Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. pānātyayaparamadapānājīrṇapānavibhramanidānam

Adhikarana madAtyayanidAnam (1) · Śloka 1

अथ पानात्यय-परमद-पानाजीर्ण-पानविभ्रमनिदानम् | ये विषस्य गुणाः प्रोक्तास्तेऽपि मद्ये प्रतिष्ठिताः | तेन मिथ्योपयुक्तेन भवत्युग्रो मदात्ययः ||१||

🔊 Audio coming soon

‘मूर्छा मद्येन च विषेण च’ इति वचनान्मूर्छानन्तरं मद्यविकारान् मदात्ययादीनाह| ननु, कथं मद्यं मोहयतीत्याह– ये विषस्येत्यादि| ते च विषगुणा मूर्छाध्याये निदर्शिताः| मिथ्योपयुक्तेनेति अयथाविधिपीतेन, विधिश्चायं, तद्यथा– कुसुमितलतोपगूढैः प्ररूढनिरन्तरनवाङ्कुरनिकररोमाञ्चैर्मधुकरमधुरझङ्कारसीत्कारैर्मुक्तकण्ठकलकण्ठकूजितैर्दक्षिणसमीरणसमुल्लसितपल्लवकरप्रचारैः तरुणतरुभिः उपक्रान्तलताभिरतिशोभनेषु तुषारकरकिरणराजिपराजिताशेषतापदोषेषु प्रदेशेषु शृङ्गाररससमुचितालङ्कृतिकमनीयकामिनीसेवितं ललितललनोपनीयमानं सुरभिरुचिररूपरसोपदंशं कं नाम परिमितं परार्धमधुपानं न सुखयति? चरके तु विस्तरेणैतदुक्तम्||१||

Adhikarana madyasvabhAvaH (2-3) · Śloka 3

किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् | अयुक्तियुक्तं रोगाय युक्तियुक्तं यथाऽमृतम् ||२|| प्राणाः प्राणभृतामन्नं तदयुक्त्या हिनस्त्यसून् | विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ||३|| (च. चि. अ. २४) |

🔊 Audio coming soon

ननु, विषस्य ये गुणास्ते चेन्मद्येऽपि सन्ति, तर्हि विषवन्मद्यमनुपयोज्यं प्रसज्येत? अत आह– किन्त्वित्यादि| यथैवान्नमिति देहधारकस्वभावं, तदेवायुक्तियुक्तमविधियुक्तं रोगाय; तस्मादहितमपि विशिष्टविधिनोपयुक्तं हितं, हितमप्यविधिनोपयुक्तमनर्थाय भवतीति| अत्रैव दृष्टान्तमाह– प्राणा इत्यादि| तदयुक्त्येति अतिमात्रत्वादिना विसूच्यादिकं कृत्वा मारयतीत्यर्थः| युक्तियुक्तमिति यथा चरकरसायनप्रयोगे उक्तम्– “द्वौ यवावत्र हेम्नस्तु तिलं दद्याद्विषस्य च|” (च. चि. अ. १) इति| अत्र तिलमिति तिलप्रमाणम्||२-३||

Adhikarana vidhinopayuktamadyaphalam (4-6) · Śloka 6

विधिना मात्रया काले हितैरन्नैर्यथाबलम् | प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतोपमम् ||४|| (च. चि. अ. २४) | स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् | भवेदायुःप्रकर्षाय बलायोपचयाय च ||५|| काम्यता मनसस्तुष्टिस्तेजो विक्रम एव च | विधिवत्सेव्यमाने तु मद्ये सन्निहिता गुणाः ||६|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

