Adhikarana ma~ggalAcaraNam (1) · Śloka 1
पञ्चनिदानलक्षणम् |
प्रणम्य जगदुत्पत्तिस्थितिसंहारकारणम् |
स्वर्गापवर्गयोर्द्वारं त्रैलोक्यशरणं शिवम् ||१||
श्रीगणेशाय नमः| शशिरुचिरहरार्धव्यक्तसक्तार्धदेहो दिशतु घनघनाभः पद्मनाभः श्रियं वः| त्रिदशसरिदशीतद्योतजावारिमध्यभ्रमिभवमिव नाभौ वारिजं यस्य रेजे||१|| भट्टारजेज्जटगदाधर वाप्यचन्द्रश्रीचक्रपाणिबकुलेश्वरसेनभोजैः| ईशानकार्तिकसुकीर सुधीरवैद्यैर्मैत्रेयमाधवमुखैर्लिखितं विचिन्त्य||२|| तन्त्रान्तराण्यपि विलोक्य ममैष यत्नः सद्भिर्विधेय इह दोषविधौ समाधिः| मर्त्यैरसर्वविदुरैर्विहिते क्व नाम ग्रन्थेऽस्ति दोषविरहः सुचिरन्तनेऽपि||३|| तत्तद्ग्रन्थतरुभ्यो व्याख्याकुसुमरसलेशमाहृत्य| भ्रमरेणेव मयाऽयं व्याख्यामधुकोश आरब्धः||४|| उपयुक्तमिहानुक्तं निदानं माधवेन यत्| ग्रन्थव्याख्याप्रसङ्गेन मया तदपि लिख्यते||५|| अथ प्रथितसर्वायुर्वेदबोधविशुद्धबुद्धिः श्रीमाधवकरो विकारनिकरहेत्वादितत्त्वबुभुत्सोत्सुकचिकित्सकजनानुजिघृक्षया विधित्सितग्रन्थसन्दर्भारम्भे तत्प्रत्यूहव्यूहव्यपोहहेतुं परमाप्ताचारपरम्परापरिप्राप्तं स्वेष्टदेवताप्रणामं प्राक् प्राणैषीत्; ग्रन्थश्रोतॄणामपि विश्वेश्वरमहेश्वरस्य प्रणामानुवादमात्रादपि विघ्नोपशमो भवतीत्यभिप्रायेण तं ग्रन्थादौ निबद्धवान्– प्रणम्येत्यादि| अत्र प्रशब्दो भक्त्यतिशयख्यापकः| निबन्धनक्रियापेक्षया प्रणामस्य पूर्वकालभावित्वात् प्रणमेः क्त्वाप्रत्ययः| जगच्छब्देनोत्पत्तिमन्तः क्षित्यादयोऽभिधीयन्ते; तेषामुत्पत्तौ स्वकारणसमवाये, स्थितौ कतिचित्कालावस्थाने, संहारे प्रध्वंसे, कारणं कर्तारम्| स्वर्गः सुखम्, अपवर्गो मोक्षः आत्यन्तिकदुःखनिवृत्तिलक्षणः, तयोर्द्वारमुपायं प्रधानकारणम्| एतेन सकलपुरुषार्थहेतुत्वमुक्तं, सुखावाप्तिदुःखहानिव्यतिरिक्तस्य पुरुषार्थस्याभावात्| अत एव त्रैलोक्यशरणं त्रैलोक्यरक्षितारम्| न चोक्तजगत्स्थितिकारणत्वेन पौनरुक्त्यं, जगच्छब्देनोत्पत्तिमतामेवाभिधानात्| अत्र तु त्रैलोक्यशब्दो भुवनत्रयवर्तिचेतनाचेतनसमूहवाची, लोकशब्दस्य भुवनजनयोरभिधायकत्वात्| तथा चामरः– “लोकस्तु भुवने जने” (अ. को. का. ३ व. ३) इति| त्रैलोक्यमिति स्वार्थे ष्यञ्; चातुर्वर्ण्यवत्| हरादिपर्यायान् परित्यज्य शिवपदनिर्देशेन ग्रन्थस्य तदध्येतॄणां च सकलकल्याणमभिलषन् शिवपदं निबद्धवान्; शिवकारित्वेनैव महेश्वरस्य शिवपदाभिधानमिति||१||
Adhikarana granthasyAbhidheyAdayaH (2-3) · Śloka 3
नानामुनीनां वचनैरिदानीं समासतः सद्भिषजां नियोगात् |
सोपद्रवारिष्टनिदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम् ||२||
नानातन्त्रविहीनानां भिषजामल्पमेधसाम् |
सुखं विज्ञातुमातङ्कमयमेव भविष्यति ||३||
अभिधेयसम्बन्धप्रयोजनोपदेशमन्तरेण प्रेक्षावतां न प्रवृत्तिः स्यात् इति, अतस्तदभिधानार्थं श्लोकद्वयमाह– नानेत्यादि| रोगाणां विशेषेण वातजत्वादिसाध्यासाध्यत्वादिरूपेण निश्चयो ज्ञानं येन स रोगविनिश्चयो ग्रन्थो निबध्यतेऽभिधीयते, ‘अस्माभिः’ इति शेषः| तस्य विशेषणम्– सोपद्रवेत्यादि| सह उपद्रवादिभिर्वर्तते यः स तथा; एतेन विशेषणद्वारेण उपद्रवारिष्टनिदानलिङ्गस्वरूपमभिधेयमुक्तं भवति, एतद्व्यतिरिक्तस्याभिधेयस्याभावात्; तथा सति उपद्रवादिभिरभिधेयैः सह ग्रन्थस्य वाच्यवाचकलक्षणः सम्बन्धोऽयभिहितः| तत्र, उपद्रवो रोगारम्भकदोषप्रकोपजन्योऽन्यविकारः, उक्तं च चरके– “व्याधेरुपरि यो व्याधिर्भवत्युत्तरकालजः| उपक्रमाविरोधी च स उपद्रव उच्यते||” इति; नियतमरणख्यापकं लिङ्गमरिष्टं; निदानं रोगोत्पादको हेतुः; लिङ्गं रोगख्यापको हेतुः| तेन ‘लिङ्ग्यते ज्ञायते व्याधिरनेन’ इति पा.[ “लिङ्ग्यन्ते ज्ञायन्ते व्याधयोऽनेन” इति व्युत्पत्त्या पूर्वरूपरूपोपशयसम्प्राप्तयोऽभिधीयन्ते| यद्यपि निदानमपि रोगविशेषं बोधयति, तथाऽप्युत्पत्तिज्ञप्तिहेतुत्वेन कारणद्वैविध्यप्रतिपादनार्थं तस्य पृथगभिधानम्| एषां चोपद्रवादीनां विस्तराभिधानं यथावसरं करिष्यते| ननु, रोगनिदानादितत्त्वमतिसूक्ष्मत्वेनासर्वज्ञस्य ज्ञानविषयः, तत् कथं तदुपदेशे प्रेक्षावतां प्रवृत्तिरित्यत आह– नानामुनीनामित्यादि| एतेन ग्रन्थस्य प्रामाण्यं प्रवृत्त्यङ्गत्वमुक्तं भवति; मुनयो हि तपोयोगर्धिबलात्त्रैकालिकनिखिलज्ञानशालिनः पुरुषातिशया उच्यन्ते| ननु, यद्येवम्भूतः कस्यचिद्ग्रन्थोऽन्योऽप्यास्ते, तेनैव व्यवहारसिद्धेः कृतकार्यत्वेनास्य निष्प्रयोजनता स्यादित्यत आह– इदानीमित्यादि| इदानीमस्माभिरेव प्राथम्येन नानामुनीनां वचनैरेवंविधो निबन्धः क्रियते| समासत इति सङ्क्षेपतः| एतेनाल्पबुद्धीनामतिविस्तरत्वेनाप्रवृत्त्यङ्गतादोषः परिहृतो भवति| ननु, कृतेऽपि ग्रन्थेऽनुपादेयपुरुषप्रणीतत्वेन न कश्चिद्भिषक् प्रवर्तिष्यत इति ग्रन्थस्य वैयर्थ्यं स्यादित्यत आह– सद्भिषजां नियोगादिति| नियोगो नियोजनम् “अस्मदुपकाराय ग्रन्थः क्रियताम्” इत्येवं प्रार्थनेत्यर्थः; अथवा नियोग आज्ञा, एतेनात्मनः सविनयत्वमुक्तं भवतीत्यर्थः| नानातन्त्रेत्यादि| सुखं यथा भवति तथा आतङ्कं रोगं विज्ञातुमयमेव ग्रन्थो भविष्यति, ‘कारणम्’ इति शेषः| एतेन रोगज्ञानं प्रयोजनमित्युक्तं, फलं चास्य चिकित्सितमिति मन्तव्यम् यदुक्तं चरके– “रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्| ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्||” इति (च. सू. अ. २०)| ननु, नानामुनीनां वचनैरेव रोगज्ञानं भविष्यति, किमनेन तदुपजीविना ग्रन्थेनेत्यत आह– अल्पमेधसामिति अल्पमेधसाम् अल्पबुद्धीनाम्; महाबुद्धयो हि अतिविस्तरदुरधिगमनातन्त्राध्ययनक्षमा भवन्ति, न त्वल्पबुद्धय इति| महाधियामपि आलस्यानासादितदुरुपपादाशेषसंहितानामयमेव रोगज्ञानाय भविष्यतीत्याह– नानातन्त्रेत्यादि||२-३||
Adhikarana vyAdherj~jAnopAyAH (4) · Śloka 4
निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा |
सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ||४||
(वा. नि. अ. १) |
व्याधेर्ज्ञातव्यस्य पञ्च ज्ञानोपाया भवन्तीति तानाह– निदानमित्यादि| एते पञ्च व्यस्ताः समस्ताश्च व्याधिबोधकाः| न च समस्तपक्षे कृतकरणत्वं वाच्यं, प्रमाणसम्प्लवस्यापि दृष्टत्वात्| ( अनुमितवह्नौ प्रत्यक्षोपमानशब्दानामपि स्थितिसत्त्वात्) न यो ह्यनुमानेन प्रतीतो वह्निः स एव प्रत्यक्षागमाभ्यां नोपलभ्यते [ न वा निदानादीनि प्रेक्षावन्तो ये नैवमालोचयेयुः; ( किन्तु ये प्रेक्षावन्ते निदानादीनि स्युरित्येव वेत्स्यन्ति) एकेनैव प्रतिपादितो व्याधिरिति वयमिहोदास्महे ( न मन्यामहे)| किञ्च, एकेन प्रतिपादितेऽपि व्याधावपरेऽवश्यमभिधातव्याः, भिन्नप्रयोजनत्वात्| तथाहि– यदि निदानं नोच्यते तदा तत्परिवर्जनं कथं लभ्यते? उक्तं हि सुश्रुते– “ वातादीनां प्रतीकारः प्रोक्तो विस्तरतः पुनः| सङ्क्षेपतः क्रियायोगो निदानपरिवर्जनम्||” इति (सु. उ. तं. अ. १)| किञ्च, यथा– मृद्भक्षणात् पाण्डुरोगः, मक्षिकाभक्षणाच्च छर्दिरवसीयते; न तु तथा निदानेन सर्वत्र नियतरोगाध्यवसायः, ज्वरगुल्मादीनामेककारणत्वात्| यदाह चरकः– “एको हेतुरनेकस्य तथैकस्यैक एव हि| व्याधेरेकस्य बहवो बहूनां बहवस्तथा||” इति (च. नि. अ. ८)| अपि च कदाचित् प्रत्यासन्नं निदानं बाधित्वा विप्रकृष्टनिदानकृतो दोषसञ्चयो व्याधिं