Adhikarana mUrchAyA nidAnaM samprAptishca (1-5) · Śloka 5
अथ मूर्छा-भ्रम-निद्रा-तन्द्रा-सन्न्यासनिदानम् |
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः |
वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ||१||
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च |
निविशन्ते यदा दोषास्तदा मूर्छन्ति मानवाः ||२||
सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः |
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ||३||
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् |
मोहो मूर्छेति तामाहुः षड्विधा सा प्रकीर्तिता ||४||
वातादिभिः शोणितेन मद्येन च विषेण च |
षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ||५||
(सु. उ. तं. अ. ४६) |
तृष्णायां मोहो भवतीति तृष्णानन्तरं मूर्छा, उक्तं हि– ‘तृषितो मोहमायाति’ इति| निदानं सम्प्राप्तिं चाह– क्षीणस्येत्यादि| बहुदोषस्येति विपुलदोषस्य, न त्वनेकदोषस्य; तथा सत्येकदोषजायाः सम्प्राप्तिर्नोक्ता स्यात्| वेगाघातात् मलादिवेगधारणात्| अभिघाताल्लगुडादेः| हीनसत्त्वस्य हीनसत्त्वगुणस्य| करणं मनः, तस्यायतनानि बाह्यानि चक्षुरादीनि, आभ्यन्तराणि मनोवहानि स्रोतांसि, यैरागत्य मनश्चक्षुरादीन्यधितिष्ठति; अथवा बाह्यानि कर्मेन्द्रियाणि, आभ्यन्तराणि धीन्द्रियाणि; तेषु यदा उग्रा दोषा निविशन्ते तदा मूर्छन्तीति योज्यम्| पुनः कया सम्प्राप्त्या इत्यत आह– सञ्ज्ञावहास्वित्यादि| सञ्ज्ञावहनाडीशब्देन सिराधमनीस्रोतसां ग्रहणमित्याहुः, यतस्तैर्मन इन्द्रियदेशं प्राप्नोति| पिहितासु आवृतासु| तमो मनोगुणोऽज्ञानहेतुः, अभ्युपैति वर्धते, सहसा झटिति| अन्येषु तमोबहुलेषु रोगेषु मदात्ययादिषु सत्त्वरजसी न तथा लीयेते, यथा मूर्छायामित्यत आह– सुखदुःखव्यपोहकृदिति| सुखदुःखयोरसंवित्तिकरम्| एतत्तु प्रायिकत्वेनोक्तं, (त्रिविधं ज्ञानं भवति हेयोपादेयोपेक्षणीयभेदात्,) तेनोपेक्षणीयज्ञानाभावोऽपि ज्ञेयः| व्यवहारार्थं तत्पर्यायामाह– मोहो मूर्छेति| वातादिभिस्तिस्रः, शोणितमद्यविषैश्च तिस्रः, एवं षट्| प्रभुत्वेनेति व्यापकत्वेन, तेन वातजादिष्वपि ज्वरवद्रोगमहिम्नाऽवश्यं पित्तसम्बन्धः, अत एव वक्ष्यति– “मूर्छा पित्ततमःप्राया” इति, चिकित्सायां च शीतक्रियाविधानमिति||१-५||
Adhikarana mUrchApUrvarUpam (6) · Śloka 6
हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञादौर्बल्यमेव च |
सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||६||
(सु. उ. तं. अ. ४६) |
तस्याः पूर्वरूपमाह– हृत्पीडेत्यादि| सञ्ज्ञादौर्बल्यमसम्यग्ज्ञानता| सर्वासां पूर्वरूपाणीति छेदः| यथास्वं विभावयेदिति ताः मूर्छाः वातादिभेदेन जानीयात् व्यक्तरूपावस्थायां, नतु पूर्वरूपावस्थायामिति जेज्जटः||६||
Adhikarana vAtajamUrchAyalakShaNam (7-8) · Śloka 8
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम् |
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||७||
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च |
कार्श्यं श्यावाऽरुणा छाया मूर्छाये वातसम्भवे ||८||
(च. सू. अ. २४) |