विधिनोपयुक्तस्य फलमाह– विधिनेत्यादि| काल इति नित्यगे चावस्थिके च; तद्यथा– ग्रीष्मे शीतमधुरं माध्वीकादि, शीते उष्णतीक्ष्णं गौडिकपैष्टिकादि; तथा वाते स्निग्धादि; एवं वयस्युदाहार्यम्| हितैरन्नैरिति वक्ष्यमाणस्निग्धादिभिर्मद्यविपरीतगुणैः| स्निग्धैरित्युपलक्षणं, तेनान्यैरपि मद्यविपरीतगुणैरिति बोद्धव्यम्| यदुक्तं सुश्रुतेन “मद्यमम्लं तथा तीक्ष्णं सूक्ष्मं विशदमेव च| रूक्षमाशुकरं चैव व्यवायि च विकाशि च||” (सु. उ. तं. अ. ४७) इति| अम्लरसत्वं चास्योद्भूतरसत्वेनोक्तं; यदुक्तमन्यत्र– “सर्वेषामम्लजातीनां मद्यं मूर्ध्नि व्यवस्थितम्||” इति| मूर्ध्नि व्यवस्थितमुत्कृष्टम्| अन्येऽप्यत्र रसाः सन्ति| यदाह भोजः– “मैरेयं मदिरा सीधु चतुर्थं मधु चोच्यते| एकैकं षड्रसं तत्र रसतो मद्यमीरितम्||” इति| अन्नभक्ष्यशब्दयोरुपादानेन प्रायो लेह्यं द्रवान्तरपानं च मद्यपानोचितं न भवतीति दर्शयति| अन्नभक्ष्याभ्यां लब्धेऽपि मांसे मांसग्रहणं विशेषेण हितत्वोपदर्शनार्थम्| बलं शक्तिः, उपचयः स्थौल्यम्| अपरमपि विधिसेवागुणमाह– काम्यतेत्यादि| काम्यता कमनीयमूर्तिता, मनसस्तुष्टिः सन्तोषः| अथवा काम्यता मनस इति कमनीयवस्तुनि मनोवृत्तिः, तुष्टिश्च मनस एवेति योज्यम्| तेज उत्साहः| विक्रमः पराभिभवार्थं बलवती शरीरचेष्टा||४-६||

Adhikarana prathamamadalakShaNam (7) · Śloka 7

बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रारतिवर्धनश्च | सम्पाठगीतस्वरवर्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ||७||

🔊 Audio coming soon

उक्तविधिविपर्ययेण सेव्यमानं मद्यं मदात्ययाय सम्पद्यते; स च त्रिविधो भवति– पूर्वो, मध्यमोऽन्तिमश्चेति; तेषां क्रमेणलक्षणमाह– बुद्धीत्यादि| बुद्धिरनुभवः, स्मृतिरनुभूतार्थानुसन्धानम्| पानान्ननिद्रारतिवर्धनश्चेति पानादिषु रतिरनुरागस्तद्वर्धनः| सम्पाठः सम्यक् पाठः| गयदासस्तु ‘सम्पाठ्य’ इति पठित्वा गीतनृत्यवाद्यानि मिलितानि सम्पाठ्यमुच्यते, गीतं तु केवलमेवेति व्याचष्टे| स्वरो ध्वनिः| प्रोक्तोऽतिरम्य इति| ननु मनोविकारकारित्वात् कथमस्यातिरम्यता? उच्यते– मनोविकारकारित्वेऽपि तदात्वेन न दुःखावहत्वात् अत एव सुश्रुतेन मानसविकारेषु हर्षः पठितः||७||

Adhikarana dvitIyamadalakShaNam (8) · Śloka 8

अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाकृतिरप्रशान्तः | आलस्यनिद्राभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ||८||

🔊 Audio coming soon

द्वितीयमदमाह– अव्यक्तेत्यादि| विचेष्टो विरुद्धचेष्टः| उन्मत्तस्य लीलाकृतिभ्यां सह वर्तते इति सोन्मत्तलीलाकृतिः; उन्मत्तप्राय इत्यर्थः| अप्रशान्तः प्रचण्डः||८||

Adhikarana tRutIyamadalakShaNam (9) · Śloka 9

गच्छेदगम्यान्न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसञ्ज्ञः | ब्रूयाच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषोऽस्वतन्त्रः ||९||