कुर्यात्, तस्मात् केवलान्निदानान्न व्याधिज्ञानं भवतीति पूर्वरूपादीनामुपादानमिति वाप्यचन्द्रः| असति पूर्वरूपाभिधाने तत्रोक्तः क्रियाविशेषो न सङ्गच्छते| उक्तं हि चरके– “ ज्वरस्य पूर्वरूपे लघ्वशनमपतर्पणं वा||” इति (च. नि. अ. १)| तथा च सुश्रुते– वातिकज्वरपूर्वरूपे घृतपानमिति| तथाऽसाध्यत्वं च नोपलभ्येत| उक्तं च चरके– “पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः|| अन्यस्यापि च रोगस्य पूर्वरूपाणि यं नरम्| विशन्त्यनेन कल्पेन तस्यापि मरणं ध्रुवम्||” (च. इ. अ. ५) इति| तथा रक्तपित्तप्रमेहयोर्विशेषज्ञानं च न जायते| उक्तं च चरके– “हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः| यो मूत्रयेत्तं न वदेत् प्रमेहं रक्तस्य पित्तस्य हि स प्रकोपः||” इति (च. चि. अ. ६)| असति रूपाभिधाने व्याधेरशेषेण स्वरूपमेव न व्यवच्छिद्यते; किं च साध्यासाध्यत्वं च न ज्ञायते| तथा हि सुखसाध्यलक्षणे चरकः– “हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य वै| न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्||” इति (च. सू. अ. १०); कष्टसाध्यलक्षणे चरकः– “निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले|” (च. सू. अ. १०) इति; तथा– “सर्वसम्पूर्णलक्षणः| सन्निपातज्वरोऽसाध्यः” (च. सू. अ. ३) इति| असत्युपशयाभिधाने सङ्कीर्णलक्षणेऽनभिव्यक्तक्लषणे वा व्याधौ विशेषबोधो न स्यात्| तदुक्तं चरके– “गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां” (परीक्षेत) (च. वि. अ. ४) इति| असत्यां च सम्प्राप्तौ पूर्वरूपादिप्रतीतस्यापि व्याधेश्चिकित्सोपयोगिनोंऽशांशविकल्पनाबलकालादेरप्रतीतेश्चिकित्साविशेषो न स्यात्| तस्मात् पञ्चापि निदानादयो वक्तव्याः| पञ्चविधमप्येतद्व्याध्युत्पत्तिज्ञप्तिहेतुभूतं निदानशब्देनोच्यते| यदाह सुश्रुतः– “हेतुलक्षणनिर्देशान्निदानानि” (सु. सू. अ. ३) इति| तत्रैवं निदानशब्दनिरुक्तिः– “निर्दिश्यते व्याधिरनेनेति निदानं”; “दिशेः पृषोदरादित्वाद्रूपसिद्धिः|” इति गदाधरः; “निश्चित्य दीयते प्रतिपाद्यते व्याधिरनेनेति निदानम्||” इति जेज्जटः| भट्टारहरिचन्द्रेणापि तन्त्रयुक्त्यादिविवरणप्रस्तावे एषैव निरुक्तिरुक्ता| निशब्दो निश्चये| तथा च वररुचेरुपसर्गसूत्रम्– “नि निश्चयनिषेधयोः” इति| लोकेऽपि ‘अद्य ते निदानं करिष्यामि’ इत्युक्ते निश्चयं करिष्यामीत्यवगम्यते| निदानमिति करणे ल्युट्; तेन ‘व्याधिनिश्चयकरणं निदानम्’ इति निदानादिपञ्चकसामान्यलक्षणम्| निदानशब्दोऽयं निदानविशेषे जातौ च वर्तते; यथा– तृणशब्दः तृणविशेषे तृणजातौ च वर्तते| यत्तु, भट्टारहरिचन्द्रेण निदानस्थाने– “या गौः सुदोहा भवति न तां निददीत|” इति व्यासप्रयोगमुपन्यस्य निबन्धार्थो निदानशब्दो व्याख्यातः ‘निदीयते निबध्यते हेत्वादिसम्बद्धो व्याधिरनेन’ इति कृत्वा; तत्तु निदानस्थानरूपग्रन्थाभिप्रायेण, नहि हेत्वादयो हेत्वादिसम्बद्धं व्याधिं प्रतिपादयन्ति ||४||
Adhikarana nidAnalakShaNam (5) · Śloka 5
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः |
निदानमाहुः पर्यायैः... |५|
(वा. नि. अ. १) |
एषां निदानादीनां मध्ये समानासमानजातीयव्यावर्तकं कारणरूपनिदानस्य लक्षणमाह– निमित्तेत्यादिना पर्यायैरित्यन्तेन| एतैः शब्दैर्योऽर्थोऽभिधीयते तन्निदानं; यथा– “बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्|” (न्या. द. प्र. आ. सू. १५) इति| ननु, किं मिलितैरेकैकशो वा? नाद्यः, एकार्थाभिधायिनां शब्दानां मिलितानामप्रयोगात्; द्वितीयश्चेत्तदा सव्यभिचारः; निमित्तस्य शकुनादौ, हेतोः प्रयोजके कर्तरि, आयतनस्य स्थाने, प्रत्ययस्य लडादौ, उत्थानस्य उद्गमनोत्सर्गयोश्च दर्शनात्| नैवं, शकुनादीनां निमित्तादिभिः सर्वैरनभिधानात्| अत एवाह– पर्यायैरिति| नहि तेषां ते पर्यायाः, यतः क्रमेणैकार्थवाचकाः शब्दाः परस्परं पर्याया उच्यन्ते| तस्मान्निमित्तादिशब्दैः पर्यायैरभिधीयमानत्वं निदानत्वम्| एतच्च पर्यायकथनं शास्त्रे व्यवहारार्थम्| इदं तु सङ्क्षेपतो लक्षणम्– “सेतिकर्तव्यताको रोगोत्पादकहेतुर्निदानम्|” इति| यन्मते दोषेतिकर्तव्यतारूपा सम्प्राप्तिरिष्यते तन्मते सम्प्राप्तिव्युदासार्थं ‘सेतिकर्तव्यताक’ इति पदं, तस्या दोषेतिकर्तव्यतारूपाया इतिकर्तव्यतान्तराभावात्| यन्मते व्याधिजन्म सम्प्राप्तिः, तन्मते ‘व्याध्युत्पत्तिहेतुर्निदानम्’ इति लक्षणम्| उभयत्रापि ‘उत्पत्ति’ एतत्पदं ज्ञप्तिहेतुपूर्वरूपादिव्यवच्छेदार्थम्| स च हेतुरनेकधा; तत्र प्रथमश्चतुर्विधः, यदाह उपकल्पनीयाध्याये हरिचन्द्रः– “सन्निकृष्टविप्रकृष्टव्यभिचारिप्राधानिकभेदाच्चतुर्धा|” इति| सन्निकृष्टो यथा– नक्तन्दिनर्तुभुक्तांशा दोषप्रकोपस्य हेतवः, न ते चयादिकमपेक्षन्ते| विप्रकृष्टो यथा– “हेमन्ते निचितः श्लेष्मा वसन्ते कफरोगकृत्|” (सु. उ. तं. अ. ६४); किंवा सन्निकृष्टो ज्वरस्य रूक्षादिसेवा, विप्रकृष्टो रुद्रकोपः| व्यभिचारी यथा– यो दुर्बलत्वाद्व्याध्यधिकरणासमर्थः| यदाह चरकः– “( निदानादिविशेषा) अबलीयांसोऽथवाऽनुबन्ध्नन्ति, न तदा विकाराभिनिर्वृतिः|” इति (च. नि. अ. ४)| प्राधानिको यथा– विषादिः; त्रिविधो वा, असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामभेदात्| तत्र, असात्म्येन्द्रियार्थसंयोगोऽयोगातियोगमिथ्यायोगयुक्ता रूपरसादयः, प्रज्ञापराधो मिथ्याज्ञानादिः, परिणामोऽयोगादियुक्ता ऋतुस्वभावजाः शीतादयः| “अधर्मस्य च रोगहेतोरत्रैवान्तर्भावः” इति भट्टारहरिचन्द्रः, तस्यापि कालान्तरपरिणतस्य दुःखकर्तृत्वात्| चक्रस्तु प्रज्ञापराधे तस्यान्तर्भावमाह; मिथ्याज्ञानकृतब्रह्मवधादिजन्मनोऽधर्मस्य प्रज्ञापराध एव मूलं; बलाबलं त्वत्र न निरूप्यते, रोगकारणत्वेनाधर्मस्य सर्वथा सिद्धत्वादिति| दोषव्याध्युभयहेतुभेदाच्च स त्रिविधः| दोषहेतवो यथा– चयप्रकोपप्रशमनिमित्ता यथर्तूत्पन्ना मधुरादयः| व्याधिहेतवो यथा– मृद्भक्षणं पाण्डुरोगस्य कारणम्| यद्यपि मृदपि दोषं प्रकोपयत्येव; यदुक्तं चरके– “कषाया मारुतं, पित्तमूषरा, मधुरा कफम्|” इति (च. चि. अ. १६) तथाऽपि तज्जैर्दोषैः पाण्डुरोग एवारभ्यते न त्वन्यो विकार इति व्याधिहेतुता भवति| उभयहेतुर्यथा वातरक्ते– “हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च” (सु. नि. अ. १) इत्यादि| तत्र यद्यपि दोषप्रकोपपूर्वकमेव व्याधिजननं, तथाऽपि दोषवद्व्याधावपि तस्य कारणत्वमिति बोधयति| तेन तत्र न व्याधिहरमात्रं भेषजं प्रयोज्यं, किन्तूभयप्रत्यनीकम्| न च वाच्यं कारणभूतदोषनिवृत्त्यैव कार्यभूतस्य व्याधेर्निवृत्तिरिति; यतः प्रतिनियतशक्तिकानि भेषजद्रव्याणि भवन्ति; कथमन्यथा श्लैष्मिकतिमिरे श्लेष्महरमेव वमनं न प्रयुज्यते| यदुक्तं सुश्रुते– “न वामयेत्तैमिरिकं न गुल्मिनं न चापि पाण्डूदररोगपीडितम्|” (सु. चि. अ. ३३) इति| स एवोत्पादकव्यञ्जकभेदाच्च द्विधा| तत्रोत्पादको यथा– हेमन्तजो मधुररसः कफस्य| व्यञ्जको यथा– तस्यैव कफस्य व्यञ्जको वसन्ते सूर्यसन्तापः इति भट्टारहरिचन्द्रः| तत्र व्यञ्जकः प्रेरक इत्यर्थः| बाह्याभ्यन्तरभेदाच्च द्विधा| तत्र बाह्या आहाराचारकालादयः| एतदभिप्रायेण तीसटाचार्यः– “व्यायामादपतर्पणात् प्रपतनाद्भङ्गात् क्षयाज्जागराद्वेगानां च विधारणादतिशुचः शैत्यादतित्रासतः| रूक्षक्षोभकषायतिक्तकटुकैरेभिः