Adhikarana jvarotpattiH tasya bhedAshca (1) · Śloka 1
अथ ज्वरनिदानम् |
दक्षापमानसङ्क्रुद्धरुद्रनिःश्वाससम्भवः |
ज्वरोऽष्टधा पृथग्द्वन्द्वसङ्घातागन्तुजः स्मृतः ||१||
अथ सर्वरोगप्राधान्यात् प्रथमं ज्वरो वाच्यः| प्राधान्यं च तस्य शारीररोगेषु प्रथमोत्पन्नत्वात्, बलवत्त्वात्, देहेन्द्रियमनस्तापित्वात्, जन्मनिधनयोरवश्यम्भावित्वात्, स्थावरजङ्गमरूपसर्वभूतव्यापित्वाच्च; नैवमन्ये विकाराः| यदुक्तं चरके– “देहेन्द्रियमनस्तापी सर्वरोगाग्रजो बली| ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा|| तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये|” (च. चि. अ. ३) इत्यादि; यावद् “भगवन्! वक्तुमर्हसि” (च. चि. अ. ३) इति| तथा– “ज्वरेणाविशता भूतं नहि किञ्चिन्न तप्यते|” (च. चि. अ. ३) इत्यादि| उक्तं च , पालकाप्ये– “पाकलः स तु नागानामभितापस्तु वाजिनाम्| गवामीश्वरसञ्ज्ञश्च मानवानां ज्वरो मतः|| अजावीनां प्रलापाख्यः करभे चालसो भवेत्| हारिद्रो महिषीणां तु मृगरोगो मृगेषु च| पक्षिणामभिघातस्तु मत्स्येष्विन्द्रमदो मतः| पक्षपातः पतङ्गानां व्याडेष्वक्षिकसञ्ज्ञितः||” इत्यादि| तथाऽन्यत्र– “जलस्य नीलिका भूमेरूषरो वृक्षस्य कोटरः|” इत्यादि| तस्य प्रागुत्पत्तिमाह– दक्षापमानेत्यादि| दक्षापमानेन दक्षप्रयुक्तपरिभवेन क्रुद्धस्य रुद्रस्य निःश्वासात् सम्भव उत्पत्तिर्यस्य स तथा| निःश्वासोऽत्र क्रोधलिङ्गत्वेन निर्दिष्टः, अत एव सुश्रुतेन “रुद्रकोपाग्निसम्भूतः” (सु. उ. तं. अ. ३९) इत्युक्तम्| क्रुद्धेन रुद्रेण ललाटे तृतीयमाग्नेयं चक्षुः सृष्ट्वा ततोऽप्याग्नेयो बाणो निर्मितः| यदाह चरकः– “सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान्प्रभुः बाणं क्रोधाग्निसन्तप्तमसृजच्छत्रुनाशनम्||” (च. चि. अ. ३) इति; अत्र सत्रनाशनं यज्ञनाशनम्| एषा च ज्वरोत्पत्तिकथा चरकचिकित्सिते सविशेषा श्रोतव्या| एतेन रुद्रकोपस्य विप्रकृष्टकारणत्वमुक्तं; यदि हि ततो ज्वरो नोदपत्स्यतं अधुनाऽप्यपचारान्नोदपत्स्यत इति भट्टारहरिचन्द्रः| एतदभिधानस्य चिकित्सानुपयोगित्वेनान्ये टीकाकृतोऽन्यथा व्याचक्षते– कोपोद्भवत्वेन तैजसत्वं प्रकाश्यते; क्रोधो ह्याग्नेयः; यदाह चरकः– “क्रोधात् पित्तं” (च. चि. अ. ३) इति| तेन सर्वज्वरे पित्ताविरोधिनी क्रिया कार्येति सिध्यति| यदुक्तं वाग्भटेनैव– “ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना| तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिकेऽधिकम्||” (वा. चि. अ. १) इति| अत एव चरके कट्वम्ललवणान् पाचनान् परित्यज्य तरुणज्वरे पाचकत्वेन तिक्तको रसः पित्तघ्नो निर्दिष्टः| यदाह– “लङ्घनं स्वेदनं कालो यवागूस्तिक्तको रसः| पाचनान्यविपक्वानां दोषाणां तरुणज्वरे||” (च. चि. अ. ३) इति| ( कालोऽत्राष्टाह इति)| अन्ये त्वाहुः– रुद्रकोपसम्भवत्वेन देवतात्मकत्वात् पूजार्हत्वमुपदर्शितम्| यदाह विदेहः– “ज्वरस्तु पूजनैर्वाऽपि सहसैवोपशाम्यति||” इति| हरिवंशेऽपि– “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः| भस्मप्रहरणो रौद्रः कालान्तकयमोपमः||” इति मूर्तिमानेवोक्तः| बहुविधमपि ज्वरं सङ्क्षेपेणाह– ज्वरोऽष्टधेत्यादि| अष्टत्वं विवृणोति– पृथगित्यादि| तच्च सम्प्राप्तौ विवृतम्||१||
Adhikarana jvarasamprAptiH (2) · Śloka 2
मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः |
बहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यू रसानुगाः ||२||
सम्प्राप्तिमाह– मिथ्येत्यादि| आहारस्य मिथ्यात्वं प्रकृत्यादीनामाहारोपयोगहेतूनां विरुद्धत्वेनोपयोगः| यदाह चरकः– "तत्र खल्विमान्यष्टावाहारविधिविशेषायतनानि भवन्ति; तद्यथा– प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि|" (च. वि. अ. १) इति| अत्र प्रकृतिर्द्रव्याणां स्वाभाविकगुरुत्वलघुत्वादिगुणयोगः, यथा– माषमुद्गयोः; करणं संस्कारः, यथा– व्रीहेर्गुरोर्लघवो लाजाः; संयोगः संहतीभावः, यथा– क्षीरमत्स्ययोः; राशिराहारस्य द्रवाद्रवस्यावयवेन समुदायेन वा परिमाणं; देशो द्रव्योत्पत्तिप्रचारादिस्थानं; कालो नित्यगश्चावस्थिकश्च; उपयोगसंस्था उपयोगनियमः, यथा– जीर्णान्न एव भुञ्जीत; उपयोक्ता स्वयं निरूपितात्मप्रकृत्यादिकः पुरुष इति| विहारस्य मिथ्यात्वमयथाबलमारम्भादि| आमाशयाश्रया इत्यनेनामाशयप्राप्तिव्यतिरेकेण दोषा ज्वरं नारभन्त इति प्रतिपादयन्ति| आमाशयश्च “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|” (च. वि. अ. २) इति चरकेणोक्तः| बहिर्निरस्य कोष्ठाग्निमिति कोष्ठाग्निरेव दोषोत्क्षिप्तो बहिर्निर्गत ऊष्मतया प्रतिभाति| कोष्ठाग्निमिति धात्वाद्यग्निनिरासार्थम्| ज्वरदा ज्वरकारिणः| रसानुगा रससम्बद्धाः, अवश्यं रसं दूषयित्वा ज्वरोत्पादका इति| ‘एषा च सम्प्राप्तिः शारीराणामेव नत्वागन्तूनां, तेषां व्यथापूर्वकत्वं ततो वाताद्यनुबन्धः,’ इति जेज्जटः| अत एव सुश्रुते आगन्तुसम्प्राप्तिः पृथगेव पठ्यते| यथा– “श्रमक्षताभिघातेभ्यो देहिनां कुपितोऽनिलः| पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम्||’ (सु. उ. तं. अ. ३९) इति| अत्र न आमाशयगत एव वायुः, किन्तूर्ध्वाधस्तिर्यग्रसवाहिस्रोतश्चरः| चरकेऽप्युक्तम्– “तत्राभिघातजो वायुः प्रायो रक्तं प्रदूषयन्| सव्यथाशोथवैवर्ण्यं करोति सरुजं ज्वरम्||” (च. चि. अ. ३) इति| ननु, आगन्तुज्वरेऽप्यूष्मोपलभ्यते, “ऊष्मा च पित्तादृते नास्ति” (वा. चि. अ. १) इत्युक्तम्, अत आगन्तुरपि शारीरः स्यात्| नैवम्, उत्तरकालं तदुत्पत्तेः| यदुक्तम्– “आगन्तुर्हि व्यथापूर्वो ज्वरोऽष्टमो भवति; स किञ्चित्कालमागन्तुः केवलो भूत्वा पश्चाद्दोषैरनुबध्यते|” (च. नि. अ. १); तथा– “आगन्तुरन्वेति निजं विकारं निजस्तथाऽऽगन्तुमपि प्रवृद्धः|” (च. सू. अ. १९) इति| ननु, मिथ्याहारेत्यादिना एकैव सम्प्राप्तिरुक्ता; एतच्च न युक्तं, यतः सम्प्राप्तिः संयोगभेदः, संयोगभेदश्च संयोगिभेदनिबन्धनः, संयोगिनश्चात्र वातादयो नानाविधाः, ततश्च सम्प्राप्तेरपि नानात्वं स्यात्; नहि वातपित्तयोर्यः संयोगः स एव कफपित्तयोरिति| उच्यते– अनेकैव सम्प्राप्तिः किन्त्वेकजातीया, आशयदुष्ट्यादेः सर्वत्राविशेषेणाभिधानात्; एवमागन्तुसम्प्राप्तिरपि संयोगभेदाद्भिन्नेति||२||
Adhikarana jvarasAmAnyalakShaNam (3) · Śloka 3
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा |
युगपद्यत्र रोगे च स ज्वरो व्यपदिश्यते ||३||
ज्वरलक्षणमाह– स्वेदावरोध इत्यादि| स्वेदावरोधो घर्मानिर्गमः| ताप इति वक्तव्ये सन्तापग्रहणाद्देहेन्द्रियमनसां तापं लक्षयति| तदुक्तं चरके– “देहेन्द्रियमनस्तापी” (च. चि. अ. ३) इति; “इन्द्रियाणां च वैकृत्यं ज्ञेयं सन्तापलक्षणम्|” (च. चि. अ. ३) इति| तथा– “वैचित्त्यमरतिर्ग्लानिर्मनःसन्तापलक्षणम्|” (च. चि. अ. ३) इति| सर्वाङ्गग्रहणं सर्वाङ्गवेदना| युगपदिति मिलितमेतल्लक्षणं, प्रत्येकशो व्यभिचारात्; स्वेदावरोधो हि कुष्ठपूर्वरूपे, तथा सन्तापो दाहाख्ये रोगे, सर्वाङ्गग्रहणं सर्वाङ्गवातरोगे इति| ननु, पैत्तिके स्वेदागमात्, वातिके विषमारम्भविसर्गित्वात् सर्वाङ्गग्रहणाव्यवस्थितेश्चाव्यापकं लक्षणमिति| अत्र जेज्जटकार्तिककुण्डादयः समादधुः– उत्सर्गापवादभावेन व्यवस्थितिरिति| तन्न सङ्गतमित्यन्ये; विधौ ह्युत्सर्गापवादभावो नतु लक्षणे, अव्याप्त्यतिव्याप्त्योर्लक्षणदोषात्; तस्मात् स्वेदोऽग्निः ‘स्विद्यतेऽनेन’ इति व्युत्पत्त्या; तस्यावरोधो दोषव्याप्तिः| वातज्वरे यद्यपि वायोश्चलत्वेनारम्भविसर्गयोर्वैषम्यं, तथाऽपि सर्वदेहगतज्वरारम्भकदोषदुष्ट्यनिवृत्तेरनुद्भूतसर्वाङ्गग्रहणस्य विद्यमानतैवेति न व्यभिचारः| चरके तु ज्वरलक्षणं “ ज्वरप्रत्यात्मिकं लिङ्गं सन्तापो देहमानसः|” (च. चि. अ. ३) इति| ननु, “शारीरो जायते पूर्वं देहे मनसि मानसः||” (च. चि. अ. ३) इति| चरकवचनाद्देहमनसोरन्योन्यव्यभिचारादलक्षणमिति चेत्; तन्न, सूक्ष्मतरकालव्यवहितस्यान्यतररूपस्यावश्यम्भावित्वात्| यथा– गुणवद्द्रव्यमिति द्रव्यलक्षणमिति||३||
Adhikarana jvarapUrvarUpam (4-7) · Śloka 7
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः |
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ||४||
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः |
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ||५||
(सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात् |
पित्तान्नयनयोर्दाहः कफादन्नारुचिर्भवेत् ||६||
रूपैरन्यतराभ्यां तु संसृष्टैर्द्वन्द्वजं विदुः |
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे) ||७||
(सु. उ. तं. अ. ३९) |
पूर्वरूपमाह– श्रम इत्यादि| श्रमः श्रान्तत्वमिव| अरतिरनवस्थितचित्तत्वम्, अरतिः क्रीडाभाव इति कार्तिकः| विवर्णत्वं म्लानगात्रत्वम्| यत्तु ‘‘दुष्टाः स्वहेतुभिर्दोषाः’’ इत्यारभ्य “स्वकालेषु ज्वरागमम्| जनयन्त्यथ वृद्धिं च स्ववर्णं च त्वगादिषु||” (सु. चि. अ. ३९) इति सम्प्राप्तौ वृद्धसुश्रुतवचनं, तदत्यर्थजृम्भादिवद्विशिष्टपूर्वरूपाभिप्रायेण, सम्प्राप्त्यवस्थापन्नदोषजन्यत्वात् पूर्वरूपस्येति| वैरस्यमिति मुखस्य विरुद्धरसता| नयनप्लवोऽश्रुपूर्णनेत्रत्वम्| यदुक्तं चरके– " आलस्यं नयने सास्रे" (च. चि. अ. ३) इत्यादि| आदिशब्दादम्बुज्वलनयोरपि अनिश्चितेच्छाद्वेषयोर्ग्रहणम्| उक्तं हि चरके– ‘‘ज्वलनातपवाय्वम्बुभक्तिद्वेषावनिश्चितौ|’’ (च. चि. अ. ३) इति| अन्ये तु शैत्यौष्ण्यसाधर्म्याज्जलानलौ ग्राहयन्ति, आदिशब्देन च शयनादिकम्| तमोऽन्धकारप्रविष्टस्येवासंवित्तिः| अप्रहर्षः प्रीत्यभावः| ज्वलनेच्छया शीते लब्धे शीतं चेति वचनं शीतस्य विशेषेण बोधनार्थम्| चकारेण वातविद्वेषादिग्रहणमित्याहुः| उत्पत्स्यतीति भविष्यति ज्वरे| उत्पत्स्यतीति आत्मनेपदानित्यत्वेन; तच्च चक्षिङ इकारेण ‘ अनुदात्तङित आत्मनेपदम्’ (पा. अ. १/३/१२) इत्यात्मनेपदे सिद्धे तदर्थं ङित्करणेन ज्ञापितमिति शाब्दिकाः| गदाधरस्तु– ‘उत्पित्सति’ इति पठित्वा ‘पद गतौ’ इत्यस्य सन्नन्तस्य ‘ सनिमीमाघुरभलभशकपतपदाम्|’ (अ. ७ पा. ४ सू. ५४) इत्यादिना इसि कृते ‘पूर्ववत् सनः’ (अ. १ पा. ३ सू. ६२) इत्यत्र भिन्नवाक्यतया परस्मैपदमिति व्याचष्टे इति||४-७||
Adhikarana vAtajvaralakShaNam (8-9) · Śloka 9
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् |
निद्रानाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ||८||
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं गाढविट्कता |
शूलाध्माने जृम्भणं च भवन्त्यनिलजे ज्वरे ||९||
(सु. उ. तं. अ. ३९) |
