Adhikarana pramehanidAnam (1) · Śloka 1
अथ प्रमेह-प्रमेहपिडकानिदानम् |
आस्यासुखं स्वप्नसुखं दधीनि ग्राम्यौदकानूपरसाः पयांसि |
नवान्नपानं गुडवैकृतं च प्रमेहहेतुः कफकृच्च सर्वम् ||१||
(च. चि. अ. ७) |
चन्द्रोदयप्रणयपीवरदुग्धसिन्धुपूरभ्रमं वहति यद्गुणकीर्तिगुच्छः| तेन व्यधायि गुरुणा विजयेन शिष्यप्रेम्णाऽश्मरीरुगवधेर्मधुकोषबन्धः||१|| श्रीकण्ठदत्तभिषजा गुरुभक्तिलेशादारभ्यते प्रभृति सम्प्रति मेहरोगात्| सूक्तीर्विचिन्त्य मधुशीकरमुद्गिरन्तीष्टीकाकृतः कतिपयस्य तदीयशेषः||२|| अश्मरीरोगानन्तरं बस्तिविकृतिसाम्यात् प्रमेहनिदानमुच्यते– आस्यासुखमित्यादि| आस्या उपविष्टस्य चेष्टोपरमः, तेन कृतं सुखमास्यासुखम्; एवं स्वप्नसुखमिति द्रष्टव्यम्| तेनासनादिदोषादास्यादुःखं स्वप्नदुःखं वा न प्रमेहहेतुः| गुडवैकृतमिति गुडविकाराः शर्करादयः तथा गुडकृताश्च भक्ष्याः| प्रमेहहेतुः कफकृच्च सर्वमित्यनुक्तहेतुसङ्ग्रहार्थमुक्तम्| एष साधारणो हेतुः प्रमेहस्य; विशेषहेतुस्तु चरके निदानस्थाने– ‘हायनकोद्दालक’ इत्यादिना कफजस्य, ‘उष्णाम्ललवण’ इत्यादिना पित्तजस्य, ‘कटुतिक्तकषाय’ (च. नि. अ. ४) इत्यादिना वातजस्याभिहितः| एतेन सामान्यहेतुसहितो विशिष्टहेतुः कफजादिप्रमेहस्य| किञ्च कफजनिदानमप्येतदास्यासुखादि बोद्धव्यम्||१||
Adhikarana pramehasamprAptiH (2-3) · Śloka 3
मेदश्च मांसं च शरीरजं च क्लेदं कफो बस्तिगतः प्रदूष्य |
करोति मेहान् समुदीर्णमुष्णैस्तानेव पित्तं परिदूष्य चापि ||२||
क्षीणेषु दोषेष्ववकृष्य धातून् सन्दूष्य मेहान् कुरुतेऽनिलश्च |
साध्याः कफोत्था दश, पित्तजाः षड् याप्या, न साध्यः पवनाच्चतुष्कः ||३||
समक्रियत्वाद्विषमक्रियत्वान्महात्ययत्वाच्च यथाक्रमं ते |
(च. चि. अ. ६) |
कफपित्तवातजमेहानां क्रमेण सम्प्राप्तिमाह– मेद इत्यादिना| अत्र कफजा एव मेहा भूयस्त्वेन साध्यत्वेन च आदावुच्यन्ते| तानेवेति मेदोमांसशरीरजक्लेदान्| उष्णैरिति उष्णवीर्यस्पर्शैर्द्रव्यैः| क्षीणेषु दोषेष्विति प्रवृद्धत्वेनैव क्षीणेषु, न तु समानापेक्षया क्षीणेषु; अनेन वृद्धे कफे पित्ते वा यो वायुर्लङ्घनादिना क्रमेण वृद्धो भवति, स नेहासाध्यमेहचतुष्टयप्रकरणे विवक्षित इति सूच्यते| तत्र हि चिकित्साविधानात् साध्यत्वमस्ति| यदुक्तम्– “या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा| वायुर्हि धातुष्वतिकर्षितेषु कुप्यत्यसाध्यान् प्रति नास्ति चिन्ता||” (च. चि. अ. ६) इति| दोषेष्विति कफपित्तेषु, द्वयोश्च बहुवचनं व्यक्त्यपेक्षया बहुत्वात्| अवकृष्येति बस्तिमुखं नीत्वा| धातूनिति वसामज्जौजोलसीकाख्यान्| समक्रियत्वादिति कफस्य दोषस्य दूष्यस्य च मेदःप्रभृतेः समानत्वात् कटुतिक्तादिक्रियायाः| अत्र व्याधिमहिम्ना तुल्यदूष्यता साध्यताया हेतुः| तेन “न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्|” (च. सू. अ. ११) इति चरकवचनं कष्टसाध्यतार्थं नोद्भावनीयम्| यदुक्तम्– “ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदूष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्||” इति| विषमक्रियत्वादिति पित्तस्य प्रमेहप्रधानदूष्यस्य च मेदःप्रभृतेश्चान्योन्यविपरीतक्रियत्वात्; पित्तहरं हि मधुरादि मेदस्करं, मेदोहरं च कटुकादि पित्तकरमिति क्रियावैषम्यम्; अत्र व्याधिस्वभावो हेतुः, तेनान्येषु व्याधिषु परस्परविरुद्धदोषदूष्यसंसर्गेऽप्युभयप्रत्यनीकभेषजविधिरविरोधीति| महात्ययत्वादिति मज्जादिगम्भीरधात्वपकर्षकत्वेन बहुव्यापत्तिकरत्वात्; आशुकारित्वादिति ईशानः| चकारात् विषमक्रियत्वं च वातजानां समुच्चीयते||२-३||