प्रकोपं व्रजेद्वायुर्वारिधरागमे परिणते चान्नेऽपराह्णेऽपि च|| कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातपस्त्रीसम्पर्कतिलातसीदधि-सुराशुक्तारनालादिभिः| भुक्ते जीर्यति भोजने च शरदि ग्रीष्मे सति प्राणिनां मध्याह्ने च तथाऽर्धरात्रिसमये पित्तं प्रकोपं व्रजेत्|| गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्यद्रवदधिदिननिद्रापूपसर्पिष्प्रपूरैः| तुहिनपतनकाले श्लेष्मणः सम्प्रकोपः प्रभवति दिवसादौ भुक्तमात्रे वसन्ते||” (च. क. अ. २९-३१) इति| आभ्यन्तरा यथा– दोषा दूष्याश्च| तत्र दोषोऽपि प्रकुपितः प्राकृतादिभेदादनेकधा| प्राकृतो यथा– वसन्ते श्लेष्मा, शरदि पित्तं, प्रावृषि वायुः| वैकृतस्तु यथा– वसन्ते पित्तं वायुर्वा, वर्षासु कफः पित्तं वा, शरदि कफो वायुर्वा| अस्य प्रयोजनं सुखसाध्यत्वादि| यदुक्तं चरके– “प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|” (च. चि. अ. ३) इत्यादि| अनुबन्ध्यानुबन्धभेदाच्च द्विधा| अनुबन्ध्यः प्रधानम्, अनुबन्धोऽप्रधानम्| यदाह चरकः– “स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानोपशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः|” (च. वि. अ. ६) इति| अस्य प्रयोजनं संसर्गजे व्याधावनुबन्ध्यो विशेषेण चिकित्स्योऽनुबन्धाविरोधेन| तदुक्तं चरके– “तत्रोपद्रवस्य प्रायः प्रधानप्रशमात् प्रशमः|” (च. चि. अ. २१) इति| उपद्रवोऽनुबन्धः| प्रकृतिविकृतितो यथा– वातप्रकृतेर्वातरोगः कष्टसाध्यो भवति, कफपित्तप्रकृतेस्तु सुखसाध्यः| यदाह सुखसाध्यलक्षणे चरकः– “न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्” (च. सू. अ. १०) इति| आशयापकर्षतो यथा– यदा स्वमानस्थितमेव दोषं स्वाशयादाकृष्य वायुः स्थानान्तरं गमयति तदा स्वमानस्थोऽपि स विकारं जनयति| यदाह चरकः– “प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति|| तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः| गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च||” इति (च. सू. अ. १७)| अस्य प्रयोजनं वातस्यैव तत्र विगुणस्य स्वस्थानानयनं कार्यं, नतु पित्तस्य ह्रासनं; “ये त्वेनां पित्तस्य स्थानाकृष्टिं न विदन्ति, ते दाहोपलम्भेन पित्तवृद्धिं मन्यमानाः पित्तं ह्रासयन्तः पित्तक्षयलक्षणं रोगान्तरमेवोत्पादयन्त आतुरमतिपातयन्ति|” इति भट्टारहरिचन्द्रः| अन्ये त्वाहुः– भ्राजकादिभेदेन सर्वदेहस्थिते पित्ते यदा स्वाशयाकृष्टं पित्तमवयवान्तरमनिलेन प्रापितं तदा तदवयवान्तरस्थं पित्तमागन्तुपित्तसम्बन्धेनाधिकमेव जातं, ततश्च पित्तवृद्धिलक्षणैवेयं दुष्टिर्न दुष्ट्यन्तरम्, अन्यथा दाह एव न स्यात् नहि स्वमानस्थो दोषो विकारं जनयतीति| भट्टारहरिचन्द्रस्य त्वयमभिप्रायः– यद्यप्येवं तथाऽपि चिकित्साभेदार्थं वृद्धिक्षयव्यतिरिक्तस्थानान्तरगतिरूपो दुष्टिविशेषोऽवश्यमेवेष्टव्यः, अन्यथा वृद्धं पित्तमिति मत्वा विरेचनं पित्तह्रासनं वा कार्यं, नच तत्तत्र योग्यं, किं तु स्वस्थानानयनम्| यच्चोक्तं चरकेण– “क्षयः स्थानं च वृद्धिश्च विज्ञेया त्रिविधा गतिः|” (च. सू. अ. १७) इत्यादि, तत् प्रायिकमिति| गतितो यथा– गतिर्दोषाणां क्षीणवृद्धत्वादयः| यदुक्तं चरके “क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः| ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधा परा|| त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु|” (च. सू. अ. १७) इति|| अत्र स्थानमिति समत्वम्| तत्र क्षयादिलक्षणं यथा– “दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति स्वं लिङ्गं, समाः स्वं कर्म कुर्वते||” (च. सू. अ. १७)– इति| स्वं लिङ्गमिति कुपितस्य वायो रौक्ष्यादयो धर्माः, कर्माणि च स्रंसशूलादीनि| यदाह चरकपाठसंवादी सुदान्तसेनः– “आध्मानस्तम्भरौक्ष्यस्फुटनविमथनक्षोभकम्पप्रतोदाः, कण्ठध्वंसावसादौ श्रमकविलपनं स्रंसशूलप्रभेदाः| पारुष्यं कर्णनादो विषमपरिणतिभ्रंशदृष्टिप्रमोहा, विस्पन्दोद्घट्टनानि ग्लपनमशयनं ताडनं पीडनं च|| नामोन्नामौ विषादो भ्रमपरिपतनं जृम्भणं रोमहर्षो, विक्षेपाक्षेपशोषग्रहणशुषिरताच्छेदनं वेष्टनं च| वर्णः श्यावोऽरुणो वा तृडपि च महती स्वापविश्लेषसङ्गा, विद्यात् कर्माण्यमूनि प्रकुपितमरुतः स्यात् कषायो रसश्च|| विस्फोटाम्लकधूमकाः प्रलपनं स्वेदस्रुतिर्मूर्छनं, दौर्गन्ध्यं दरणं मदो विसरणं पाकोऽरतिस्तृड्भ्रमौ| ऊष्माऽतृप्तितमः प्रवेशदहनं कट्वम्लतिक्ता रसा, वर्णः पाण्डुविवर्जितः क्वथितता कर्माणि पित्तस्य वै|| तृप्तिस्तन्द्रा गुरुता स्तैमित्यं कठिनता मलाधिक्यम्| स्नेहापक्त्युपलेपाः शैत्यं कण्डूः प्रसेकश्च|| चरकर्तृत्वं शोथो निद्राधिक्यं रसौ पटुस्वादू| वर्णः श्वेतोऽलसता कर्माणि कफस्य जानीयात्|| द्विदोषलिङ्गः संसर्गः सन्निपातस्त्रिलिङ्गकः|” इति| लिङ्गज्ञानप्रयोजनं च चिकित्साभेदार्थम्| यदाह सुश्रुतः– “क्षीणा वर्धयितव्याः, वृद्धा ह्रासयितव्याः, समाः पालयितव्याः” (सु. चि. अ. ३३)– इति| ऊर्ध्वादिगतिर्यथा– ऊर्ध्वगं रक्तपित्तमित्यादि| अस्य प्रयोजनं रक्तपित्तस्योर्ध्वगस्य विरेचनम्, अधोगस्य वमनम्| यथोक्तं चरके– “ प्रतिमार्गं च हरणं रक्तपित्ते विधीयते|” (च. नि. अ. २) इति| यस्तु गतिभेदानभिज्ञः सः “विरेकः पित्तहराणां” (च. सू. अ. २५) इति वचनादधोगे रक्तपित्ते विरेकं प्रयुञ्जान आतुरस्यानर्थमेवोत्पादयति; ज्वरादिषु तिर्यग्दोषगतिषु यथोक्तं चिकित्सितमिति| वृद्धा दोषाः कदाचित् कोष्ठं, कदाचिच्छाखाः, कदाचिन्मर्मास्थिसन्धीनाश्रित्य रुजन्ति; मर्मास्थिसन्धिषु गतिः कृच्छ्रसाध्यत्वोपादकत्वादेकत्वेन निर्दिष्टा| कोष्ठ आमाशयादिः, शाखा रक्तादयो धातवस्त्वक्चेति, चरककृतैवेयं सञ्ज्ञा| कोष्ठाद्यभिधानप्रयोजनं चिकित्साभेदार्थम्| यथोक्तं चरके– “आमाशयगते वाते कफे पक्वाशयाश्रिते| रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च||” (च. सू. अ. १४); तथा– “सन्ततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः|” (सु. उ. तं. अ. ३९) इत्यादि; तथा– “नाग्निकर्मोपदेष्टव्यं स्नायुमर्मव्रणेषु च|” (च. चि. अ. २५) इति| एते च दोषाः सामत्वनिरामत्वाभ्यामपि ज्ञातव्याः| यदुक्तम्– “ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते|| आमेन तेन संयुक्ता दोषा दूष्याश्च दूषिताः| सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः|| स्रोतोरोधबलभ्रंशगौरवानिलमूढताः| आलस्यापक्तिनिष्ठीवमलभेदारुचिक्लमाः|| लिङ्गं मलानां सामानां निरामाणां विपर्ययः|” (वा. सू. अ. १३)| “वायुः सामो विबन्धाग्निसादतन्द्रान्त्रकूजनैः|| वेदनाशोथनिस्तोदैः क्रमशोऽङ्गानि पीडयेत्| विचरेद्युगपच्चापि गृह्णाति कुपितो भृशम्| स्नेहाद्यैर्वृद्धिमाप्नोति सूर्यमेघोदये निशि| निरामो विशदो रूक्षो निर्विबन्धोऽल्पवेदनः|| विपरीतगुणैः शान्तिं स्निग्धैर्याति विशेषतः| दुर्गन्धं हरितं श्यावं पित्तमम्लं स्थिरं गुरु|| अम्लिकाकण्ठहृद्दाहकरं सामं विनिर्दिशेत्| आताम्रं पित्तमत्युष्णं रसे कटुकमस्थिरम्|| पक्वं विगन्धं विज्ञेयं रुचिपक्तृबलप्रदम्| आविलस्तन्तुलः स्त्यानः कण्ठदेशेऽवतिष्ठते| सामो बलासो दुर्गन्धः क्षुदुद्गारविघातकृत्|| फेनवान् पिण्डितः पाण्डुर्निःसारोऽगन्ध एव च| पक्वः स एव विज्ञेयश्छेदवान् वक्त्रशुद्धिकृत्||” इति| अस्य प्रयोजनं सामे पाचनं, निरामे शमनमिति| एते च दोषाः परस्परसम्बद्धास्तरतमादिभेदेन द्विषष्टिधा भवन्ति| तदुदाहरणानि विस्तरत्वापत्तेरत्र न लिख्यन्ते, सौश्रुतदोषभेदविकल्पाध्याये (सु. उ. तं. अ. ६६) द्रष्टव्यानि| उक्तहेतुदोषभेदयोः सङ्ग्रहश्लोकौ– “चत्वारो व्यभिचारिदूरनिकटप्राधानिकत्वात्, पुनस्तेऽसात्म्येन्द्रियकार्थयुक्परिणतिप्रज्ञापराधात्त्रिधा| रुग्दोषोभयकारणादपि तथा, द्वौ व्यञ्जकोत्पादकौ, बाह्याभ्यन्तरभेदतोऽपि कथिता हेतोः प्रभेदा अमी|| दोषस्य च प्राकृतवैकृताभ्यां, भेदोऽनुबन्ध्यादपि चानुबन्धात्| तथा प्रकृत्यप्रकृतित्वयोगात्तथाऽऽशयाकर्षवशाद्गतेश्च||” इति निदानम्|५|–