वातपित्तकफानां यथापूर्वं भूरिदारुणविकारकर्तृत्वेन प्राधान्यं, यदुक्तं चरके– ‘‘अशीतिर्वातविकाराश्चत्वारिंशत्पित्तविकाराः, विंशतिः श्लेष्मविकाराः|’’ (च. सू. अ. २०) इति; तथा दारुणाश्च वातविकारा आक्षेपकपक्षाघातादयः; अतः प्राधान्यात् प्रथमं वातज्वरलक्षणमाह– वेपथुरित्यादि| एवमन्यत्रापि वातादिक्रमनिर्देशेन वेदितव्यम्| विषमो वेग इति वेगो ज्वरस्य प्रवृत्तिर्वृद्धिर्वा, तस्य वैषम्यमनियतकालत्वम्, अङ्गेषु चौष्ण्याद्यनियतत्वम्| क्षवश्छिक्का ‘ हा~ंचि’ इति लोके| स्तम्भो गात्राणां जडिमा, रौक्ष्यमपि गात्राणामेवेति गदाधरादयो व्याचक्षते; तच्चानवधानाद्व्याख्यातमिति लक्ष्यते; क्षवस्य स्तम्भः क्षवस्तम्भ इत्येकपदताऽत्र युज्यते| यदाह वाग्भटः– ‘‘हर्षो रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः| भ्रमः प्रलापो घर्मेच्छा विलापश्चानिलज्वरे||’’(वा. नि. अ. २) इति| चरकेऽपि निदाने ‘‘क्षवथूद्गारविनिग्रहः’’ (च. नि. अ. १) इति पठितम्| विनिग्रहशब्दस्तु तत्र निरोधार्थ एवाचार्येण निर्दिष्टः; यथा वातगुल्मनिदाने– “रूक्षान्नपानं विषमातिमात्रं विचेष्टितं वेगविनिग्रहश्च|” (च. चि. अ. ५) इति; तथाऽन्तर्वेगज्वरलक्षणे “दोषवर्चोविनिग्रहः” (च. चि. अ. ३) इति| एतेन, ज्वरमुक्तिलक्षणे क्षवस्य पाठात् कथमेतल्लक्षणमिति यदाशङ्कितं कार्तिककुण्डेन तदपि निरस्तम्| आध्मानं वायुना सवेदनमुदरपूर्णत्वम्| शिरोहृद्गात्ररुगित्यत्र गात्रग्रहणेन शिरोहृद्ग्रहणे सिद्धे तदभिधानं विशेषेण शिरसि हृदि च वेदनार्थम्| एतानि रूपाणि प्रायोभावित्वेन निर्दिष्टानि सुश्रुतेन, तेन चकारेणान्यान्यपि चरकनिदानोक्तानि बोद्धव्यानि| तान्येव गद्येनोक्तानि सुखग्रहणार्थं श्लोकेन मया प्रदर्श्यन्ते– “भवन्ति विविधा वातवेदनाः पादसुप्तता| पिण्डिकोद्वेष्टनं कर्णस्वनो वक्त्रकषायता|| ऊरुसादो हनुस्तम्भो विश्लेषः सन्धिजानुनोः| शुष्ककासो वमिर्लोमदन्तहर्षः श्रमभ्रमौ|| अरुणं नेत्रमूत्रादि तृट्प्रलापोष्णकामिताः|” इति||८-९||
Adhikarana pittajvaralakShaNam (10-11) · Śloka 11
वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः |
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ||१०||
प्रलापो वक्त्रकटुता मूर्छा दाहो मदस्तृषा |
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ||११||
(सु. उ. तं. अ. ३९) |
पित्तज्वरलक्षणमाह– वेगस्तीक्ष्ण इत्यादि| अतिसारः पित्तस्य सरत्वेन सद्रवा प्रवृत्तिर्न त्वतिसार एव, तस्य ज्वरोपद्रवत्वात्| निद्राल्पत्वं स्वल्पनिद्रात्वम्| उक्तं हि सुश्रुते– “निद्रानाशोऽनिलात् पित्तात्” (सु. शा. अ. ४) इत्यादि| वमिः पित्तस्य कफस्थानगमनात्| स्वेदो घर्मागमनं, प्रायेण सामदोषेण स्रोतसां निरोधात् सर्वज्वरेषु घर्मनिरोधः, अत्र तु पित्तस्य तैक्ष्ण्याज्ज्वरप्रभावाद्वा स न भवतीति| प्रलापोऽसम्बद्धभाषणम्| वक्त्रकटुता मुखतिक्तत्वं, चरके हि पैत्तिकनानात्मजचत्वारिंशद्विकारेषु तिक्तास्यतायाः पाठादनुभवाच्च| कार्तिकस्त्वरोचके “कट्वम्लमुष्णं विरसं च पूति पित्तेन विद्याल्लवणं च वक्त्रम्|” (च. चि. अ. २६) इति वचनं दृष्टान्तमुपन्यस्य कटुमुखत्वमपीच्छति| तन्न, तत्रापि सन्देहात्| यदुक्तम्– “कटु स्यात् कटुतिक्तयोः|” इति| तस्मात् “योऽम्लं भृशोष्णं कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा| सदाहचोषज्वरवक्त्रशोषं सा पित्तकोपप्रभवा हि छर्दिः||” (सु. उ. तं. अ. ४९) इति सुश्रुतवचनात् कटुमुखत्वमप्येष्टव्यमिति| मूर्छेति मूर्छा रूपाद्यविज्ञानं, तमःप्रवेशो विस्मृतिरित्याहुः| मदो मत्तत्वमिव, यथा– पूगकोद्रवधत्तूरभक्षणादौ| भ्रम इति भ्रमश्चक्रस्थितस्येव भ्रमद्वस्तुदर्शनमित्याहुः; अन्ये तु स्वदेहभ्रमणज्ञानम्| ननु, भ्रमस्याशीतिवातविकारपठितस्य वातनानात्मजत्वात् कथं पित्तविकारे पाठः? उच्यते, “न रोगोऽप्येकदोषजः|” इति वचनात् पैत्तिके वातानुबन्धात् भ्रमः, इति जेज्जटः समाधानमुक्तवान्| अथवा दोषदूष्यसम्मूर्छनप्रभावात् कारणादृष्टस्यापि रूपस्य कार्य उपलम्भः; यथा– अरूपवातारब्धातिसारादाविवारुणत्वं, हरिद्राचूर्णसंयोग इव लौहित्यम्| यत्तूक्तं सुश्रुते– “रजःपित्तानिलाद्भ्रमः|” (सु. शा. अ. ४) इति, तत्रापि वातानुगतपित्तजत्वमेव बोद्धव्यम्, अन्यथा भ्रमस्य वातिकनानात्मजत्वमेव न स्यादिति| अपरे तु पित्तदूषितनेत्रत्वेन विपर्यस्तज्ञानं भ्रमः, ‘पीतः शङ्ख’ इत्यादिवत्| चकारः पूर्ववदनुक्तसमुच्चयार्थः| तद्यथा– तीव्रोष्मता रक्तकोठाः शीतेच्छताऽरुचिरिति||१०-११||
Adhikarana kaphajvaralakShaNam (12-13) · Śloka 13
स्तैमित्यं स्तिमितो वेग आलस्यं मधुरास्यता |
शुक्लमूत्रपुरीषत्वं स्तम्भस्तृप्तिरथापि च ||१२||
(नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकिता) |
गौरवं शीतमुत्क्लेदो रोमहर्षोऽतिनिद्रता |
( स्रोतोरोधो रुगल्पत्वं प्रसेको लवणास्यता |
नात्युष्णगात्रता, च्छर्दिर्लालास्रावोऽविपाकता) |
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ||१३||
(सु. उ. तं. अ. ३९) |
कफज्वरलक्षणमाह– स्तैमित्यमित्यादि| स्तैमित्यमङ्गानामार्द्रपटावगुण्ठितत्वमिव| स्तिमितो वेगो मन्दो वेगः| आलस्यमिति “समर्थस्याप्यनुत्साहः कर्मण्यालस्यमुच्यते|” (सु. शा. अ. ४) इत्यालस्यलक्षणमाहुः| स्तम्भोऽङ्गस्तब्धता| तृप्तिस्तृप्तस्येवान्नानभिलाषः| उत्क्लेदः कण्ठोपस्थितवमनत्वमिव| अरुचिरत्र सत्यप्यभिलाषे अभ्यवहारासामर्थ्यमिति भेदः| चकारः पूर्ववत्| तेन “तथाऽङ्गे पीडकाः शीताः प्रसेकश्छर्दितन्द्रिके| हृदुपलेप उष्णाभिलाषिता वह्निमार्दवम्||” इति||१२-१३||
Adhikarana vAtapittajvaralakShaNam (14) · Śloka 15
तृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा |
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तमः ||१४||
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः |१५|
(सु. उ. तं. अ. ३९) |
वातपित्तज्वरलक्षणमाह– तृष्णेत्यादि| पर्वाणि भिद्यन्त इव वेदना पर्वभेदः| एतानि च लिङ्गानि विकृतिविषमसमवायारब्धस्य बोद्धव्यानि| विकृतिविषमसमवायारब्धत्वं चैषां केवलवातिकपैत्तिकज्वरलक्षणानां मध्ये केषाञ्चिदेव नियमेन पाठात्तदतिरिक्तलक्षणपाठाच्च बोद्धव्यम्| यथा– अत्रैव वातपैत्तिकेऽरुचिरोमहर्षौ, वक्ष्यमाणवातश्लैष्मिके स्वेदः सन्तापश्च, एवं कफपैत्तिके अनवस्थितशीतदाहौ, एवं सन्निपातजे सास्रकलुषादिनेत्रत्वं शिरोलोठनादि| प्रकृतिसमवायारब्धे तु वातजादिज्वरलिङ्गान्येव समस्तानि कतिपयानि वा भवन्ति| अत एव चिकित्सिते चरकः विकृतिविषमसमवायारब्धानां द्वन्द्वसन्निपातज्वराणां लक्षणानि साक्षात् पठित्वा निदानस्थानोक्तवातादिज्वरलिङ्गातिदेशेन प्रकृतिसमसमवेतानां द्वन्द्वसन्निपातज्वराणां लक्षणमुक्तवान्| यदाह– “निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः| संसर्गसन्निपातानां तथा चोक्तं स्वलक्षणम्||” (च. चि. अ. ३) इति| एवं वक्ष्यमाणं द्वन्द्वसन्निपातलक्षणं व्याख्येयम्| प्रकृतिसमसमवायविकृतिविषमसमवाययोश्चायमर्थः– प्रकृत्या हेतुभूतया समः कारणानुरूपः समवायः कार्यकारणभावसम्बन्धः प्रकृतिसमसमवायः, कारणानुरूपं कार्यमित्यर्थः; यथा– शुक्लतन्तुसमवायारब्धस्य पटस्य शुक्लत्वम्| विकृत्या हेतुभूतया विषमः कारणाननुरूपः समवायो विकृतिविषमसमवायः, यथा– हरिद्राचूर्णसंयोगजं लौहित्यमिति||१४||–
Adhikarana vAtashleShmajvaralakShaNam (15-16) · Śloka 16
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ||१५||
शिरोग्रहः प्रतिश्यायः कासः स्वेदाप्रवर्तनम् |
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ||१६||
(सु. उ. तं. अ. ३९) |
वातश्लेष्मज्वरलक्षणमाह– स्तैमित्यं पर्वणां भेद इत्यादि| स्वेदाप्रवर्तनं स्वेदस्य आ समन्तादकारणेन प्रवर्तनं विकृतविषमसमसमवायारब्धत्वादिति कार्तिकः| युक्तं चैतत्; यदाह हारीतः– “शिरोग्रहः स्वेदभवो ज्वरस्य कासश्च लिङ्गं कफवातजस्य|” इति| स्वेदभवः स्वेदोत्पत्तिः| मध्यवेगो नातितीक्ष्णो नातिमृदुरिति||१५-१६||
Adhikarana shleShmapittajvaralakShaNam (17) · Śloka 17
लिप्ततिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा |
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ||१७||
(सु. उ. तं. अ. ३९) |
पित्तश्लेष्मज्वरलक्षणमाह– लिप्तेत्यादि| श्लेष्मणा लिप्तं च पित्तेन तिक्तं च आस्यं मुखं यस्य, तस्य भावो लिप्ततिक्तास्यता| तन्द्रा निद्रावत्क्लान्तिः| मोहो मूर्छा| एतानि लिङ्गानि प्रायोभावित्वेन निर्दिष्टानि, तेनान्यान्यपि चरकोक्तानि बोद्धव्यानि| यथा– “तथा स्तम्भश्च संस्वेदः कफपित्तप्रवर्तनम्|” इति||१७||
Adhikarana sAnnipAtikajvaralakShaNam (18-23) · Śloka 23
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा |
सास्रावे कलुषे रक्ते निर्भुग्ने चापि लोचने ||१८||
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः |
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः ||१९||
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम् |
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च ||२०||
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा |
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः ||२१||
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् |
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् ||२२||
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च |
चिरात्पाकश्च दोषाणां सन्निपातज्वराकृतिः ||२३||
(च. चि. अ. ३) |
