Adhikarana raktapittasya nidAnapUrvikA samprAptiH (1-3) · Śloka 3
अथ रक्तपित्तनिदानम् |
घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः |
तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च ||१||
पित्तं विदग्धं स्वगुणैर्विदहत्याशु शोणितम् |
ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा ||२||
(सु. उ. तं. अ. ४५) |
ऊर्ध्वं नासाक्षिकर्णास्यैर्मेढ्रयोनिगुदैरधः |
कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते ||३||
(आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् |
विदग्धयोर्द्वयोश्चापि द्विधा मार्गं प्रवर्तते) |
पाण्डुरोगवद्रक्तपित्तस्यापि पित्तजन्यत्वात्तदनन्तरं रक्तपित्तनिदानमाह– घर्मेत्यादि| घर्म आतपः| तीक्ष्णं तीक्ष्णवीर्यं मरिचादि, उष्णोऽग्नितापः, क्षारो यवक्षारादिः, घण्टापाटल्यादिकृतश्च; विदग्धं कुपितम्| स्वगुणैरिति ‘पित्तं तीक्ष्णं द्रवं पूति’ इत्यादिभिः, विदहति कोपयति स्वगुणैरेव, “विदाहश्चास्य रक्तस्य पित्तवत्” (सु. सू. अ. २१) इत्युक्तेः| ततः प्रवर्तते निःसरति, पित्तं रक्तं च धातुरूपं; नतु केवलं रक्तं, रक्तपित्तमिति व्यपदेशानुपपत्तेः| अथ पित्तेन दुष्टं रक्तं रक्तपित्तमित्युच्यते, तदा पित्तरक्तमिति व्यपदेशः प्रसज्येत, एतेन रक्तं च पित्तं चेति द्वन्द्वसमासान्निरुक्तिरुक्ता सुश्रुतेन| ननु, चरके ‘रागपरिप्राप्तं पित्तं रक्तपित्तम्’ इत्युक्तं, तेन रक्तं च तत् पित्तं चेति कर्मधारयसमासेन निरुक्तिरुक्ता| अत्र च कारणत्रयमुक्तम्| यदाह– “संयोगाद्दूषणात्तत्तु सामान्याद्गन्धवर्णयोः| रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः||” (च. चि. अ. ४) इति, तत्कथं न विरोधः? नैवम्, अत्रापि रक्तप्रवृत्तेः, दुष्टं हि रक्तं पित्ते रागमादधत्तत्संसर्गि रक्तं स्वयमपि प्रवर्तते इति पूर्व एवार्थः| तेन रक्तं च पित्तं चेति रक्तपित्तं, रक्त च तत् पित्तं चेत्युभयथाऽपि निरुक्तावदोषः||१-३||
Adhikarana raktapittapUrvarUpam (4) · Śloka 4
सदनं शीतकामित्वं कण्ठधूमायनं वमिः |
लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति ||४||
(सु. उ. तं. अ. ४५) |
पूर्वरूपमाह– सदनमित्यादि| कण्ठधूमायनं कण्ठाद्धूमनिर्गम इव प्रतीतिः||४||
Adhikarana shlaiShmikaraktapittalakShaNam (5) · Śloka 5
सान्द्रं सपाण्डु सस्नेहं पिच्छिलं च कफान्वितम् |५|
(च. चि. अ. ४) |
श्लैष्मिकमाह– सान्द्रमित्यादि| सान्द्रं घनं, सपाण्डु सस्नेहमिति ईषत्पाण्डुस्नेहम्|५|
Adhikarana vAtikaraktapittalakShaNam (5) · Śloka 5
श्यावारुणं सफेनं च तनु रूक्षं च वातिकम् ||५||
(च. चि. अ. ४) |
वातिकमाह– श्यावेत्यादि| तनु अघनम्||५||
Adhikarana paittikaraktapittalakShaNam (6) · Śloka 6
रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् |
मेचकागारधूमाभमञ्जनाभं च पैत्तिकम् ||६||
(च. चि. अ. ४) |
संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् |
(च. चि. अ. ४) |