Adhikarana pUrvarUpalakShaNam (5-6) · Śloka 6
...प्राग्रूपं येन लक्ष्यते ||५||
उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः |
लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ||६||
(वा. नि. अ. १) |
निदानानन्तरीयकत्वात् पूर्वरूपादीनां तदनन्तरं प्राग्रूपमाह– प्राग्रूपमित्यादि| द्विविधं हि पूर्वरूपं भवति, सामान्यं विशिष्टं च| तत्र सामान्यं येन दोषदूष्यसम्मूर्छनावस्थाजनितेन भाविज्वरादिव्याधिमात्रं प्रतीयते, न तु वातादिजनितत्वादिविशेषः| यथा– ‘श्रमोऽरतिर्विवर्णत्वं’ (सु. उ. तं. अ. ३९); इत्यादि, तथा देवगुरुविप्रद्वेषादि; सामान्याभिप्रायेणैवत तन्त्रान्तरम्– “व्याधेर्जातिर्बुभूषा च पूर्वरूपेण लक्ष्यते| भावः किमात्मकत्वं च लक्ष्यते लक्षणेन हि||” इति| तथाऽऽह पराशरः– “पूर्वरूपं नाम येन भाविव्याधिविशेषो लक्ष्यते न तु दोषविशेषः|” इति| विशिष्टं यथा– उरःक्षतादौ लिङ्गान्येव वातादिजान्यव्यक्तानि| यदुक्तं तत्रैव– “अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम्|” (च. चि. अ. ११) इति तथा सुश्रुतः– “सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्| पित्तान्नयनयोर्दाहः कफादन्नारुचिस्तथा||” इति (सु. उ. तं. अ. ३९) हारीतेऽप्युक्तम्– “इति पूर्वरूपमष्टानां ज्वराणां सामान्यतः, विशेषतस्तु जृम्भाङ्गमर्दभूयिष्ठं हृदयोद्वेगि वातजम्|” इत्यादि| ननु, चात्यर्थं व्यक्तत्वं ततश्च जृम्भादेरपि रूपत्वं प्रसज्येत; यद्वक्ष्यति– “तदेव व्यक्ततां यातं रूपमित्यभिधीयते|” (वा. नि. अ. १) इति| उच्यते– यथा श्रमादय इतररोगव्यतिरिक्तं भाविज्वरमात्रं बोधयन्ति न तु वातजत्वादिविशेषमित्यतस्तेषामव्यक्तत्वं, तथा पित्तादिज्वरव्यतिरिक्तं भविष्यद्वातज्वरमात्रं बोधयन्ति जृम्भादयः, न तु वातस्य रूक्षशीतधातुक्षयावरणादिजन्यत्वरूपविशेषं बोधयन्ति; इत्यतोऽव्यक्तवातज्वरबोधकत्वादव्यक्तत्वमेव जृम्भादीनामिति जेज्जटवाप्यचन्द्रमाधवकरकार्तिककुण्डादयो व्याचक्षते| अन्ये त्वाहुः– प्रभूताव्यक्तपूर्वरूपसहचरितस्य व्यक्तस्यापि जृम्भादेः पूर्वरूपव्यपदेशः; यथा– माषराशिः; छत्रिणो गच्छन्त्येवमादि| न च व्यक्तत्वेन रूपादभेदः; नियमेन पूर्वरूपरूपयोर्भाविवर्तमानव्याधिबोधकत्वादिति| तत्र विशिष्टं प्राग्रूपं रूपावस्थायामनुवर्तते एव, तस्यैवाभिव्यक्तस्य रूपत्वात्; न तु दोषदूष्यसम्मूर्छनावस्थाजनितं रोमहर्षबालप्रद्वेषादिकं नियमेनानुर्वते, यद्यनुवर्तेत तदा सर्वज्वराणामसाध्यत्वं प्रसज्येत| एतदभिप्रायेण, “पूर्वरूपाणि सर्वाणि ज्वरोक्तान्यतिमात्रया| यं विशन्ति विशत्येनं मृत्युर्ज्वरपुरःसरः||” (च. इ. अ. ५)– इति चरकवचनमित्याहुः| तदेवं द्विविधे पूर्वरूपे व्यवस्थिते सामान्यपूर्वरूपमाह– प्राग्रूपमित्यादि| येन श्रमादिना, उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छुः, आमयो रोगः, दोषविशेषेण वातादिजन्यासाधारणवेपथ्वादिना, अनधिष्ठितोऽसम्बद्धो, लक्ष्यते ज्ञायते, तत् प्राग्रूपमिति| विशिष्टप्राग्रूपमाह– लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथमिति| प्राग्रूपमित्यनेन पूर्वोक्तेन सम्बन्धः| लिङ्गं लक्षणम्; अव्यक्तं नात्यभिव्यक्तम्, अत्र हेतुरल्पत्वादणुत्वात्, नत्वावरणादियोगादव्यक्तमित्यर्थः; यथायथं यस्य व्याधेर्यद्रूपं तदेवाव्यक्तं तस्य पूर्वरूपमित्यर्थः| अन्ये तु पूर्वरूपलक्षणमाहुः– “स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम्| दोषाः कुर्वन्ति यल्लिङ्गं पूर्वरूपं तदुच्यते||” इति| तन्नातियुक्तं, राजयक्ष्मणः पूर्वरूपस्य तृणकेशनिपातादेरदृष्टजन्यस्याव्यापकत्वात्| यदाह चरकः– “यक्ष्मिणां घूणकेशानां तृणानां पतनानि च| प्रायोऽन्नपाने, केशानां नखानां चाभिवर्धनम्||” (च. चि. अ. ८) इति| न च तदपि दोषजं, दोषाणां तृणादिभिरसम्बन्धात्, असम्बद्धस्य च भावस्य कारणत्वेनादृष्टत्वात्; परम्परया तु सम्बन्धकल्पनयाऽतिप्रसङ्गात्, सर्वं सर्वस्य कारणं स्यात्| एतद्दोषपरिजिहीर्षयैव परमकुशलेन वाग्भटेनादृष्टदोषजसर्वपूर्वरूपोपसङ्ग्राहकं येनेतिपदं निबद्धमिति चरकेनोक्तं मत्वा तदीयपूर्वरूपलक्षणमेव माधवकरो लिखितवान्| सङ्क्षेपतस्तु लक्षणम्– “भाविव्याधिबोधकमेव लिङ्गं पूर्वरूपम्|” इति| एवकारेण निदानोपशययोः सम्प्राप्तेश्च दोषेतिकर्तव्यतारूपाया व्यवच्छेदः, तेषां तज्जातीयानामुत्पन्नानुत्पन्नव्याधिबोधकत्वात्| तथा हि– निदानं मृद्भक्षणरूपं भाविपाण्डुरोगमनुपशयरूपं च वर्तमानविशिष्टव्याधिं बोधयति; उपशयोऽपि पूर्वरूपावस्थाप्रयुक्तो भाविविशिष्टव्याधिं ज्ञापयति, रूपावस्थाप्रयुक्तश्च वर्तमानविशिष्टव्याधिं ज्ञापयति; सम्प्राप्तिश्च पूर्वरूपस्य मध्याह्नादावुत्पत्तिप्रकोपाभ्यां भविष्यद्विशिष्टव्याधिं, रूपस्य च मध्याह्नप्रकोपादिना वर्तमानविशिष्टव्याधिं ज्ञापयति; इत्येषामुत्पन्नानुत्पन्नव्याधिबोधकत्वम्| ननु, यदा पूर्वरूपविशेषं स्मृत्वोत्पन्नव्याधेर्विशेषावधारणं तदा पूर्वरूपमपि वर्तमानव्याधिबोधकं, यथोक्तं रक्तपित्तप्रमेहरूपसन्देहे चरकेण– “हारिद्रवर्णं रुधिरं च मूत्रं विना प्रमेहस्य हि पूर्वरूपैः|” (च. चि. अ. ६) इत्यादि| अत्रोच्यते– किं व्याधिजन्मनः पूर्वं पूर्वरूपं गृहीतं न वा? आद्ये भाविव्याधिबोधकत्वमेव; द्वितीये स्मरणोत्पत्तिरेव न स्यात्, अनुभवाभावात्| अथोच्यते– पूर्वरूपं दन्तादीनां मलाढ्यत्वादिरूपं स्वरूपेणानुभूतमेव, किन्तु प्रमेहपूर्वरूपतया न प्रतिभातम्; उत्पन्ने तु व्याधौ तत् स्मृतं प्रमेहविशेषमवधारयति| एवं तर्हि पूर्वरूपस्मरणं कारणं न तु पूर्वरूपं, रूपावस्थायां तस्य व्यपगतत्वात्| स्मरणं न प्रमाणमिति चेत्, सत्यं; किन्तु (पूर्वानुभवजनितसंस्कारोपस्थित)स्मरणसहकृतं पूर्वरूपं व्याधिविशेषबोधकं, न तु केवलं स्मरणं; यथा– संस्कारोपस्थापितस्मरणसहकृतं चक्षुः प्रत्यभिज्ञायां प्रागवस्थाविशिष्टघटावबोधकम्– सोऽयं घट इति| एवं स्मरणवदाप्तोपदेशेऽपि वाच्यं, तस्य च लिङ्गपदेन व्युदासः; भाविपदेन रूपस्य; लिङ्गपदेन चक्षुरादेः, तस्य घटज्ञानादिसाधारणत्वेनालिङ्गत्वात्; असाधारणं हि लिङ्गं भवति| एतच्च पूर्वरूपमविद्यमानस्यापि व्याधेर्लिङ्गं भवत्येव; यथा– विशिष्टमेघोदयो वृष्टेः| इति पूर्वरूपम्||५-६||
Adhikarana rUpalakShaNam (7) · Śloka 7
तदेव व्यक्ततां यातं रूपमित्यभिधीयते |
संस्थानं व्यञ्जनं लिड्गं लक्षणं चिह्नमाकृतिः ||७||
(वा. नि. अ. १) |
