Adhikarana shirorogabhedAH (1) · Śloka 1
अथ शिरोरोगनिदानम्|
शिरोरोगास्तु जायन्ते वातपित्तकफैस्त्रिभिः |
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा |
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः ||१||
(सु. उ. तं. अ. २५) |
अथ कर्णनासानेत्राणामधिष्ठानत्वेन शिरसो नयनरोगानन्तरं शिरोरोगनिदानारम्भः| शिरोरोगाश्चैकादश, तत्र कारणभेदेन शिरोरोगभेदं दर्शयन्नाह– शिरोरोगास्त्वित्यादि| वातपित्तकफैरित्युक्ते गम्यत एव त्रिभिरिति, तत् कथं तदुक्तिः? उच्यते– सर्वेषां शिरोरोगाणां सन्निपातजत्वख्यापनार्थं, वातादिभेदश्चोत्कर्षात्; तदुक्तं शालाक्ये– “सर्व एव शिरोरोगाः सन्निपातसमुत्थिताः| औत्कट्याद्दोषलिङ्गैस्ते कीर्तितास्तद्विदा दश||” इति| त्रिभिः सन्निपातेनेति पदद्वयेन प्रकृतिविकृतिसमवेतसन्निपातद्वयमाहुरन्ये| अत्र पक्षे सन्निपातजत्वादेकत्वगणनया न सङ्ख्यातिरेकः; त्रिभिरिति पदं पृथक्त्वद्योतनार्थमिति गदाधरः| क्षयेणेति असृग्वसादीनां क्षयेण; क्षयजोऽयं धातुक्षयजनितवातकोपेन सहसाकृतवातजन्यत्वेनाचयपूर्वकः, वातजस्तु सञ्चयप्रकोपजनित इति भेदः; अत एवानुपशयोऽप्यस्य संस्वेदनादिना दोषक्षयकृदेवोपन्यस्तः| शिरोरोगशब्देन शिरोगतशूलरूपा रुजाऽभिधीयते, तेन सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैरित्यभिधानमुपपद्यते, अन्यथा तेषामेव शिरोरोगत्वात्तैः शिरोरोगा जायन्त इत्यसङ्गतं स्यात्||१||
Adhikarana vAtajashirorogalakShaNam (2) · Śloka 2
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम् |
बन्धोपतापैः प्रशमश्च यत्र शिरोऽभितापः स समीरणेन ||२||
(सु. उ. तं. अ. २५) |
वातिकशिरोरोगलक्षणमाह– यस्यानिमित्तमित्यादि| अनिमित्तमतर्कितनिमित्तं, वायोर्विषमक्रियत्वात्; तेन निमित्तानुषङ्गिणा कालादिनेत्यर्थः| निशि चातिमात्रमिति रात्रौ शीतेन वायोराधिक्यान्महती रुजा भवति, शीतयोनित्वाद्वायोः| बन्धोपतापैरिति बन्धो बन्धनं वस्त्रादिभिः, उपतापः स्वेदादिभिः, व्यक्त्यपेक्षया बहुवचनम्; एतेनोपशयो दर्शितः| शिरोऽभितापः शिरोरुजा||२||
Adhikarana pittajashirorogalakShaNam (3) · Śloka 3
यस्योष्णमङ्गारचितं यथैव भवेच्छिरो धूप्यति चाक्षिनासम् |
शीतेन रात्रौ च भवेच्छमश्च शिरोभितापः स तु पित्तकोपात् ||३||
(सु. उ. तं. अ. २५) |
पित्तजलक्षणमाह– यस्योष्णमङ्गारचितमित्यादि| अङ्गारचितं यथैवेति ज्वलदङ्गाराच्छन्नमिवेत्यर्थः| धूप्यति धूमायते धूमपूर्णमिव भवतीत्यर्थः| धूप्यतीति दिवादेराकृतिगणत्वात्| अक्षि च नासा च इत्यक्षिनासं, प्राण्यङ्गत्वादेकवद्भावः| उपशयं दर्शयति– शीतेन रात्रौ चेत्यादि||३||
Adhikarana shleShmajashirorogalakShaNam (4) · Śloka 4
शिरो भवेद्यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमतो हिमं च |
शूनाक्षिकूटं वदनं च यस्य शिरोऽभितापः स कफप्रकोपात् ||४||
(सु. उ. तं. अ. २५) |