🔊 Audio coming soon

तृतीयमदमाह– गच्छेदित्यादि| ननु चरके द्वितीयतृतीययोर्मध्ये मदान्तरं पठितं, यदाह– “मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तमम्| न किञ्चिदशुभं कुर्युर्नरा राजसतामसाः|| को मदं तादृशं गच्छेदुन्मादमिव चापरम्|” (च. चि. अ. २४) इति; तत् कुतोऽत्र न पठितम्? उच्यते– द्वितीयमदान्ते तृतीयमदस्य पूर्वावस्थैवातिनिन्दनीया, सुतरां तृतीयो मद इति प्रतिपादनार्थं तत्पठितं, न तु तयोः परमार्थतोऽन्तराले पृथङ्मदान्तरमस्ति, यथा– “कुम्भमीनर्क्षयोर्मध्ये यदा चरति चन्द्रमाः| नाहरेत्तृणकाष्ठानि न गच्छेद्दक्षिणां दिशम्||” इति| अत्र हि कुम्भस्य शेषांशो मीनस्य प्रथमांश एतद्द्वयं मध्यशब्देनोच्यते इत्याहुः जेज्जटादयः, हरिचन्द्रव्याख्यानं तु विस्तरत्वान्न लिखितम्| अगम्यान् गुरुदारादीन् दुष्टयानादींश्च| नष्टसञ्ज्ञ इति सञ्ज्ञा नामोल्लेखेन ज्ञानं, तन्नष्टं यस्य स तथा| गुह्यानि गोप्यानि| अस्वतन्त्रो मदपरवशः||९||

Adhikarana caturthamadalakShaNam (10-11) · Śloka 11

चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः | कार्याकार्यविभागज्ञो मृतादप्यपरो मृतः ||१०|| को मदं तादृशं गच्छेदुन्मादमिव चापरम् | बहुदोषमिवामूढः कान्तारं स्ववशः कृती ||११||

🔊 Audio coming soon

चतुर्थमदमाह– चतुर्थे त्वित्यादि| कार्याकार्यविभागज्ञः कार्यमकार्यमिति बुद्ध्या जानाति| ‘कार्याकार्यविभागज्ञः’ इति पाठे कार्याकार्यविभागयोरज्ञ इत्यर्थः| मृतादप्यपरो मृत इति मृतमपेक्ष्यापरोऽयं मृत इव, अत्यन्ताज्ञानसाधर्म्यात्| ‘अवरः’ इति पाठान्तरे मृतादप्यधम इत्यर्थः, तथाविधावस्थायाः स्वयं कृतत्वात्| क इत्यादि| कः कृती कुशलः, सुकृती वा, कृतकृत्यो वा; स्ववशोऽपराधीनः, तादृशमुक्तप्रकारेण निन्दितं मदं गच्छेत् प्राप्नुयात्; न कश्चिदेवंविधं प्राप्नुयादित्यर्थः| कमिवेत्याह– बहुदोषमिवामूढः कान्तारमिति बहुदोषं हिंस्रादियुक्तं, कान्तारं दूरशून्यमध्वनम्| यदुक्तं चरके– “गच्छेदध्वानमस्वन्तं बहुदोषमिवाऽध्वगः|” (च. चि. अ. २४) इति; एवं विदेहेऽपि पठितमिति| अत्रास्वन्तमशोभमानमनिष्टफलत्वेन| ननु, चरकविदेहवाग्भटादिभिश्चतुर्थो मदो न पठितस्तत्कथं सुश्रुतेन पठितः? उच्यते– चरके या द्वितीयतृतीययोरन्तरालावस्था पठिता, सैव सुश्रुतेन तृतीयो मद इति कृत्वा पठितः, यस्तु चरके तृतीयः स च सुश्रुते चतुर्थः पठित इत्याविरोधः| वस्तुगत्या तु त्रय एव मदा इत्युपपादितम्| ननु, किङ्कारणमेतत्त्रैविध्यमिति चेत्? उच्यते– मद्यं हि वह्नितुल्यं, यथा ह्यग्निः सुवर्णानामुत्तममध्यमाधमानामभिव्यञ्जकस्तथा मद्यमपि प्राणिनां सत्त्वरजस्तमोभूयिष्ठानां क्रमेणाभिव्यञ्जकमिति| तथाहि चरकः– “प्रधानाधममध्यानां रुक्माणां व्यक्तिदर्शकः| यथाऽग्निरेवं सत्वाद्यैर्मद्यं प्रकृतिदर्शकम्| तस्मात् प्रथमद्वितीयतृतीयमदाः सत्त्वरजस्तमोभूयिष्ठानां क्रमेण भवन्तीत्यर्थः||१०-११||