यद्यपि पूर्वरूपानन्तरं सम्प्राप्तिर्भवति, तथाऽपि व्याधिस्वरूपज्ञानार्थं रूपमाह– तदेवेत्यादि| तदेव पूर्वरूपमेव| व्यक्ततामुद्भूततामिति| ननु व्यक्तत्वं पूर्वरूपस्य किं कार्त्स्येन, एकदेशेन वा? आद्ये सर्वज्वराणामसाध्यत्वं स्यात्; यदुक्तं चरके– “पूर्वरूपाणि सर्वाणि” (च. इ. अ. ५) इत्यादि; द्वितीये हि “जृम्भाऽत्यर्थं समीरणात्| पित्तान्नयनयोर्दाहः” (सु. उ. तं. अ. ३९) इत्यादेरपि पूर्वरूपस्य रूपत्वप्रसङ्गः? नैवम्, अनभ्युपगमान्न कृत्स्नस्य नाप्येकदेशस्य, किन्त्वनिर्धारितैकत्वानेकत्वविशेषस्य पूर्वरूपमात्रस्य व्यक्तस्य व्याधेर्लिङ्गत्वं; यथा– तार्णपार्णादिविशेषविरहेण धूममात्रस्य वह्निबोधकत्वम्| एवं व्यवस्थिते यदा सर्वस्याभिव्यक्तिस्तदा न साध्यत्वम्, अन्यथा तु साध्यत्वम्| न च जृम्भादे रूपत्वप्रसङ्गः, तस्य प्रागेव व्यक्तत्वात्; अव्यक्तं सद्व्यक्ततां यातं तस्य रूपत्वेनाभिधानात्; अपरप्रभूताव्यक्तलिङ्गसहचरितत्वेन पूर्वरूपरूपयोरसमानकालत्वेन च रूपत्वायोगादिति ईश्वरसेनस्त्वाह– “ व्याधेः स्वरूपं यद्व्यक्तं तद्रूपम्” इति| तन्न, विकल्पासहत्वात्| तथा हि– स्वरूपमिति किं स्वं रूपं स्वरूपम्? आहोस्वित् स्वीयं रूपं स्वरूपं? स्वीयमपि धर्मः, कार्यं वा? न तावत् स्वरूपं, स्वात्मनि क्रियाविरोधात्; रूपं हि व्याधिप्रतिपत्तिनिमित्तमुक्तं, तच्चेद् व्याधिस्वभाव एव तर्हि व्याधिस्वभावादेव व्याधिस्वभावः प्रतीयत इति व्यक्तः स्वात्मनि क्रियाविरोधः| नापि धर्मः, चरकोक्तकृष्णत्वङ्नखविण्मूत्रत्वादेरर्शोरूपत्वानुपपत्तेः| नहि कृष्णत्वङ्नखादिकमर्शोधर्मः, अतन्निष्ठत्वात्; धर्माणां च धर्मिनिष्ठत्वात्, अन्यथाऽतिप्रसङ्गात्| नापि कार्यम्, उपद्रवादेरपि रूपत्वप्रसङ्गात्| तदपि कृच्छ्रसाध्यासाध्यव्याधेर्लिङ्गमिति चेत्, नैवम्; असाध्यत्वादेरेव तल्लिङ्गं, न तु व्याधेः; तस्य पूर्वमेव ज्ञातत्वाद्, भेदेनोपादानाच्च; तदुक्तम्– “सोपद्रवारिष्टनिदानलिङ्गो निबध्यते रोगविनिश्चयोऽयम्|” इति, ननु, उपद्रवो न व्याधेः कार्यं, किन्तु व्याध्यारम्भकदोषस्य; यदुक्तं सुश्रुते– “स तन्मूलमूल एवोपद्रवसञ्ज्ञकः|” इति (सु. सू. अ. ३५); व्याचक्षते च टीकाकृतः– “ तन्मूलं तस्य व्याधेर्मूलं दोषरूपं मूलं यस्य स तन्मूलः|” इति| नैवम्, अपचारेण मूलभूतदोषोपबृंहणलब्धबलश्चेद्व्याधिरुपद्रवं करोति तेन ‘ तन्मूलमूल’ इत्युक्तवान्| अत एवाह चरकः– “कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति|” (च. नि. अ. ८) इत्यादि| सर्वमेवैतत्स्वरूपशब्दवाच्यं क्वचित्किञ्चिदिति; तथा च सति न व्यभिचार इति केचित्| तथाऽपि व्यवस्थामात्रं स्यान्न तु लक्षणम्, एकस्य सकलरूपसङ्ग्राहकस्य धर्मस्याभावात्, उपद्रवस्यापि व्याधिस्वरूपत्वापत्तेश्चेति| तस्मात् “उत्पन्नव्याधिबोधकमेव लिङ्गं रूपम्” इति लक्षणम्| ‘उत्पन्न’ इति पदं पूर्वरूपव्यवच्छेदार्थम्; एवकारेण निदानसम्प्राप्त्युपशया व्यवच्छिद्यन्ते, तेषामुत्पन्नानुत्पन्नव्याधिबोधकत्वात्; तच्च दर्शितमेव; लिङ्गपदेन चक्षुरादेर्व्युदासः; यन्मते व्याधिजन्मरूपा सम्प्राप्तिस्तन्मते तस्या लिङ्गपदेन व्यवच्छेदः, न हि सा व्याधिज्ञाने लिङ्गं, किन्तु कारणमात्रम्| शास्त्रे व्यवहारार्थं निदानवल्लक्षणार्थं च रूपपर्यायानाह– संस्थानमित्यादि| ननु, रूपेण व्याधिर्ज्ञायते, न च रूपव्यतिरेकेण व्याधिरुपलभ्यते; यतो मिलिता अरुच्यादय एव ज्वरः, कासाद्येकादशरूपाण्येव राजयक्ष्मा| उच्यते– नैवं, तथाविधदोषदूष्यसम्मूर्छनाविशेषो ज्वरादिरूपो व्याधिः, तत्कार्याश्चारुच्यादयः ; किञ्च अरुच्यादय एव प्रत्येकशो रूपाणि, तत्समुदायो व्याधिः, यतः समुदायिभ्योऽन्य एव समुदायः, यथा– खदिरतरूणां वनमिति; अन्ये तु राहोः शिरः, शिलापुत्रस्य शरीरमितिवदसत्यपि भेदे भेदविवक्षया समर्थयन्ति; नैयायिकास्तु तत्रापि भेदमापादयन्ति| ननु, “विकारो दुःखमेव च|” इति (च. सू. अ. ९) चरकवचनाद्दुःखस्यात्मगुणस्य कथमरुच्यादिसमुदायत्वं? नैवं, दुःखयतीति दुःखमिति व्युत्पत्त्या दुःखहेतोर्धातुवैषम्यादेर्व्याधित्वस्वीकारात्| अरुच्यादयस्तु स्वरूपेण विकारा एव, यदा त्वन्यप्रतिपादकास्तदा लिङ्गान्येवोच्यन्ते| यदाह चरकः– “ज्ञानार्थं यानि चोक्तानि व्याधिलिङ्गानि सङ्ग्रहे| व्याधयस्ते तदात्वे तु लिङ्गानीष्टानि नामयाः||” इति (च. नि. अ. ८)| इति रूपलक्षणम्||७||
Adhikarana upashayalakShaNam (8-9) · Śloka 9
हेतुव्याधिविपर्यस्तविपर्यस्तार्थकारिणाम् |
औषधान्नविहाराणामुपयोगं सुखावहम् ||८||
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः |
विपरीतोऽनुपशयो व्याध्यसात्म्याभिसञ्ज्ञितः ||९||
(वा. नि. अ. १) |
उपशयमाह– हेतुव्याधीत्यादि| हेतुर्बाह्य आभ्यन्तरश्च, व्याधिर्ज्वरादिः, एतयोर्हेतुव्याध्योर्व्यस्तसमस्तयोर्विपर्यस्ता विपरीताः, एतयोरेव व्यस्तसमस्तयोर्विपर्यस्तार्थकारिणो निदानसमानधर्मिणोऽपि प्रभावाद्रोगप्रशमकारिणः; एवंविधा ये औषधान्नविहारा भेषजाहाराचारास्तेषामुपयोगमाचरणं सुखावहं सुखकरमुपशयं विद्यादुपशयाख्यं जानीयाद्व्याधेः| तस्य पर्यायमाह– स हि सात्म्यमिति स्मृत इति| चरकेऽप्युक्तम्– “सात्म्यार्थो ह्युपशयार्थः” इति (च. नि. अ. १)| हिशब्दः पादपूरणे| सुखावहमिति सुखं रोगनिवृत्तिलक्षणं; यथा व्यपदिशन्ति लोके– ‘भारापगमे सुखिनः संवृत्ताः स्म’ इति, तत् सुखमावहति सम्यगायत्त्याऽनुबन्धेन च करोतीति सुखावहम्| एतेन सदाहतृष्णानवज्वरिणः शीतलजलपानं तत्कालसुखकरमपि नोपशय इति तात्पर्यार्थः| अत्र, औषधान्नविहाराणामित्युपलक्षणं; तेन देशकालावपि बोद्धव्यौ| अत एव वृद्धवाग्भटेन व्याध्यादिविपरीतमभिधाय “एतेन देशकालावपि व्याख्यातौ” (वृ. वा. नि. अ. १) इत्याख्यातम्| सुदान्तसेनोऽप्याह– “सुखानुबन्धो यो हेतुर्व्याध्यादिविपरीतकः| देशादिकश्चोपशयो ज्ञेयोऽनुपशयोऽन्यथा||” इति| सङ्क्षेपतस्तु लक्षणम्– “औषधादिजनितः सुखानुबन्ध उपशयः” इति| स्रक्चन्दनवनिताद्युपभोगजनितसुखनिवृत्त्यर्थमौषधादिपदम्, अनुबन्धशब्दश्च अपथ्यजनिततदात्वसुखव्यवच्छेदार्थः| एतदप्युदाहरणदर्शनपरं, न तु लक्षणम्; औषधादीनां हेतुविपरीतादीनां च परस्परव्यभिचारेण लक्षणत्वायोगात्| तस्मात् ‘सम्यग्व्याधिजदुःखोपशमहेतुरुपशयः’, ‘सात्म्यमुपशयः’ इति वा लक्षणम्; ‘औषधजनितः सुखानुबन्ध उपशयः’ इति वा लक्षणम्| चरके; आहाराचारदेशकाललङ्घनादीनां द्रव्याद्रव्यभूतानामौषधत्वेनाभिधानात्| अथैषामुदाहरणानि; तत्र हेतुविपरीतानि; औषधं यथा– शीतकफज्वरे शुण्ठ्याद्युष्णं भेषजम्| यदुक्तम्– “शीतेनोष्णकृतान्रोगान् शमयन्ति भिषग्विदः| ये तु शीतकृता रोगास्तेषामुष्णं भिषग्जितम्||” इति (च. वि. अ. ३)| अन्नं यथा– श्रमानिलजे ज्वरे रसौदनम्| विहारो यथा– दिवास्वप्नोत्थे कफे रात्रौ जागरणमिति| अथ व्याधिविपरीतानि| औषधं यथा– अतिसारे स्तम्भनं पाठादि, तथा शिरीषो विषं हन्ति, खदिरः कुष्ठं, हरिद्रा प्रमेहमिति; नैते दोषमपेक्षन्ते प्रभावाद्रोगप्रशमकारिण इति| वाप्यचन्द्रस्त्वाह– “ज्वरादिव्याधिहरं यद्द्रव्यं तदपि दोषप्रत्यनीकं”, किन्तु दोषप्रत्यनीकादस्यायं भेदः– यद्दोषप्रत्यनीकं तन्नावश्यं व्याधिहरं; यथा– वमनलङ्घने कफहरे न कफगुल्मं हरतः; उक्तं हि चरके– “कफे लङ्घनसाध्ये तु कर्तरि ज्वरगुल्मयोः| तुल्येऽपि देशकालादौ लङ्घनं न च सम्मतम्||” इति; तथा– “न वामयेत्तैमिरिकं न गुल्मिनं न चापि पाण्डूदररोगपीडितम्|” इति; (सु. चि. अ. ३३); “यत्तु व्याधिहरं तदवश्यं दोषहरं, तद्व्याधिं