ता एवाह (वातजामाह)– नीलमित्यादि| नीलं स्निग्धकृष्णं, कृष्णं रूक्षकृष्णम्, अरुणमीषल्लोहितम्| तमः प्रविशत्यन्धकारमिव प्रविशति मूर्छतीत्यर्थः| शीघ्रं च प्रतिबुध्यत इति वायोः शीघ्रकारित्वात्| कार्श्यं श्यावाऽरुणा छाया, ‘गात्रे’ इति शेषः| मूर्छायशब्दो मूर्छापर्यायः||७-८||
Adhikarana pittajamUrchAyalakShaNam (9-10) · Śloka 10
रक्तं हरितवर्णं वा वियत् पीतमथापि वा |
पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ||९||
(सपिपासः ससन्तापो रक्तपीताकुलेक्षणः) |
जातमात्रे पतति च शीघ्रं च प्रतिबुध्यते |
सम्भिन्नवर्चाः पीताभो मूर्छाये पित्तसम्भवे ||१०||
(च. सू. अ. २४) |
पित्तजमूर्छायमाह– रक्तमित्यादि| वियदाकाशम्| अत्र “सपिपासः ससन्तापो रक्तपीताकुलेक्षणः|” इति क्वचिदधिकः पाठ||९-१०||
Adhikarana kaphajamUrchAyalakShaNam (11-12) · Śloka 12
मेघसङ्काशमाकाशमावृतं वा तमोघनैः |
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ||११||
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा |
सप्रसेकः सहृल्लासो मूर्छाये कफसम्भवे ||१२||
(च. सू. अ. २४) |
कफजमूर्छायमाह– मेघेत्यादि| तमोघनैरिति तमोभिर्घनैश्च; तमोऽन्धकारः, घनोऽत्र मेघवाची||११-१२||
Adhikarana sAnnipAtikamUrchAyalakShaNam (13) · Śloka 13
सर्वाकृतिः सन्निपातादपस्मार इवागतः |
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ||१३||
(च. सू. अ. २४) |
सान्निपातिकमाह– सर्वेत्यादि| ननु, सर्वाकृतिरिति विरुद्धम्, उद्देशे “षड्विधा सा प्रकीर्तिता” इत्यभिहितत्वात्; सन्निपातजया सह सप्त प्रसज्येरन्? उच्यते– उद्देशः सुश्रुतग्रन्थेन, चरकग्रन्थेन च विवरणम्| चरके ह्येकजास्तिस्रस्त्रिदोषजा चैकेति चतस्रः पठ्यन्ते| यदुक्तमष्टोदरीय– “चत्वारो मूर्छाया इति अपस्मारैर्व्याख्याताः|” (च. सू. अ. १८) इति| रक्तमद्यविषजानां यथादोषमेतास्वन्तर्भावः; सुश्रुते चैता रक्तादिजा लक्षणचिकित्साभेदख्यापनार्थं साक्षात् पठिताः, त्रिदोषजायाः दोषजास्वन्तर्भावः इत्यभिप्रायेण भेद आचार्ययोः; सङ्ग्रहे चात्र सर्वतन्त्रस्वीकारादुभयमपि लिखितमित्यदोषः| अपस्मार इवेति यथाऽपस्मारी महताऽभिघातेन पतति चिरेण प्रतिबुध्यते| अपस्मारे फेनवामित्वदन्तघट्टनाक्षिवैकृतादिकमधिकमिति भेदः| बीभत्सचेष्टितैरिति फेनवामित्वादिभिरेव||१३||
Adhikarana raktajamUrchAyasamprAptiH (14) · Śloka 14
पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः |
तस्माद्रक्तस्य गन्धेन मूर्छन्ति भुविमानवाः ||१४||
द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति |
(सु. उ. तं. अ. ४६) |
रक्तजमूर्छासम्प्राप्तिमाह– पृथिव्याप इत्यादि| पृथिवी आपश्च एतद्द्वयं तमोरूपं तमोबहुलम्, उक्तं हि– “तमोबहुला पृथिवी, सत्त्वतमोबहुला आपः|” (सु. शा. अ. १) इति| ‘पृथिव्यम्भ’ इति पाठे अयमेवार्थः| तदन्वयः पृथिव्यम्भोऽन्वयः; ‘तन्मयः’ इति पाठे पृथिवीजलमयः, प्रकृतिविकारभावे मयट्| तस्मादिति यस्मात् पृथिव्यापस्तमोरूपं रक्तगन्धश्च तदन्वयः, मूर्छा च तमःप्राया, तस्मादित्यर्थः| भुविमानवाः इति पाञ्चभौतिकत्वेऽपि