श्लेष्मजलक्षणमाह– शिरो भवेदित्यादि| कफोपदिग्धमिति कफलिप्तम्| गुरु गौरवयुतम्| प्रतिष्टब्धं बद्धमिव| हिमं हिमस्पर्शम्| शूनाक्षिकूटमिति वदनविशेषणम्| तथा हि चरकः– “शिरो मन्दरुजं तेन गुरुस्तिमितभारिकम्|” (च. सू. अ. १७) इति| अत्रापि स्वेदादिनोपशयो ज्ञेयः||४||
Adhikarana tridoShajashirorogalakShaNam (5) · Śloka 5
शिरोऽभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति |५|
(सु. उ. तं. अ. २५) |
सान्निपातिकलक्षणमाह– शिरोऽभिताप इत्यादि| सर्वाणि लिङ्गानि अनन्तरोक्तानि वातादिलिङ्गानि| ( अयं च सन्निपातो विकृतिविषमसमवेतो ज्ञेयः, अन्यथा सर्वेषामेव शिरोरोगाणां त्रिदोषजत्वात् पृथगभिधानं व्यर्थं स्यात्; अस्य च विकृतिविषमसमवेतत्वं कारणभेदात् ज्ञेयं, न तु विरुद्धलक्षणतया; स चायं कारणभेद उत्कटसर्वदोषजत्वादेव विज्ञेयः| यथा त्रिदोषजे राजयक्ष्मणि स्वरभेदादिजनकानां वातादीनामुत्कटत्वमिति| उक्तं हि चरके– “ वाताच्छूलं भ्रमः कम्पः, पित्ताद्दाहो मदस्तृषा| कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे||” (च. सू. अ. १७) इति|५|–
Adhikarana raktajashirorogalakShaNam (5) · Śloka 5
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ||५||
(सु. उ. तं. अ. २५) |
रक्तजलक्षणमाह– रक्तात्मक इत्यादि| पित्तसमानलिङ्ग इति पित्तजशिरोरोगतुल्यलक्षणः| पैत्तिकलिङ्गाधिकमिह स्पर्शासहत्वम्||५||
Adhikarana kShayajashirorogalakShaNam (6) · Śloka 6
असृग्वसाश्लेष्मसमीरणानां शिरोगतानामिह सङ्क्षयेण |
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् |
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति ||६||
(सु. उ. तं. अ. २५) |
क्षयजलक्षणमाह– असृगित्यादि| वसासृजोः सर्वदेहस्थितत्वाच्छिरसि स्थितिः, श्लेष्मणश्च स्थानमेव शिरः, उदानवायोरूर्ध्वगतित्वाच्छिरस्यवस्थानं, तेषां क्षयेण उग्ररुजत्वं व्याधिप्रभावात्; यतो वृद्धे वायावुग्ररुजा युज्यते न तु क्षीणे; यदुक्तम्– “ वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते| कर्मणः प्राकृताद्धानिः” (च. सू. अ. १८) इति| अन्यैः पुनरयं पाठः सुश्रुते स्वीकृतः; यथा– “वसाबलासक्षयसम्भवानां” (सु. उ. तं. अ. २५) इति| युक्तश्चायं पाठः, वातक्षये हि कफवृद्धौ कफजः शिरोरोगः स्यात्, “वृद्धिर्वाऽपि विरोधिनाम्|” (च. सू. अ. १८) इति वचनात्| किं चैतस्य चिकित्सायामुक्तं “पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम्|” (सु. उ. तं. अ. २६) इति| ततश्च समीरणपाठो न सङ्गतः, न हि क्षीणे वायौ शमनमुक्तम्, अपि तर्हि वर्धनविधिः; यदुक्तम्– “क्षीणा वर्धयितव्याः” (सु. चि. अ. ३३) इति| वसा देहस्नेहस्योपलक्षणं, तेन मेदोमज्जशुक्रमस्तिष्काण्यप्यवरुध्यन्ते, तेषां देहस्नेहत्वात्| पित्तमांसादिक्षयजस्तु चयादिक्रमजक्षयकृतवातशिरोरोग एवावरुध्यते, इति गदाधरः| शिरोभितापः शिरोरुजा| संस्वेदनच्छर्दनधूमनस्यैः कफक्षयः, नागरादितीव्रधूमेन