शमयत्तदारम्भकदोषमपि शमयति; अन्यथा स रोगो जित एव न स्यात्, कारणतादवस्थ्यात्” इति| तन्नातिसङ्गतमित्यन्ये; यतो दोषस्तत्र समवायी निमित्तं वा; न च समवायिनिमित्ताभावप्रयुक्तो नियमेन कार्याभावः, किन्त्वसमवायिनिमित्ताभावप्रयुक्तोऽपि; यथा– कपालमालासंयोगस्यासमवायिकारणस्य विनाशादपि घटाभावः; तथा– रोगेऽपि सम्प्राप्तिलक्षणस्य संयोगस्य विनाशाद्रोगस्यापि विनाशः, दोषस्तु स्वतः क्रियान्तरेण वा निवर्तते; किञ्च यदि व्याधिप्रत्यनीकमवश्यं दोषं निवर्तयेदिति स्वीक्रियते, तदोभयप्रत्यनीकाद्भेदो दुरुपपादः स्यादिति| ननु, यदि निमित्तकारणं दोषस्तत्कथं तदारब्धविकारे वमनादिना दोषहरणं विधीयते? नहि दण्डकुलालाद्युच्छेदे घटोच्छेद इति| उच्यते, यत्र यावन्निमित्तकारणस्थायिकार्यं तत्र निमित्तकारणोच्छेदादपि कार्यनाशः; यथा– वर्तितैलनाशादपि प्रदीपनाशः; तथाभूताश्च दोषाः प्रायश इति| अन्नं यथा– अतिसारे स्तम्भनं मसूरादि| विहारो यथा– उदावर्ते प्रवाहणं; मन्त्रौषधिधारणबल्युपहारनियमप्रायश्चित्तहोमगुरुदेवशुश्रूषादयोऽपि व्याधिविपरीता विहारा इति वाप्यचन्द्रः| अथ हेतुव्याधिविपरीतानि– औषधं यथा– वातशोथे दशमूलं वातहरं शोथहरं च| यदुक्तं चरके षड्विरेचनशताश्रितीयेऽध्याये ‘पाटला’ इत्यादि यावत्– “दशेमानि शोथहराणि” इति (च. सू. अ. ४) अन्नं यथा– वातकफग्रहण्यां तक्रं, शीतवातोत्थे ज्वरे पेया; सा ह्युष्णवीर्यत्वाद्वातं हन्ति प्रभावाज्ज्वरं च| यदुक्तं चरके– “ ज्वरघ्न्यो ज्वरसात्म्यत्वात्” इति (च. चि. अ. ३); सुश्रुतेऽपि– “ज्वरे चैवातिसारे च यवागूः सर्वदा हिता|” इति (सु. उ. तं. अ. ४०)| विहारो यथा– स्निग्धदिवास्वप्नप्रजातायां तन्द्रायां रूक्षं तन्द्राविपरीतं रात्रिजागरणमिति| अथ हेतुविपरीतार्थकारीणि; औषधं यथा– पित्तप्रधाने पच्यमाने व्रणशोथे पित्तकर उष्ण उपनाहः| अन्नं यथा– पच्यमाने व्रणशोथेऽन्नं विदाहि| विहारो यथा– वातोन्मादे त्रासनमिति| अथ व्याधिविपरीतार्थकारीणि; औषधं यथा– छर्द्यां वमनकारकं मदनफलादि| अन्नं यथा– अतिसारे विरेचनार्थं विरेचनं क्षीरम् | विहारो यथा– छर्द्यां वमनार्थं प्रवाहणमिति| अथ हेतुव्याधिविपरीतार्थकारीणि; औषधं यथा– अग्निप्लुष्टे उष्णोऽगुर्वादिलेपः, विषे वा विषम्| अन्नं यथा– मद्यपानोत्थे मदात्यये मदकारकं मद्यम्| विहारो यथा– व्यायामजनितसम्मूढवाते जलप्रतरणरूपो व्यायाम इति| ननु छर्द्यां बहुश्लेष्मजायां वमनयोग्यायां यदि वमनं न क्रियते तदा चिरानुवर्ती रोगोऽनुच्छेद्यो वा स्यात्, ततश्च वमनं प्रयुक्तं दोषप्रत्यनीकमेव भवति; यदुक्तं सुश्रुते– “छर्दिषु बहुदोषासु वमनं हितमुच्यते|” (सु. उ. तं. अ. ४९) इति, तथा आमातिसारे क्षीरस्य विरेकित्वेनामनिः सरणाद्धेतुप्रत्यनीकमेव भवति| एवमग्निप्लुष्टेऽप्युष्णक्रियया रक्तस्य विलयनेन स्थानान्तरगमनात् हेतुप्रत्यनीकमेव; अन्यथा दाहप्रकुपितं रक्तं तत्रस्थं पाकमारभेत्; यदुक्तं सुश्रुते– “अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति| ततस्तेनैव वेगेन पित्तमस्याप्युदीर्यते||” इति (सु. सू. अ. १२); शीतक्रिया च तत्र निषिद्धा, रक्तस्य स्त्यानत्वहेतुत्वात्; यदाह सुश्रुतः– “प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम्| तस्मात् सुखयति ह्युष्णं नतु शीतं कथञ्चन||” इति (सु. सू. अ. १२)| स्कन्दयति स्त्यानीकरोति; तथा जङ्गमविषे ऊर्ध्वगस्वरूपे मौलविषमधोगस्वरूपं हेतुविपरीतमेव| यदुक्तं चरके– “विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम्| ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम्||” इति (च. सू. अ. २६)| अस्यायमर्थः– विषत्वाविशेषेऽपि कुतो गतिभेद इत्यत उक्तम्– तत् प्रभावप्रभावितमिति; तथा मद्यकृते मदात्यये यन्मद्यं तदपि मातुलुङ्गचुक्रादियुतं सुश्रुतादिभिर्विहितं केवलाच्च द्रव्यान्तरसंयुक्तमन्यदेव, अथवा वातमदात्यये रूक्षमाध्वीकादिना जनिते स्निग्धपैष्टिकादिमद्यं प्रयुज्यमानं हेतुविपरीतमेव; यच्चोक्तं सुश्रुते– “यथा नरेन्द्रोपहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः| ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः||” इति (सु. उ. तं. अ. ४७), तन्मद्यजातीयाभिप्रायेणैव; यच्चोरुस्तम्भे जलप्रतरणं, तत्रापि जलस्य शैत्येन बहिरगच्छन् देहोष्मा कुम्भकारपवनन्यायेनान्तःपिण्डितौ मेदःश्लेष्माणौ विलाययति, व्यायामश्च तौ शोषयति, ततस्तु निरावरणो वायुः स्वमार्गप्रतिपन्नो भवतीति हेतुप्रत्यनीकतैव; अनेन न्यायेन सर्वमेव तदर्थकारि यथासम्भवं हेतुप्रत्यनीकादावेवान्तर्भवतीति| उच्यते– यद्यप्येवं तथाऽप्यवान्तरवैधर्म्यप्रतिपादनार्थमाचार्यैः पृथग्दर्शितम् | तथा चरकेऽप्युक्तम्– “उपशयः पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणां चौषधाहारविहाराणामुपयोगः सुखानुबन्धः|” इति (च. नि. अ. १)| वैधर्म्यं च हेतुसमानधर्मकत्वेऽपि रोगप्रशमकत्वमिति| विपरीतोऽनुपशय इति औषधादीनां दुःखकर उपयोगोऽनुपशय इत्यर्थः| तत्पर्यायमाह– व्याध्यसात्म्य इति| व्याधिग्रहणेन दोषोऽपि बोध्यः| ननु, अनुपशयः किं व्याधिविशेषं बोधयति नो वा? नेति चेत्, निदाने तदुपन्यासो व्यर्थः; प्रतिपादयतीति चेत्, ‘विज्ञानं रोगाणां पञ्चधा स्मृतम्’ इति व्याहन्यते, तस्य षष्ठत्वापत्तेः| नैवं, प्रतिपादयत्येव; यदाह चरकः– “गूढलिङ्गं व्याधिमुपशयानुपशयाभ्यां परीक्षेत|” इति (च. वि. अ. ४)| किन्तु निदाने तस्यान्तर्भावः, दोषस्य रोगस्य वा वर्धकत्वात् ( इत्यनुपशयस्य निदानेऽन्तर्भावान्न षष्ठत्वापत्तिः, वक्ष्यति च– ‘निदानोक्तानुपशयः’ इति|)| इत्युपशयलक्षणम्||८-९||
Adhikarana samprAptilakShaNam (10) · Śloka 10
यथादुष्टेन दोषेण यथा चानुविर्सपता |
निर्वृत्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः ||१०||
(वा. नि. अ. १) |
सम्प्राप्तिमाह– यथेत्यादि| नानाविधा हि दोषाणां दुष्टिः प्राकृती वैकृती वा, अनुबन्ध्यरूपा अनुबन्धरूपा वा, एकशो द्विशो वा समस्ता वा, रौक्ष्यादिभिः सर्वैर्भावैरल्पैर्वा, एवमादिदुष्टिदुष्टेन दोषेण या आमयस्य रोगस्य निर्वृत्तिरुत्पत्तिः सा सम्प्राप्तिरुच्यते| यथा चानुविसर्पतेति अनेकधा दोषाणां विसर्पणं गतिरूर्ध्वाधस्तिर्यगादिभेदेन, तथा विसर्पता संसर्पता| सम्प्राप्तिपर्यायावाह शास्त्रे व्यवहारार्थं लक्षणार्थं च– जातिरागतिरिति| जात्यादिभिः शब्दैर्याऽभिधीयते सा सम्प्राप्तिरिति| “ जातिरागतिरित्यर्थः जन्माऽपि ज्ञानकारणम्, अजातस्य ज्ञानाभावात्” इत्याह भट्टारहरिचन्द्रः| एतेनैतदुक्तं भवति– नहि निदानादिवद्बोधकत्वेन ज्ञानकारणत्वं, किन्तु बोधविषयत्वेन| तन्न इत्यन्ये, आलोकचक्षुरादेरिव एवंविधसम्प्राप्तेश्चिकित्सायामनुपयोगात्| न चास्ति नियमः जातमेव विज्ञायते इति, अजातस्य व्याधेर्निदानपूर्वरूपाभ्यां वृष्ट्यादेरिव मेघादिना ज्ञायमानत्वात्| अथ जातमिति जन्मावच्छिन्नमुच्यते, वृष्ट्यादिकं च भविष्यज्जन्मावच्छिन्नमेव, यस्य तु कालत्रयेऽपि जन्म नास्ति तन्न ज्ञायत एव; तथाऽपि न व्याधिजन्म सम्प्राप्तिः; जन्मवदालोकचक्षुरादेरपि वाच्यत्वापत्तेः, तैरपि विना ज्ञानाभावात्| तस्मात् ‘दोषेतिकर्तव्यतोपलक्षितं व्याधिजन्मेह सम्प्राप्तिः नतु केवलं जन्म’ इति भट्टारहरिचन्द्राभिप्रायः| वाग्भटेनापि ‘यथादुष्टेन’ (वा. नि. अ. १) इत्यादि वदता विशिष्टमेव व्याधिजन्म सम्प्राप्तिरुक्ता; तथा सति क्रियाविशेषोऽपि लभ्यते; यथा– ज्वरे आमाशयदूषणाग्निहननादिबोधे लङ्घनपाचनस्वेदादिकरणमिति| सम्प्राप्तिश्चैवंविधा यद्यपि दोषाणामवान्तरव्यापारत्वेन दोषग्रहणेनैव प्राप्यते, तथाऽपि चिकित्साविशेषार्थमेव पृथक् क्रियते; यथा– व्याधेर्ज्ञापकत्वाविशेषेऽपि पूर्वरूपमेव रूपात् पृथगिति| तस्मात् “दोषेतिकर्तव्यतोपलक्षितं व्याधिजन्म सम्प्राप्तिः”, इत्येव लक्षणम्||१०||