सान्निपातिकज्वरलक्षणमाह– क्षणे दाह इत्यादि| रुजा शूलम्, अस्थ्यादिभिः सम्बध्यते| सास्रावे साश्रुणी| कलुषे आविलवर्णे| निर्गतं भुग्नं सङ्कुचितता ययोस्ते निर्भुग्ने, “विस्फारिते इत्यर्थः” इति जेज्जटः; “अन्तःप्रविष्टे” इत्यन्ये, “अतिकुटिले” इति चक्रः| शूकैः शूकशिम्बि(म्बा)धान्यादेः| परिदग्धा दग्धवत्कृष्णवर्णा| खरस्पर्शा खरोगोजिह्वावत् स्पर्शो यस्यां सा तथा| स्रस्ताङ्गता निःसहावयवता| ष्ठीवनं रक्तस्य पित्तस्य वा मुखेन स्वल्पोद्गिरणम्| शिरसो लोठनमितस्ततश्चालनम्| कृशत्वं नातिगात्राणां दोषपूर्णत्वेन| प्रततं निरन्तरम्| कोठो भालुकितन्त्रे पठितः| तद्यथा– “वरटीदष्टसङ्काशः कण्डूमांल्लोहितोऽस्रकफपित्तात्| क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञैः||” इति| मूकत्वं मन्दवचनता, अवचनता वा| गुरुत्वमुदरस्य च उदरगौरवम्, चिरात्पाकश्च दोषाणामिति अतिसामतारब्धत्वेन| चकारादन्यान्यपि च बोद्धव्यानि| यदाह वाग्भटः– “तद्वच्छीतं महानिद्रा दिवा जागरणं निशि| सदा वा नैव वा निद्रा महान् स्वेदोऽथवा न वा|| गीतनर्तनहास्यादिविकृतेहाप्रवर्तनम्|” (वा. नि. अ. २) इति| एतच्च लक्षणं त्रयोदशसन्निपातेषु मध्ये स्वमानाद्वृद्धैर्दोषैस्तुल्यैरारब्धस्य ज्वरस्य चरकेण पठितं; द्व्युल्बणैकोल्बणादीनां च द्वादशानां लक्षणं तत्रैव द्रष्टव्यम्| तथाच काश्मीरपाठे चरकः– “भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्| वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे|| शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहहृद्व्यथाः| वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः|| छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना| मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे|| सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः| वातोल्बणे स्याद्द्व्यनुगे तृष्णा कण्ठास्यशुष्कता|| रक्तविण्मूत्रता दाहः स्वेदस्तृष्णा बलक्षयः| मूर्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि| आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः| कफोल्बणं सन्निपातं तन्द्रा कासेन चादिशेत्|| प्रतिश्याच्छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्| हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्|| हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः| हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्|| शिरोरुग्वेपथुश्वासप्रलापश्छर्द्यरोचकाः| हीनपित्ते मध्यकफे लिङ्गं वाताधिके मतम्|| शीतता गौरवं तन्द्रा प्रलापोऽस्थिशिरोतिरुक्| हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः|| वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः| कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः|| श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्| कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||” (च. चि. अ. ३) इति| विकृतौ नियमो नास्ति; तेन विकृतिविषमसमवाया अनेकप्रकारा भवन्ति| अतः सुश्रुतेनाप्यन्यादृशः सन्निपातलक्षणं पठितम्– “नात्युष्णशीतोऽल्पसञ्ज्ञो भ्रान्तप्रेक्षी हतप्रभः| खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः|| साश्रुनिर्भुग्ननयनो भक्तद्वेषी हतस्वरः| श्वसन्निपतितः शेते प्रलापोपद्रवान्वितः|| अभिन्यासं तु तं प्राहुर्हतौजसमथापरे| सन्निपातज्वरं कृच्छ्रमसाध्यमपरे जगुः||” (सु. उ. तं. अ. ३९) इति| तथा भालुकितन्त्रे द्व्युल्बणैकोल्बणादिलक्षणमन्यथा पठितम्| तद्यथा– “वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति| तस्य ज्वरोऽङ्गमर्दस्तृट्तालुशोषप्रमीलकाः|| आध्मानतन्द्रारुचयः श्वासकासभ्रमश्रमाः| पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति|| अन्तर्दाहो बहिः शीतं तस्य तन्द्रा च बाधते| तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहाः|| निष्ठीवेत् कफपित्तं च तृष्णा कण्डूश्च जायते| विड्भेदश्वासहिक्काश्च बाधन्ते सप्रमीलकाः|| विभुफल्गू च तौ नाम्ना सन्निपातावुदाहृतौ| श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति|| तस्य शीतज्वरो निद्रा क्षुत्तृष्णा पार्श्वनिग्रहः| शिरोगौरवमालस्यमन्यास्तम्भप्रमीलकाः|| उदरं दह्यते चास्य कटिर्बस्तिश्च दूयते| सन्निपातः स विज्ञेयो मकरीति सुदारुणः|| वातोल्बणः सन्निपातो यस्य जन्तोः प्रकुप्यति| तस्य तृष्णाज्वरग्लानिपार्श्वरुग्दृष्टिसङ्क्षयाः|| पिण्डिकोद्वेष्टनं दाह ऊरुसादो बलक्षयः| सरक्तं चास्य विण्मूत्रं शूलं निद्राविपर्ययः|| निर्भिद्यते गुदं चास्य बस्तिश्च परिकृत्यते| आयम्यते भिद्यते च हिक्कते विलपत्यपि|| मूर्छति स्फायते रौति नाम्ना विस्फुरकः स्मृतः| पित्तोल्बणः सन्निपातो यस्य जन्तोः प्रकुप्यति|| तस्य दाहो ज्वरो घोरो बहिरन्तश्च वर्धते| शीतं च सेवमानस्य कुप्यतः कफमारुतौ|| ततश्चैनं प्रधावन्ते हिक्काश्वासप्रमीलकाः| विसूचिका पर्वभेदः प्रलापो गौरवं क्लमः|| नाभिपार्श्वरुजा तस्य स्विन्नस्याशु विवर्धते| स्विद्यमानस्य रक्तं च स्रोतोभ्यः सम्प्रवर्तते|| शूलेन पीड्यमानस्य तृष्णा दाहश्च वर्धते| असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते|| नहि जीवत्यहोरात्रमेतेनाविष्टविग्रहः| कफोल्बणः सन्निपातो यस्य जन्तोः प्रकुप्यति|| तस्य शीतज्वरस्वप्नगौरवालस्यतन्द्रयः| छर्दिमूर्छातृषादाहतृप्त्यरोचकहृद्ग्रहाः|| ष्ठीवनं मुखमाधुर्यं श्रोत्रवाग्दृष्टिनिग्रहः| श्लेष्मणो निग्रहं चास्य यदा प्रकुरुते भिषक्|| तदा तस्य भृशं पित्तं कुर्यात् सोपद्रवं ज्वरम्| निगृहीते तु पित्ते च भृशं वायुः प्रकुप्यति|| निराहारस्य सोऽत्यर्थं मेदोमज्जास्थि बाधते| अथात्र स्नाति भुङ्क्ते वा त्रिरात्रं न हि जीवति|| मेदोगतः सन्निपातः कप्फणः स उदाहृतः| कामान्मोहाच्च लोभाच्च भयाच्चायं प्रपद्यते|| मध्यहीनाधिकैर्दोषैः सन्निपातो यदा भवेत्| तस्य रोगास्त एवोक्ताः प्रायो दोषबलाश्रयाः||” इत्यादि| ननु, वातादयः परस्परं विरुद्धगुणाः; विरुद्धगुणानां च सम्भूयैककार्यारम्भकत्वं नोपपद्यते, परस्परोपघातात्तुहिनदहनयोरिव; तत्कथं सान्निपातिकविकारोत्पत्तिरिति ‘तद्यथा– वातस्य शीतरूक्षादिगुणयुक्तस्य उष्णस्निग्धादिगुणयुक्तेन पित्तेन, तथा कफस्य गौरवस्निग्धात्मकस्योभाभ्यां विरोधः| “तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश्चलोऽनिलः| पित्तं सस्नेहतीक्ष्णोष्णं लघु विस्रं सरं द्रवम्| स्निग्धः शीतो गुरुर्मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः|| कट्वम्ललवणं पित्तं स्वाद्वम्ललवणः कफः| कषायतिक्तकटुको वायुर्दुष्टोऽनुमानतः||” इति| किञ्च, मिथ्याहारविहाराभ्यां दोषा युगपदुत्पद्यन्ते आहोस्वित्कालव्यवधानेन? आद्ये समबलत्वेन तारतम्येन वा? नाद्यः, सर्वेषां समबलत्वेन परस्परघातकानां युगपदुत्पत्तिर्न स्यात्| अथ भिन्नाश्रयतया साऽस्तु; तदपि न, कुपितानां सर्वदेहव्यापित्वेन परस्परसम्बन्धात्| तदुक्तम्– “व्याप्नोति सहसा देहमापादतलमस्तकम्|” इति| किञ्च ज्वरोत्पत्तौ तावत्कुपितानामामाशयगतानां रसदूषकाणां ज्वरोत्पादकत्वं, तन्मिलितानामेव स्याद्यथादुष्टेनेति| न द्वितीयः, पूर्वदोषाधिकत्वात्| किञ्च तारतम्येनोत्पत्तौ मूषकमार्जारवद्विरोधे प्रागेव तेन प्रबलेन दुर्बलाघातः सुकरः; दृश्यते च मात्स्यो न्यायः| अथ युगपदुत्पादका आहारादयो न भवन्ति; तत्र युगपदुत्पादकद्रव्यमेकमनेकं वा? तस्य ( एकत्वे)पाञ्चभौतिकत्वेन विरुद्धगुणाधिकार(करण)स्य त्रिदोषोत्पादकत्वं न स्यात्| अस्तु वाऽविचारितरमणीयम्| एकमेवाभ्यवह्रीयत इति कथम्? अस्तु वा साधकत्वेन सहकारिणि द्रव्याभ्यवहारे तस्य विरुद्धगुणवत्त्वेन दोषान्तरघातकत्वेनानुत्पत्तिः; तदवस्थतयैव जायमानः केवलैकदोषजो न संसर्गसन्निपातजो ज्वर इति| अथादृष्टाधीनत्वेन सहकारिणो भावे (सम्भवे) एकाभ्यवहारे सन्निपातः, तर्हि सर्वेषां समबलत्वेनेत्यत्रोक्तदोषः स्यात्| अथानेकद्रव्याणामभ्यवहारे त्रिदोषप्रकोपणं न सम्भवति| तत्र तुल्यानामेवाभ्यवहारः कथं? यतोऽभिन्नरुचित्वात्| यथारुच्यभ्यवहारे तारतम्यसम्बन्धात्| तारतम्येनैव भवति प्रकोपो न युगपदिति प्रतिज्ञाहानिः| अत्राप्यदृष्टाधीनत्वात्तुल्याभ्यवहारे प्रतिघातकत्वाभावेऽपि यौगपद्यं; तर्हि स एव दोषः| अथ कालव्यवधानेन, तत्र पूर्वस्मादुत्तरस्य भिन्नः कालो भवेत्; समबलो वा न्यूनाधिकबलो वा? नाद्यः, उपसञ्जातविरोधित्वेनोत्पत्तुमेव न शक्नोति| न द्वितीयः, न्यूनबलत्वेन पूर्वप्रबलेनैव विनाशितत्वात्, अकिञ्चित्करत्वाच्च| न तृतीयः, विचारासहत्वात्| तत्र वक्तव्यम् अधिकबलत्वमुत्पत्तेः पूर्वं पश्चाद्वा? नाद्यः, अनुत्पन्नस्याधिक्याभावात्| अधिकत्वं धर्मः, स तु सति धर्मिणि चिन्त्यः| अथ पश्चात्? तन्न, उत्पत्त्यधिके अधिकेन घातस्योपसञ्जातविरोधिन उत्पत्तिरेव न, कुतोऽधिकत्वम्| अत्राप्यधिकत्वं न सम्भवति| तस्माद्विरुद्धगुणानां सम्भूय कर्तृत्वं घटघटाभावयोरिव घटघटप्रध्वंसयोरिव सहावस्थायित्वं नास्ति दहनतुहिनवत्| अत्रोच्यते– सर्वे विकल्पा अनङ्गीकारपाशहताः, सन्निपातस्तु स्यादेव; मिथ्याहारादिना कुपिता दोषा युगपत्कालव्यवधानेन वा, समबलत्वेन तारतम्येन वा परस्परविरुद्धा अपि स्वस्थानादामाशयमागत्य रसं दूषयित्वा द्वन्द्वसन्निपातोत्पादका भवन्ति, उक्तं च– मिथ्याहारेत्यादि| कालव्यवधानेनोत्पन्नानामपि कालान्तरेण यौगपद्यमेव भवतीति न कदाचिदनुपपत्तिः| ननु, कथमादिपश्चाद्भावेनोत्पन्नानां यौगपद्यमिति चेत्? तन्न, दोषाद्दोषान्तरोत्पत्तेः| तदुक्तम्– “एकः प्रकुपितो दोषः सर्वानेव प्रकोपयेत्| एकः प्रशमितो दोषः सर्वान् दोषान्निवारयेत्||” इति| तथाच चरकः– “कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति||” इति| अत्र रुजाकरत्वाद्दोषोऽपि रोग इति टीकाकृतो व्याचक्षते, ‘विकृतो दोषो रोग’ इति समुदायसमुदायिनोरभेदवादिनां मतं पूर्वमेवोक्तम्| अन्यच्च तथा– “विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च|” इति| विकृतानां घातकत्वं रोगरूपेणैव भवति, या विकृतिः स एव रोग इति न दोषरोगयोर्भेदः| अस्तु वा भेदः, मिलितैर्दोषैः रोगः क्रियत इति| कथञ्चिदपि एकानेकद्रव्याभ्यवहारे सहकारिणो दैवात्त्रयाणां प्रकोपो भवत्येव| उक्तं च– “दृष्टापराधजः कश्चित्कश्चित्पूर्वापराधजः| तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः||” इति| तथा– “पित्तक्षोभे तिलाभ्यङ्गो रात्रौ च दधिभोजनम्| अनिद्रा मैथुनं यस्य सन्निपातो भवेद्ध्रुवम्||” इति| ननु दोषाणां बाध्यबाधकभावेनादिपश्चाद्भावेनोत्पत्तिर्दोषाद्दोषान्तरोत्पत्तिर्वा न सम्भवतीत्यनुपदमेवोक्तम्|” अत्र समाधानमुक्तं दृढबलेन, यथा– “विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्| दोषाः सहजसात्म्यत्वाद्घोरं विषमहीनिव||” इति (च. चि. अ. २६)| एतच्चान्ये दूषयन्ति– सहजत्वादित्यनैकान्तिकं, यतः सहजानपि धातून् दोषा उपघ्नन्ति; सात्म्यत्वादित्यपि साध्याविशिष्टं, यतः सात्म्यत्वमबाधकत्वं, तदेव च दोषाणामिह साध्यम्| अत्रोच्यते– दोषा नोपघ्नन्तीति कोऽयमनुपघातः साध्यते? विकृतेरकारकत्वं वा, अविनाशकत्वं वा? नाद्यः, दोषाणां परस्परं विकृतिकर्तृत्वात्| यथोक्तं चरके– “विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा| यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः||” (च. चि. अ. २६) इति; तथा चोक्तं वाग्भटेन– “सश्लेष्ममेदः पवनः साममत्यर्थसञ्चितम्| अभिभूयेतरं दोषमूरू चेत्प्रतिपद्यते|| सक्थ्यस्थिनी प्रपूर्यान्तः श्लेष्मणा स्तिमितेन च| तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ||’ (वा. नि. अ. १५) इति| अविनाशकत्वं तु विद्यत एव, धातुदोषयोः परस्परं च दोषाणां सर्वथोच्छेदप्रतिपादकागमाभावात्, मरणप्रसङ्गाच्च ; दोषाणामपि देहधारकत्वात्; तस्मात्सर्वथोच्छेदनिरासाभिप्रायेणैव दृढबलवचनमिह द्रष्टव्यं; ततः कुतोऽनैकान्तिकता| न चैवं सति विषस्य विषादकर्तृत्वेन दृष्टान्तविफलत्वं, विषस्य विषादादवान्तरख्यापारस्य प्राणविनाशकत्वात्; नच सर्वात्मना दृष्टान्तो भवतीति| सात्म्यत्वादित्यस्यायमर्थः– सात्म्यत्वेन प्रतीयमानत्वात्| दोषाः परस्परं नोपघ्नन्ति, अनुपघातकत्वेन प्रतीयमानत्वात्; यद्यथा प्रतीयते तत्तथा निर्दिश्यते, यथाऽग्निकार्यो धूमोऽग्निकार्यत्वेनेति, तत्कुतः साध्याविशिष्टत्वमिति| चक्रदत्तस्तु सहजसात्म्यत्वादित्येकमेव हेतुं व्याख्यातवान्– सहजं स्वाभाविकं दोषाणां सात्म्यत्वमिति| दृढबलोक्तहेतुद्वयास्वरसेन गयदासस्तु हेत्वन्तरमुक्तवान्– “दैवाद्दोषस्वभावाद्वा दोषाणां सान्निपातिके| विरुद्धैः स्वगुणैः कश्चिन्नोपघातः परस्परम्||” इति सङ्क्षेपः||१८-२३||