वसामस्तिष्कादिक्षयः, सिरामोक्षादिभिरसृक्क्षयः, अत एवैतैः संस्वेदनादिभिः क्षयजस्य वृद्धिः| अयं विदेहेऽपि पठ्यते “ भ्रमति तुद्यते शून्यं शिरो विभ्रान्तनेत्रता| मूर्छा गात्रावसादश्च शिरोरोगे क्षयात्मके||” इति| चक्षुष्यऽप्याह– “स्त्रीप्रसङ्गादभिघातादथवा देहकर्मणा| क्षिप्रं सञ्जायते कृच्छ्रः शिरोरोगः क्षयात्मकः|| वातपित्तात्मकं लिङ्गं व्यामिश्रं तत्र लक्षयेत्|” इति||६||
Adhikarana krimijashirorogalakShaNam (7) · Śloka 7
निस्तुद्यते यस्य शिरोऽतिमात्रं सम्भक्ष्यमाणं स्फुरतीव चान्तः |
घ्राणाच्च गच्छेत् सलिलं सपूयं शिरोभितापः क्रिमिभिः स घोरः ||७||
(सु. उ. तं. अ. २५) |
क्रिमिजमाह– निस्तुद्यत इत्यादि| निस्तुद्यते सूचीभिरिव तुद्यते| सम्भक्ष्यमाणम् इत्यत्र ‘क्रिमिभिः’ इति शेषः, प्रकरणात्| स्फुरतीव मनाक् चलतीव| घ्राणाच्चेति चकारो भिन्नक्रमेण सलिलमित्यत्र सम्बध्यते; तेन सलिलं पूयं च गच्छेत्, तथा क्रिमयश्च कदाचिद्गच्छन्तीति; तथा च चरकः– “क्रिमीणां दर्शनेन च|” (च. सू. अ. १७) इति||७||
Adhikarana sUryAvartalakShaNam (8) · Śloka 8
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढा |
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च |
सर्वात्मकं कष्टतमं विकारं सूर्यापवर्तं तमुदाहरन्ति ||८||
(सु. उ. तं. अ. २५) |
सूर्यावर्तलक्षणमाह– सूर्योदयमित्यादि| सूर्योदयं प्रति लक्षीकृत्य या रुगक्षिभ्रुवं समुपैतीति सम्बन्धः| ‘अक्षिभ्रुवौ’ इति पाठान्तरे प्राण्यङ्गत्वेन प्राप्तैकवद्भावस्याभावः, नासिकास्तनयोरितिवत् लक्षणव्यभिचारात्| सूर्योदये प्रातर्मन्दं मन्दं यथा स्यात्तथा रुजां समुपैति, अंशुमता च सूर्येण सह गाढा यथा भवति तथा वर्धते| अयमर्थः– यथा सूर्यो वर्धते तथा वेदना प्रवृद्धा भवति, सूर्यस्यापवृत्तौ सायाह्ने विनिवर्तते शाम्यतीत्यर्थः| ‘गाढा’ इत्यत्र ‘गूढा’ इति पाठान्तरं, तदा सूर्यापगमे गूढा रात्रौ लीनेत्यर्थः| सर्वात्मकमिति सन्निपातजम्| व्याधिस्वभावाच्च कालविशेषनियमः| कष्टतमं कृच्छ्रसाध्यम्| ननु, अयं सुश्रुते वातपित्ताभ्यां पठ्यते, तद्यथा– “आवर्तसञ्ज्ञः स तु सूर्यपूर्वो व्याधिर्मतः पित्तसमीरणाभ्याम्| शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च||” (सु. उ. तं. अ. २५) इति| तत् कथं सर्वजत्वम्? उच्यते– सुश्रुते औत्कर्षेण व्यपदेश इति न विरोधः| ननु, एवं कथं रात्रौ वायुसमानगुणशीतप्रादुर्भावे वेदनालीनता, दिवसस्याद्यन्तयोर्मन्दरुक्त्वं च? उच्यते– अत्रापि पित्तस्य प्रबलतमत्वात्| यत्तु चिकित्सायां शिरीषमूलपिप्पलीमूलवचावपीडाद्यभिहितं तद्व्याधिप्रत्यनीकत्वात्| अथ वातपित्तजत्ववर्णनेन विशिष्टकालभवने हेतुर्दर्शितो भवति| यतो वातपित्तयोः शीतोष्णात्मकत्वात् पूर्वाह्णे सूर्यवृद्धिक्रमेण स्रोतसां सङ्कोचक्रमादवरुद्धमार्गयोर्वेदनाकरत्वम्, अपराह्णे निवर्तमाने सूर्ये तु स्रोतसां