Adhikarana ashmarInidAnaM samprAptishca (1-2) · Śloka 2
अथाश्मरीनिदानम् |
वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजाऽपरा |
प्रायः श्लेष्माश्रयाः सर्वा अश्मर्यः स्युर्यमोपमाः ||१||
विशोषयेद्बस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा |
यदा तदाऽश्मर्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः ||२||
नैकदोषाश्रयाः सर्वाः... |
(च. चि. अ. २६) |
मूत्ररोधित्वसाधर्म्यादश्मरीमाह– वातेत्यादि| श्लेष्माश्रया इति श्लेष्मसमवायिकारणाः, शुक्रजां विना; तत्र शुक्रस्यैव समवायिकारणत्वात्| तथाच दृढबलः– “विशोषयेद्बस्तिगतं सशुक्रं” (च. चि. अ. २६) इत्यादि, एतच्च सामान्योक्तमपि विशेषेण सम्बध्यते| यथा– हल्ङ्यादिसूत्रे ‘दीर्घात्’ इति विशेषणं ङ्याभ्यां सम्बध्यते, न तु हला| अत एवात्र प्रायोग्रहणं कृतवान्| अन्ये तु शुक्राश्मर्यामपि कफकारणत्वमिच्छन्त्येव, विरोधाभावात्| प्रायःशब्दश्चात्र विशेषार्थः| यमोपमा इति असति चिकित्सिते अवश्यमेव मारकत्वात्| विशोषयेदित्यादि पित्तेष्विवेति वातशोषितेषु| नैकदोषाश्रय इति त्रिदोषजाः, उद्गतदोषेण व्यपदेशः||१-२||
Adhikarana ashmarIpUrvarUpam (3) · Śloka 3
... अथासां पूर्वलक्षणम् |
बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ||३||
मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः |
(वा. नि. अ. ९) |
पूर्वरूपमाह– अथेत्यादि| बस्तसगन्धत्वं बस्तसमानगन्धत्वम्||३||–
Adhikarana ashmarIsAmAnyalakShaNam (4-5) · Śloka 5
सामान्यलिङ्गं रुङ्नाभिसेवनीबस्तिमूर्धसु ||४||
विशीर्णधारं मूत्रं स्यात्तया मार्गे निरोधिते |
तद्व्यपायात् सुखं मेहेदच्छं गोमेदकोपमम् ||५||
तत्सङ्क्षोभात् क्षते सास्रमायासाच्चातिरुग्भवेत् |
(वा. नि. अ. ९) |
तासां सामान्यलक्षणमाह– सामान्येत्यादि| रुक् शूलं, बस्तिमूर्धा नाभेरधोदेशः| विशीर्णधारं सविच्छेदधारम्| तया अश्मर्या| मार्गो मूत्रवाहिस्रोतः| तद्व्यपायात् वायुना कदाचिदश्मरीकृतमार्गरोधव्यपगमात्| मेहेत् मूत्रयेत्| अच्छमनाविलम्| गोमेदकोपममिति गोमेदको लोहितमणिस्तद्वर्णम्| तत्सङ्क्षोभात् निरुद्धमार्गमूत्रेण पीडनादश्मरीसम्पाताद्वा क्षते जाते मूत्रवहादौ, सास्रं सरक्तं मूत्रं प्रवर्तते| आयासात् प्रवाहणादिजनितक्लमात्||४-५||–
Adhikarana vAtajAshmarIlakShaNam (6-7) · Śloka 7
तत्र वाताद्भृशं चार्तो दन्तान् खादति वेपते ||६||
गृह्णाति मेहनं नाभिं पीडयत्यनिशं क्वणन् |
सानिलं मुञ्चति शकृन्मुहुर्मेहति बिन्दुशः ||७||
श्यावारुणाऽश्मरी चास्य स्याच्चिता कण्टकैरिव |
(वा. नि. अ. ९) |
वातजामाह– तत्रेत्यादि| क्वणन् आर्तनादं कुर्वन्| सानिलं सशब्दं मूत्रप्रवृत्त्यर्थं कृतातिकुन्थनात्| मेहति बिन्दुश इति बिन्दुं बिन्दुं मूत्रयति, “बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्” इति अल्पार्थे शस्प्रत्ययः| श्यावेत्यादि| अश्मर्या आकारकथनम्; एतच्चाकृष्टानां प्रत्यक्षसंवादेन शास्त्रप्रामाण्यख्यापनार्थमित्याहुः, आकृष्टासु दोषोचितचिकित्सार्थमित्यन्ये||६-७||–
Adhikarana pittajAshmarIlakShaNam (8) · Śloka 8
पित्तेन दह्यते बस्तिः पच्यमान इवोष्मवान् ||८||
भल्लातकास्थिसंस्थाना रक्तपीताऽसिताऽश्मरी |
(वा. नि. अ. ९) |
पित्तजामाह– पित्तेनेत्यादि| पच्यमानः क्षारेणेव| ऊष्मवान् उष्णस्पर्शः| असिता कृष्णा||८||–
Adhikarana shleShmajAshmarIlakShaNam (9) · Śloka 9
बस्तिर्निस्तुद्यत इव श्लेष्मणा शीतलो गुरुः ||९||
अश्मरी महती श्लक्ष्णा मधुवर्णाऽथवा सिता |
(वा. नि. अ. ९) |
श्लेष्मजामाह– बस्तिरित्यादि| श्लक्ष्णा मसृणा| मधुवर्णा ईषत् पिङ्गलशुक्ला||९||–
Adhikarana pUrvoktAshmarINAM sukhasAdhyalakShaNam (10) · Śloka 10