Adhikarana avidhikRutamadyapAnasya vikArAntarahetutvam (12) · Śloka 12

निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम् | आपादयेत्कष्टतमान्विकारानापादयेच्चापि शरीरभेदम् ||१२|| (स. उ. अ. ४७) |

🔊 Audio coming soon

अविधिमद्यपानस्य विकारान्तरहेतुत्वमाह– निर्भक्तमित्यादि| ननु, अयमर्थः स्निग्धैस्तदन्नैरित्यादिना यदुक्तं तद्विपर्ययेणैव लब्धः, तत्कथं पुनरुच्यते? नैवं, पूर्वं मद्यपानगुणाभिधानार्थमुक्तम्, इदं तु कृच्छ्रतमव्याधिकर्तृत्वाभिधानार्थमिति भेदः| यत्परः शब्दः स शब्दार्थ इत्यभिप्रायः| कष्टतमान् विकारानिति वक्ष्यमाणपानात्ययादीन्| भेदं विनाशं शरीरस्य||१२||

Adhikarana annasahitasyApi madyasya kruddhatvAdikAraNasahitasya vikArakAritvapradarshanam (13-14) · Śloka 14

क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन | व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ||१३|| अत्यम्बुभक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन | उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ||१४|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

अन्नसहितस्यापि मद्यस्य क्रुद्धत्वादिकारणसहितस्य विकारकारित्वप्रदर्शनार्थमाह– क्रुद्धेनेत्यादि| परिक्षतेन क्षीणेन| अवततं व्याप्तम्| विविधान् विकारान् पानात्ययादीनिति||१३-१४||

Adhikarana madyotthavikArabhedAH (15) · Śloka 15

पानात्ययं परमदं पानाजीर्णमथापि वा | पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् ||१५|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

तानेव विवृणोति– पानात्ययमित्यादि| ननु, अयमर्थः ‘आपादयेत् कष्टतमान् विकारान्’ इत्यनेनैवोक्तत्वात् कथं पुनरुक्तः? उच्यते– पूर्वेण कष्टतमविकारकारित्वमुक्तम्, अनेन तु नानाविधविकारकारित्वमिति भेदः||१५||

Adhikarana vAtika-paittika-shlaiShmikamadAtyayalakShaNam (16-18) · Śloka 18

हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः | विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ||१६|| तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः | विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ||१७|| छर्द्यरोचकहृल्लासतन्द्रास्तैमित्यगौरवैः | विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् | ज्ञेयस्त्रिदोषजश्चापि सर्वलिङ्गैर्मदात्ययः ||१८|| (च. चि. अ. २४) |

🔊 Audio coming soon

तेषामुद्दिष्टानां लक्षणमाह– हिक्केत्यादि| प्रजागरो निद्राविच्छेदः| वातप्रायमित्यनेन सर्वे वातादिप्राया मदात्ययास्त्रिदोषजाः, उद्भूतत्वेन व्यपदेश इति चरके दर्शितम्| यदाह– “ये विषस्य गुणाः प्रोक्ताः सर्वदोषप्रकोपणाः|” इत्यारभ्य यावत् “सर्वं मदात्ययं विद्यात्त्रिदोषं” (च. चि. अ. २४) इति| एवं चरकसंवादात् सुश्रुतेऽपि बोध्यम्| विभ्रमो भ्रमः| हरितवर्णस्येत्यनेन हरितवर्णताऽपि लक्षणम्||१६-१८||

Adhikarana paramadalakShaNam (19) · Śloka 19

श्लेष्मोच्छ्रयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रिररोचकश्च | लिङ्गं परस्य च मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ||१९|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