Adhikarana pramehANAM doShadUShyasa~ggrahaH (4) · Śloka 4
कफः सपित्तः पवनश्च दोषा मेदोऽस्रशुक्राम्बुवसालसीकाः |
मज्जा रसौजः पिशितं च दूष्याः प्रमेहिणां विंशतिरेव मेहाः ||४||
(च. चि. अ. ६) |
सर्वमेहानां दोषदूष्यसङ्ग्रहमाह– कफ इत्यादिना| वसा मांसस्नेहः, सर्वदेहस्नेह इत्यन्ये| लसीका उदकविशेषः| यथाह चरकः– “यत्तु मांसत्वगन्तरे उदकं तल्लसीकाशब्दं लभते|” (च. शा. अ. ७) इति| रसौज इति रसश्च ओजश्च इति द्वन्द्वः| ओजश्चात्रार्धाञ्जलिपरिमितं श्लेष्मरूपं; यदुक्तम्– “श्लेष्मलस्यौजसोऽर्धाञ्जलिः परिमाणम्|” (च. शा. अ. ७) इति; नत्वष्टबिन्द्वात्मकं, तस्य भ्रंशेन मरणाभिधानात्| ननु, रस एवौजो रसौज इति कुतो न कल्प्यते? रसोऽप्योजःशब्देनोच्यते; यदुक्तम्– “तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठमागतम्| मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे||” (च. चि. अ. ८) इति; ओजसे इति रसायेत्यर्थः| नैवम्, ओजसो हि मधुमेहे दूष्यत्वेनोक्तत्वात्, ओजःशब्दोपादानवैफल्याच्च| यद्यप्यत्र बहूनि मेदःप्रभृतीनि दूष्यत्वेनोच्यन्ते, तथाऽपि पूर्वं मेदोमांसशरीरजक्लेदानां सर्वमेहेष्ववश्यम्भाविदूष्यत्वेन पृथगभिधानम्| मज्जादयस्तु मेहविशेषे दूष्याः| तद्यथा– लसीकावसामज्जौजांसि वातिके, न पैत्तिके, न श्लैष्मिके| ईशानः पुनराह– रसरक्तशुक्राणि सर्वमेहेषु कदाचित् दुष्यन्ते, न त्ववश्यमिति| किञ्च सर्वमेहानामेव दोषत्रयजन्यत्वं सकलदूष्याश्रयित्वं च ‘कफः सपित्तः’ इत्यादिनोपदर्श्यते| मेदोमांसादीनि तु अत्यन्तदूष्योपदर्शनार्थं पृथगुक्तानि| यतश्चरकेऽपि कियन्तःशिरसीयाध्याये सकलमेहवाचकमधुमेहकथने दोषत्रयप्रकोपोऽभिहितः| तथाहि– “समारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः| दर्शयत्याकृतिं गत्वा क्षयमाप्याय्यते पुनः||” (च. सू. अ. १७) इति| तथा सुश्रुतोऽप्याह– “वातपित्तमेदोभिरन्वितः श्लेष्मा मेहान् जनयति|” (सु. नि. अ. ६) इत्यादि| कफादीनां द्व्युल्बणादिसंसर्गस्यानन्त्येन सर्वमेहावस्थाविशेषेण मधुमेहेन च सङ्ख्याधिक्यप्रसङ्गनिरासायावधारणार्थमाह– विंशतिरेव मेहा इति||४||
Adhikarana pramehapUrvarUpam (5) · Śloka 5
दन्तादीनां मलाढ्यत्वं प्राग्रूपं पाणिपादयोः |
दाहश्चिक्कणता देहे तृट् स्वाद्वास्यं च जायते ||५||
पूर्वरूपमाह– दन्तादीनामित्यादि| आदिशब्देन नयनतालुकर्णादीनां ग्रहणम्| यदुक्तं सुश्रुते– ‘तालुगलजिह्वादन्तेषु मलोत्पत्तिः|’ (सु. नि. अ. ६) इति| अत्र च मलभूयस्त्वं मेदोदोषात्| चिक्कणता देहे मेदःकफदुष्टेः| अत्र चकारात् सुश्रुतोक्तकेशजटिलीभावनखातिवृद्धी बोध्ये| एतच्च व्याधिविशेषनियतमेव, येनान्यत्र, विद्यमानाऽपि कफमेदोदुष्टिः नैवं कर्तुं क्षमा||५||