विवृतत्वात् स्वमार्गव्याघातविरहेण वेदनाया अजनकत्वमिति युक्तः कालविशेषनियमः| तथा चाह निमिः– “सूर्यसोमात्मकौ नित्यं स्वहेतू पित्तमारुतौ| कुर्वते वेदनां तीव्रां दिनात् पूर्वाह्ण एव तु|| आदित्यतेजसा युक्ते निवृत्तेऽपि च भास्करे| स्रोतसां विवृतत्वाच्च ततः श्लेष्माऽधिगच्छति|| उद्गतो मातरिश्वा च स्वमार्गं प्रतिपद्यते| तस्मान्मध्यदिनादूर्ध्वं वेदनाऽत्र प्रशाम्यति||” इति| वातपित्तजत्वमस्य “अधिकत्वेन व्यपदेश” इति न्यायात्; तेन पूर्वेण समं न विरोधः| विदेहे सूर्यावर्तविपर्ययोऽपि पठ्यते– “तत्र वातानुगं पित्तं चितं शिरसि तिष्ठति| मध्याह्ने तेजसाऽर्कस्य तद्विवृद्धं शिरोरुजम्|| करोति पैत्तिकीं घोरां संशाम्यति दिनक्षये| अस्तङ्गते प्रभाहीने सूर्ये वायुर्विवर्धते|| पित्तं शान्तिमवाप्नोति ततः शाम्यति वेदना| एष पित्तानिलकृतः सूर्यावर्तविपर्ययः||” इति| अयमत्र सूर्यावर्त एवान्तर्भावनीयः, चातुर्थिके चातुर्थिकविपर्ययवत्||८||
Adhikarana anantavAtalakShaNam (9-10) · Śloka 10
दोषास्तु दुष्टास्त्रय एव मन्यां सम्पीड्य घाटासु रुजां सुतीव्राम् |
कुर्वन्ति योऽक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु ||९||
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् |
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् ||१०||
(सु. उ. तं. अ. २५) |
अनन्तवातलक्षणमाह– दोषा इत्यादि| मन्या ग्रीवासिराद्वयं, तां सम्पीड्य; घाटासु ग्रीवापश्चाद्भागेषु, दोषास्त्रय एव रुजां वेदनां सुतीव्रां कुर्वन्ति, तथा अक्षिभ्रुवि शङ्खदेशे च स्थितिमारब्धत्वं यो विशेषतः करोति, तथा गण्डपार्श्वे कम्पं हनुग्रहादिकं च यः करोति, तमनन्तवातमुदाहरन्तीति योज्यम्| गण्डस्य कपोलस्य, पार्श्वे एकदेशे| हनुग्रहो वातव्याधिविशेषः| अमुं च सुश्रुते अन्यतोवातेनैव तुल्यत्वादनन्तवातं परित्यज्य दश शिरोरोगा अभिहिताः, एवं तन्त्रान्तरेऽपि “कीर्तितास्तद्विदा दश” इत्यभिधानं; माधवकरेण तु त्रिदोषजत्वेन तदधिककम्पहनुग्रहलिङ्गयोगाच्च केवलवातजादन्यतोवाताद्विलक्षण एवायमिति अनन्तवातोऽधिकः पठितः, भेदो हि भेदवतां कारणभेदाद्विरुद्धधर्माध्यासाच्च भवतीति||९-१०||
Adhikarana ardhAvabhedalakShaNam (11-13) · Śloka 13
रूक्षाशनात्यध्यशनप्राग्वातावश्यमैथुनैः |
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः ||११||
केवलः सकफो वाऽर्धं गृहीत्वा शिरसो बली |
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम् ||१२||
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः |
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् ||१३||