Adhikarana sannipAtajvarasyAsAdhyatvakRucchrasAdhyatvalakShaNam (24) · Śloka 2
दोषे विबद्धे नष्टेऽग्नौ सर्वसम्पूर्णलक्षणः |
सन्निपातज्वरोऽसाध्यः, कृच्छ्रसाध्यस्ततोऽन्यथा ||२४||
(च. चि. अ. ३) |
( सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा |
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा |१|
सप्तमी द्विगुणा चैव नवम्येकादशी तथा |
एषा त्रिदोषमर्यादा मोक्षाय च वधाय च) |२|
तस्य सन्निपातज्वरस्यासाध्यलक्षणमाह– दोषे विबद्ध इत्यादि| दोषो मलं वातादिश्च; जेज्जटस्तु मलमेवाह, विबद्ध इति वचनात्| नष्टाग्नित्वमाहारापाकगम्यम्| यदुक्तं चरके– “अग्निं जरणशक्त्या” (च. वि. अ. ४) इति| असाध्यकृच्छ्रसाध्याभिधानेन सुखसाध्यो न भवतीति दर्शितम्| उक्तं हि चरके– “सन्निपातो दुश्चिकित्स्यानाम्” (च. सू. अ. २५) इति| तथा भालुकिः– “मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता||” इति| सर्वसम्पूर्णलक्षण इति सर्वाणि समग्राणि, सम्पूर्णानि बलीयांसि लक्षणानि यस्य स तथा||२४||
Adhikarana sannipAtajvaropadravaH (25) · Śloka 5
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः |
शोथः सञ्जायते तेन कश्चिदेव प्रमुच्यते ||२५||
(च. चि. अ. ३) |
(त्रयः प्रकुपिता दोषा उरःस्रोतोऽनुगामिनः |
आमाभिवृद्ध्या ग्रथिता बुद्धीन्द्रियमनोगताः ||१||
जनयन्ति महाघोरमभिन्यासं ज्वरं दृढम् |
श्रुतौ नेत्रे प्रसुप्तिः स्यान्न चेष्टां काञ्चिदीहते ||२||
नच दृष्टिर्भवेत्तस्य समर्था रूपदर्शने |
न घ्राणं न संस्पर्शं शब्दं वा नैव बुध्यते ||३||
शिरो लोठयतेऽभीक्ष्णमाहारं नाभिनन्दति |
कूजति तुद्यते चैव परिवर्तनमीहते ||४||
अल्पं प्रभाषते किञ्चिदभिन्यासः स उच्यते |
प्रत्याख्यातः स भूयिष्ठः कश्चिदेवात्र सिध्यति) ||५||
सन्निपातज्वरोपद्रवमाह– सन्निपातेत्यादि||२५||
Adhikarana AgantujvaralakShaNam (26-29) · Śloka 30
अभिघाताभिचाराभ्यामभिशापाभिषङ्गतः |
आगन्तुर्जायते दोषैर्यथास्वं तं विभावयेत् ||२६||
श्यावास्यता विषकृते तथाऽतीसार एव च |
भक्तारुचिः पिपासा च तोदश्च सह मूर्छया ||२७||
ओषधिगन्धजे मूर्छा शिरोरुग्वमथुः क्षवः |
कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमभोजनम् ||२८||
(हृदये वेदना चास्य गात्रं च परिशुष्यति) |
भयात्प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः |
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ||२९||
भूताभिषङ्गादुद्वेगो हास्यरोदनकम्पनम् |३०|
(सु. उ. तं. अ. ३९) |
आगन्तुज्वरमाह– अभिघातेत्यादि| अभिघातोऽभिहननं शस्त्रलोष्टमुष्टिलगुडादिभिः; अभिचारः श्येनादियागकृतः, अथवा विपरीतैर्मन्त्रैर्लोहस्रुचा सर्षपादिहोम इत्याहुः| अभिषङ्गः कामादीनां भूतानां च सम्बन्धः; यदुक्तं चरके– “कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः| सोऽभिषङ्गज्वरो ज्ञेयो यश्च भूताभिषङ्गजः||” (च. चि. अ. ३) इति| अभिशापो ब्राह्मणगुरुवृद्धसिद्धानामनिष्टाभिशंसनम्| तं चागन्तुज्वरं यथास्वं दोषैर्जानीयात्| यदुक्तम्– “कामशोकभयाद्वायुः” इत्यादि| अयं च दोषसम्बन्धः पश्चाद्भावी नत्वारम्भक इति सम्प्राप्त्यवसरे निरूपितम्| श्यावास्यतेत्यादि| श्यावः शुक्लानुविद्धः कृष्णो वर्णः; श्यामवर्ण इत्यन्ये| विषकृते स्थावरविषभक्षणादिकृते; अतीसारः तद्विषस्याधोगत्वात्| ओषधिगन्धज इति तीव्रौषधिगन्धघ्राणजे, “पुष्पेभ्यो गन्धरजसी ओजस्विभ्यो यदाऽनिलः|” (सु. उ. तं. अ. ३९) इत्यादिना वृद्धसुश्रुतेन पठितं तृणपुष्पाख्यं ज्वरमत्रैवान्तर्भावयन्ति| कामज इत्यादि अभिमतकामिन्याद्यप्राप्तिनिमित्ते| चित्तविभ्रंशो भ्रमादिः| यदाह वाग्भटः– “कामाद् भ्रमोऽरुचिर्दाहो ह्रीनिद्राधीधृतिक्षयः|” (वा. नि. अ. २) इति| भयादिति भयाज्जाते ज्वरे| एवं शोकाच्च कोपादित्येतयोर्बोद्धव्यं; शोकात् प्रलाप इति सम्बन्धः; प्रलापश्चात्र वातकार्यः, तस्य वातपित्तकार्यत्वात्| ( विशेषनिश्चयस्तु निदानात्, निदानमपि लक्षणं भवति|) उक्तं च– “कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः|” (च. चि. अ. ३) इत्यादि| यद्येवं तत् कुतः क्रोधजे वेपथुः? तस्य वातकार्यत्वात्| उच्यते– “एकः प्रकुपितो दोषः सर्वानेव प्रकोपयेत्|” इति वचनात् पित्तकोपितवातजन्य एवात्र वेपथुः, अथवा क्रुद्धश्च वेपमानो दृश्यते इति न हि ‘ दृष्टेरनुपपन्नं नामेति जेज्जटः| क्रोधः पित्तमिव वातं च कोपयतीति, तद्युक्तम्| यदाह विदेहः– “क्रोधशोकौ स्मृतौ वातरक्तपित्तप्रकोपणौ|” इति| कोपाच्चेति चकारेण शिरोरुजं समुच्चिनोति| यदाह वाग्भटः– “क्रोधात् कम्पः शिरोरुक् च, प्रलापो भयशोकजः|” (वा. नि. अ. २) इति| मानसत्वाविशेषेऽपि भयजादीनां पृथगुपादानं हेतुभेदात्; हेतुभेदाच्च भेदाभिधानं हेतुप्रत्यनीकचिकित्सार्थमिति| अभिचारेत्यादि| तृष्णा चेति चकारेणाभिचारजे दाहादिकं समुच्चिनोति| यदुक्तं हारीतार्थानुवादिना वाग्भटेन– “तत्राभिचारिकैर्मन्त्रैर्हूयमानस्य तप्यते| पूर्वं चेतस्ततो देहस्ततो विस्फोटतृड्भ्रमैः|| सदाहमूर्छैर्ग्रस्तस्य प्रत्यहं वर्धते ज्वरः|” (वा. नि. अ. २) इति| भूताभिषङ्गादिति भूता देवग्रहादय उन्मादनिदाने वक्ष्यमाणाः, तेषामभिषङ्गः सम्बन्धः| उद्वेग उद्विग्नचित्तता||२६-२९||–
Adhikarana AgantujeShu doShAnubandhapradarshanam (30) · Śloka 31
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः ||३०||
भूताभिषङ्गात्कुप्यन्ति भूतसामान्यलक्षणाः |३१|
आगन्तुज्वरेष्वपि प्रतिनियतदोषानुबन्धप्रदर्शनार्थमाह– कामशोकेत्यादि| त्रयो मला भूताभिषङ्गात् कुप्यन्तीति भूतप्रभावात्| यच्च चरकेण निदानस्थाने ‘अभिषङ्गजः पुनर्वातपित्ताभ्यां’ (च. नि. अ. १) इत्युक्तं, तत् प्रायिकं मन्तव्यमिति जेज्जटः| चक्रस्त्वाह– “अभिषङ्गज इत्यनेन कामाद्यभिषङ्गज उच्यते, नतु भूताभिषङ्गजः|” इति| भूतसामान्यलक्षणा इति यस्य भूतस्य देवग्रहादेरभिषङ्गात् कुप्यन्ति तस्य यल्लक्षणं रोदनादि तेन सह सामान्यं सदृश लक्षणं येषां ते तथा, इति व्याचक्षते जेज्जटादयः; दोषलक्षणानि भूतलक्षणानि च भवन्तीत्यर्थः||३०||–
Adhikarana viShamajvarasamprAptiH (31) · Śloka 2
दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ||३१||
धातुमन्यतमं प्राप्य करोति विषमज्वरम् |३२|
(सु. उ. तं. अ. ३९) |
(सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ) ||२||
अथ विषमज्वरसम्प्राप्तिमाह– दोषोऽल्प इत्यादि| अल्प इत्यनेनाबलत्वात् कालविशेषमवाप्य लब्धबलो ज्वरयति, यस्तु बलवान् स नित्यज्वरमेव करोति| अहितसम्भूत इति अहिताहाराचारादिसम्भूतो वृद्धः| ज्वरोत्सृष्टस्य सहसा निवृत्तज्वरस्य| वाशब्देन प्रथमतोऽपि विषमज्वरो भवतीति दर्शयति| यदुक्तम्– “आरम्भाद्विषमो यस्तु” इत्यादि| धातुमन्यतमं रसरक्तादिकम्| विषमज्वरं तृतीयकादिकम्| विषमज्वरसामान्यलक्षणं च भालुकिना पठितम्– “यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैव च| वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः||” इति||३१||–
Adhikarana santatAdInAM pratiniyatadUShyA dhAtavaH (32-33) · Śloka 33
सन्ततं रसरक्तस्थः, सोऽन्येद्युः पिशिताश्रितः ||३२||
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः |
कुर्याच्चतुर्थकं घोरमन्तकं रोगसङ्करम् ||३३||
(सु. उ. तं. अ. ३१) |
सन्ततादिज्वराणां प्रतिनियतदूष्यान् धातूनाह– सन्ततमित्यादि| सन्ततशब्दः सततस्योपलक्षणः| तेनैतदुक्तं भवति– रसस्थः सन्ततं, रक्तस्थः सततकमिति; यदुक्तं चरके– “ रक्तधात्वाश्रयः प्रायो दोषः सततकं ज्वरम्|” (च. चि. अ. ३) इति ( प्रायोग्रहणात् सततको रक्तव्यतिरिक्तं रसधातुमाश्रयते)| रसग्रहणं चात्र विशेषपरं, सर्वज्वरेषु रसस्यावश्यदूष्यत्वात्| अन्ये तु सततग्रहणार्थं ‘सन्ततौ रसरक्तस्थौ’ इति पठन्ति| तन्नातियुक्तम्, अत्र हि सन्ततसततशब्दौ सञ्ज्ञापरौ, नतु सातत्यवचनौ; तेन सन्ततशब्देन सततकस्यानभिधानात् कथमेकशेष इति दोषः| अन्येद्युरिति अन्येद्युष्कम्| घोरं दुःसहम्| अन्तकं यममिव, मारकत्वात्| रोगसङ्करम् अनेकरोगसङ्कुलम्||३२-३३||
Adhikarana santatasatatAnyedyuShkatRutIyakacaturthakajvaralakShaNam (34-35) · Śloka 36
(स्रोतोभिर्विसृता दोषा गुरवो रसवाहिभिः |
सर्वदेहानुगाः स्तब्धा ज्वरं कुर्वन्ति सन्ततम्) |
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा |
सन्तत्या योऽविसर्गी स्यात् सन्ततः स निगद्यते ||३४||
अहोरात्रे सततको द्वौ कालावनुवर्तते |
अन्येद्युष्कस्त्वहोरात्र एककालं प्रवर्तते ||३५||
तृतीयकस्तृतीयेऽह्नि, चतुर्थेऽह्नि चतुर्थकः |३६|
(सु. उ. तं. अ. ३१) |
अथैषां लक्षणान्याह– सप्ताहमित्यादि| एते विकल्पा यथाक्रमं वातपित्तकफोल्बणत्वेन ज्ञेयाः| यथोक्तम्– “पित्तकफानिलवृद्ध्या दशदिवसद्वादशाहसप्ताहात्| हन्ति विमुञ्चति वाऽऽशु त्रिदोषजो धातुमलपाकात्||” इति| अयं च सन्ततस्त्रिदोषज एव द्वादशाश्रयत्वेन| यदुक्तं चरकेण– “यथा धातूंस्तथा मूत्रं पुरीषं चानिलादयः| युगपच्चानुपद्यन्ते नियमात् सन्तते ज्वरे||” (च. चि. अ. ३) इति| सन्तत्या अविच्छेदेन सप्ताहादीन् व्याप्य अविसर्गी अपरित्यागी, अत्यन्तसंयोगे द्वितीया| ननु, यद्येवं कथमस्य विषमज्वरे पाठः? मुक्तानुबन्धित्वं विषमत्वं, तच्चात्र नास्ति| नैवम्, अस्यापि तथाभावात्| तथा च तल्लक्षणे चरकः– “विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणः| दुर्लभोपशमः कालं दीर्घमप्यनुवर्तते||” (च. चि. अ. ३) इति| यत्तूक्तं खरनादेन– “ज्वराः पूर्वं मयोक्ता ये पञ्च सन्ततकादयः| चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः||” इति; तत् सन्तते मुक्तानुबन्धित्वस्यैकदा भावित्वेनाल्पत्वान्न तद्व्यपदेशः, एकतण्डुलाभ्यवहारेऽनशनशब्दस्य व्यपदेशवत्; नहि तृतीयकादिवदावृत्त्या मुक्तानुबन्धित्वमस्येत्यभिप्रायेण द्रष्टव्यम्| अथवा या विषमज्वरोल्लेखेन चिकित्सोक्ता सा सन्ततवर्जं सततादिषु कार्येति प्रतिपादनार्थम्| हरिचन्द्रेणापि किल| “कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ|” इति (च. चि. अ. ३) चरकवचनाद्विषमज्वरोक्तचिकित्सा तृतीयकचतुर्थकयोरेव, अन्येषु दोषप्रत्यनीकचिकित्सा कार्येति व्याख्यातम्| अस्यां हरिचन्द्रव्याख्यायां कर्म साधारणं सर्वत्रैव विषमज्वरे कार्यं, विशेषेण तृतीयकचतुर्थकयोरिति द्रष्टव्यम्; अन्यथा उक्ततन्त्रान्तरविरोधः| अहोरात्रे सततको द्वौ कालावनुवर्तत इति अह्नि द्वौ कालौ रात्रौ द्वौ कालौ वा; अह्नि एककालं रात्रावेककालमेवं वा; द्वौ कालौ इतीशानदेवः, नियमानभिधानात् तथा दर्शनाच्च| अनुवर्तते वेगं करोति| तृतीयेऽह्नि तृतीयक इति वेगदिनापेक्षया तृतीयेऽह्नि यो भवति स तृतीयको भवति, एवं चतुर्थकेऽपि वाच्यम्||३४-३५||–
