदग्धनिभं श्यावं श्याववर्त्मेति तद्विदुः||” इति| अत्र वाताधिकत्वं बोद्धव्यम्||८७||

Adhikarana praklinnavartmalakShaNam (88) · Śloka 88

अरुजं बाह्यतः शूनं वर्त्म यस्य नरस्य हि | प्रक्लिन्नवर्त्म तद्विद्यात् क्लिन्नमत्यर्थमन्ततः ||८८|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

प्रक्लिन्नवर्त्मलक्षणमाह– अरुजमित्यादि| अरुजमल्परुजम्| बाह्यतः शूनमिति बहिः शोथयुक्तम्| क्लिन्नमत्यर्थमन्तत इति अन्तत उपान्ते क्लेदवत्| गदाधरस्तु क्लिन्नमन्तरिति विवृणोति| एतच्च चक्षुष्यण पिल्लाख्यया पठितम्| तथा हि– “भृशं प्रक्लिद्यते वर्त्म कण्डूमन्मन्दवेदनम्| विद्यात् प्रक्लिन्नवर्त्मेति तत् पिल्लं सन्निपातजम्||” इति| यद्येवं कथं विदेहेऽक्लिन्नवर्त्म पिल्लाख्यया निर्दिश्यते?; यथा– “प्रक्षालितेऽथवा मृष्टे आनह्येत पुनः पुनः| अपरिक्लिन्नवर्त्मेति तत् पिल्लमिति निर्दिशेत्|” इति| तदेवं चक्षुष्येणाभिधानं विरुध्यते| किञ्च सुश्रुते प्रक्लिन्नवर्त्म श्लेष्मसङ्ग्रहे पठितं, पिल्लं च सन्निपातजगणे; तत् कथं प्रक्लिन्नवर्त्म पिल्लमिति सङ्गतम्? उच्यते– अक्लिन्नवर्त्मेव पिल्लं, तस्य सन्निपातजत्वात्; न तु प्रक्लिन्नवर्त्म, तस्य कफात्मकत्वात्; यदि तु प्रक्लिन्नवर्त्मैव कफोल्बणसन्निपातजं पिल्लत्वेनाभ्युपगम्यते, एतत् ख्यापनाय च तस्य कफजसर्वगणयोर्निवेशः कृत इति स्वीक्रियते, तदा सन्निपातजगणे पित्तेनाक्लिन्नवर्त्म न परिगृहीतं स्यात्; ततस्तदपरिग्रहे षट्सप्ततित्वोपसंहारो नेत्ररोगाणां न घटते, पञ्चसप्ततेरभिधानात्, पिल्लस्य प्रक्लिन्नवर्त्मस्वरूपत्वेनापृथक्त्वात्| ननु, एवं तर्हि कथं “विद्यात् प्रक्लिन्नवर्त्मेति तत् पिल्लं सन्निपातजम्|” इति समर्थयितव्यम्? उच्यते– ( अस्यायमर्थः प्रत्येतव्यः– यदा तदेव प्रक्लिन्नवर्त्म श्लेष्मात्मकमेव सत् वातपित्ताभ्यां विशेषकाभ्यामुपनिरुध्यते तदा सन्निपातजं सत् अपरिक्लिन्नवर्त्मार्थान्तरमासादयत् पिल्लमित्यभिधीयते, तथा चोभयोरप्यविरोधः, उभाभ्यामेवापरिक्लिन्नवर्त्मन एव पिल्लाख्यत्ववर्णनादिति| अयं च वाग्भटे कफोत्क्लिन्नाख्यतया निरुद्धः) किञ्च यदि प्रक्लिन्नवर्त्म पिल्लं तत् पृथक्त्वेन चाक्लिन्नवर्त्म अभविष्यत्, तदास्यौपद्रविके सुश्रुत दोषात्मकत्वेन साध्यादिभेदेन चाभिधानमकरिष्यत्, न च कृतं, तस्मादक्लिन्नवर्त्मनोऽवस्थान्तरमिति||८८||

Adhikarana aklinnavartmalakShaNam (89) · Śloka 89

यस्य धौतान्यधौतानि सम्बध्यन्ते पुनः पुनः | वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत् ||८९|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