Adhikarana pramehasAmAnyalakShaNam (6) · Śloka 6
सामान्यं लक्षणं तेषां प्रभूताविलमूत्रता |
दोषदूष्याविशेषेऽपि तत्संयोगविशेषतः ||६||
मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते |
(वा. नि. अ. १०) |
सामान्यलक्षणमाह– सामान्यमित्यादि| प्रभूतेत्यादि प्रभूतमूत्रत्वं दूष्यद्रवधातुसम्बन्धात् आविलत्वं दोषदूष्यसंसर्गात्| ननु, कथं कफेन दश, पित्तेन षडित्यादिव्यवस्था? यतः कारणभेदात् कार्यभेद इत्याशङ्क्याह– दोषदूष्याविशेषेऽपि तत्संयोगविशेषत इति| तेषां दोषदूष्याणामुत्कर्षापकर्षकृतात् संयोगभेदाद्भेदो मेहेषु भवति| यथा– पञ्चानां वर्णानां श्वेतकृष्णपीतलोहितश्यावानां संयोगभेदादनेकपिङ्गलपाटलादिभेदाः| सुश्रुतेऽप्युक्तम्– “यथा पञ्चानां वर्णानामुत्कर्षापकर्षकृतेन संयोगविशेषेण कपिलादिनानावर्णोत्पत्तिरेवं दोषादिसंसर्गान्मेहानां नानात्वम्|” (सु. नि. अ. ६) इति| संयोगभेदप्रतीतिः कुत इत्यत आह– मूत्रेत्यादि| मूत्रवर्णादिभेदं दृष्ट्वा कारणानां समानानां भेदः कल्पनीयः, यथा– मृदादिकारणकलापस्याभेदेऽपि कुम्भकारादिसंयोगभेदादुदञ्चनादिप्रपञ्चभेदः| ननु, उदञ्चनादौ कुम्भकारादिप्रयत्नभेदात् संयोगभेदः, अत्र तु कः संयोगभेदहेतुः? उच्यते– तत्तदाहारादिकमदृष्टं च भवतीत्यदोषः||६||–
Adhikarana udakameha-ikShumeha-sAndrameha-surAmeha-piShTameha-shukrameha-sikatAmeha-shItameha-shanairmeha-lAlAmehalakShaNam (7-12) · Śloka 12
अच्छं बहु सितं शीतं निर्गन्धमुदकोपमम् ||७||
मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् |
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ||८||
सान्द्रीभवेत् पर्युषितं सान्द्रमेहेन मेहति |
सुरामेही सुरातुल्यमुपर्यच्छमधो घनम् ||९||
संहृष्टरोमा पिष्टेन पिष्टवद्बहलं सितम् |
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ||१०||
मूर्ताणून् सिकतामेही सिकतारूपिणो मलान् |
शीतमेही सुबहुशो मधुरं भृशशीतलम् ||११||
शनैः शनैः शनैर्मेही मन्दं मन्दं प्रमेहति |
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ||१२||
(वा. नि. अ. १०) |
अत्र कफस्य श्वेतशीतमूर्तपिच्छिलाच्छस्निग्धगुरुमधुरसान्द्रप्रसादमन्देषु गुणेषु मध्ये कुत्रचित् किञ्चिद्गुणप्रकर्षादुदकमेहादयो दश दृश्यन्त इत्याह– अच्छमित्यादि| सान्द्रप्रसादस्तु एक एव गुणो गणनीयः, सान्द्रमेहव्यपदेशस्त्वेकदेशेन भविष्यतीति| एतैश्च श्वेतादिभिर्गुणैर्व्यस्तैः समस्तैश्च योगाद्दश मेहा न तु यथाक्रमं, “येन गुणेनैकेनानेकेन वा भूयस्तरमुपसृज्यते तत्समाख्यं गौणं नामविशेषं प्राप्नोति|” (च. नि. अ. ४) इति चरकवचनात्| नच यथा दशभिर्गुणैर्दश मेहान् करोति तथा संसर्गविकल्पान्तरेणापरानपि कुतो न करोतीत्याशङ्कनीयं, भावस्वभावस्यापर्यनुयोज्यत्वात्, अदृष्टकल्पनायाश्चानर्हत्वात्| तत्र श्वेताच्छशीतैर्गुणैरुदकमेहः; मधुरशीताभ्यामिक्षुमेहः; सान्द्रपिच्छिलाभ्यां सान्द्रमेहः; अच्छेन पित्तानुरागिणा सुरामेहः; शुक्लेन पिष्टमेहः, अत्र पिष्टवदित्यालेपनपिष्टवत्; श्वेतस्निग्धाभ्यां शुक्रमेहः; अत्र शुक्राभमिति सर्वमेव