Adhikarana viShamajvarasyaikIyamatena bhUtAbhiSha~ggajatvam (36) · Śloka 36
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ||३६||
(सु. उ. तं. अ. ३९) |
विषमज्वरस्यैकीयमतेन भूताभिषङ्गजत्वमाह– केचिदित्यादि| परवचनमप्रतिषिद्धमनुमतं सुश्रुतेन; अत एव विषमज्वरे दैवव्यपाश्रयं बलिहोमादि भूतोचितं, युक्तिव्यपाश्रयं कषायपानादि दोषोचितं च विधीयते| यदाह चरकः– “कर्म साधारणं जह्यात्तृतीयकचतुर्थकौ| आगन्तुरनुबन्धो हि प्रायशो विषमज्वरे||” (च. चि. अ. ३) इति| अत्र साधारणमिति दैवयुक्तिव्यपाश्रयमिति व्याचक्षते इति||३६||
Adhikarana ulbaNadoShabhedena tRutIyakacaturthakayorlakShaNAntaram (37-38) · Śloka 38
कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः |
वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः ||३७||
चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः |
जङ्घाभ्यां श्लैष्मिकः पूर्वं शिरस्तोऽनिलसम्भवः ||३८||
(च. चि. अ. ३) |
उल्बणदोषभेदेन तृतीयकचतुर्थकयोर्लक्षणान्तरमाह– कफपित्तादित्यादि| त्रिकग्राही वेदनया त्रिकव्यापी, त्रिकस्य वातस्थानत्वेन तद्गतौ पित्तकफावन्यस्थानगतत्वेन दुर्बलौ तृतीयदिने वेगं कुरुतः, यदि तु स्वस्थानस्थितौ स्यातां तदा सन्ततज्वरमेव कुर्यातामिति जेज्जटः| एवं शिरसि कफस्थाने, पृष्ठे च पित्तस्थाने बोद्धव्यम्| पृष्ठादिति ल्यब्लोपे कर्मणि पञ्चमी, पृष्ठं वेदनया व्याप्येत्यर्थः| नच वाच्यं यदि त्रिकं वातस्थानं तत्कथं तत्र पित्तकफाविति; प्रकृतिस्थानां दोषाणां स्थाननियमो नतु प्रकुपितानां, तेषां सर्वदेहगतत्वात्| यदाह सुश्रुतः– “कुपितानां हि दोषाणां शरीरे परिधावताम्| यत्र सङ्गः खवैगुण्याद्व्याधिस्तत्रोपजायते||” (सु. सू. अ. २४) इति| एवमन्यस्थानगतत्वेन दोषदौर्बल्यादि चतुर्थकेऽपि वाच्यम्| प्रभावं रुजारूपां शक्तिम्| द्विविधं विवृणोति– जङ्घाभ्यामित्यादि| जङ्घाभ्यां शिरस्त इति| एतच्च पञ्चमीद्वयं पूर्ववत्| पूर्वमिति प्रथमं, तत्र भूत्वा निखिलं देहं व्याप्नोति| श्लैष्मिक इति श्लेष्मोल्बणः, सन्ततसततकान्येद्युष्कतृतीयकचतुर्थकानां पञ्चानां सान्निपातिकत्वात्| यदुक्तं चरके– “प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः| सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः||” (च. चि. अ. ३) इति| अथवा प्रायोग्रहणादेकदोषजा द्विदोषजा अपि भवन्ति| अन्ये त्वाहुः– विकृतिविषमसमवायारब्धाः सन्ततादयः सन्निपातजाः, तेषामेवोद्भूतदोषेण व्यपदेशः; प्रकृतिसमसमवायारब्धास्ते एकदोषजद्विदोषजा अपि भवन्तीति जेज्जटः| प्रकृतिसमसमवायारब्धश्चतुर्थकस्तु पित्तेन न क्रियत एव, व्याधिस्वभावात्; पित्तजगलगण्डवत्| ननु, अस्ति पैत्तिकोऽपि चतुर्थकः; तथा च हारीताचार्यो व्याहरति– “चतुर्थको नाम गदो दारुणो विषमज्वरः| शोषणः सर्वधातूनां बलवर्णाग्निनाशनः|| त्रिदोषजो विकारः स्यादस्थिमज्जगतोऽनिलः| कुपितं पित्तमेवं तु कफश्चैवं स्वभावतः|| शीतदाहकरस्तीव्रस्त्रिकालं चानुवर्तते| सन्निपातसमुद्भूतो विषमो विषमज्वरः|| ऊर्ध्वं कायस्य गृह्णाति यः पूर्वं सोऽनिलात्मकः| पूर्वं गृह्णात्यधःकायं श्लेष्मवृद्धश्चतुर्थकः||” इति| अत्राहुः– अनुबन्धरूपमत्र पित्तं, न त्वारम्भकं; कथमेषा प्रतीतिरिति चेत्, स्थानविशेषानभिधानात्; अत एव हारीतेनापि स्थानं नोदाहृतमेव जङ्घादिवदिति चरकटीकाकृतो व्याचक्षते| किन्त्वेषा व्याख्या तदा सङ्गच्छते यदि पित्तलिङ्गं नोद्भूतं दृश्यते, दृश्यते च; तथाहि कथ्यते– भेडेऽपि पैत्तिकः पठ्यते– “आमाशयस्थः पवनो ह्यस्थिमज्जगतोऽपि वा| कुपितः कोपयत्याशु श्लेष्माणं पित्तमेव च||” इति| किञ्च नागभर्तृतन्त्रे स्थानमप्युक्तमेव– “ऊर्ध्वकायं तु यः पूर्वं गृह्णाति सोऽनिलात्मकः| मध्यकायं तु गृह्णाति पूर्वं यस्तु स पित्तजः|| पूर्वं गृह्णात्यधःकायं श्लेष्मवृद्धश्चतुर्थकः||” इति| तस्मात् प्रायेण कफवाताभ्यां भवतीति पैत्तिकश्चतुर्थकश्चरकादिभिर्नोदाहृतः, नत्वसम्भवादिति मन्तव्यम्| एषां चोत्पत्तिक्रमो वृद्धसुश्रुतादवगन्तव्यः| स यदाह– “अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते| ततश्चामाशयं प्राप्य करोति विषमज्वरम्|| कफस्थानविभागेन यथासङ्ख्यं करोति हि| सततान्येद्युष्कत्र्याख्यचतुर्थान् सप्रलेपकान्||” (सु. उ. तं. अ. ३९) इति| अस्यायमर्थः– आमाशयहृदयकण्ठशिरःसन्धयः पञ्च कफस्थानानि, एषु स्थितैर्दोषैर्यथासङ्ख्यं सततादयः क्रियन्ते| तत्रामाशयस्थितेन दोषेण सततकः क्रियते द्विकालं न च सर्वदा; न चामाशयप्राप्त्या सर्वदा प्रसङ्गः, अहोरात्रेषु कालेषु स्वप्रकोपकालापेक्षया ज्वरोत्पत्तेः| हृदयस्थितेन दोषेणामाशयमागत्यान्येद्युष्कः क्रियते एककालं, नच सर्वदा, सततारम्भकदोषापेक्षयाऽस्य व्यवहितत्वात्| कण्ठस्थितेन दोषेणैकस्मिन् दिने हृदयमागम्यते, अपरस्मिन्नामाशयमागत्य ज्वर आरभ्यते तृतीयकः| एवं शिरःस्थितेन दोषेण कण्ठहृदयामाशयान् त्रीन् त्रिभिर्दिनैः क्रमेण प्राप्य चतुर्थकः क्रियते| पुनः स्वस्थानगमनं तु दोषाणां हृतवेगत्वेन लाघवाद्वेगदिन एव भवति| सन्धिस्थितेन दोषेण प्रलेपकः क्रियते, सन्धयश्चामाशयेऽपि सन्तीति स सर्वदा भवति| अयं चाविषमोऽपि विषमसहचरितः पठितः कफस्थानोत्पादानुरोधात्| उक्तं हि सुश्रुते– “ प्रलेपकस्त्वविषमः प्रायः क्लेशाय शोषिणाम्||” (सु. उ. तं. अ. ३९) इति||३७-३८||
Adhikarana caturthakaviparyayalakShaNam (39) · Śloka 39
विषमज्वर एवान्यश्चतुर्थकविपर्ययः |
, त्र्यहाद् द्वयहं ज्वरयति ह्यादावन्ते च मुञ्चति ||३९||
(च. चि. अ. ३) |
चतुर्थकविपर्ययमाह– विषमेत्यादि| अत्र तन्त्रान्तरम्– “अस्थिमज्जोभयगते चतुर्थकविपर्ययः| त्र्यहाद् द्व्यहं ज्वरयति ह्यादावन्ते च मुञ्चति||” इति| आदावेकदिनं मुक्त्वा, मध्ये दिनद्वयं भूत्वा, अन्ते एकदिनं न भवतीति व्याचक्षते जेज्जटादयः| “अस्थिमज्जोभयगते चतुर्थकविपर्ययः| त्र्यहाद्द्व्यहं ज्वरयत्यादावन्ते च मुञ्चति||” इति पराशरवचनस्यापि स एवार्थः; त्र्यहादिति त्र्यहस्यादिदिनं विमुञ्चति, दिनद्वयं ज्वरयति, त्र्यहस्यान्ते चतुर्थदिनं मुञ्चतीति तात्पर्यार्थं व्याचक्षते| हरिचन्द्रस्त्वाह-द्वे अहनी निरन्तरं ज्वरयित्वा उपरम्यैकमहः पुनर्ज्वरयतीत्येषश्चतुर्थकविपर्यय इति| आदिदिनाभावश्चोत्तरोत्तरपातिदिवसेष्ववधार्यः| चतुर्थकविपर्ययस्योपलक्षणत्वेन तृतीयकादिविपर्ययोऽप्यूह्यः इत्याहुः| तद्यथा– मध्ये एकदिनं ज्वरयति, आद्यन्तयोर्मुञ्चतीति तृतीयकविपर्ययः; एककालं विमुच्य सर्वमहोरात्रं व्याप्नोतीत्यन्येद्युष्कविपर्ययः; ( कालद्वये मुञ्चति, सर्वमहोरात्रं ज्वरयतीति सततकविपर्ययः)| अत्र दोषविकृतिरेव नानाविधा हेतुरिति| “कफस्थानेषु वा तिष्टन् दोषो द्वित्रिचतुर्षु च| विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान्||” (सु. उ. तं. अ. ३९) इति वृद्धसुश्रुतवाक्यं व्याचक्षाणो जेज्जटः– अन्येद्युष्कतृतीयचतुर्थकमात्रस्य विपर्ययमुदाहरति, तद्यथा– आमाशयहृदयस्थदोषेण यथोदाहृत एवान्येद्युष्कविपर्ययः; आमाशयहृदयकण्ठस्थितेन तृतीयकविपर्ययः; तत्रैकस्मिन् दिने हृदयस्थो दोष आमाशयमागत्य तत्स्थेन सह ज्वरयति, तद्दिने कण्ठस्थितश्च हृदयमायाति, अपरदिने सोऽप्यामाशयमागत्य ज्वरयति, एवं दिनद्वयं भूत्वा पश्चादेकदिनं न भवतीति तृतीयकविपर्ययः; आमाशयहृदयकण्ठशिरःस्थेन दोषेण चतुर्थकविपर्यय क्रियते तत्र यस्मिन् दिने हृदयस्थो दोष आमाशयमागत्य ज्वरयति तस्मिन् दिने कण्ठस्थो हृदयं शिरस्थः कण्ठमायाति, अपरदिने हृदयस्थ आमाशयमागत्य ज्वरयति कण्ठस्थितश्च हृदयमायाति, अपरदिने हृदिस्थ एवामाशयमागत्य ज्वरयति, एवं दिनत्रये भूत्वा पश्चादेकदिनं न भवतीति चतुर्थकविपर्यय इति| एते च सर्व एव ज्वरा न विरुद्धाः, सर्वेषामेव मुनिप्रणीतत्वात्| यथोक्तं स्मृतिशास्त्रे– “स्मृतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ मतौ||” (मनु. स्मृ. अ. २/१४) इति| दृश्यन्ते च नानाविधा एव विषमज्वराः; एष एव न्यायश्चरकसुश्रुतयोः कुष्ठवैषम्ये वाप्यचन्द्रेण दर्शितः; न वा चिकित्साभेदोऽप्येषामुक्तः; यैव तृतीयकादौ चिकित्सा सैव तद्विपर्ययेऽपीति||३९||
Adhikarana vAtabalAsakajvaralakShaNam (40) · Śloka 40
नित्यं मन्दज्वरो रूक्षः शूनकस्तेन सीदति |
स्तब्धाङ्गः श्लेष्मभूयिष्ठो भवेद्वातबलासकी ||४०||
(अ. सं. नि. अ. २) |
उक्तसङ्गत्या प्रलेपकादनूपद्रवत्वेन तत्सधर्मिणि वातबलासके वाच्ये प्रतिलोमतन्त्रयुक्त्या वातबलासकमेवाह– नित्यमित्यादि| वातबलासकाख्यो ज्वरोऽस्यास्तीति वातबलासकी नरः, तेन ज्वरेण, शूनकः शोथी, सीदति अवसन्नो भवति; शोथिनः स उपद्रव इत्यर्थः| ‘शूनः कृच्छ्रेण सिध्यति’ इति पाठान्तरे ‘तेन’ इति शेषः| वातबलासकमेके कुम्भाह्वयपाण्डुरोगविषयमाहुरिति गदाधरः| वातबलासकारब्धत्वाद्वातबलासकः; बलासकः श्लेष्मा, पित्तमप्यत्र बोद्धव्यम्| यदुक्तं तन्त्रान्तरे– “वायुः प्रकुपितो दोषावुदीर्योभौ विधावति| स शिरस्थः शिरःशूलम्||” इत्यादि| यच्चोक्तं सुश्रुतेन– “प्रलेपकं वातबलासकं वा कफाधिकत्वात् प्रवदन्ति तज्ज्ञाः||” (सु. उ. तं. अ. ३९) इति, तत्तु श्लेष्मणो नित्यानुषक्तत्वेनेति जेज्जटः| रूक्षत्वं चास्य वातपित्ताभिभूतत्वात् कफस्नेहस्य व्याधिप्रभावाद्वेति||४०||
Adhikarana pralepakajvaralakShaNam (41) · Śloka 41
प्रलिम्पन्निव गात्राणि घर्मेण गौरवेण च |
मन्दज्वरविलेपी च सशीतः स्यात्प्रलेपकः ||४१||
(अ. सं. नि. अ. २) |
प्रलेपकमाह– प्रलिम्पन्नित्यादि| मन्दज्वरश्चासौ विलेपी चेति मन्दज्वरविलेपी, विलेपित्वं चास्य यस्माद्घर्मगौरवाभ्यां लिम्पति सम्बध्नातीत्यर्थः| अयं च कफपित्तजः| यदुक्तं सुश्रुतेन “प्रलेपकं वातबलासकं वा” (सु. उ. तं. अ. ३९) इत्यादि| तथा यक्ष्मणि “ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः||” (सु. उ. तं. अ. ४१) इत्युक्तं, यक्ष्मणि चायं भवतीति| अन्ये तु त्रिदोषजयक्ष्मजनितत्वेन त्रिदोषज एवायम्, उद्भूतत्वेन तु कफपित्तव्यपदेशः||४१||
Adhikarana viShamajvaravisheShAH (42-47) · Śloka 47
विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते |
तेनार्धं शीतलं देहमर्धमुष्णं प्रजायते ||४२||
काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः |
तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ||४३||
काये श्लेष्मा यदा दुष्टः पित्तं चान्ते व्यवस्थितम् |
शीतत्वं तेन गात्राणामुष्णत्वं हस्तपादयोः ||४४||