शरीरस्योद्भूतभूमिगुणा ये ते भुविमानवाः पार्थिवाः, तामसा इत्यर्थः; नतु राजसाः, सात्त्विका वा| ननु चम्पकादिगन्धेनापि मूर्छा प्रसज्येत? तत्रापि गन्धस्य पार्थिवत्वात् पृथिव्याश्च तमोरूपत्वादित्यत आह– द्रव्यस्वभाव इत्यादि| रक्तस्यायं स्वभावः, तेन तद्गत एव गन्धो मूर्छयतीति| स्वभावमेव द्रढयति– दृष्ट्वा यदभिमुह्यतीति| ‘यच्च दृष्ट्वाऽपि मुह्यति’ इति पाठान्तरम्| अन्ये तु गन्धासम्बन्धेऽपि दर्शनमात्रान्मूर्छोपलम्भादनैकान्तिकत्वं गन्धस्य मन्यमानाः स्वभावमेव हेत्वन्तरमाहुः; एतेन गन्धस्य प्रायिकत्वमुक्तम्| अन्ये तु गन्धस्य हेतुत्वमपास्य दर्शनस्यैव हेतुत्वं मन्यन्तेः; तन्न, यदाह भोजः– “स्तब्धाङ्गदृष्टिर्भवति गूढोच्छ्वासस्तथैव च दर्शनादसृजस्तज्जाद्गन्धाच्चैव प्रमुह्यति||” इति| “पृथिव्या यत्तमोरूपम् इति” पाठान्तरं सुगमम्| “पृथिव्यम्भस्तमोरूपं रक्तगन्धेन तत्त्रयम्|” इति पाठान्तरस्य जेज्जटलिखितस्यायमर्थः– रक्तगन्धेन तु यदुक्तमव्यभिचरितं प्रकृतिविकारयोस्तादर्थ्यात् किं तत्त्रयमित्यत उक्तम्– पृथिव्यम्भस्तमोरूपमिति; पृथिव्यम्भस्तमसां रूपमित्यर्थः, शेषं पूर्ववत्| दृष्ट्वेति रक्तमिति शेषः||१४||
Adhikarana viShajamUrchAyasya madyajamUrchAyasya ca samprAptiH (15) · Śloka 15
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः ||१५||
त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ |
(सु. उ. तं. अ. ४६) |
विषमद्यजे प्राह– गुणा इत्यादि| गुणा दश; यदुक्तं दृढबलेन– “लघु रूक्षमाशु विशदं व्यवायि तीक्ष्णं विकाशि सूक्ष्मं च| उष्णमनिर्देश्यरसं दशगुणमुक्तं विषं तज्ज्ञैः||” (च. चि. अ. २३) इति| ते तैलादौ व्यस्तास्तीव्राः सन्ति, विषमद्ययोस्तु तीव्रतराः, अतस्तैलादिभिर्न मोहः, किन्तु विषमद्याभ्यामिति| त एवेति गुणा लघुत्वादयः| यथेरिताविति विषजो मोहो न स्वयं निवर्तते विषस्यापाकित्वात्, मद्यजस्तु मद्यपरिणामादेव शाम्यति, अयं च भेदो विषमद्ययोः प्रभावात्| उक्तं हि तन्त्रान्तरे– “ये विषस्य गुणाः प्रोक्ताः सन्निपातप्रकोपणाः| त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः||” इति||१५||
Adhikarana raktajAdimUrchAtrayasya rUpANi (16-18) · Śloka 18
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्छितः ||१६||
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः |
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ||१७||
वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्छिते |
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः ||१८||
(सु. उ. तं. अ. ४६) |
रक्तजादिमूर्छात्रयस्य रूपाण्याह– स्तब्धाङ्गेत्यादि मूर्छित इत्यन्तं रक्तजायाः गूढोच्छ्वासश्चास्पष्टोच्छ्वासः| ‘मूढ’ इति पाठे सन्निरुद्ध इत्यर्थः इति जेज्जटः| मद्येनेत्यादि तदित्यन्तं मद्यजायाः| ‘नष्टविभ्रान्तमानस’ इत्यत्र निष्टलन् भ्रान्तमानसः’ इति पाठान्तरे निष्टनन् शब्दं कुर्वन्| वेपथ्वादिना विषजायाः| यथास्वं विषलक्षणैरिति विषस्य मूलपत्रक्षीरादिभेदेन प्रातिस्विकं यल्लक्षणमुक्तं सौश्रुतकल्पस्थान (सु. क. अ. २) तल्लक्षणयुक्ता मूर्छा भवतीत्यर्थः||१६-१८||