मूत्रं शुक्रतुल्यं, शुक्रमिश्रं वेति शुक्राभशुक्रमिश्रं; वास्तवशुक्रमिश्रत्वे तु कफजस्याप्यसाध्यत्वं स्यादिति; वाप्यचन्द्रस्तु शुक्रस्य मूत्रेण गुणकृतं सादृश्यं, शुक्रमिश्रं वेति च शुक्रगुणानां संयुक्तसमवायात् मूत्रे दर्शनमित्याह; सान्द्रमूर्ताभ्यां सिकतामेहः, अत्र मूर्ताणूनिति मूर्तान् कठिनान्, अणून् अल्पान्; मलानिति बहुवचनं दोषाणामवयवबहुत्वात्, जात्याख्यायामेकस्मिन् बहुवचनमिति वाप्यचन्द्रः, मलोऽत्र प्रकरणात् कफः; गुरुमधुरशीतैः शीतमेहः; मन्दमूर्ताभ्यां शनैर्मेहः; पिच्छिलेन लालामेहः| चरके सुरामेहस्थाने सान्द्रप्रसादमेहः पठितः, तथा पिष्टमेहः शुक्लमेहशब्देन, तेनैव शीतमेहलालामेहौ पठितौ, पित्तजश्च कालमेहः; सुश्रुतस्तु चरकोक्तशीतमेहलालामेहयोः स्थाने फेनमेहलवणमेहौ, कालमेहस्थाने चाम्लमेहं पठितवान्| सामञ्जस्यं चात्र नास्त्येव, परस्परलक्षणसंवादाभावात्. स्मृतिर्द्वैधवत् सर्वं प्रमाणम्||७-१२||
Adhikarana kShArameha-nIlameha-kAlameha-hAridrameha-mA~jjiShThameha-raktamehalakShaNam (13-14) · Śloka 15
गन्धवर्णरसस्पर्शैः क्षारेण क्षारतोयवत् |
नीलमेहेन नीलाभं कालमेही मसीनिभम् ||१३||
हारिद्रमेही कटुकं हरिद्रासन्निभं दहत् |
विस्रं माञ्जिष्ठमेहेन मञ्जिष्ठासलिलोपमम् ||१४||
विस्रमुष्णं सलवणं रक्ताभं रक्तमेहतः |१५|
(वा. नि. अ. १०) |
पित्तात्तु षड्भिः पित्तगुणैः क्षारनीलकालपीतलोहितविस्रैर्यथाक्रमं क्षारमेहादयः षट्, तान् गन्धवर्णरसस्पर्शैरित्यादिना दर्शयति– गन्धेत्यादि| नीलाभमिति चासपक्षप्रभं, चासः ‘स्वर्णचूड’ इति लोके ख्यातः; क्वचित् ‘टाक्सना चासः’ इति गदाधरः, तत्पक्षश्च स्निग्धनीलो भवति| दहदिति मूत्रविशेषणम्| ‘दहन्’ इति पाठान्तरे दाहमनुभवन् पुरुषः||१३-१४||–
Adhikarana vasAmeha-majjameha-kShaudrameha-hastimehalakShaNam (15-17) · Śloka 17
वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः ||१५||
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः |
कषायं मधुरं रूक्षं क्षौद्रमेहं वदेद्बुधः ||१६||
हस्ती मत्त इवाजस्रं मूत्रं वेगविवर्जितम् |
सलसीकं विबद्धं च हस्तिमेही प्रमेहति ||१७||
(वा. नि. अ. १०) |
वातेन यथाक्रमं वसामज्जौजोलसीकाभिर्यथाक्रमं वसामेहादयः; तानाह– वसेत्यादि| अयं वसामेहः सुश्रुते सर्पिर्मेहनाम्ना, क्षौद्रमेहश्चरके मधुमेहनाम्ना पठितः||१५-१७||
Adhikarana pramehopadravAH (18-20) · Śloka 20
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः |
उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ||१८||
बस्तिमेहनयोस्तोदो मुष्कावदरणं ज्वरः |
दाहस्तृष्णाऽम्लिका मूर्छा विड्भेदः पित्तजन्मनाम् ||१९||
वातजानामुदावर्तः कम्पहृद्ग्रहलोलताः |
शूलमुन्निद्रता शोषः कासः श्वासश्च जायते ||२०||
(वा. नि. अ. १०) |
इदानीं कफजादिमेहानां कृच्छ्रसाध्यत्वमसाध्यत्वं च ज्ञापयितुं भेदेनोपद्रवानाह– अविपाकोऽरुचिरित्यादि| कफजे कास आर्द्रः, वातजे शुष्कः| तोदः संसर्गिवातजन्यः, मेहानां त्रिदोषजन्यत्वात्| मुष्कावदरणं पाकेन| अम्लिका अम्लोद्गारः| लोलता सर्वरसभक्षणेच्छा, इयं तु प्रभावात् धातुक्षयाद्वा भवति; यथा वातग्रहण्यां ‘गृद्धिः सर्वरसानाम्’ इत्युक्तम्||१८-२०||