Adhikarana samprApteH aupAdhikabhedAH (11-13) · Śloka 13
सङ्ख्याविकल्पप्राधान्यबलकालविशेषतः |
सा भिद्यते यथाऽत्रैव वक्ष्यन्तेऽष्टौ ज्वरा इति ||११||
दोषाणां समवेतानां विकल्पोंऽशांशकल्पना |
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ||१२||
हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम् |
नक्तन्दिनर्तुभुक्तांशैर्व्याधिकालो यथामलम् ||१३||
(वा. नि. अ. १) |
तस्या औपाधिकभेदमाह– सङ्ख्येत्यादिना, सा भिद्यत इत्यन्तेन| अत्र च प्राधान्योपादानादप्राधान्यं च तत्प्रतियोगितया बोद्धव्यम्| अत एव च विवरणे स्वातन्त्र्यपारतन्त्र्याभ्यामिति वक्ष्यति| एवं बलेऽपि व्याख्येयम्| सङ्ख्यादिकमेव विवृणोति– यथेत्यादि| अष्टौ ज्वरा इति सङ्ख्याविवरणम्| अष्टत्वं च वातादिकारणभेदात्; एकजास्त्रयो, द्वन्द्वजास्त्रयः, सन्निपातज एक, आगन्तुजश्चैक इति| यद्यपि वृद्धैर्दोषैः सन्निपातास्त्रयोदश, यदुक्तं चरके– “द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्| समैश्चैको विकारास्ते सन्निपातास्त्रयोदश||” (च. सू. अ. १७) इति; तथाऽप्यत्र त्रिदोषजत्वसामान्यात् सान्निपातिक एकत्वेन गणितः| एवं कामशोकभयाद्यनेककारणजोऽप्यागन्तुज आगन्तुजत्वसामान्यादेकत्वेन निर्दिष्ट इत्यष्टौ ज्वरा इति| विकल्पं विवृणोति– दोषाणामित्यादि| दोषाणां समवेतानां परस्परसम्बद्धानां; तेन द्वन्द्वसन्निपातयोर्ग्रहणम्| अंशांशकल्पनेति अंशा वातादिगतरौक्ष्यादयः, तैरेकद्वित्र्यादिभिः समस्तैर्वा वातादिकोपावधारणं विकल्पना| यदुक्तं सुश्रुते– “सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः| संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति||” इति (सु. सू. अ. २१)| एवंविधश्च दोषकोपो निदानवैचित्र्याद्भवति| तद्यथा– वातस्य रौक्ष्यशैत्यलाघववैशद्यादिगुणस्य एवङ्गुणः कषायरसः कलायश्च सर्वैर्भावैर्वर्धकः, रौक्ष्यशैत्यलाघवैस्तण्डुलीयकः, रौक्ष्यशैत्याभ्यां काण्डेक्षुः, रौक्ष्येण सीधुः; तथा पित्तस्य सर्वैर्भावैर्वर्धकः कटुको रसो मद्यं च, हिङ्गु कटूष्णतीक्ष्णत्वैः, दीप्यकस्तैक्ष्ण्यौष्ण्याभ्याम्, औष्ण्येन तिलाः; तथा श्लेष्मणः सर्वैर्भावैर्वर्धको मधुरो रसो माहिषं च पयः, स्नेहगौरवमाधुर्यै राजादनफलं, कशेरुः शैत्यगौरवाभ्यां, शैत्येन क्षीरिणां फलानीति| अपरगुणोदाहरणप्रकारा जेज्जटगदाधरवाप्यचन्द्रव्याख्याविशेषाश्च विस्तरत्वापत्तेरत्र न लिखिताः| प्राधान्यं विवृणोति– स्वातन्त्र्यपारतन्त्र्याभ्यामिति| अनुबन्ध्यानुबन्धभावेनेत्यर्थः| अत्रापि ‘दोषाणां समवेतानाम्’ इत्यनुवर्तनीयम्| ‘अप्राधान्यं च’ इति शेषः, गम्यमानत्वान्नोपदर्शितम्| तेन स्वातन्त्र्यात् प्राधान्यं, पारतन्त्र्यादप्राधान्यमिति सिध्यति| बलं विवृणोति– हेत्वादीत्यादि| हेतुपूर्वरूपरूपाणां साकल्याद्व्याधेर्बलवत्त्वं, तेषामवयवेनैकदेशेनाबलवत्त्वम्| कालं विवृणोति– नक्तमित्यादि| नक्तं रात्रिः, दिनमहः, ऋतवो वसन्तादयः, भुक्तमाहारः, एषामंशैरेकदेशैः; व्याधिकालो व्याधिवृद्धिहानिहेतुकालः| अत्र, ऋतोरंशाः कतिपयान्यहोरात्राणि, यदाह वाग्भटः– “ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः|” इति (वा. सू. अ. ३); अथ वा संवत्सररूपस्य कालस्य ऋतुरूपोंऽश ऋत्वंश इत्येवमपि योज्यं; नत्वेकस्य ऋतोर्दिनादिवदादिमध्यान्ता ऋत्वंशाः, ऋतोः समुदितस्य तत्र कारणत्वेनोक्तत्वात्| यथामलं यथादोषं; तद्यथा– रात्रेरादौ श्लेष्मा, मध्ये पित्तं, शेषे वायुः; एवं दिनस्य; वसन्ते कफस्य, शरदि पित्तस्य, वर्षासु वायोः कोपः; एवं भुक्तादौ भुक्तमात्रे कफस्य, मध्ये पच्यमानावस्थायां पित्तस्य, अन्ते सम्यक्परिणते भुक्ते वायोः प्रकोप इति| तदुक्तं वाग्भटेनैव– “ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः| वयोऽहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्||” इति (वा. सू. अ. १)| अत्र ते इति क्रमेण वातपित्तश्लेष्माणः| ननु, सम्प्राप्तिभेदे चरकेण सङ्ख्यादिवद्विधिरप्युक्तः; यथा– “द्विविधा व्याधयो निजागन्तुभेदेन” (च. नि. अ. १), “त्रिविधं रक्तपित्तम्” (च. सू. अ. ११) इत्यादि; तत् कुतोऽत्र विधिर्नोक्तः? उच्यते, सङ्ख्याग्रहणेन विधेरवरोधः, तस्याव्यभिचरितसङ्ख्यायोगित्वात्| विधिसङ्ख्ययोश्चायं भेदः– विधिर्हि प्रकारः, स चाभिन्नजातीयानामेव कस्यचिद्धर्मान्तरस्यान्वयाद्भवति, यथा– रक्तपित्तत्वाविशेषेऽपि ऊर्ध्वगादिप्रकारो भवति; सङ्ख्या तु भिन्नत्वमात्रेऽपि; यथा– चत्वारो घटाः, अष्टौ ज्वरा इति| अत्रैव विधिर्हि प्रकारः, स च भिन्नेषु न युक्तः, अतः सङ्ख्यादिभिन्नेषु व्याधिषु कारणधर्मानुगतः प्रकारो युज्यते| तथा च न्यायविदो ब्रुवते– “समानेन धर्मेण परिग्रहो भेदानां यत्र क्रियते स विधिः, सङ्ख्या तु भेदमात्रम्|” इति; वैयाकरणा अपि व्याचक्षते– “अन्वयवान् प्रकारो, निरन्वयो भेदः” इति वाप्यचन्द्रो लिखितवान्| ननु यथांऽशांशविकल्पनादिना ज्वरो ज्ञायते न तथा सङ्ख्यया| उच्यते– सङ्ख्याभेदेन व्याधेर्दोषभेदो ज्ञायते, यतो ज्वरादिकं स्वरूपतो ज्ञात्वा चिकित्सार्थं विशेषो जिज्ञास्यः, कतमोऽयं ज्वरः? इति; तस्मिन् ज्ञाते विशेषो भवतीति परम्परया कारणत्वं सङ्ख्यायाः| अत्र यदुत्पन्न एवासौ दोषभेदाद्भिन्नो जा(ज्ञा)तस्ततो युक्तमस्य पर्येषणं कतमोऽयमिति| कुतः? चिकित्साविशेषार्थम्| इति सम्प्राप्तिलक्षणम्||११-१३||
Adhikarana nidAnapa~jcakopasaMhAraH (14) · Śloka 14
इति प्रोक्तो निदानार्थः स व्यासेनोपदेक्ष्यते |१४|
(वा. नि. अ. १) |
उक्तं निदानपञ्चकमुपसंहरति– इतीत्यादि| इतिशब्दः समाप्तौ| निदानशब्दोऽत्र सामान्यवचनः, अर्थोऽभिधेयः| तन्निदानं सङ्क्षेपेण स्वरूपलक्षणमात्रेणोक्तम्, अधुना व्यासेन विस्तरेणोपदेक्ष्यते कथयिष्यते; सकलेन ग्रन्थेन प्रतिरोगं निदानपूर्वरूपादय एव तत्तद्विशेषैर्वक्तव्या इत्यर्थः|१४|–
Adhikarana vAtAdeH sarvarogeShvavyabhicaritakAraNatvam (14) · Śloka 15
सर्वेषामेव रोगाणां निदानं कुपिता मलाः ||१४||
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् |१५|
(वा. नि. अ. १) |