पैत्तिकमाह– रक्तेत्यादि| कषायाभं वटादिक्वाथवर्णम्| मेचकागारधूमाभमिति मेचकागारधूमयोरिवाभा यस्य तत्तथा; मेचकाभम्, आगारधूमाभं च; मसृणीकृतकृष्णमणिवर्णस्येववर्णो मेचक इति जेज्जटादयः प्राहुः, चिक्कणकृष्ण इत्यर्थः| अञ्जनाभं सौवीराञ्जनवर्णाभम्| ननु, सर्वमेव रक्तपित्तं दुष्टेन पित्तेनारभ्यते तत् कथं पैत्तिकं रक्तपित्तमिति? उच्यते– सत्यं, किन्तु यदा स्वस्थानस्थं पित्तं रक्तपित्तारम्भकं स्थानान्तरावस्थितेन पित्तेन सङ्गृह्यते, किंवा दोषान्तरासंश्लिष्टं केवलं पित्तमारम्भकं, तदा पैत्तिकमिति व्यपदेश इति| ननु, केवलं पैत्तिकं न सम्भवत्येव, यद्वक्ष्यति– “ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम्|” इति; न च तस्य निर्दिष्टो मार्गः| उच्यते– यदा स्वकारणोद्भूतेन कफेन वातेन वा स्वलक्षणकारिणा संसृष्टं भवति, तदा श्लैष्मिकादिव्यपदेशः, न तु मार्गसम्बन्धानुगतेन कफवातसम्बन्धेन| ऊर्ध्वगं हि मार्गसम्बन्धमहिम्नाऽवश्यं कफेन, अधोगं चावश्यं वातेन, अनुबध्यते| नच तत्र कफवातौ स्वलक्षणं कुरुतः, यथा शरदि ज्वरकरं पित्तं कालमहिम्नाऽनुगतेन कफेनानुबध्यते तथाऽपि पैत्तिक एवासौ प्राकृतो ज्वरः| यदुक्तम्– “कुर्यात् पित्तं च शरदि तस्य चानुबलः कफः|” (च. चि. अ. ३) इति| तेन यदा एकदोषलिङ्गयुक्तं भवति तदा एकदोषानुगम्, एवं द्विदोषलिङ्गं त्रिदोषलिङ्गं च बोध्यम्| तेनोर्ध्वगमधोगं चैकद्वित्रिलिङ्गं भवति| एतेन पैत्तिकस्य मार्गो न दर्शित इति यदुक्तं तन्निरस्तमिति||६||
Adhikarana dvandvajasya tridoShajasya ca raktapittasya lakShaNam (7) · Śloka 7
ऊर्ध्वगं कफसंसृष्टमधोगं पवनानुगम् |
द्विमार्गं कफवाताभ्यामुभाभ्यामनुवर्तते ||७||
(च. चि. अ. ४) |
संसर्गविशेषेण मार्गभेदमाह– ऊर्ध्वगमित्यादि||७||
Adhikarana saMsargavisheSheNa mArgabhedAH (8) · Śloka 8
ऊर्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम् |८|
(सु. उ. तं. अ. ४५) |
मार्गभेदेन साध्यत्वादिकमाह– ऊर्ध्वमित्यादि| ऊर्ध्वं साध्यमिति ऊर्ध्वगस्य कफपित्तसंश्लिष्टत्वेन कषायतिक्तौ रसौ कफपित्तहरौ योग्यौ, पित्तहरणे प्रधानं विरेचनं च योग्यम्| अधोगे तु एक एव मधुरो वातपित्तप्रशमनः, वमनं च प्रतिमार्गत्वेन वेगमात्रविरोधि, न तु पित्तहरणम्| उभयमार्गं च विरुद्धोपक्रमत्वादेवासाध्यम्| यदुक्तं चरके– “साध्यं लोहितपित्तं तद्यदूर्ध्वं प्रतिपद्यते| विरेचनस्य योग्यत्वाद्बहुत्वाद्भेषजस्य च|| विरेचनं हि पित्तस्य जयाय परमौषधम्|” (च. चि. अ. २) इत्यादि|८|–
Adhikarana mArgabhedena sAdhyatvAdikam (8-9) · Śloka 8
एकमार्गं बलवतो नातिवेगं नवोत्थितम् ||८||
रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् |
(च. चि. अ. ४) |
साध्यत्वे हेतुमाह– एकमार्गमित्यादि| एकमार्गमत्रोर्ध्वगमभिप्रेतम्, अधोगस्य याप्यत्वात्| नवोत्थितम् अचिरजम्| सुखे काले हेमन्तशिशिरयोः| निरुपद्रवं वक्ष्यमाणदौर्बल्याद्युपद्रवरहितम्||८-९||–
Adhikarana raktapittasya sAdhyAsAdhyalakShaNam (9-10) · Śloka 10
एकदोषानुगं साध्यं द्विदोषं याप्यमुच्यते ||९||
यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् |
व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ||१०||
(च. चि. अ. ४) |
दोषभेदेन साध्यत्वादिकमाह– एकदोषानुगमित्यादि| मार्गभेददोषभेदाभ्यां साध्यत्वासाध्यत्वविरोधे अर्शःस्वभिहितदोषभेदबलिभेदाभ्यां साध्यत्वासाध्यत्ववद्व्याख्येयम्| मन्दाग्नेस्तथा व्याधिभिः क्षीणदेहस्य यदतिवेगवत्तदसाध्यम्| अनश्नतः अरुच्यादिना, अन्नाभावाद्वा||९-१०||