अपरिक्लिन्नवर्त्मनो लक्षणमाह– यस्य धौतानीत्यादि| एतद्वाग्भटे पिल्लाख्यम्| सम्बध्यन्ते अन्योन्यं लग्नानि भवन्तीत्यर्थः| तदिदं सम्बद्धत्वं किं पूयसम्पर्कादेव, तथा च प्रक्लिन्नत्वमेव स्यात्तदर्थमाह– अपरिपक्वानीति| एतदेव पिल्लाख्यम्| अन्यत्र क्वचिच्च पिल्लाख्यमन्यथा पठितम्– “पित्तश्लेष्मप्रकोपेण वर्त्मान्तः परिपाट्यते| ताम्रं निर्लोम तच्चापि विशिष्टं पिल्ललक्षणम्||” इति| एतदनादृतं, टीकाकृद्भिरव्याख्यातत्वात्| वाग्भटेन कुकूणकादीनामष्टादशानां पिल्लाख्या कृता| वर्त्मानीति बहुवचनं नेत्रद्वये वर्त्मचतुष्टयत्वेन सङ्गच्छते, तेन नेत्रद्वयगत एवायं व्याधिरिति कार्तिकः||८९||

Adhikarana vAtahatavartmalakShaNam (90) · Śloka 90

विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते | एतद्वातहतं वर्त्म जानीयादक्षिचिन्तकः ||९०|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

वातहतवर्त्मलक्षणमाह– विमुक्तसन्धीत्यादि| विमुक्तो विश्लिष्टो वर्त्मशुक्लगतः सन्धिर्यस्मात् तत्तथा, स्थानच्युतसन्धि| निश्चेष्टं निमेषोन्मेषरहितम्| सन्धिविश्लेषादेव तदाश्रयाणां निमेषोन्मेषकारिणां सिराणामपि विश्लेषेण निमेषोन्मेषरहितत्वमित्यभिप्रायः| अत एवोक्तम्– न मील्यते न सङ्कुचतीत्यर्थः| ‘निमील्यत’ इति पाठान्तरं, तत्र निमीलितमेव तिष्ठतीत्यर्थः| इदं युक्तं, दृष्टत्वात्| एतन्न साध्यं, सुश्रुते असाध्यप्रकरणे पठितत्वादिति||९०||

Adhikarana vartmArbudalakShaNam (91) · Śloka 91

वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम् | आचक्षीतार्बुदमिति सरक्तमविलम्बितम् ||९१|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

अर्बुदलक्षणमाह– वर्त्मान्तरस्थमित्यादि| वर्त्मनोऽभ्यन्तरस्थं, बाह्येऽप्युन्नतत्वदर्शनाद् विषमम्| ग्रन्थिभूतं ग्रन्थिरूपेण स्थितम्| अवेदनमिति ईषदर्थे नञ्, तेन ग्रन्थिरिवाल्पवेदनमित्यर्थः; वेदना च वातानुबन्धेनैव| सरक्तमिति किञ्चिद्रक्तं, पित्तानुबन्धात्| अविलम्बितं शीघ्रजन्मेत्यर्थः| केचिदत्र क्रियाविशेषणं ब्रुवते, तेनायमर्थः– अविलम्बितं शीघ्रमाचक्षीतार्बुदमिति; किन्त्वेतन्न सङ्गतम्, अस्य व्याख्यानस्य निष्प्रयोजनत्वात्| अन्ये तु ‘ अवलम्बितम्’ इति पठन्ति| एतत् सन्निपातजम् ( अपाकि च, तच्च कफेन)||९१||

Adhikarana nimeShalakShaNam (92) · Śloka 92

निमेषिणीः सिरा वायुः प्रविष्टः सन्धिसंश्रयाः | प्रचालयति वर्त्मानि निमेषं नाम तद्विदुः ||९२|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

निमेषलक्षणमाह– निमेषिणीरित्यादि| निमेषिणीः निमेषकारिकाः सिराः| सन्धिसंश्रया इति वर्त्मशुक्लगता इत्यर्थः| अयमसाध्यो वातजः| चक्षुष्यण च “उन्मेषणीः सिरा” इत्युक्तं; यदाह– “उन्मेषणीः सिरा वायुः प्रविश्य चावतिष्ठते| अत्यर्थं चालयेद्वर्त्म निमेषः स न सिध्यति||” इति||९२||