Adhikarana mUrchAbhramatandrAnidrAdInAM parasparaM bhedaH, bhramalakShaNaM ca (19) · Śloka 19
मूर्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः |
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ||१९||
(सु. शा. अ. ४) |
(चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्वदा |
भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः) |
सञ्ज्ञानाशसाधर्म्येऽपि मूर्छादीनां को भेदः? इत्याह– मूर्छा पित्ततमःप्रायेत्यादि| तमोवातकफादिति समाहारद्वन्द्वः| निद्रातन्द्रयोश्चैतानि कारणानि व्यस्तसमस्तानि; तेन सुश्रुतेन यदतिलङ्घितलक्षणे निद्रातन्द्रे पठिते विनैव कफात् अतिलङ्घनस्य श्लेष्मक्षयहेतुत्वात्||१९||
Adhikarana tandrAlakShaNam (20) · Śloka 20
इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः |
निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ||२०||
(सु. शा. अ. २४) |
तन्द्रालक्षणमाह– इन्द्रियार्थेष्वित्यादि| निद्राभ्रमयोस्तु लक्षणं नोक्तमिह, अतिप्रसिद्धत्वात्| निद्रा हि विप्लुतमनसः सर्वेन्द्रियाणां स्वविषयनिवृत्तिः| यदाह चरके– “यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः| विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः||” (च. सू. अ. २१) इति| अत्र कर्मात्मान इन्द्रियाणि; निरिन्द्रियप्रदेशे मनसोऽवस्थितिर्निद्रेति मतेऽप्ययमेवार्थः| निद्रातन्द्रयोस्तूक्तकारणभेदाद्भेदः, उद्भूतजृम्भादेश्चानुभवसिद्धत्वादिति; तथा निद्रायामिन्द्रियमनोमोहः; तन्द्रायामिन्द्रियमोहः| भ्रमलक्षणं तु चक्रस्थितस्येव भ्रमद्वस्तुदर्शनमिति||२०||
Adhikarana sannyAsasya mUrchAdibhyo bhedaH (21) · Śloka 21
दोषेषु मदमूर्छायाः कृतवेगेषु देहिनाम् |
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना ||२१||
(च. सू. अ. २४) |
सन्न्यासस्य मूर्छादिभ्यो भेदमाह– दोषेष्वित्यादि ||२१||
Adhikarana sannyAsalakShaNam (22-23) · Śloka 23
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः |
सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ||२२||
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः |
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यःफलां क्रियाम् ||२३||
(च. सू. अ. २४) |
तल्लक्षणमाह– वागित्यादि| अतिबला इत्यनेन मूर्छाद्यारम्भकदोषेभ्योऽधिकत्वेन प्रवृद्धा दोषास्तमश्चेति बोधयति| सन्न्यस्यन्ति मोहयन्ति| स ना पुरुषः, सन्न्याससन्न्यस्तः सन्न्यासपीडितः, काष्ठीभूतः इति अत्यन्तनिष्क्रियत्वेन अकाष्ठमेव काष्ठवद्भूतः, अत एव मृतोपम इति| मुक्त्वा सद्यःफलां क्रियामिति सूचीव्यधनाञ्जनावपीडनशूकशिम्बीफलावघर्षणादिरूपा क्रिया यदि क्रियते तदा प्राणैर्न विमुच्यते, अन्यथा तु म्रियते इति||२२-२३||
Adhikarana puShpikA · Śloka 17
इति श्रीमाधवकरविरचिते माधवनिदाने मूर्छाभ्रमनिद्रातन्द्रासन्न्यासनिदानं समाप्तम् ||१७||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां मूर्छाभ्रमनिद्रातन्द्रासन्यासनिदानं समाप्तम्||१७||