अर्धावभेदलक्षणमाह– रूक्षाशनेत्यादि| अध्यशनमजीर्णे भोजनम्| अवश्यायेति अवश्यायो हिममुच्यते, छन्दोऽनुरोधेन यकारलोपो ह्रस्वत्वं चेति व्याचक्षते| कदाचित् सश्लेष्मवातजत्वमिति विकल्पं दर्शयति– केवल इत्यादि| शस्त्रारणिनिभां शस्त्रच्छेदनिभामरणिनिभां च; अरणिः अग्न्युत्थापनकाष्ठयन्त्रं, तस्य मन्थनवत् पीडा; किंवा, अरणिना कारणेन अग्निरेवोच्यते, तेनाग्निनिभां च वेदनाम्| सुश्रुते त्वयं त्रिदोषजः पठितः| तद्यथा– “यस्योत्तमाङ्गं रुजतेऽर्धमात्रं सतोदभेदभ्रममोहशूलैः| पक्षाद्दशाहादथवाऽप्यकस्मात्तमर्धभेदं त्रितयाद्व्यवस्येत्||” (सु. उ. तं. अ. २५) इति| अत्र तु केवलोऽनिलः सकफो वेत्यौत्कर्ष्यादभिधानं, “सोऽर्धभेदः कफानिलात्|” इति विदेहेऽप्येवं बोद्धव्यम्| अयमुपेक्ष्यमाणो नयनादिकं हन्यादित्याह– नयनमित्यादि| अत्रैव विदेहः– “शिरसोऽन्यतरे पार्श्वे कुपितो मारुतो यदा| श्लेष्मणा रुध्यते जन्तोस्तोदस्फुटनदालनैः|| शूलावदारणैर्गाढमर्धं तदवरुध्यते| नयनं चावदीर्येत सोऽर्धभेदः कफानिलात्|| तथा त्र्यहात् स पञ्चाहात् पक्षान्मासाच्च देहिनाम्|” इति| सुश्रुते “पवनात् सपित्तात्” (सु. उ. तं. अ. २५) इति केचित् पठन्ति| तेन वातपित्तजत्वमस्य| सात्यकिना “वायुः शिरःशङ्खभ्रूनेत्रमवगृह्य” इत्यादिना वातजत्वमस्य दर्शितम्| अन्ये तु सन्निपाताधिकारात् सन्निपातजं पठन्ति, तथाच सुश्रुतः– ‘त्रितयाद्व्यवस्येत्|’ (सु. उ. तं. अ. २५) इति| व्याधिस्वभावादचिरानुबन्धकत्वं सान्निपातिकत्वेऽपि||११-१३||
Adhikarana sha~gkhakasya samprAptipUrvakaM lakShaNam (14-15) · Śloka 15
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्छिताः |
तीव्ररुग्दाहरागं हि शोथं कुर्वन्ति दारुणम् ||१४||
स शिरो विषवद्वेगी निरुन्ध्याशु गलं तथा |
त्रिरात्राज्जीवितं हन्ति शङ्खको नामतः परम् |
त्र्यहाज्जीवति भैषज्यं प्रत्याख्याय समाचरेत् ||१५||
शङ्खकलक्षणमाह– रक्तपित्तानिला इत्यादि| दुष्टाश्चयादिमन्तः| मूर्छिताः अन्योऽन्यमेकीभूताः| कफोऽप्यत्र बोद्धव्यः; तथा च सुश्रुतः– “शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुतापः कफपित्तरक्तैः|” (सु. उ. तं. अ. २५) इति| ( मारकत्वमाह– त्रिरात्राज्जीवितं हन्तीति| कुशलेनोपक्रमे क्रियमाणे त्रिरात्रात् परतो जीवत्येवेत्यत आह– परं त्र्यहाज्जीवतीति| अत्र अहःसम्बन्धिनी रात्रिरुपलक्ष्यते, तेन त्रिरात्रात्, परं जीवतीत्यर्थः| तत् किमस्य त्रिरात्राभ्यन्तरे साध्यत्वमसाध्यत्वं वेत्यत आह– भैषज्यमित्यादि| तदनेन त्रिरात्राभ्यन्तरे विकल्पितासाध्यत्वं, त्रिरात्रात् परमसाध्यत्वं दर्शितम्| तत्रैव विदेहः– “चीयते तु तदा पित्तं शङ्खयोरनिलाचितम्| निरुणद्धि ततो मर्म परिपूरितमुल्बणम्|| ततः शङ्खौ प्ररुज्येते दह्येते इव वह्निना| सूचीभिरिव तुद्येते निकृत्येते इवासिना|| शङ्खको नाम शिरसि व्याधिरेषः सुदारुणः| तृष्णामूर्छाज्वरकरस्त्रिरात्रात् परमन्तकृत्|| कुशलेन तूपक्रान्तस्त्रिरात्रादेव जीवति|” इति)||१४-१५||
Adhikarana puShpikA · Śloka 60
इति श्रीमाधवकरविचिते माधवनिदाने शिरोरोगनिदानं समाप्तम् ||६०||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शिरोरोगनिदानं समाप्तम्||६०||