Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

43. sadyōvraṇanidānam

Adhikarana sadyovraNanidAnaM, bhedAshca (1-2) · Śloka 2

नानाधारमुखैः शस्त्रैर्नानास्थाननिपातितैः | भवन्ति नानाकृतयो व्रणास्तांस्तान्निबोध मे ||१|| छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च | घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ||२|| (सु. चि. अ. २) |

🔊 Audio coming soon

शारीरव्रणमभिधायागन्तुव्रणमाह– नानाधारमुखैरित्यादि| नाना धारा मुखानि च येषां तानि तथा| स्थानविशेषोऽपि शस्त्रनिपाततुल्यत्वेनाकृतिविशेषे हेतुरित्यत उक्तं– नानास्थाननिपातितैरिति||१-२||

Adhikarana chinnalakShaNam (3) · Śloka 3

तिर्यक् छिन्न ऋजुर्वाऽपि यो व्रणस्त्वायतो भवेत् | गात्रस्य पातनं तद्धि छिन्नमित्यभिधीयते ||३|| (सु. चि. अ. २) |

🔊 Audio coming soon

छिन्नलक्षणमाह– तिर्यगित्यादि| तिर्यगिति तिर्यग्व्यवस्थितः| छिन्नः छेदसम्पन्नः| ऋजुरवक्रः| गात्रस्य पातनमिति गात्रावयवस्य तदेकदेशरूपस्य वा गात्रस्य पातनम्||३||

Adhikarana bhinnalakShaNam (4) · Śloka 4

शक्तिदन्तेषु खड्गाग्रविषाणैराशयो हतः | यत्किञ्चित् प्रस्रवेत्तद्धि भिन्नलक्षणमुच्यते ||४|| (सु. चि. अ. २) |

🔊 Audio coming soon

भिन्नलक्षणमाह– शक्तीत्यादि| विषाणं दन्तः शृङ्गं च| एतद्भिन्नलक्षणं पारिभाषिकं; तेन व्यध एवाशयदेशे भेद उच्यते, आशयदेशरहिते तु व्यधः| यत्किञ्चिदित्यादि| यस्य मूत्ररुधिरादेर्य आशयो भिन्नः स तत् प्रस्रवेत्; तेन बस्तिर्भिन्नो मूत्रं, रुधिराशयो रुधिरमित्यादि||४||

Adhikarana koShThanirUpaNaM, tadbhedalakShaNaM ca (5-10) · Śloka 10

स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च | हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ||५|| तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते | मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ||६|| मूर्छा श्वासस्तृषाऽऽध्मानमभक्तच्छन्द एव च | विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता ||७|| लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च | हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु ||८|| आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि | आध्मानमतिमात्रं च शूलं च भृशदारुणम् ||९|| पक्वाशयगते चापि रुजा गौरवमेव च | अधःकाये विशेषेण शीतता च भवेदिह ||१०|| (सु. चि. अ. २) |

🔊 Audio coming soon

यत्र भूयसाऽऽमाशयानां स्थाने भेदव्यपदेशस्तमाह– स्थानानीत्यादि| आमस्य स्थानमामाशयः अग्नेः पच्यमानाशयः, मलस्य पक्वाशयः, मूत्रस्य बस्तिः, रुधिरस्य यकृत्प्लीहानौ, हृत् हृदयं, उण्डुक इक्षुरसपाकमलवद्यः शोणितमलस्तज्ज उण्डुकः, स चान्त्रदेशे व्यवस्थितः पुरीषाधानमिति, फुप्फुस इति हृदयस्य वामपार्श्वे रक्ताधारः ‘फुप्फुस’ इति ख्यातः| मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छतीति बस्त्यादौ भिन्ने मेहनगुदाभ्यां रक्तं निःसरति, आमाशयादिभेदे तु मुखघ्राणाभ्यां रक्तनिर्गमः| स्वेदास्राव इति स्वेदस्यात्यन्तस्रुतिः| पार्श्वयोश्चापीति शूलमिति सम्बन्धः| मे इत्यव्ययं मत्त इत्यर्थः| आमाशयस्थ इत्यादि आध्मानं रक्तावततत्वाद्वायोः| रुजा शूलम्| गौरवं रक्तबहुत्वात्| अधःकाये विशेषेण शीततेति व्याधिप्रभावात्||५-१०||

Adhikarana viddhalakShaNam (11) · Śloka 11

सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयं विना | उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत् ||११|| (सु. चि. अ. २) |