Adhikarana pramehasyAsAdhyalakShaNam (21) · Śloka 21
यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव च |
पिडकापीडितं गाढः प्रमेहो हन्ति मानवम् ||२१||
(सु. सू. अ. ३३) |
असाध्यतामाह– यथोक्तोपद्रवाविष्टमित्यादि| उक्तैरविपाकादिभिरन्यैश्च सुश्रुताद्युक्तैरुपद्रवैः; तद्यथा– कफजे आलस्यास्योपदेहशैथिल्यकफप्रसेकमक्षिकोपसर्पणादिकं, पित्तजे पाण्डुरोगादिकम्| अतिप्रस्रुतमिति अतिशयं धातुमूत्रस्रावयुक्तम्| पिडकापीडितमिति शराविकादिपिडकापीडितम्| गाढः कालप्रकर्षात्| यद्यपि पिडका अप्युपद्रवत्वेनाभिमताः; यदुक्तं चरके– “उपद्रवास्तु खलु प्रमेहिणां तृष्णातीसारज्वरदाहदौर्बल्यारोचकाविपाकाः पूतिमांसपिडकालजीविद्रध्यादयः|” (च. नि. अ. ४) इति, तथाऽपि पिडकानां पृथगुत्पादसूचनार्थं पृथक्करणम्| उक्तं च चरके– “विना प्रमेहमप्येता जायन्ते दुष्टमेदसः|” (च. सू. अ. १७) इति| अन्यदपि असाध्यलक्षणं बोद्धव्यम्| यदाह चरकः– “सपूर्वरूपाः कफपित्तमेहाः क्रमेण ये वातकृताश्च मेहाः| साध्या न ते, पित्तकृतास्तु याप्याः, साध्यास्तु मेदो यदि न प्रदुष्टम्||” (च. चि. अ. ६) इति| अस्यार्थः– ये कफजाः साध्यास्ते सपूर्वरूपाः सन्तोऽसाध्याः, पित्तकृतास्तु याप्या ये ते सपूर्वरूपा एव असाध्याः प्रत्याख्येयाः| सर्वरोगाणामेव यद्यपि पूर्वरूपानुवृत्तौ असाध्यत्वमुक्तं, तथाऽप्यत्रासकलपूर्वरूपान्वये असाध्यत्वम्, अन्यत्र तु सकलपूर्वरूपान्वये सतीति विशेषः| क्रमेणेति स्वनिदानक्रमेण| तेन निजहेत्वादिकृता ये वातजाश्चत्वारो मेहास्ते पूर्वरूपरहिता अपि नहि साध्याः, ये तु पश्चात् धात्वपकर्षणाद्वातानुबन्धेन वातजास्ते साध्याः याप्या वा| अत एवोक्तम्– “या वातमेहान् प्रति पूर्वमुक्ता वातोल्बणानां विहिता क्रिया सा” (च. चि. अ. ६) इत्यादि||२१||
Adhikarana madhumehIjAtasya pramehiNo~asAdhyatvam (22) · Śloka 22
जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात् |
ये चापि केचित् कुलजा विकारा भवन्ति तांस्तान् प्रवदन्त्यसाध्यान् ||२२||
(च. चि. अ. ६) |
असाध्यतायाः प्रकारान्तरमाह– जात इत्यादि| श्लेष्ममेदसोरतिदुष्ट्या मूत्रमेदःश्लेष्मणामतिमाधुर्यात् मधुमेहिनो जातो यः प्रमेही स चाप्यसाध्यो भवतीति| बीजदोषादिति प्रमेहारम्भकदोषदुष्टबीजजातप्रमेहित्वात्| मधुमेहशब्देन चात्र मेहमात्रमुच्यते, यदि तु वातिक उपेक्षितो वा मेहो मधुमेह उच्यते, तदा चेतरप्रमेहयुक्तमातृपितृजनितप्रमेहिणो नासाध्यत्वमुक्तं स्यात्; किञ्च मधुमेहिना जनितस्य मधुमेहित्वमेव कारणानुरूपतया युक्तं ततश्च मधुमेही मधुमेहिना वा जातो न साध्य इति वक्तुमुचितं; तस्यासाध्यत्वमपि न वक्तव्यं, मधुमेहस्यासाध्यत्वादेव| अन्यत्रापि मधुमेहशब्देन मेहमात्रमुक्तम्| यथा– “ गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः| अचिकित्स्या भवन्त्येते बलमांसपरिक्षयात्|” (च. इ. अ. ९) इति| यदि ह्यत्र मधुमेहोऽभीष्टः स्यात्तदा बलमांसपरिक्षयादिति न कृतं स्यात्, तस्य स्वरूपत एवासाध्यत्वात्| यथा कियन्तःशिरसीयाध्याये “उपेक्षयाऽस्य जायन्ते पिडका मधुमेहिकाः|” (च. सू. अ. १७) इत्यादिना या मधुमेहसम्बन्धित्वेनोक्तास्ता एव “प्रमेहिणां याः पिडका मयोक्ताः” (च. चि. अ. ६) इत्यन्तेन च चिकित्सास्थाने प्रमेहिमात्रसम्बन्धितया अनूद्य चिकित्सायां संयोजिताः| तस्माद्भाविनीं मधुमेहतामाश्रित्य सर्व एव मेहा मधुमेहशब्दवाच्याः| उक्तं हि वाग्भटे– “मधुरं यच्च मेहेषु प्रायो मध्विव मेहति| सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः||” (वा. नि. अ. १०) इति| गदाधरेण तु पिडकासम्बन्धेनैव मधुमेहत्वमुक्तं, यतश्चरके कियन्तःशिरसीयाध्याये (च. सू. अ. १७) मधुमेहमभिधाय पिडका उक्ता इति| तन्न मनोहरं, तत्र मधुमेहशब्देन प्रमेहमात्राभिधानात्| यदि तु मधुमेह एवाभीष्टः स्यात्, तदा “उपेक्षयाऽस्य जायन्ते” इति उपेक्षणाभिधानमनुपपन्नं स्यात्, पिडकानां च मधुमेहभवानां चिकित्सोपदेशो व्यर्थः स्यादिति| कुलजमेहस्यासाध्यताप्रसङ्गेनापरेषामपि कुलजानामसाध्यत्वमाह– ये चापीत्यादि| केचिदिति कुष्ठादयः| कुलजा इति पितृपितामहादिसम्भूताः| एतेन प्रमेहिपितृपितामहमातामहस्यापि प्रमेहमसाध्यं दर्शयति| ननु, यस्य पितामहः प्रमेही तस्य पिताऽपि प्रमेही, प्रमेहिजातत्वात्; तथाच सति “जातः प्रमेही मधुमेहिनो वा न साध्य उक्तः स हि बीजदोषात्|” इत्यनेनैव गतार्थम्| नैवं, न हि प्रमेहिणो जात इत्येतावता उत्पन्नमात्र एव प्रमेही भवति, किं तर्हि कालवशेन दुष्टेरभिव्यक्त्या; यथा– कुष्ठिजातस्य कुष्ठम्; एतेन यदा अनतिदुष्टबीजेन प्रमेहिजातेन पित्रा जन्यते पुरुषः प्रमेही सोऽप्यसाध्य इति| कुलजा इत्यनेनैव मेहस्याप्यसाध्यतायां लब्धतायां पुनस्तद्वचनं प्रमेहिणां प्रायेण सन्तानानुबन्धित्वप्रदर्शनार्थम्| उक्तं च– ‘ प्रमेहोऽनुषङ्गिणाम्’ (च. सू. अ. २५) इति||२२||
Adhikarana upekShayA hi kaphapittajAnAmapi madhumehatvaM, dhAtukShayAvaraNAbhyAM kupitavAtena madhumehasambhavashca (23-25) · Śloka 25
सर्व एव प्रमेहास्तु कालेनाप्रतिकारिणः |
मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि ||२३||
(सु. नि. अ. ६) |
मधुमेहे मधुसमं जायते स किल द्विधा |
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथेऽथवा ||२४||
आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयन् |
क्षणात् क्षीणः क्षणात् पूर्णो भजते कृच्छ्रसाध्यताम् ||२५||
(वा. नि. अ. १०) |
उपेक्षया हि पित्तकफजानामपि मधुमेहत्वं प्रदर्शयितुमाह– सर्व एवेत्यादि| धातुक्षयावरणाभ्यां कुपितवातेन मधुमेहसम्भवमाह– मधुमेह इत्यादि| मधुसममिति ‘मूत्रम्’ इति शेषः| स इति मधुमेहः| सावरणलिङ्गमाह– आवृत इत्यादि| आवृत इति आवृतवातकृतः| दोषलिङ्गानीति येन पित्तादिना आवृतस्तस्य वातस्य च लिङ्गानि प्रदर्शयति| अनिमित्तम् अकस्मात्| क्षीणः क्षणात् क्षणात् पूर्ण इति आवरणेन पुनः पूर्णो भवन् कृच्छ्रसाध्यो भवति| तथाच चरकः– “समारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः| दर्शयत्याकृतिं गत्वा क्षयमाप्याय्यते पुनः||” (च. सू. अ. १७) इति| धातुक्षयकुपितवातजस्य तु केवलवातजमेव लिङ्गम्| गदाधरस्त्वाह– मधुमेहः सावरणवायुनैव क्रियते| यदाह चरकः– “तैरावृतगतिर्वायुरोज आदाय गच्छति| यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते||” (च. सू. अ. १७) इति| केवलवातजेषु तु कषायादिवमनाद्यतियोगादिकृतेषु धातुक्षयजेषु वायोरावरणं नास्तीति भेदः||२३-२५||