(अ. सं. नि. अ. २) |
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे |
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ||४५||
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च |
तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ||४६||
द्वावेतौ दाहशीतादिज्वरौ संसर्गजौ स्मृतौ |
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यतमश्च सः ||४७||
(सु. उ. तं. अ. ३९) |
विषमज्वरविशेषानाह– विदग्ध इत्यादि| विदग्धेऽन्नरसे दुष्टे आहाररसे तथा दुष्टे पित्ते दुष्टे श्लेष्मणि देहे व्यवस्थिते भवतः, ‘तेन हेतुना देहमर्धं शीतलं कफेनार्धं चोष्णं पित्तेन प्रजायते| अर्धत्वं चार्धनारीश्वराकारेण नरसिंहाकारेण वा, यथादोषं व्यवस्थाननियमहेतोरभावादिति| काय इत्यादि| काये अन्तरग्नौ, कोष्ठ इति यावत्| अन्ते हस्तपादयोः| उक्तार्थस्य विपर्ययेण ज्वरान्तरमाह– काये श्लेष्मेत्यादि| त्वक्स्थावित्यादि|– त्वक्शब्देन त्वक्स्थो रस उच्यते, तत्स्थस्य तदुपचारेणेति गदाधरः; जेज्जटस्तु त्वचमेवाह| एतदभिप्रायेणैव चरकेण ज्वरेऽभ्यङ्गार्थं तैलादीन्यभिधायोक्तम्– “तैराशु प्रथमं याति बहिर्मार्गगतो ज्वरः||” (च. चि. अ. ३) इति| तयोः श्लेष्मानिलयोः| प्रशान्तयोरिति प्रशान्तवेगयोरित्यर्थः; नहि विषमेषु दोषस्य प्रशान्तिर्भवति, पुनर्वेगागमात्| यदाह सुश्रुतः– “स चापि विषमो देहं न कदाचिद्विमुञ्चति| ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते|| वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते| धात्वन्तरस्थो लीनत्वात् सौक्ष्म्यान्नैवोपलभ्यते [ |” (सु. उ. तं. अ. ३९) इति| इतरौ वातकफौ| दाहशीतादीति एको दाहादिः, अपरः शीतादिः| ननु, एतयोः सम्प्राप्तौ त्रिदोषजत्वमुक्तं; तत् कथं संसर्गजावित्युक्तं, संसर्गो हि द्वयोर्भवति त्रयाणां सन्निपात इति स्थितिः| उच्यते– संसर्गः सम्बन्धः, स च द्वयोर्बहूनां च भवति, अत्र त्रयाणामुक्तः, न चैवं सर्वत्र; अथवा संसर्गः सौम्याग्नेयदोषकोटिद्वयमेलापः| तत्र शीतादौ ज्वरे पित्तमनुबन्धः, दाहादौ वातकफावनुबन्धौ; अनुबन्ध्यश्च प्राधान्येन चिकित्स्योऽनुबन्धाविरोधेनेति प्रयोजनमेतस्य| तयोर्दाहशीतादिज्वरयोर्मध्ये दाहपूर्वो दाहादिः कष्ट इति दुःखप्रदः| दाहादेः कष्टसाध्यत्वाभिधानेन शीतादेरर्थतोऽकष्टत्वमिति| उक्तविषमज्वराणामुपलक्षणत्वादन्येऽपि विषमज्वरा रात्रिज्वरादयो बोद्धव्या इति जेज्जटः| उक्तं च तन्त्रान्तरे– “समौ वातकफौ यस्य क्षीणपित्तस्य देहिनः| प्रायो रात्रौ ज्वरस्तस्य दिवा हीनकफस्य तु||” इति| सर्वेषु च विषमज्वरेष्ववश्यम्भावी वायुः| यदाह वृद्धसुश्रुतः– “नर्तेऽनिलाद्वै विषमज्वरः समुपजायते| कफपित्ते हि निश्चेष्टे चेष्टयत्यनिलः सदा||” (सु. उ. तं. अ. ३९) इति| तथा विदेहेऽपि– “पवनो गतिवैषम्याद्विषमज्वरकारणम्|” इति| एषां च ज्वराणामृत्वादिहेत्वन्तरलाभादन्यथाभावोऽपि दृश्यते| तद्यथा– सन्ततः स्वरूपं त्यक्त्वा सततादीनामन्यतमत्वं प्रतिपद्यते, तथा चतुर्थकस्तृतीयकादिरूपत्वम्| यदाह चरकः– “ऋत्वहोरात्रदोषाणां मनसश्च बलाबलात्| कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते||” (च. चि. अ. ३) इति| अस्यार्थः– बलाबलादिति ऋत्वादिमनोऽन्तेन सम्बध्यते, बलं चाबलं च बलाबलम्| अर्थशब्दोऽत्र प्राक्तनकर्मवाची| तं तं कालं सततकाद्युक्तं, ज्वरः प्रतिपद्यते इति योजना| उदाहरणं च ऋत्वहोरात्रबलाबलाद्यथा– यदा निदाघोत्पन्नो वातप्रधानश्चतुर्थको वर्षासमयमाप्नोति तदा तेनर्तुनाऽऽप्यायितबलस्तृतीयकान्तानां सततकादीनामन्यतमत्वं प्राप्नोत्युत्कर्षात्| एवं वर्षासमुत्पन्नः सन्ततः शरदं प्राप्यापकृष्टबलः सततादीनामन्यतमत्वमेत्यपकर्षात्| एवं पित्तकफयोरपि उत्कर्षापकर्षौ ऋतुकृतौ व्याख्येयौ| अहोरात्रशब्देन कतिपयान्यहोरात्राणि गृह्यन्ते, नहि एकस्मिन्नहोरात्रे सततादीनामुत्कर्षापकर्षाभ्यामन्यथाभाव उपपद्यते; किन्तु कतिपयैरेव| यदा वर्षाशरद्वसन्तप्रारम्भे वातादयो ज्वरं चतुर्थकमारभन्ते तदा मध्यानि कतिपयदिनान्यवाप्य स एव तृतीयकपूर्वकत्वेन विपरिणमते उत्कर्षात्; अपकर्षात्तु यदाऽन्त्यानि दिनान्याप्नोति तदा सन्ततो (वातारब्धः प्रावृषः,) पित्तारब्धः शारदो, वसन्तस्य च श्लेष्मारब्धः, प्रतनुकत्वाद्दोषस्य सततादीनामन्यतमत्वेन विपरिणमत इति| दोषबलाबलाद्यथा– यदा सततादीनामन्यतमकारी दोषः श्लेष्मा मधुरस्निग्धादीन् दिवास्वप्नादींश्च हेतूनाप्नोति तदा सन्ततकादीन् करोति| एवं वातपित्तयोरप्यूह्यम्| मनोबलाबलाद्यथा– यदा सन्ततज्वरी सत्त्वगुणोद्रेकात् प्रहर्षावष्टम्भबहुलो भवति तदा सततादीनामन्यतमत्वं प्राप्नोति; यदा चतुर्थकज्वरी तमोगुणभूयिष्ठत्वाद्विषादादिभिरभिभूयते तदा तृतीयकादीनामन्यतमो भवति, “विषादो रोगवर्धनानाम्” (च. सू. अ. २५) इत्यागमात्| अन्ये तु मनःशब्देन बुद्धिं व्याख्यानयन्ति, कारणे कार्योपचारात्| तस्याश्च बलाबलं यथा– यदा चतुर्थकज्वरी प्रज्ञापराधाद्देवादीनभिभूयाहितान्याचरति तदा तृतीयकपूर्वेषामन्यतमत्वमाप्नोति; यदा तु शुद्धसत्त्वोत्कर्षाद्विवेकिन्या बुद्ध्या युक्तः स्यात्तदा शुभानि देवताराधनेष्टिबल्युपहारादीन्याचरति तदा सन्ततज्वरी सततादीनामन्यतमत्वं प्राप्नोति| अर्थवशाद्यथा– सन्ततज्वरिणोऽपि यदि चतुर्थकवेदनीयं कर्म स्यात्तदा सन्ततोऽपि चतुर्थकत्वेन विपरिणमते; अथ चतुर्थकज्वराविष्टस्य यदि तत्कालपरिपाकि कर्म बलीयो भवति तदा सन्ततत्वेन परिणमते| एतच्च कर्मवशत्वमृत्वहोरात्रदोषबलाबलेष्वपि बोद्धव्यं, तदनन्तरं तन्निर्देशादिति||४२-४७||
Adhikarana rasaraktamAMsamedomajjashukragatajvaralakShaNam (48-54) · Śloka 1
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ |
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ||४८||
रक्तनिष्ठीवनं दाहो मोहश्छर्दनविभ्रमौ |
प्रलापः पिडका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ||४९||
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता |
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ||५०||
भृशं स्वेदस्तृषा मूर्छा प्रलापश्छर्दिरेव च |
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ||५१||
भेदोऽस्थ्नां कूजनं श्वासो विरेकश्छर्दिरेव च |
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ||५२||
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा |
अन्तर्न्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे ||५३||
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे |
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः ||५४||
(सु. उ. तं. अ. ३९) |
(रसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः |
अस्थिमज्जगतः कृच्छ्रो शुक्रस्थस्तु न सिध्यति) ||१||
(च. चि. अ. ३) |
उक्तवातादिज्वराणां धातुविशेषदूष्यतयाऽधिकलक्षणानि भवन्ति; यदुक्तम्– ‘वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा| तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान्||’ (सु. उ. तं. अ. ३९) इति; एतदभिधानं च रसादिधात्वविरोधेन वातादिचिकित्साकरणार्थम्; अतस्तानाह– गुरुतेत्यादि| हृदयोत्क्लेशः हृदयस्थितस्य दोषस्योपस्थितवमनत्वमिव, रसस्य हृदयस्थत्वात्| रसस्थ इत्यनेन विशेषेणात्र रसो दूष्यः, सर्वेषामेव ज्वराणां रसानुगत्वात्| दैन्यं क्लान्तचित्तत्वम्| पिण्डिकेत्यादि| पिण्डिका जान्वधो जङ्घामांसपिण्डः, तस्या उद्वेष्टनं दण्डादिना पीडनेनेव वेदना पिण्डिकोद्वेष्टनम्; एवमन्यत्रापि| सृष्टमूत्रपुरीषता प्रवर्तमानमूत्रपुरीषता| ऊष्मा बहिः, एतच्च विशेषपरं, प्रायः सर्वज्वरेषु तथाभावात्| ‘ऊष्माऽन्तर्मोहविक्षेपौ’ इति पाठान्तरे ऊष्माऽन्तः अन्तर्दाह इत्यर्थः, विक्षेपो हस्तादिचालनम्| भृशं स्वेद इति घर्मस्य मेदोमलत्वात्; तद्विकृत्यैव दौर्गन्ध्यं गात्रे| असहिष्णुता वेदनाया असहत्वं, क्रोधनत्वमिति कार्तिकः| भेदोऽस्थ्नामिति भेद इव भेदः भङ्गवत्पीडेत्यर्थः, (परपदार्थेषु प्रयुज्यमानाः शब्दा वृत्ति(वति)मन्तरेणापि वृत्त्य(वत्य)र्थं गमयन्ति) यथा– अग्निर्माणवकः| एवमन्यत्रापि भेदादौ द्रष्टव्यम्| कूजनं कुन्थनं; ‘कुञ्चनम्’ इति पाठान्तरेऽस्थ्नामेव सङ्कोच इत्यर्थः| तमःप्रवेशनम् अन्धकारप्रविष्टस्येवासंवित्तिः| महाश्वासः श्वासाधिकारे वक्ष्यमाणलक्षणः| मर्मशब्देन हृदयमुच्यते, प्राधान्यादिति कार्तिकः; तस्य छेद इव मर्मच्छेदः| मरणमित्यादि शुक्रगतस्य| तत्रैतेषु रसादिधातुगतज्वरेषु मध्ये शुक्रस्थानगते मरणं प्राप्नुयादिति योज्यम्| शुक्रं च तत्स्थानं चेति शुक्रस्थानं; (नतु शुक्रस्य स्थानं शुक्रस्थानं) शुक्रस्य सर्वदेहगत्वेन नियतस्थानासम्भवादिति कार्तिकः| (यदुक्तम्– “यथा पयसि सर्पिस्तु गुडश्चेक्षुरसे यथा| शरीरेषु तथा नॄणां शुक्रं विद्याद्भिषग्वरः||” (सु. शा. अ. ४) इति|) विशेषत इति पदेन शुक्रस्य बाहुल्येन विसर्गः, अन्यस्यापि रक्तादेरिति वदन्ति||४८-५४||
Adhikarana uktavAtAdijvarANAM kAlaprakRutimuddishya prAkRutatvaM vaikRutatvaM ca (55) · Śloka 55
वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् |
वैकृतोऽन्यः स दुःसाध्यः प्राकृतश्चानिलोद्भवः ||५५||
(वा. नि. अ. २) |
उक्तवातादिज्वराणां कालप्रकृतिमुद्दिश्य प्राकृतत्वं वैकृतत्वं चाह– वर्षेत्यादि| वर्षादिषु वाताद्यैः क्रमाद्यो ज्वरः स प्राकृतः; वर्षासु वातिकः, शरदि पैत्तिकः, वसन्ते श्लैष्मिकः| अस्मादन्यो वैकृतः, यथा– वर्षासु पैत्तिक इत्यादि| स इति वैकृतो दुःसाध्यः, अर्थात् प्राकृतः सुखसाध्य इति| यदुक्तम्– “प्राकृतः सुखसाध्यस्तु वसन्तशरदुद्भवः|” (च. चि. अ. ३) इति| अत्र वाग्भटेन वातजस्य प्राकृतत्वप्रणयनं यत्कृतं तदन्ये नानुमन्यन्ते, दुःसाध्यत्वेन वैकृतादभिन्नत्वात्| जतूकर्णेनाप्यसौ न पठितः| यदाह– “वसन्तशरदोः प्रायः प्राकृतोऽन्यत्र वैकृतः|” इति| अत्रोच्यते– न प्राकृतत्वं सुखसाध्यत्वख्यापनपरा सञ्ज्ञा, किन्तु कुम्भकारादिवद्यौगिकत्वं; यतो यथर्तुप्रकुपितो दोषः प्रकृतिरुच्यते, तत उद्भूतः प्राकृतः; तेन प्राकृतत्वेऽपि दोषस्वभावाद्वातिकस्य दुःखसाध्यत्वं वैकृतवदिति दुःखसाध्यत्वेन वैकृतसाधर्म्यात्तु चरकजतूकर्णाभ्यां नोक्तः, नतु प्राकृतत्वाभावादित्यभिप्रायो वाग्भटस्येति| अन्यरोगेषु प्राकृतत्वेन दुःसाध्यत्वं, ज्वरस्य तु व्याधिप्रभावात् सुखसाध्यत्वम्| तन्त्रान्तरं हि– “ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्||” इति||५५||
Adhikarana prAkRutajvarANAmutpattikramaH (56-57) · Śloka 57
वर्षासु मारुतो दुष्टः पित्तश्लेष्मान्वितो ज्वरम् |
कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः ||५६||
तत्प्रकृत्या विसर्गाच्च तत्र नानशनाद्भयम् |
कफो वसन्ते तमपि वातपित्तं भवेदनु ||५७||