Adhikarana shoNitArsholakShaNam (93) · Śloka 93

यः स्थितो वर्त्ममध्ये तु लोहितो मृदुरङ्कुरः | तद्रक्तजं शोणितार्शश्छिन्नं छिन्नं प्रवर्धते ||९३|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

शोणितार्शोलक्षणमाह– यः स्थित इत्यादि| अङ्कुराकारो मांसोच्छ्रयोऽङ्कुरः| एतदसाध्यं; तथा च विदेहः– “वायुः शोणितमादाय सिराणां प्रमुखे स्थितः| जनयत्यङ्कुरं ताम्रं वर्त्मनि च्छिन्नरोहणम्|| तच्छोणितार्शोऽसाध्यं स्याद्रक्तस्राव्यथ नीरुजम्||” इति||९३||

Adhikarana lagaNalakShaNam (94) · Śloka 94

अपाकी कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः , लगणो नाम स व्याधिर्लिङ्गतः परिकीर्तितः ||९४|| (सु. उ. तं. अ. ३) |

🔊 Audio coming soon

लगणलक्षणमाह– अपाकीत्यादि| अपाकित्वादिकं श्लेष्मारब्धत्वादेव| तथा च सात्यकिः– “वर्त्मोपरिष्टाद्यो ग्रन्थिः कठिनो न विपच्यते| नीरुजो लगणो नाम रोगः श्लेष्मसमुद्भवः||” इति||९४||

Adhikarana bisavartmalakShaNam (95) · Śloka 95

त्रयो दोषा बहिःशोथं कुर्युश्छिद्राणि वर्त्मनोः | प्रस्रवन्त्यन्तरुदकं बिसवद्बिसवर्त्म तत् ||९५|| (वा. उ. अ. ८) |

🔊 Audio coming soon

बिसवर्त्मलक्षणमाह– त्रयो दोषा इत्यादि| बहिःशोथमिति बहिरुच्छूनत्वं यथा भवति तथा वर्त्मनोश्छिद्राणि दोषास्त्रयः कुर्युरित्यर्थः| तानि छिद्राणि अन्तर्मुखान्येव, यदाह– प्रस्रवन्त्यन्तरुदकमिति| छिद्राणीति बहुवचननिर्देशाद्बहुमुखानि, अत्रापि दोषाः कुर्युरिति सम्बन्धः| अत एव बिसवत् मृणालवत्; तच्चानेकच्छिद्रयुक्तं भवति तद्वत्| अत्रैव चन्द्रिकाकारः सुश्रुते पठति– “शूनं यद्वर्त्म बहुभिः श्लक्ष्णैश्छिद्रैः समन्वितम्| वर्त्मान्तरे बिसमिव बिसवर्त्मेति तत् स्मृतम्||” (सु. उ. तं. अ. ३) इति| सात्यकिरप्याह– “बिसस्यापाचितस्येव बहुमांससिरामुखम्| बिसवर्त्मेति जानीयाद्दुश्चिकित्स्यं त्रिदोषजम्||” इति||९५||

Adhikarana ku~jcanalakShaNam (96) · Śloka 96

वाताद्या वर्त्मसङ्कोचं जनयन्ति मला यदा | तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः ||९६||

🔊 Audio coming soon

कुञ्चनलक्षणमाह– वाताद्या इत्यादि| मला इत्यस्याभिधानं दुष्टत्वप्रतिपादनार्थं, यतो मलिनीकरणान्मला इत्युच्यन्ते| कुञ्चनं च कस्यापि तन्त्रस्य माधवकरेण लिखितं न सौश्रुतं, तेन सुश्रुतोक्तषट्सप्ततिसङ्ख्या न हीयते, एवं वक्ष्यमाणेऽपि पक्ष्मशाते बोद्धव्यम्||९६||