Adhikarana sarveShAM pramehANAM madhumehavAcitve nimittam (26) · Śloka 26
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति |
सर्वेऽपि मधुमेहाख्या माधुर्याच्च तनोरतः ||२६||
(वा. नि. अ. १०) |
मधुमेहशब्दप्रवृत्तौ निमित्तमाह– मधुरं यच्च मेहेष्वित्यादि||२६||
Adhikarana pramehopekShayA piDakAsambhavaH (27-28) · Śloka 28
शराविका कच्छपिका जालिनी विनताऽलजी |
मसूरिका सर्षपिका पुत्रिणी सविदारिका ||२७||
विद्रधिश्चेति पिडकाः प्रमेहोपेक्षया दश |
सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ||२८||
(वा. नि. अ. १०) |
प्रमेहोपेक्षया पिडकासम्भवं दर्शयितुमाह– शराविकेत्यादि| इह दशपिडकासु विनतायाः पाठो भोजविरुद्धः, भोजे हि नव पिडकाः; तद्यथा– “शराविका सर्षपिका कूर्मिका जालिनी तथा| कुलत्थिकाऽलजी पुत्री विदारी विद्रधी तथा|| नवैताः पिडका ज्ञेयाः” इत्यादि| कुलत्थिका भोजे मसूरिका ज्ञेया; किन्तु भोजे एव विनता न्यूनेति वक्तुं सुकरं, सुश्रुते चरके च विनताया दर्शनात्| चरके तु सप्त पिडकाः| तद्यथा– “शराविका कच्छपिका जालिनी सर्षपी तथा| अलजी विनताख्या च विद्रधी चेति सप्तमी||” (च. सू. अ. १७) इति| तत्र प्रायोभावात् सप्तानामभिधानम्| यतः तेनैव कियन्तःशिरसीये “तथाऽन्याः पिडकाः सन्ति” इत्यादिना अधिकपिडकासम्भवः सूचितः| प्रमेहोपेक्षयेत्यभिधानं मधुमेहेन प्रमेहमात्रेण च पिडकासम्भवं दर्शयति| अत एव “विना प्रमेहमप्येताः” (च. सू. अ. १७) इत्यत्र प्रमेहमात्रग्रहणं कृतम्| धामस्विति स्थानेषु||२७-२८||
Adhikarana sharAvikA-sarShapikA-kacchapikA-jAlinI-vinatA-putriNI-masUrikA-alajI-vidArikA-vidradhilakShaNam (29-33) · Śloka 34
अन्तोन्नता तु तद्रूपा निम्नमध्या शराविका |
गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी ||२९||
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः |
जालिनी तीव्रदाहा तु मांसजालसमावृता ||३०||
अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा |
महती पिडका नीला विनता नाम सा स्मृता ||३१||
महत्यल्पचिता ज्ञेया पिडका चापि पुत्रिणी |
मसूराकृतिसंस्थाना विज्ञेया तु मसूरिका ||३२||
रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत् |
विदारीकन्दवद्वृत्ता कठिना च विदारिका ||३३||
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा |३४|
(सु. नि. अ. ६) |
सर्वासामाकृतिमाह– अन्तोन्नतेत्यादि| तद्रूपेति शरावरूपा| अल्पचिता अल्पपिडकान्तराचिता| विद्रधेर्लक्षणैर्युक्तेत्यभिधानेन विद्रधेरस्या भेदो बोध्यः||२९-३३||–
Adhikarana piDakAnAmArambhakakAraNam (34-35) · Śloka 35
ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तन्मयाः ||३४||
(सु. नि. अ. ६) |
विना प्रमेहमप्येता जायन्ते दुष्टमेदसः |
तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहाः ||३५||
(च. सू. अ. १७) |
पिडकानामारम्भककारणमाह– ये यन्मया इत्यादि| तन्मया इति निर्देशः क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति ङीपं बाधित्वा टापा साधनीयः| तद्दोषं मत्वा कैश्चित् ‘तत्कृताः’ इति पाठान्तरं कृतम्| अयमत्र पिण्डार्थः– यो यद्दोषोल्बणो मेहस्तद्दोषोल्बणेनैव पिडका भवन्ति| ननु, जालिन्यां तीव्रदाहः पठितः, स च पित्तकृतः, भोजेऽपि जालिनी पित्तकृतैव पठिता; यथा– “परस्पराभिसम्बन्धा पिडका चैकदेशजा| पित्तोत्कटा दाहवती भृशरुग् जालिनी मता||” इति| तत्कथं जालिन्यां पित्तजत्वनियमात् ये यन्मया इत्यादिग्रन्थार्थसङ्गतिः? नैवं, प्रचुरपिडकानां तन्मयत्वेन बाहुल्येनाभिधानं; यथा– छत्रिणो गच्छन्तीति गदाधरः; किंवा स्वमहिम्ना जालिनी पित्तप्रधाना भवति, श्लेष्मवातजमेहभवत्वेन श्लेष्मवातप्रधाना च; तेन दोषत्रयप्रधानत्वात् सर्वदा सा भवति| अन्यस्त्वाह– तीव्रदाहत्वं पित्तोत्कटत्वं च पैत्तिकमेहजायां जालिन्यामवगन्तव्यम्, अन्यमेहजा तु अन्यदोषोत्कटा निर्दाहा च| अत एव चरके जालिनी कफोल्बणा निर्दाहा एव पठिता| तद्यथा– “शराविका कच्छपिका जालिनी चेति दुःसहाः| जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसाम्|| स्तब्धा सिराजालवती स्निग्धस्रावा महाश्रया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी||” (च. सू. अ. १७) इति| न चातिप्रसक्तिः, उक्तं हि चरके समर्थ्यते; अस्मिंश्च समाधाने ये यन्मया इत्यादि न व्याहन्यते| चरकभोजवचनयोश्चाविरोधार्थं यत्नान्तरं मृग्यम्| कार्तिकस्त्वाह– पाककाले पित्तोत्कटत्वं, “तस्माद्धि सर्वे परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः|” (सु. सू. अ. १७) इति वचनात्; एतत्तु सर्वत्राविशेषान्नाद्रियन्ते||३४-३५||
Adhikarana asAdhyapiDakAlakShaNam (36) · Śloka 36
गुदे हृदि शिरस्यंस्ये पृष्ठे मर्मसु चोत्थिताः |
सोपद्रवा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ||३६||
(सु. नि. अ. ६) |
असाध्यपिडकालक्षणमाह– गुदे इत्यादि| सोपद्रवा इति उपद्रवाश्च तृट्कासादयः| यथाह चरकः– “तृट्कासमांससङ्कोचमोहहिक्कामदज्वराः| विसर्पमर्मसंरोधाः पिडकानामुपद्रवाः||” (च. सू. अ. १७) इति| पिडकास्तु प्रायेणाधःकाय एव, दोषदूष्याणामधःप्रसरणात्, “रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः||” (सु. चि. अ. १२) इति वचनाच्च| केचिदाहुः– स्त्रीणां प्रमेहो न भवतीति| तथाच तन्त्रान्तरे– “रजःप्रसेकान्नारीणां मासि मासि विशुध्यति| सर्वं शरीरं दोषाश्च न प्रमेहन्त्यतः स्त्रियः||” इति| किन्तु स्त्रीषु प्रमेहदर्शनात्, एतद्धेतुबलादन्यरोगासम्भवत्वाच्चैतत् प्रायोवादमाश्रित्योक्तम्| मेहनिवृत्तिलक्षणं च सुश्रुते पठितम्| तद्यथा– “प्रमेहिणो यदा मूत्रमनाविलमपिच्छिलम्| विशदं तिक्तकटुकं तदाऽऽरोग्यं प्रचक्षते||” (सु. चि. अ. १२) इति||३६||
Adhikarana puShpikA · Śloka 33
इति श्रीमाधवकरविरचिते माधवनिदाने प्रमेहप्रमेहपिडकानिदानं समाप्तम् ||३३||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां प्रमेहप्रमेहपिडकानिदानं समाप्तम्||३३||