एता भवन्ति बालानां तेषामेव च भूयसा ||१०||
आश्रयोपचयाल्पत्वाद्ग्रहणाहरणे सुखाः |
(वा. नि. अ. ९) |
एता इति त्रिदोषजा बालानां स्युः, तेषां तन्निदानाभ्यासात्| भूयसा प्रायेण, तेन महतामपि त्रिदोषजा भवन्ति| तेषामेव बालानां ग्रहणाहरणे सुखा इति सम्बन्धः| आश्रयोपचयाल्पत्वादिति आश्रयो बस्तिः, उपचयः स्थौल्यं, तयोरल्पत्वं; तच्च तद्देहाल्पत्वात्| आहरणं पाटनादिपूर्वकमाकर्षणं, ग्रहणं तदर्थमेवाङ्गुलिभ्यां धारणम्| उक्तं हि सुश्रुते– “प्रायेणैतास्तिस्रोऽश्मर्यो दिवास्वप्नसमशनाध्यशनशीतस्निग्धमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति, तेषामेवाल्पबस्तिकायत्वादल्पमांसोपचयाच्च बस्तेः सुखग्रहणाहरणा भवन्ति|” (सु. नि. अ. ३) इति||१०||–
Adhikarana shukrAshmaryA nidAnasamprAptipUrvakaM lakShaNam (11-13) · Śloka 13
शुक्राश्मरी तु महतां जायते शुक्रधारणात् ||११||
स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः |
शोषयत्युपसङ्गृह्य शुक्रं तच्छुक्रमश्मरी ||१२||
बस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी |
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ||१३||
पीडिते त्ववकाशेऽस्मिन्... |
(वा. नि. अ. ९) |
शुक्राश्मरीमाह– शुक्रेत्यादि| तुशब्दोऽवधारणे; तेन महतामेव नतु बालानां, तेषां वक्ष्यमाणसम्प्राप्तेरभावात्; न तु शुक्राभावात्, अन्यथा षड्धातुकत्वं स्यात्| शुक्रधारणादुपस्थितशुक्रवेगस्य मैथुनाकरणात्| मुष्कयोरन्तरे ‘मेढ्रेण सह’ इति शेषः| सुश्रुते हि ‘मेढ्रवृषणयोरन्तरे’ (सु. नि. अ. ३) इत्येवोक्तम्| मेढ्रवृषणमध्यगतबस्तिमुख इत्यर्थः, तत्रैव शुक्रवहस्रोतसो बस्तिमुखेन सह सम्बन्धात्| तथाभूतं शुक्रमेवाश्मरीति| बस्तिरुक् बस्तिशूलं, मुष्कश्वयथुकारिणी वृषणयोः शोथकारिणी| तस्यां शुक्राश्मर्याम्| एति वर्तते| तुशब्दोऽवधारणे| अवकाशेऽस्मिन्निति मेढ्रवृषणयोरन्तरे| अस्मिन्नेव पीडिते सति विलीयते प्रविलयमापद्यत इत्यर्थः| अत एव सुश्रुतः– “पीडितमात्रे च तस्मिन्नेवावकाशे प्रविलयमापद्यते|” (सु. नि. अ. ३) इति||११-१३||–
Adhikarana sharkarAlakShaNam (14) · Śloka 14
...अश्मर्येव च शर्करा |१४|
(वा. नि. अ. ९) |
सैवावस्थाभेदादश्मरी शर्करा, पञ्चमी न भवतीत्याह– अश्मर्येव चेति| चकारात् सिकताऽपि भवतीति मन्तव्यम्| अत एव ‘शर्करा सिकतान्विता’ इति वक्ष्यति| शर्करासिकतयोश्च महत्त्वाल्पत्वाभ्यां भेदः|१४|–
Adhikarana ashmaryupadravAH (14-16) · Śloka 16
अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे ||१४||
निरेति सह मूत्रेण प्रतिलोमे निरुध्यते |
(वा. नि. अ. ९) |
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्यादुपद्रवान् ||१५||
दौर्बल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिम् |
पाण्डुत्वमुष्णवातं च तृष्णां हृत्पीडनं वमिम् ||१६||
(सु. नि. अ. ३) |
कथमश्मरी शर्करा भवतीत्याह– अणुश इत्यादि| अणुशोऽल्पशः| अत्रार्थे सुश्रुतः– ‘पवनेऽनुगुणे सा तु निरेत्यल्पा विशेषतः| सा भिन्नमूर्तिर्वातेन शर्करेत्यभिधीयते||’ (सु. नि. अ. ६) इति| मूत्रस्रोतःप्रवृत्ता सा सक्तेति मूत्रमार्गगा सती संलग्नेत्यर्थः||१४-१६||
Adhikarana ashmaryA asAdhyalakShaNam (17) · Śloka 17
प्रशूननाभिवृषणं बद्धमूत्रं रुजातुरम् |
अश्मरी क्षपयत्याशु सिकता शर्करान्विता ||१७||
(सु. सू. अ. ३३) |
असाध्यलक्षणमाह– प्रशूनेत्यादि| रुजातुरं शूलपीडितमित्यर्थः||१७||
Adhikarana puShpikA · Śloka 32
इति श्रीमाधवकरविरचिते माधवनिदानेऽश्मरीनिदानं समाप्तम् ||३२||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामश्मरीनिदानं समाप्तम्||३२||