Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

19. dāhanidānam

Adhikarana madyajadAhalakShaNam (1) · Śloka 1

अथ दाहनिदानम्| त्वचं प्राप्तः स पानोष्मा पित्तरक्ताभिमूर्छितः | दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ||१||

🔊 Audio coming soon

मदात्ययेऽपि दाहो भवत्यतः सप्तप्रकारं दाहमाह; तत्र मद्यजमाह– त्वचमित्यादि| पानोष्मा पा.| मद्यपानकुपितपित्तस्यौष्ण्यं; समानोष्मेति पाठान्तरमयुक्तं, सुश्रुते पानात्यये श्लोकस्यास्य पाठात्| पित्तजोऽप्ययं हेतुभेदात् पृथक् पठितः||१||

Adhikarana raktajadAhalakShaNam (2-3) · Śloka 2

कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ध्रुवम् | स उष्यते तृष्यते च ताम्राभस्ताम्रलोचनः ||२|| लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते | (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

रक्तजमाह– कृत्स्नेत्यादि| स उष्यते समीपस्थेनेव वह्निना तप्यते, ‘सन्धूप्यत’ इति पाठान्तरे सन्धूपनवद्वेदनामनुभवति| ताम्राभ इति गात्रे| लोहगन्धाङ्गवदन इति लोहस्येव गन्धोऽङ्गे वदने च यस्य स तथा||२-३||–

Adhikarana pittajadAhalakShaNam (3) · Śloka 3

पित्तज्वरसमः पित्तात्स चाप्यस्य विधिः स्मृतः ||३|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

पित्तजमाह– पित्तेत्यादि| पित्तज्वरसमः पित्तज्वरलिङ्गयुक्तः, पित्तज्वरे त्वामाशयदुष्ट्यादयोऽधिका इति भेदः| स चाप्यस्य विधिरिति पित्तज्वरचिकित्सा||३||

Adhikarana tRuShNAnirodhajadAhalakShaNam (4) · Śloka 4

तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् | सबाह्याभ्यन्तरं देहं प्रदहेन्मन्दचेतसः ||४|| संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य वेपते | (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

तृष्णानिरोधजमाह– तृष्णेत्यादि| तेजःसमुद्धतं पित्तोष्मा वृद्ध इत्यर्थः| निष्कृष्य निःसार्य||४||–

Adhikarana raktapUrNakoShThajadAhalakShaNam (5) · Śloka 5

असृजः पूर्णकोष्ठस्य दाहोऽन्यः स्यात् सुदुःसहः ||५|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

अवगाढशस्त्रप्रहारजनितरक्तपूर्णकोष्ठजमाह– असृज इत्यादि| न चोक्तरक्तजेनास्य पौनरुक्त्यं, कृत्स्नदेहानुगमिति वचनात् कारणभेदाच्च| असृजः पूर्णकोष्ठस्येति ‘पूरणगुणसुहितार्थ’ इत्यादिना ज्ञापकेन कर्तरि षष्ठी, रक्तेन पूरितकोष्ठस्येत्यर्थः| कोष्ठशब्देन हृदयादयो गृह्यन्ते| यदाह सुश्रुतः– “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते||” (सु. चि. अ. २) इति||५||

Adhikarana dhAtukShayajadAhalakShaNam (6) · Śloka 6

धातुक्षयोत्थो यो दाहस्तेन मूर्छातृडर्दितः | क्षामस्वरः क्रियाहीनः स सीदेद्भृशपीडितः ||६|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

धातुक्षयजमाह– धात्वित्यादि| धातवो रसादयः| क्रियाहीनो निश्चेष्टः; किंवा भृशपीडितो दाहेन क्रियाहीनश्चिकित्साहीनो यदि भवेत्तदा सीदेन्म्रियेत इत्यर्थः||६||

Adhikarana kShatajadAhalakShaNaM, marmAbhighAtajadAhalakShaNaM, dAhAnAmasAdhyalakShaNaM ca (7-8) · Śloka 8

क्षतजोऽनश्नतश्चान्नं शोचतो वाऽप्यनेकधा | तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्छाप्रलापवान् ||७|| मर्माभिघातजोऽप्यस्ति सोऽसाध्यः सप्तमो मतः | सर्व एव च वर्ज्याः स्युः शीतगात्रस्य देहिनः ||८|| (सु. उ. तं. अ. ४७) |

🔊 Audio coming soon

क्षतजमाह– क्षतज इत्यादि| मर्माभिघातजमाह– मर्मेत्यादि| मर्माणि शिरोहृदयबस्त्यादीनि| जेज्जटस्तु सप्तत्वमन्यथा गणयति– ‘त्वचं प्राप्त’ इत्यादिना प्रथमः, ‘कृत्स्नदेहानुगं रक्तम्’ इत्यत्र रक्तस्थाने पित्तं पठित्वा एतदादिना ‘स चाप्यस्य विधिः स्मृतः’ इत्यन्तेन पैत्तिको द्वितीयः, तृष्णानिरोधजस्तृतीयः, ‘असृजः पूर्णकोष्ठस्य’ इति चतुर्थः, धातुक्षयजः पञ्चमः, षष्ठस्य तु क्षतजस्य लक्षणं पठति– “क्षतजोऽनश्नतश्चान्नं शोचतश्चाप्यनेकधा| तेनान्तर्दह्यतेऽत्यर्थं तृष्णादाहप्रलापवान्|” इति, मर्माभिघातजस्तु सप्तम इति||७-८||

Adhikarana puShpikA · Śloka 19

इति श्रीमाधवकरविरचिते माधवनिदाने दाहनिदानं समाप्तम् ||१९||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां दाहनिदानं समाप्तम्||१९||