(वा. नि. अ. २) |
तेषामेव प्राकृतज्वराणां चिकित्साविशेषार्थमुत्पत्तिक्रममाह– वर्षास्वित्यादि| दुष्ट इति कुपितः, ग्रीष्मे सञ्चितत्वात्| पित्तश्लेष्मान्वित इति तत्कालोचितपित्तकफानुबन्धः| यदुक्तम्– “भूबाष्पान्मेघनिष्यन्दात् पाकादम्लाज्जलस्य च| वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः|” (च. सू. अ. ६) इति| कुर्यादिति छेदः| पित्तमित्यादि पित्तं च शरदि दुष्टं ज्वरं कुर्यादिति पूर्वोक्तेन सम्बध्यते; एवं कफो वसन्ते इत्यत्रापि योज्यम्| पित्तदुष्टिश्च शरदि वर्षासु सञ्चितत्वात्| अनुबलोऽनुबन्धः, तस्य च हेतुर्वार्षिकक्लेदानुवृत्तिरेव| तत्प्रकृत्येति तयोः पित्त श्लेष्मणोः प्रकृत्या स्वभावेन, तत्कृतयोर्ज्वरयोरनशनाल्लङ्घनान्न भयं भवति| यदुक्तम्– “कफपित्ते द्रवे धातू सहेते लङ्घनं महत्| , आमक्षयादूर्ध्वमतो वायुर्न सहते क्षणम्||” इति| विसर्गाच्च हेतोर्नानशनाद्भयम्| वर्षाशरद्धेमन्ता विसर्गः, तत्रोपचितबलाः प्राणिनो भवन्ति, सोमस्य बलवत्त्वात्; शिशिरवसन्तग्रीष्मास्त्वादानं, तत्रापचितबलाः प्राणिनः, सूर्यस्य बलवत्त्वात् इति व्युत्पादितं शास्त्रे| ‘तत्प्रकृत्या विसर्गस्य’ इति पाठान्तरे तत्प्रकृत्या कफवातपित्तप्रकृत्या, विसर्गस्य च प्रकृत्येति योज्यम्| कफ इत्यादि| तं कफमनु वातपित्ते भवतः, अनुबन्धरूपे भवत इत्यर्थः| हेतुश्चात्र वसन्तस्यादानमध्यत्वेनाग्नेयरूक्षत्वात् वातपित्तप्रकोपकत्वम्| यदुक्तं चरके– ‘आदानमध्ये तस्यापि वातपित्तं भवेदनु (च. चि. अ. ३) इति| अत्र कफपित्तप्रकृत्या लङ्घनं युक्तमेव, किन्त्वादानमध्यत्वेन न निर्भयं तत् कार्यम्| अत एव ‘तत्र नानशनाद्भयम्’ इत्येतस्मात् पूर्वमेव पठितम्, अन्यथा सर्वशेषे पठितं स्यादिति||५६-५७||
Adhikarana kAlasya doShavisheShe lakShaNatvam (58) · Śloka 58
काले यथास्वं सर्वेषां प्रवृत्तिर्वृद्धिरेव वा |५८|
(वा. नि. अ. २) |
कालोऽपि दोषविशेषस्य लक्षणमित्याह– काल इत्यादि| यथास्वं काले यस्य वातादेर्यः प्रकोपकालस्तत्र तज्जन्यज्वरस्य प्रवृत्तिरुत्पादो वृद्धिर्वा भवति; अथवा प्रवृत्तिर्नित्यज्वरस्य, वृद्धिर्विषमज्वरस्येति|५८|–
Adhikarana jvarANAmupashayAnupashayau (58) · Śloka 58
निदानोक्तानुपशयो विपरीतोपशायिता ||५८||
(वा. नि. अ. २) |
(यथा कालो दोषविशेषस्य लक्षणं) तथोपशयानुपशयावपि लक्षणमित्याह– निदानेत्यादि| निदानत्वेन ये उक्ता आहाराचारादयस्तैरनुपशयो दुःखं निदानोक्तानुपशयः| विपरीतैर्दोषादिविपरीताहाराचारैरुपशायितासुखजननशीलत्वं विपरीतोपशायितेति||५८||
Adhikarana antarvega-bahirvegajvaralakShaNam (59-60) · Śloka 61
अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः |
सन्ध्यस्थिशूलमस्वेदो दोषवर्चोविनिग्रहः ||५९||
अन्तर्वेगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् |
सन्तापो ह्यधिको बाह्यस्तृष्णादीनां च मार्दवम् ||६०||
बहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च |६१|
(च. चि. अ. ३) |
उक्तज्वराणां मध्ये सम्प्राप्तिवशात् कश्चिदन्तर्वेगो भवति कश्चिद्बहिर्वेगस्तयोर्लक्षणमाह– अन्तर्दाह इत्यादि| श्वसनं श्वासः; ‘सदनम्’ इति पाठान्तरं, तन्न युक्तमिति जेज्जटः; यतोऽन्तर्वेग एव सुश्रुते गम्भीराख्यः पठितः, तत्र च श्वास एव पठित इति| विनिग्रहोऽप्रवृत्तिः| सन्ताप इत्यादि| तृष्णादीनामित्यादिशब्देनोक्तप्रलापादीनां ग्रहणम्| मार्दवं स्वल्पत्वम्| अस्य सुखसाध्यत्वाभिधानेनान्तर्वेगस्य कृच्छ्रसाध्यतां सूचयति, असाध्यतां वा, “गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्|” (सु. उ. तं. अ. ३९) इति सुश्रुतवचनादिति||५९-६०||–
Adhikarana Amajvara-pacyamAna-nirAmajvaralakShaNam (61-65) · Śloka 65
लालाप्रसेको हृल्लासहृदयाशुद्ध्यरोचकाः ||६१||
तन्द्रालस्याविपाकास्यवैरस्यं गुरुगात्रता |
क्षुन्नाशो बहुमूत्रत्वं स्तब्धता बलवान् ज्वरः ||६२||
आमज्वरस्य लिङ्गानि न दद्यात्तत्र भेषजम् |
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ||६३||
( शोधनं शमनीयं च करोति विषमज्वरम्) |
ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः |
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ||६४||
क्षुत् क्षामता लघुत्वं च गात्राणां ज्वरमार्दवम् |
दोषप्रवृत्तिरष्टाहो निरामज्वरलक्षणम् ||६५||
(च. चि. अ. ३) |
चिकित्साविशेषार्थमामपच्यमानपक्वलक्षणान्याह– लालेत्यादि| ननु, न दद्यात्तत्र भेषजमिति विरुद्धं, द्विविधं हि भेषजमुक्तं चरकेण द्रव्यभूतमद्रव्यभूतं चेति; तत्र द्रव्यभूतं कषायादि, अद्रव्यभूतं लङ्घनस्वेदादि; अत्र लङ्घनादिकं षडङ्गार्धशृतं च प्रयुज्यते| उच्यते– भेषजशब्देनात्रान्नपानसाधनव्यतिरिक्ता कल्पनोच्यते, च तु सामान्येनौषधमात्रं; कथमेषा प्रतीतिरिति चेत्, तरुणज्वरे भेषजपाननिषेधेऽपि भेषजविधानदर्शनात्| एवं पच्यमानेऽपि बोद्धव्यं, तत्रापि सामतायाः सद्भावात्| क्षुदित्यादि| असमासकरणात् क्षुदादयो व्यस्ताः समस्ताश्च भोद्धव्याः| अष्टाहः पक्वलक्षणमिति जेज्जटः| हरिचन्द्रस्त्वाह– असत्यप्यष्टाहे क्षुदादिभिर्निरामत्वं दोषप्रवृत्त्या वा क्षुधाद्यभावेऽप्यष्टाहेनैव शिष्यहितैषितया कालं लक्षणं च निर्दिष्टवानिति| द्विविधा हि सामता– एका रसस्य, अपरा दोषस्य; रससामता तु मुखवैरस्यादिलक्षणा, दोषसामता तरुणत्वरूपा, साऽष्टाहेनैवापैति| अत्र च हरिचन्द्रेण हेतुरुक्तः– (‘ सप्ताहेनैव पच्यन्ते सप्तधातुगता मलाः| निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि||’ इति|) सप्तानां धातूनां धात्वग्निना सप्ताहेनामपाकादष्टाहेनैव निरामत्वमिति| रससामता त्वष्टाहात् परतोऽप्यनुवर्तते| एनमर्थ जेज्जटोऽपीच्छति, यदेवं लिखति चरकसुश्रुतटीकायाम्– ‘तरुणा सामताऽष्टाहादपैति, रससामता तु परतोऽप्यनुवर्तते’| इति एतत्प्रयोजनं च तरुणसामतायामौषधं नोपयुज्यते, रससामतायां तु पाचनं दीयते| अत एवाह चरकः ‘ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम्| पाचनं शमनीयं वा कषायं पाययेत्तु तम्||’ (च. चि. अ. ३) इति| तथा– ‘मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च| पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्||’ (सु. उ. तं. अ. ३९) इत्यभिधायापि यत् सुश्रुते न पठितम्– ‘सप्तरात्रात् परं केचिन्मन्यन्ते देयमौषधम्| दशरात्रात् परं केचिद्दातव्यमिति निश्चिताः| (सु. उ. तं. अ. ३९) इति, तेनैवं ज्ञापयति– सप्ताहादर्वाक् पाचनमपि न दीयत इति कार्तिककुण्डेनापि व्याख्यातमिति| ननु ‘ज्वरितं षडहेऽतीते’ (च. चि. अ. ३) इति चरकवचनस्य ‘सप्तरात्रात् परं’ (सु. उ. तं. अ. ३९) इत्यादिना सुश्रुतवचनेन विरोधः, यतः षडहेऽतीते सप्तमदिनं भवति, तत्र कषायं विधत्त इति| उच्यते, षडहेऽतीते सप्तमे लघ्वन्नप्रतिभोजितमष्टमे कषायं पाययेदित्यष्टमपदलोपाद्योज्यं रसौदनवदिति चक्रः, ‘भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्|’ (च. चि. अ. ३) इति दोषश्रुतेरुक्तसुश्रुतविरोधाच्च| प्रकारान्तरेणैनमर्थं कार्तिककुण्डोऽप्याह, तद्यथा– षडहेऽतीते इति ज्वरोत्पाददिनं परित्यज्य गणना, बस्तिदानदिनपरिहारेण परिहारकालगणनावत् एवं ‘पाययेदातुरं साममौषधं सप्तमे दिने| शमनेनाथवा दृष्ट्वा निरामं तमुपाचरेत्||’ इत्येतदपि वचनं व्याख्येयम्| भट्टारहरिचन्द्रेणापि सप्तमदिने कषायपानं यद्व्याख्यातं तस्यायमेवाभिप्रायो गवेषणीयः, सुश्रुतदिविरोधात्| चन्द्रिकाकारेणापि व्याख्यातम्– “अक्षिरोगे दिनचतुष्टयवज्ज्वरस्य सप्ताहं सामताकालः, तत्र न पाचनं न वा शमनं शोधनम्” इति| यत्तु पेयाद्यनन्तरं हारीतेनोक्तम्– “एतां क्रियां प्रयुञ्जीत षड्रात्रं सप्तमेऽहनि| पिबेत् कषायसंयोगान् ज्वरघ्नान् साधुसाधितान्||” इति; तथा– “इति षड्रात्रिकः प्रोक्तो नवज्वरहितो विधिः| अतः परं पाचनीयं शमनं वा ज्वरे हितम्|” इति खरनादवचनं च पूर्ववदष्टाहप्रतिपादकं द्रष्टव्यम्| अथ वा पित्तज्वराभिप्रायेणैव तद्वचनद्वयम्| यदाह सुश्रुतः– ‘सप्तरात्रात्परम्’ इत्यारभ्य, यावत् ‘पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते| अचिरज्वरितस्यापि भेषज्यं दोषपाकतः||’ (सु. उ. तं. अ. ३९) इति| सप्ताहादर्वागपि यदेतत्पाचनं कषायपानमुक्तं तन्नात्युद्भूतसामतायां द्रष्टव्यम्| यदाह वाग्भटः– ‘सप्ताहादौषधं केचिदाहुरन्ये दशाहतः| केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु|| तीव्रज्वरपरीतस्य दोषवेगोदयो यतः| दोषे अथवा अतिनिचिते तन्द्रास्तैमित्यकारिणि|| अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम्||’ (वा. चि. अ. १) इति| ‘अयमर्थोऽभियुक्तैश्च कैश्चिदुक्तश्चिकित्सकैः| सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं ज्वरे|| निरामे शमनं, स्तब्धे सामे नौषधमाचरेत्|’ इति सङ्क्षेपः| विस्तरस्तु कषायनिर्णयप्रकरणे द्रष्टव्यः| पक्वज्वरलक्षणेन जीर्णज्वरलक्षणमपि चिकित्सोचितं बोद्धव्यम्| यदुक्तं तन्त्रान्तरे– ‘आसप्तरात्रम्’ इत्यादि| जतूकर्णेनाप्युक्तम्– ‘जीर्णस्त्रयोदशदिवसः’ इति| ‘त्रिसप्ताहे व्यतीते तु ज्वरो यस्तनुतां गतः| प्लीहाग्निसादं कुरुते स जीर्णज्वर उच्यते||’ इति तु तन्त्रान्तरमतिपुराणाभिप्रायेण द्रष्टव्यम्||६१-६५||
Adhikarana jvarasya sAdhyalakShaNam (66) · Śloka 66
बलवत्स्वल्पदोषेषु ज्वरः साध्योऽनुपद्रवः |६६|
(च. चि. अ. ३) |
ज्वरस्य साध्यलक्षणमाह– बलवत्स्वित्यादि| बलवत्सु पुरुषेषु साध्यः, यदुक्तम्– ‘बलाधिष्ठानामारोग्यम्’ (च. चि. अ. ३) इति| अल्पदोषेषु नातिप्रबलदोषेषु| अनुपद्रव इति ज्वरस्योपद्रवाः कासादयः| यदुक्तं तन्त्रान्तरे– “कासो मूर्छाऽरुचिश्छर्दिस्तृष्णातीसारविड्ग्रहाः| हिक्काश्वासाङ्गभेदाश्च ज्वरस्योपद्रवा दश||” इति|६६|–
Adhikarana jvarasyAsAdhyalakShaNAni (66-73) · Śloka 73
हेतुभिर्बहुभिर्जातो बलिभिर्बहुलक्षणः ||६६||
ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः |
ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः ||६७||
असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः |
(च. चि. अ. ३) |
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ||६८||
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च |
(सु. उ. तं. अ. ३९) |
आरम्भाद्विषमो यस्तु यश्च वा दैर्घरात्रिकः ||६९||
क्षीणस्य चातिरूक्षस्य गम्भीरो यस्य हन्ति तम् |
विसञ्ज्ञस्ताम्यते यस्तु शेते निपतितोऽपि वा ||७०||
शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः |
यो हृष्टरोमा रक्ताक्षो हृदि सङ्घातशूलवान् ||७१||
वक्त्रेण चैवोच्छ्वसिति तं ज्वरो हन्ति मानवम् |
हिक्काश्वासतृषायुक्तं मूढं विभ्रान्तलोचनम् ||७२||
सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः |
हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ||७३||