Adhikarana pakShmakopalakShaNam (97-98) · Śloka 98

प्रचालितानि वातेन पक्ष्माण्यक्षि विशन्ति हि | घृष्यन्त्यक्षि मुहुस्तानि संरम्भं जनयन्ति च ||९७|| असिते सितभागे च मूलकोषात् पतन्त्यपि | पक्ष्मकोपः स विज्ञेयो व्याधिः परमदारुणः ||९८||

🔊 Audio coming soon

पक्ष्मकोपलक्षणमाह– प्रचालितानीत्यादि| प्रचालितानि प्रकर्षेण चालितानि, प्रतीपीकृतानीत्यर्थः| पक्ष्माणि वर्त्मरोमाणि वातचालितानि सन्ति नेत्रं प्रविशन्ति अन्तर्मुखानि वर्त्मन इत्यर्थः| तान्यसिते कृष्णमण्डले, सितभागे शुक्लमण्डले वा, अक्षि घृष्यन्ति घर्षयन्तीत्यर्थः| अत एव संरम्भं शोथं जनयन्ति| मूलकोषात् पक्ष्मकोषात्, पतन्त्यपीति ‘पक्ष्माणि’ इति शेषः, अपिशब्दान्न पतन्ति च| त्रिदोषजश्चायं, प्रचालने वातमात्रकारणत्वमुक्तं; तथा च| चन्द्रिकाकारः पाठान्तरं पठति– “पक्ष्माशयगता दोषास्तीक्ष्णाग्राणि खराणि च| निर्वर्तयन्ति पक्ष्माणि तैर्घृष्टं चाक्षि दूयते|| उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते|” (सु. उ. तं. अ. ३) इति| अत्र पक्ष्माशयो वर्त्म| विदेहऽप्याह– “यस्य वातसम्बन्धेन दोषाः प्रकुपितास्त्रयः|” इत्यादिनेति| कल्याणविनिश्चय उपपक्ष्म पठ्यते– “पक्ष्मोपरोधो वातेन कोठोऽन्तर्मुखरोमवान्| रोमैरन्तर्मुखैरन्यैरुपपक्ष्म मलैस्त्रिभिः||” इति| उपपक्ष्मणि यादृशी पूर्वसिद्धा तादृशी अपराऽन्तर्मुखी पक्ष्मपङ्क्तिरिति भेदः; अस्य पक्ष्मोपरोधविशेषत्वात् समानचिकित्स्यत्वाच्च पृथगिहानभिधानम्||९७-९८||

Adhikarana pakShmashAtalakShaNam (99) · Śloka 102

वर्त्मपक्ष्माशयगतं पित्तं रोमाणि शातयेत् | कण्डूं दाहं च कुरुते पक्ष्मशातं तमादिशेत् ||९९|| नव सन्ध्याश्रयास्तेषु वर्त्मजास्त्वेकविंशतिः | शुक्लभागे दशैकश्च चत्वारः कृष्णभागजाः ||१००|| सर्वाश्रयाः सप्तदश दृष्टिजा द्वादशैव तु | बाह्यजौ द्वौ समाख्यातौ रोगौ परमदारुणौ ||१०१|| भूय एतान् प्रवक्ष्यामि सङ्ख्यारूपचिकित्सितैः ||१०२|| (इति वर्त्मगताः) | (सु. उ. तं. अ. १) |

🔊 Audio coming soon

पक्ष्मशातलक्षणमाह– वर्त्मेत्यादि| पक्ष्माशयोऽत्र पक्ष्ममूलम्| शातयेदुन्मूलयेदित्यर्थः| अयं च कफपैत्तिकः, कण्डूदाहवत्त्वात्| अत्र कृच्छ्रोन्मीलनं वाग्भटः पठति– “रोगान् कुर्युश्चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः| सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम्|| पांशुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च| विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तम्||” (वा. उ. अ. ८) इति| अस्य चकारेण सङ्ग्रहः| पक्ष्मणां वर्त्माश्रयत्वादयमघि वर्त्मरोग एव| इति वर्त्मगता एकविंशतिर्व्याधयः समाप्ताः| इति वर्त्मगताः||९९||

Adhikarana puShpikA · Śloka 59

इति श्रीमाधवकरविरचिते माधवनिदाने नेत्ररोगनिदानं समाप्तम् ||५९||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां नेत्ररोगनिदानं समाप्तम्||५९||