परमदमाह– श्लेष्मोच्छ्रय इत्यादि| श्लेष्मोच्छ्रयश्चात्र नासास्रावादिना ज्ञेयः| सक्तिः सङ्गः, अप्रवृत्तिरिति यावत्| तन्द्रिस्तन्द्रा| परस्य मदस्येति परमदस्य; छन्दोऽनुरोधादसमासनिर्देशः||१९||

Adhikarana pAnAjIrNalakShaNam (20) · Śloka 20

आध्मानमुग्रमथ चोद्गिरणं विदाहः पानेऽजरां समुपगच्छति लक्षणानि |२०| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

पानाजीर्णमाह– आध्मानमित्यादि| उद्गिरणं वान्तिः, उद्गारो वा| पाने मद्ये, अजराम् अजीर्णमुपगच्छति अपक्वत्वमुपगच्छतीति पानाजीर्णविकार इत्यर्थः|२०|–

Adhikarana pAnavibhramalakShaNam (20) · Śloka 20

हृद्गात्रतोदकफसंस्रवकण्ठधूमा मूर्छावमिज्वरशिरोरुजनप्रदाहाः ||२०|| द्वेषः सुरान्नविकृतेष्वपि तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः | (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

पानविभ्रममाह– हृदित्यादि| कण्ठधूमः कण्ठाद्धूमनिर्गमवत्पीडा| शिरोरुजनं शिरःशूलम्| सुरान्नविकृतेष्विति सुराविकृतेषु अन्नविकृतेषु च; भावे क्तः| तेषु तेष्विति नानाविकारेषु सुरामैरेयपिष्टकलड्डुकादिषु| उशन्ति इच्छन्ति| एते च परमदादयस्त्रयो न चरके पठिताः, सन्निपातजेऽन्तर्भूतत्वात्; सुश्रुतेन तूक्तत्रिदोषजमदात्ययात् पृथगेते पठिताः, विकृत्या पूर्वलक्षणवैलक्षण्याभिधानार्थमित्याहुः||२०||–

Adhikarana pAnAtyayAdInAmasAdhyalakShaNam (21) · Śloka 21

हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमपि पानहतं त्यजेत्तु ||२१|| जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे वा | (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

असाध्यलक्षणमाह– हीनेत्यादि| हीनोत्तरौष्ठं प्रलम्बमानोपरितनौष्ठम्| अतिशीतं बहिः, अमन्ददाहमभ्यन्तरे| तैलप्रभास्यं तैलाक्तमुखमिव||२१||–

Adhikarana pAnAtyayAdInAmupadravAH (22) · Śloka 22

हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते ||२२|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

उपद्रवानाह– हिक्केत्यादि| एतैः कृच्छ्रसाध्यं भवति, न त्वसाध्यम्; असाध्यलक्षणेभ्यः पृथक्पाठादिति जेज्जटः| ध्वंसकविक्षेपकाख्यौ मद्यविकारौ चरके पृथक् पठितौ; तद्यथा– “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| ध्वंसो विक्षेपकश्चैव रोगस्तस्योपजायते|| श्लेष्मप्रसेकः कण्ठास्यशोषः शब्दासहिष्णुता| तन्द्रानिद्राभियोगश्च ज्ञेयं ध्वंसकलक्षणम्|| हृत्कण्ठरोधः सम्मोहश्छर्दिरङ्गरुजा ज्वरः| तृष्णा कासः शिरःशूलमेतद्विक्षेपलक्षणम्||” (च. चि. अ. २४) इति; तौ च सुश्रुतेन “विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते| तस्य पानात्ययोद्दिष्टा विकाराः सम्भवन्ति हि||” (सु. उ. तं. अ. ४७) इत्यनेन सङ्गृहीतौ बोद्धव्यौ| न वा चिकित्साभेदस्तयोरुक्तः; यतश्चरक एवोक्तवान्– “तयोः कर्म चिकित्सा च वातिके यन्मदात्यये|” (च. चि. अ. २४) इति||२२||

Adhikarana puShpikA · Śloka 18

इति श्रीमाधवकरविरचिते माधवनिदाने पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानं समाप्तम् ||१८||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां पानात्ययपरमदपानाजीर्णपानविभ्रमनिदानं समाप्तम्||१८||