अथ रक्तपित्तनिदानम् | घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः | तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च ||१|| पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् | ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ||२|| (सु. उ. तं. अ. ४५) | ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः | कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ||३|| (आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् | विदग्धयोर्द्वयोश्चापि द्विधा मार्गं प्रवर्तते) |
🔊 Audio coming soon
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात्तदनन्तरं रक्तपित्तनिदानमाह– घर्मेत्यादि| घर्म आतपः| तीक्ष्णं तीक्ष्णवीर्यं मरिचादि, उष्णोऽग्नितापः, क्षारो यवक्षारादिः, घण्टापाटल्यादिकृतश्च; विदग्धं कुपितम्| स्वगुणैरिति ‘पित्तं तीक्ष्णं द्रवं पूति’ इत्यादिभिः, विदहति कोपयति स्वगुणैरेव, “विदाहश्चास्य रक्तस्य पित्तवत्” (सु. सू. अ. २१) इत्युक्तेः| ततः प्रवर्तते निःसरति, पित्तं रक्तं च धातुरूपं; नतु केवलं रक्तं, रक्तपित्तमिति व्यपदेशानुपपत्तेः| अथ पित्तेन दुष्टं रक्तं रक्तपित्तमित्युच्यते, तदा पित्तरक्तमिति व्यपदेशः प्रसज्येत, एतेन रक्तं च पित्तं चेति द्वन्द्वसमासान्निरुक्तिरुक्ता सुश्रुतेन| ननु, चरके ‘रागपरिप्राप्तं पित्तं रक्तपित्तम्’ इत्युक्तं, तेन रक्तं च तत् पित्तं चेति कर्मधारयसमासेन निरुक्तिरुक्ता| अत्र च कारणत्रयमुक्तम्| यदाह– “संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||” (च. चि. अ. ४) इति, तत्कथं न विरोधः? नैवम्, अत्रापि रक्तप्रवृत्तेः, दुष्टं हि रक्तं पित्ते रागमादधत्तत्संसर्गि रक्तं स्वयमपि प्रवर्तते इति पूर्व एवार्थः| तेन रक्तं च पित्तं चेति रक्तपित्तं, रक्त च तत् पित्तं चेत्युभयथाऽपि निरुक्तावदोषः||१-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अथ पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात्तदनन्तरं रक्तपित्तनिदानमाह– घर्मेत्यादि| एतैः स्वकारणगुणैर्विदग्धं दुष्ट पित्तं शोणितं विदहति कोपयति| घर्म आतपः, अध्वा पन्थाः, व्यवायो मैथुनम्, तीक्ष्णं तीक्ष्णवीर्यं मरिचादि, उष्णोऽग्नितापः अथवोष्णगुणद्रव्यं, क्षारो यवक्षारादिः अपामार्गादिकृतश्च| ततो रक्तं प्रवर्तते ऊर्ध्वमधो वा द्विधा वा एककालमूर्ध्वाधो वा, तस्य रक्तपित्तमुच्यते| रक्तं च पित्तं चेति द्वन्द्वसमासान्निरुक्तिः सुश्रुतेनोक्ता| चरके तु, रागपरिप्राप्तं पित्तं रक्तपित्तमुच्यते| तत्र रक्तं च तत्पित्तं चेति कर्मधारयसमासः| यदुक्तं चरकेण कारणत्रयम्– “संयोगाद्दूषणात् तं तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः” इत्युभयत्रापि न कश्चिद्दोषः| केषु मार्गेषु प्रवर्तते तानाह– ऊर्ध्वमित्यादि| कुपितं तत्पित्तं नासादिभिरूर्ध्वं, मेढ्रादिभिरधः, अतिकुपितं मार्गद्वयैरूर्ध्वाधोभिः समस्तरोमच्छिद्रैश्च||१-३||