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् |
(सु. उ. तं. अ. ३९) |
ज्वरस्यासाध्यलक्षणान्याह– हेतुभिरित्यादि| ननु, यो हेतुभिर्बलिभिर्बहुभिश्चोपजायते स बहुलक्षण एव भवति, तत् किं बहुलक्षणवचनेन? उच्यते– यथा स्वहेतुकुपिता दोषाः सर्वस्यैव रोगस्य हेतवो भवन्ति, प्राक्तनकर्मापेक्षया तु यदा विशिष्टां सामग्रीं सम्प्राप्तिलक्षणामासादयन्ति तदा ज्वरमापादयन्ति, तथा दूष्यादिसहकारिकारणसान्निध्यासान्निध्याभ्यां बहुलक्षणतामल्पलक्षणतां च कुर्वन्ति| तथा हि तन्त्रान्तरम्– एकं द्वौ त्रीन् बहून् वाऽपि देहे धात्वादियोगतः| दर्शयन्ति विकारांस्ते कुपिताः पवनादयः||’ इति| अथवा विकृतिविषमसमवायाद्बहुहेतुकोऽप्यल्पलक्षणोऽल्पहेतुकोऽपि बहुलक्षण इति| प्राणान्तकृदिति छेदः| शीघ्रमिन्द्रियनाशन इति उत्पन्नमात्र एव चिकित्स्यमानोऽपीन्द्रियशक्तिं रूपादिग्रहणलक्षणामुपहन्ति सोऽप्यसाध्यो न तूपेक्षया; अन्येऽपि हि रोगा उपेक्ष्यमाणा इन्द्रियशक्तिमुपघ्नन्ति असाध्यतां चाधिरोहन्ति| एवं बहुलक्षणोऽप्यादावेव चिकित्स्यमान एव बोद्धव्यः| इन्द्रियाण्यत्र एकादश बोद्धव्यानि साङ्ख्यसिद्धान्तेन, तथा चरकसुश्रुतनिर्दिष्टत्वात्; ‘चक्षुः श्रोत्रं घ्राणं रसनं स्पर्शनं चेति बुद्धीन्द्रियाणि, हस्तपादगुदोपस्थजिह्वाः कर्मेन्द्रियाणि चेति, उभयात्मकं मनः||’; एवमन्यत्रापि द्रष्टव्यम्| ज्वरः क्षीणस्य शूनस्येति अपरमसाध्यलक्षणम्| गम्भीरो दैर्घरात्रिक इति गम्भीरोऽन्तर्धातुस्थः; अथवा गम्भीर इव गम्भीरः, यत्र वातादीनां निश्चयः कर्तुं न शक्यते; अन्ये त्वाहुः– गम्भीरोऽन्तर्वेगः| दैर्घरात्रिक इति ‘दीर्घरात्रानुबन्धी’ इति जेज्जटः, “दीर्घां मरणरूपां रात्रिमनुवर्तते इति दैर्घरात्रिकः” इति चक्रः, असाध्य इत्यर्थः| अत्र पक्षे दैर्घरात्रिक इति पूर्वेण सम्बध्यते, असाध्य इति परेण| केशसीमन्तकृदिति अकस्मात् केशेषु सीमन्तान् यः करोति| उक्तं हि तन्त्रान्तरे “केशाः सीमन्तिनो यस्य सङ्क्षिप्ते विनते भ्रुवौ| लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद्याति मृत्यवे||” इति| गम्भीरार्था ये जेज्जटादिभिर्व्याख्यातास्तेषु मध्ये अत्र गम्भीरोऽन्तर्वेग इत्ययमर्थो माधवकरस्याभिमतः; अत एवासौ एतदनन्तरं सौश्रुतं गम्भीरलक्षणं लिखति– गम्भीर इत्यादि| य एव चरकेऽन्तर्वेगः स एव सुश्रुते गम्भीरः पठितः; समलक्षणत्वात्, पृथक्पाठाभावाच्चेति| आनद्धत्वेन चेति बद्धदोषत्वेन| आरम्भादित्यादि| आरम्भादुत्पादात् प्रभृति यस्य विषमज्वरः सोऽसाध्यः, यस्य तु नित्यज्वरिणो ज्वरोत्सृष्टस्य वाऽपचारादिना विषमः स साध्य एव| एतच्च विषमत्वं सततादिरूपं बोद्धव्यं, नतु विषमत्वमात्रेण, वातिकज्वरेऽपि प्रसङ्गादिति| दैर्घरात्रिको व्याहृत एव; न चास्य पुनरुक्तत्वं, तन्त्रान्तरीयवाक्यत्वात्; अधिकार्थप्रतिपादनार्थं बुद्ध्वाऽपि लिखितम्; एवं गम्भीरेऽपि वाच्यम्| ‘अतिरूक्षस्य’ इत्यत्र ‘अनिमिषाक्षस्य’ इति पाठान्तरे सदा स्फारितनेत्रस्येत्यर्थः| विसञ्ज्ञः विह्वलः, ताम्यते मुह्यति| शेते निपतित इति शयितो निपतित एवास्ते न च उत्थातुं समर्थः| शीतार्दितोऽन्तरुष्णश्चेति शीतार्दितो बहिः, अन्तरुष्णोऽन्तर्दाहवान्| हृष्टरोमा रोमाञ्चितगात्रः| हृदि सङ्घातशूलवानिति सङ्घातरूपेण वस्तुना अष्ठीलिकादिनाऽऽक्रान्तमिव हृदयं मन्यते यः स तथा; अन्ये त्वाहुः– नानाप्रकारशूलवानिति| वक्त्रेण चैवोच्छ्वसितीत्येवकारेण नासिकां व्यवच्छिनत्ति व्यादितास्यप्रतिपादनार्थं, खरश्वास इत्यर्थः| हिक्केत्यादि| हिक्कादिभिर्मिलितैरेकेनाप्यतिबलवताऽसाध्यत्वम्| मूढं मोहयुक्तम्| विभ्रान्तलोचनं भ्रान्तप्रेक्षणं, चलितनेत्रं वा| सन्ततोच्छ्वासिनं निरन्तरखरश्वासयुक्तम्| हतप्रभेत्यादि| हतप्रभाणि हतशक्तीनि स्वविषयाग्राहीणि चक्षुरादीनि यस्य स तथा; अथवा हता प्रभा दीप्तिरिन्द्रियाणि च यस्य स तथा| ‘अरोचकनिपीडितम्’ इत्यत्र स्थाने जेज्जटः पाठान्तरद्वयं पठति– ‘दुरात्मानमुपद्रुतम्’ इति, व्याचष्टे च– “दुरात्मानं दुष्टान्तःकरणम्, उपद्रुतमिति श्वासादिभिरुपद्रवैरुपद्रुतम्; दुरात्मभिरुपद्रुतम्” इति पाठान्तरे तु राक्षसादिभिर्जुष्टमित्यर्थः| एषामसाध्यलक्षणानामुपलक्षणत्वादन्यान्यपि तन्त्रान्तरेषु द्रष्टव्यानि| तद्यथा– ‘प्रेतैः सह पिबेन्मद्यं स्वप्ने यः कृष्यते शुना| सुघोरं ज्वरमासाद्य स जीवमपसृज्यते|| ज्वरः पौर्वाह्णिको यस्य शुष्ककासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः|| ज्वरो यस्यापराह्णे तु श्लेष्मकासश्च दारुणः| बलमांसविहीनस्य यथा प्रेतस्तथैव सः|| सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः| विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते|| गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्| लेपज्वरोपसृष्टस्य दुर्लभं तस्य जीवितम्|| मृत्युश्च तस्मिन् बहुपिच्छिलत्वाच्छीतस्य जन्तोः परितः सरत्वात्| स्वेदो ललाटे हिमवन्नरस्य शीतार्दितस्यैति सुपिच्छिलश्च|| कण्ठे स्थितो यस्य न याति वक्षो नूनं यमस्यैति गृहं स मर्त्यः|| स्रुतस्वेदो ललाटाद्यः श्लथसन्धानबन्धनः| मुह्येदुत्थाप्यमानस्तु स स्थूलोऽपि न जीवति|| यस्य स्वेदोऽतिबहुलः पिच्छिलो याति सर्वतः| रोगिणः शीतगात्रस्य तदा मरणमादिशेत्||’ इति| आधानजन्मनिधने प्रत्ययाख्ये विपत्करे| नक्षत्रे व्याधिरुत्पन्नः क्लेशाय मरणाय वा| ज्वरस्तु जातः षड्रात्रादश्विनीषु निवर्तते||’ (वृ. वा. नि. अ. १) इत्यादिना ग्रन्थेन नक्षत्रभेदेन ज्वरस्य साध्यत्वासाध्यत्वं यदभिहितं, तद्धारीतवृद्धवाग्भटयोर्द्रष्टव्यम्, इह तु विस्तरभयान्न लिखितम्| सन्निपाता साध्यप्रकरणं यथा– ‘पित्तकफानिलवृद्ध्या दशदिवस द्वादशाह– सप्ताहात्| हन्ति विमुञ्चति वाऽऽशु त्रिदोषजो धातुमलपाकात्||’ इति| सप्ताहाद्वाताधिकः, दशाहात् पित्ताधिकः, द्वादशाहात् कफाधिकः; पित्ताधिकवद्वातपित्ताधिकः, कफाधिकवद्वातकफाधिकः, योगवाहित्वाद्वायोः| ( यदाह चरकः– ‘योगवाही परं वायुः संयोगादुभयार्थकृत्| दाहकृत्तेजसा युक्तः शीतकृत्सोमसंश्रयात्||’ इति (च. चि. अ. ३)| धातुपाकाद्धन्ति, मलपाकाद्विमुञ्चतीति व्यवस्थितविकल्पः; धातुमलपाकविकल्पे च दैवमेव हेतुः| उत्तरोत्तररोगवृद्धिबलहानिभ्यां शुक्रादिधातुसहितमूत्रादिना च धातुपाको ज्ञेयः, अन्यथा तु मलपाकः| यदुक्तम्– ‘निद्रानाशो हृदि स्तम्भो विष्टम्भो गौरवारुची| अरतिर्बलहानिश्च धातूनां पाकलक्षणम्|| इति; अन्यताच मलपाकः– दोषप्रकृतिवैकृत्यं लघुता ज्वरदेहयोः| इन्द्रियाणां च वैमल्यं दोषाणां पाकलक्षणम्||’ इति| ननु, तरतमादिभावव्यवस्थितशीघ्रमध्यमन्दशक्तित्वात् स्थिरशीघ्रमध्यमशक्तित्वात् दोषाणां कथं सप्ताहादिनियम इति चेत्| न, तथा– स्वभावाद्व्याधेः, विचित्रा हि प्रतिरोगं स्वभावाः; यथाऽग्निरोहिणी सप्ताहेन हन्ति न तथाऽन्ये विकारा इति| अथः ‘सप्तमी द्विगुणा यावत् नवम्येकादशी तथा| एषा त्रिदोषमर्यादा मोक्षाय च वधाय च||’ (वा. नि. अ. २) इति हारीतवचनसंवादार्थमेवं व्याचक्षते– दशमीप्रत्यासत्त्या नवमी, द्वादशीप्रत्यासत्त्या एकादशी च गृह्यते; ततो वृद्ध्येति पदमावर्त्य सर्वत्र द्वैगुण्यं कार्यम्| एवं, ‘सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा| पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा||’ (सु. उ. तं. अ. ३९) इत्यत्र सुश्रुतवाक्ये पुनःशब्देन द्वैगुण्यमिति कार्तिककुण्डो व्याख्यातवान्| एवं दशद्वादशसप्ताहैः पित्तश्लेष्मानिलाधिकः| दग्धोष्मणा धातुमलान् हन्ति मुञ्चति वा ज्वरः||’ (वा. नि. अ. २) इत्यत्राधिकशब्दमावर्त्य क्रियाविशेषणं कृत्वा द्वैगुण्यं व्याख्यातम्| तथा वातपित्तकफैः सप्तदशद्वादशवासरान्| प्रायोऽनुयाति मर्यादा मोक्षाय च वधाय च||’ (वा. नि. अ. २) इत्यत्राग्निवेशमते प्रायोग्रहणेन द्वैगुण्यमिति| ननु, सप्तमीत्यादौ कथं तर्हि दशविंशतिद्वादशचतुर्विंशतीनां ग्रहणमिति चेत्| उच्यते– एकादशीत्यत्र एकेति पदमावर्तनीयं, तेन नवमी एकेति दशमी लभ्यते, एकादशी एकेति द्वादशी , ततः सर्वत्र द्वैगुण्यम्| तु शब्दः समुच्चये, तेन सप्तमी गृह्यते सा द्विगुणा च| एवं नवम्यादिषु योज्यम्| चतुर्विंशत्यधिकस्तु मर्यादादिवसो नास्ति, तत्प्रतिपादकागमादर्शनात्||६६-७३||
Adhikarana jvaravimuktipUrvarUpam (74) · Śloka 74
दाहः स्वेदो भ्रमस्तृष्णा कम्पविड्भिदसञ्ज्ञता |
कूजनं चास्यवैगन्ध्यमाकृतिर्ज्वरमोक्षणे ||७४||
ज्वरविमुक्तिपूर्वरूपमाह– दाह इत्यादि विड्भिदिति विड्भेदः; सम्पदादिपाठात् भावे क्विप्| असञ्ज्ञिता सञ्ज्ञानाशः| कूजनम् अस्फुटध्वनिः| यदुक्तम्– ‘ज्वरप्रमोक्षे पुरुषः कूजेद्वमति चेष्टते||’(च. चि. अ. ३) इति| वाग्भटोऽप्याह– ‘धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते| ततो नरः श्वसन् स्विद्यन् कूजन् वमति चेष्टते|| (वा. नि. अ. २) इति| वैगन्ध्यं दुर्गन्धता गात्रे| ज्वरमोक्षणे भविष्यति आकृतिर्लक्षणं ‘भवति’ इति शेषः| ननु, दोषक्षयं विना न व्याधिनिवृत्तिः, क्षीणश्च दोषः कथमेवंविधं लक्षणं कुर्यात्? उच्यते– कश्चिद्भावः क्षीणोऽपि विनाशकाले स्वशक्तिं दर्शयति, यथा– निर्वाणावस्थो दीपो विशेषात् प्रज्वलति| अथवा दोषाभिभूतानां धातूनां दोषापगमेन क्षोभाद्दाहादयः तरलतरवानरपरिहीयमानतरुणतरुवल्लरीशिखरकम्पवदिति||७४||
Adhikarana jvaramuktalakShaNam (75) · Śloka 75
स्वेदो लघुत्वं शिरसः कण्डूः पाको मुखस्य च |
क्षवथुश्चान्नलिप्सा च ज्वरमुक्तस्य लक्षणम् ||७५||
(सु. उ. तं. अ. ३९) |
ज्वरमुक्तिलक्षणमाह– स्वेद इत्यादि| स्वेदो घर्मागमनं, स्रोतसां स्फुटत्वात्| लघुत्वं गात्रस्य| शिरसः कण्डूरिति सर्वो हि ज्वरस्तैजसो विरोधिव्यपगमात् सौम्यः श्लेष्मा लब्धबलः सन् शिरसि स्वस्थानेऽसाधारणात्मलक्षणं कण्डूं करोति, व्याधिमहिम्ना तु नान्यत्र कफस्थाने इति वदन्ति| पाको मुखस्येति ज्वरोष्मकोपितात् पित्तात्, यत्तु पूर्वं नाकार्षीदन्यत्र वा तदपि व्याधिमहिम्नैव| एतच्च दाहमारभ्य लक्षणं त्रिदोषजेऽन्तर्वेगे ज्वरे भवति, नतु सर्वत्र| तथा चैतदनन्तरं भालुकिः प्राह– ‘त्रिदोषजे ज्वरे ह्येतदन्तर्वेगे च धातुगे| लक्षणं मोक्षकाले स्यादन्यस्मिन् स्वेददर्शनम्||’ इति| ननु, ज्वरस्य प्रत्यक्षत्वात्तस्याभावोऽपि प्रत्यक्षः, तत् किं तल्लक्षणपाठेन? तथाऽपि वा पठितव्यं, तर्हि सर्वविकारेषु पठ्यताम्? उच्यते– विषमज्वरशङ्कानिरासार्थं, विषमज्वरे हि निवृत्तोऽपि ज्वरः पुनरायाति, दोषाणां धातुलीनत्वात्; एतल्लक्षणे तु निःशेषदोषनिवृत्त्या न पुनरागमः| यत्र चैवंविधा शङ्का तत्रैव लक्षणं पठति न सर्वत्र, यथा प्रमेहातीसारादिष्विति सर्वं सुस्थम्||७५||
Adhikarana puShpikA · Śloka 2
इति श्रीमाधवकरविरचिते माधवनिदाने ज्वरनिदानं समाप्तम् ||२||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां ज्वरनिदानं समाप्तम्||२||