द्विविधं हि रोगस्य कारणं विप्रकृष्टं सन्निकृष्टं च; तत्र विप्रकृष्टं विरुद्धाहारादि, सन्निकृष्टं वातादि, तस्य वातादेः सर्वरोगेष्वव्यभिचरितकारणत्वमाह– सर्वेषामित्यादि| यदाह सुश्रुतः– “नास्ति रोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्|” (सु. सू. अ. ३५/१९) इति (सु. सू. अ. ३५)| आगन्तुव्याधिषु यद्यप्युत्पत्तौ दोषकोपो नास्ति, तथाऽप्युत्पत्त्यनन्तरमवश्यम्भावी; उत्पन्नद्रव्ये गुणयोगवत्| यदुक्तं चरके– “आगन्तुर्हि व्यथापूर्वसमुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति|” इति (च. सू. अ. २०)| निदानं कारणम्| मला दोषाः, मलिनीकरणात्| ननु, वातादीनां किमिदं दोषत्वम्?; अत्राहुरेके– स्वातन्त्र्येण दूषकत्वं दोषत्वम् इति; रसादिदूष्यव्यवच्छेदार्थं ‘स्वातन्त्र्येण’ इति पदं, ते हि वातादिदुष्टाः सन्तो दूष्यान्तरदूषकाः| अत्राहुरन्ये– किमिदं स्वातन्त्र्यं? किं दोषान्तरनिरपेक्षत्वं? हेत्वन्तरनिरपेक्षत्वं वा? आद्ये वातस्यैव दोषत्वं स्यात्, नतु वातसापेक्षयोः कफपित्तयोः; यदुक्तम्– “पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः| वायुना यत्र नीयन्ते तत्र गच्छन्ति मेघवत्||” इति; द्वितीये वातस्यापि न दोषत्वं, कफपित्तयोरिव निदानसापेक्षस्यैव तस्य दूषकत्वात्; तस्मात् “प्रकृत्यारम्भकत्वे सति दुष्टिकर्तृत्वं दोषत्वम्” इति लक्षणम्| रसरक्तादिनिवृत्त्यर्थं ‘प्रकृत्यारम्भकत्वम्’ इति विशेषणम्| नहि वातादिप्रकृतिवच्छास्त्रे रसरक्तादिप्रकृतिरुक्ता; वातादिप्रकृतित्वं च शरीरस्य वातादिदूषितशुक्रशोणितारब्धत्वम् | यदाह चरकः– “दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते|”; तथा– “वातलाद्याः सदाऽऽतुराः|” इति (च. सू. अ. ७)| सुश्रुतेनापि प्रकृतिलक्षणे “वातप्रकृतिः स्फुटितकरचरणो जागरुकोऽनवस्थितचित्तः” (सु. शा. अ. ४) इत्याद्युक्तम्| प्रकृतिरोगयोश्चायं भेदः– प्रकृतिरपथ्यसेवया नात्यन्तं बाधते, यदुक्तम्– “विषजातो यथा कीटो विषेण न विपद्यते| तद्वत् प्रकृतिभिर्देहस्तज्जातत्वान्न बाध्यते||” (सु. शा. अ. ४) इति सङ्क्षेपः| विस्तरस्तु सुश्रुतश्लोकवार्तिके प्रश्नविधानाख्ये टीकासु च द्रष्टव्यः| ननु, ‘प्रकृत्यारम्भकत्वं दोषत्वम्’ इत्येवास्तु| सत्यं, विपक्षाद्व्यावृत्तिर्भवत्येव, किन्तु दोषस्वरूपं नोक्तं स्यादिति| सुश्रुतादिभिर्वातादेरिव प्रकोपकालप्रकोपणनिर्हरणस्थानविशेषरोगविशेषलिङ्गविशेष-चिकित्साविशेषाणामभिधानाद्रक्तस्यापि दोषत्वं पूर्वटीकाकारैराषाढधर्मस्वामिदासादिभिः स्वीकृतं तदप्येतेन व्यवच्छिन्नम्, अधुनातनैरस्वीक्रियमाणत्वात्| ननु, दोषाश्चेत् कारणं तर्हि तेषां सर्वदा देहे सद्भावात् सर्वदा रोगोत्पादकत्वप्रसङ्ग इत्यत आह– कुपिता इति, विकृतिमापन्नाः| ननु, तत्प्रकोपः स्वभावात्, कारणान्तराद्वा? नाद्यः, पूर्ववत्प्रसङ्गात्; अथ कारणान्तरादिति किं तदित्याह– विविधाहितसेवनमिति| विविधस्य नानाविधस्य, अहितस्य असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणस्य सेवनमिति||१४||-
Adhikarana rogANAM nidAnArthakartRutvam (15) · Śloka 15
निदानार्थकरो रोगो रोगस्याप्युपजायते ||१५||
ननु, किमेतदेव निदानम्, उतान्यदप्यस्तीत्यतश्चरकवचनमुपन्यस्यति– निदानार्थकर इत्यादि| अपिशब्दोऽत्र भिन्नक्रमे| रोगोऽपि निदानार्थकरो रोगस्य| अस्यायमर्थः– निदानेन योऽर्थः क्रियते व्याध्याख्यः, स रोगेणापीति| रोगोऽपि रोगकर इति वाच्ये यन्निदानार्थकर इत्यकरोत्, तेनैवं गमयति– रोगोऽपि रोगान्तरं कुर्वाणो निदानान्तरोपबृंहितबल एव करोति; एवं रोगो रोगस्य निदानमुपजायते इत्येव योजना||१५||
Adhikarana nidAnArthakararogAH (16-18) · Śloka 18
तद्यथा ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |
रक्तपित्ताज्ज्वरस्ताभ्यां शोषस्याप्युपजायते ||१६||
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |
अर्शोभ्यो जाठरं दुःखं गुल्मश्चाप्युपजायते ||१७||
(दिवास्वापादिदोषैश्च प्रतिश्यायश्च जायते) |
प्रतिश्यायादथो कासः कासात् सञ्जायते क्षयः |
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपजायते ||१८||
(चि. नि. अ. ८) |
अत्रैव दृष्टान्तमाह– तद्यथेत्यादि| ताभ्यामिति रक्तपित्तात् ज्वराच्च| दुःखमिति दुःखयतीति दुःखं पीडाकरम्| अयं च दुःखशब्दो लिङ्गविपरिणामेन सर्वेष्वेव ज्वरादिषु योज्य इति वाप्यचन्द्रः| गुल्मश्चाप्युपजायत इति अर्शोभ्य एव| कासात् सञ्जायते क्षय इति ‘ओजः प्रभृतीनाम्’ इति शेषः| स च क्षयो रोगस्य हेतुत्वे उपजायते| कस्य रोगस्येत्याह– शोषस्येति, राजयक्ष्मणः| अत्र केचित् हरिचन्द्रादिभिर्व्याख्यातं पाठान्तरं पठन्ति– “क्षयो रोगस्य हेतुत्वे शोषश्चाप्युपजायते|” इति अस्यार्थः– क्षयो राजयक्ष्मा, उरोग उरःक्षतः, समाहारद्वन्द्वेनैकवचनं, तस्य हेतुत्वे शोषो धातुक्षय उपजायत इति| ननु, चरके सर्वं निदानं त्रैविध्येन सङ्गृहीतं ‘असात्म्येन्द्रियार्थसंयोग’ (च. सू. अ. ११) इत्यादिना, ततश्च रोगस्यापि निदानत्वमाचक्षाणः स्वोक्तं निदानत्रैविध्यसङ्ग्रहं कथं न विरुणद्धि?; अत्रैके समाधिमभिदधति– त्रिविधं यन्निदानमुक्तं तत् सर्वव्याधिविषयम्, इदं तु प्रतिनियतविषयं, यतो न सर्वे रोगा रोगाज्जायन्ते, किं तर्हि कश्चिदेव व्याधिः कुतश्चिद्रोगादिति चतुर्थमेवैतन्निदानं रोगाख्यमिति| अन्ये त्वाहुः– रोगस्य रोगोऽपि निदानं भवन् त्रिविधनिदानव्यतिरेकेण न भवत्येव; यतो यावदयं ज्वरोऽसात्म्येन्द्रियार्थसंयोगादिभिरुपबृंहितबलो न भवति न तावद्रक्तपित्तमारभते, तस्माद् व्याध्युत्पादे त्रिविध एव हेतुः साक्षात् पारम्पर्येण वेति||१६-१८||
Adhikarana rogANAM kadA nidAnArthakartRutvaM? (19) · Śloka 19
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |१९|
(च. नि. अ. ८) |
ननु, य इमे रोगा रोगान्तरस्य निदानत्वेनोक्तास्ते किमुत्पन्नमात्रा एव रोगं जनयन्ति उतानन्तरकालमित्यत आह– ते पूर्वमित्यादि| ते व्याधय उपबृंहकहेत्वलाभात् प्राक् केवलाः स्वतन्त्राः सन्तो रोगा एव रुजाकर्तृत्वात्; पश्चादुपबृंहकहेतुलाभात्, हेतोर्निदानस्य योऽर्थो यत्प्रयोजनं व्याधिजननाख्यं तत् कुर्वन्ति| यथा– ज्वरो रक्तपित्तमिति|१९|–
Adhikarana rogajanakasya vyAdhervaicitryam (19-20) · Śloka 20
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति ||१९||
न प्रशाम्यति चाप्यन्यो हेतुत्वं कुरुतेऽपि च |
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः ||२०||
(च. नि. अ. ८) |
तस्यैव रोगजनकस्य व्याधेर्वैचित्र्यमाह– कश्चिदित्यादि| एवमुक्तप्रकारेण; व्याधिसङ्करा व्याधिमेलकाः दृश्यन्ते| यथा– प्रतिश्यायो न निवर्तते कासश्च जायते, अर्शो न निवर्तते जठरगुल्मौ स्यातामिति| कृच्छ्रतमत्वं चैषां बहुविधदुःखजनकत्वात्, प्रायो विरुद्धोपक्रमाच्चेति||१९-२०||
Adhikarana nidAnapa~jcakasyAvashyaj~jAtavyatA (21) · Śloka 21
तस्माद्यत्नेन सद्वैद्यैरिच्छद्भिः सिद्धिमुद्धताम् |
ज्ञातव्यो वक्ष्यते योऽयं ज्वरादीनां विनिश्चयः ||२१||
उक्तनिदानपञ्चकस्य रोगनिवृत्तिलक्षणसिद्धिहेतुत्वेनावश्यं ज्ञातव्यतामाह– तस्मादित्यादि| उद्धतां बहुविषयत्वेन महतीम्| विनिश्चयो निदानमिति| अथ वक्ष्यमाणविकारेषु प्रकृतिसमसमवायविकृतिविषमसमवायादिज्ञानार्थं चरकोक्ता वातादिगुणाः लिख्यन्ते– “रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः| विपरीतगुणैर्द्रव्यैर्मारुतः सम्प्रशाम्यति|| सस्नेहमुष्णं तीक्ष्णं च द्रवमम्लं सरं कटु| विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति|| गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः| श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः||” इति (च. सू. अ. १)||२१||
Adhikarana puShpikA · Śloka 1
इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चनिदानलक्षणं समाप्तम् ||१||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां पञ्चनिदानलक्षणं समाप्तम्||१||