Adhikarana raktapittasyopadravAH (11) · Śloka 11
दौर्बल्यश्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्छा, भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा |
तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूतिनिष्ठीवनत्वं, भक्तद्वेषाविपाकौ विकृतिरपि भवेद्रक्तपित्तोपसर्गाः ||११||
(सु. उ. तं. अ. ४५) |
उपद्रवानाह– दौर्बल्येत्यादि| दौर्बल्यं ‘शक्त्युपचययोरभाव’ इति गयदासः| भक्ते घोरो विदाह इति ‘षष्ठ्यर्थे सप्तमी’ इति कार्तिकः| हृद्यतुल्येति हृदि अतुल्या असदृशी पीडा| कोष्ठस्य भेदः कोष्ठमलस्यभेदः| तपनं तापः| ‘प्रविततशिरस’ इति पाठान्तरे प्रविततं विस्तीर्यमाणमिव; ‘प्रवितता विस्तीर्णा वेदना शिरसि यस्य स तथा’ इति कार्तिकः| ‘ प्रविततसिरता’ इति पाठान्तरे सिराव्याप्तगात्रता| अविपाक आहारस्य| विकृतिरपि भवेद्रक्तपित्तोपसर्गा इति एते रक्तपित्तस्य उपसर्गा उपद्रवाः; तथा तस्य विकृतिरपि भवेदिति योज्यम्| सा च वक्ष्यमाणामांसप्रक्षालनाभमित्यादिरूपा| ‘रक्तपित्तोपसर्गात्’ इति पाठान्तरं सुगमम्||११||
Adhikarana raktapittasyAsAdhyalakShaNam (12-14) · Śloka 14
मांसप्रक्षालनाभं कुथितमिव च यत् कर्दमाम्भोनिभं वा, मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् |
यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारा स्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ||१२||
(सु. उ. तं. अ. ४५) |
येन चोपहतो रक्तं रक्तपित्तेन मानवः |
पश्येद्दृश्यं वियच्चापि तच्चासाध्यमसंशयम् ||१३||
(च. नि. अ. २) |
लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः |
लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः ||१४||
(सु. सू. अ. ३३) |
असाध्यलक्षणमाह– मांसेत्यादि| कुथितमिव पूतितां गतमिव| कर्दमम् आविलमिवाम्भः कर्दमाम्भः, अथवा कर्दमनिभमम्भोनिभं च| तथा मेदःपूयास्रकल्पमिति कल्पशब्दो मेदःप्रभृतिभिस्त्रिभिः सम्बध्यते इति गयदासः| यकृदिव यकृत्खण्डमिव| पक्वजम्बूफलाभं स्निग्धकृष्णम्| कृष्णम् अञ्जनाभम्| नीलं चाषपक्षप्रतिमम्| ननु, पैत्तिके कृष्णत्वं पठितं न च तदसाध्यं? नैवम्, अतिशब्देनात्र विशेषितत्वात्, तेन तत्र मनाक्कृष्णत्वं बोध्यम् इति जेज्जटः; अथवा जम्बूफलाभं यत् कृष्णं तदिति योज्यम्| उक्ता विकाराः श्वासकासादयः| सुरपतिधनुषा तुल्यं नानावर्णम्| येनेत्यादि| येन रक्तपित्तेनेति योज्यम्| पश्येद्दृश्यं वियच्चापि अदृश्यमपि वियद्दृश्यमिति पश्यतीति योज्यं, रक्तपित्तोपहतनेत्रत्वादिति; अथवा दृश्यं घटपटादि, वियच्च रक्तं पश्यतीति| अपरमसाध्यलक्षणमाह– लोहितमित्यादि| यो बहुशश्छर्दयेदिति सम्बन्धः| लोहितोद्गारदर्शीति लोहितोद्गारो लोहितदर्शीं च, उद्गारोऽपि लोहितः प्रवर्तते इत्यर्थः; अथवा लोहितमुद्गारं पश्यतीति लोहितोद्गारदर्शीति||१२-१४||
Adhikarana puShpikA · Śloka 9
इति श्रीमाधवकरविरचिते माधवनिदाने रक्तपित्तनिदानं समाप्तम् ||९||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां रक्तपित्तनिदानं समाप्तम्||९||