🔊 Audio coming soon

विद्धलक्षणमाह– सूक्ष्मास्यशल्येत्यादि| आशयं विनेति उक्तामाद्याशयं विना| उत्तुण्डितमनिर्गतशल्योपलक्षणं, तेनानुत्तुण्डितमुत्तुण्डितं च विद्धं गृह्यते| निर्गतेन च निर्गतमुखं विद्धं सर्वथा निर्गतं च गृह्यते; तेन तन्त्रान्तरे “विद्धमुत्तुण्डितमनुत्तुण्डितं भिन्नं निर्भिन्नम्” इति यच्चतुष्प्रकारमभिहितं तत् सर्वं सङ्गृहीतम्||११||

Adhikarana kShatalakShaNam (12) · Śloka 12

नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् | विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिधीयते ||१२|| (सु. चि. अ. २) |

🔊 Audio coming soon

क्षतमाह– नातिच्छिन्नमित्यादि| नातिच्छिन्नं नावगाढच्छेदम्| नातिभिन्नमिति नातिविदीर्णाशयम्| उभयोर्लक्षणान्वितमिति स्तोकच्छेदस्तोकावदरणयोगादुभयलक्षणयुक्तम्| विषमं व्रणमङ्गे यदिति अङ्गवैषम्यकरं व्रणं यत्तत् क्षतम्||१२||

Adhikarana piccitalakShaNam (13) · Śloka 13

प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम् | सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम् ||१३|| (सु. चि. अ. २) |

🔊 Audio coming soon

पिच्चितलक्षणमाह– प्रहारेत्यादिना| प्रहारो मुद्गरादिना, पीडनं कपाटादिना| पृथुतामिति चिप्पिटताम्| मज्जरक्तपरिप्लुतमित्यनेन व्रणभावात् मज्जरक्तागमं दर्शयति| तेन यत् व्रणं पिच्चितं, तद्भग्नस्य तथा सद्योव्रणस्य च चिकित्साविषयम्||१३||

Adhikarana ghRuShTalakShaNam (14) · Śloka 14

घर्षणादभिघाताद्वा यदङ्गं विगतत्वचम् | उषास्रावान्वितं तच्च घृष्टमित्यभिधीयते ||१४|| (सु. चि. अ. २) |

🔊 Audio coming soon

घृष्टलक्षणमाह– घर्षणादित्यादि| घर्षणात् कर्कशवस्त्रादिना| विगतत्वचमिति पाठं त्यक्त्वा ‘विगतत्वचा’ इति पाठः साधुः, विगतत्वचोपलक्षितमङ्गम्| उषा ऊष्मनिर्गमवद्व्यथा||१४||

Adhikarana sashalyavraNalakShaNaM, koShThagatashalyalakShaNaM ca (15-16) · Śloka 16

श्यावं सशोथं पिडकाचितं च मुहुर्मुहुः शोणितवाहिनं च | मृदूद्गतं बुद्बुदतुल्यमांसं व्रणं सशल्यं सरुजं वदन्ति ||१५|| त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा | कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ||१६|| (सु. चि. अ. २) |

🔊 Audio coming soon

कोष्ठभेदमाह– त्वच इत्यादि| त्वच इति सप्त त्वचः| सिरादीनीति मांसस्नाय्वस्थिसन्धीनि| परिहृत्य वेति परिहारपक्षेऽपि कोष्ठभेदस्य सङ्गतत्वात्; सिराव्यधलिङ्गं चात्रैव ‘सुरेन्द्रगोपप्रतिमं’ इत्यादिना व्यक्तीभविष्यति| उक्तानिति प्रनष्टशल्यविज्ञानीये| तत्र ह्युक्तं– “कोष्ठगते त्वाटोपानाहौ मूत्रपुरीषाहारदर्शनं च व्रणमुखाद्भवति|” (सु. सू. अ. २६) इति||१५-१६||

Adhikarana asAdhyakoShThabhedali~ggam (17) · Śloka 17

तत्रान्तर्लोहितं पाण्डुशीतपादकराननम् | शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत् ||१७||

🔊 Audio coming soon

असाध्यकोष्ठभेदलिङ्गमाह– तत्रेत्यादि| तत्र कोष्ठे| अन्तर्लोहितमिति अभ्यन्तरस्थितरक्तम्, अनिःसृतरक्तमिति यावत्| आनद्धमित्यानाहवन्तम्||१७||

Adhikarana mAMsasirAsnAyvasthisandhimarmasu pa~jcasu kShateShu sAmAnyali~ggam (18-19) · Śloka 19

भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च | स्रस्ताङ्गता मूर्छनमूर्ध्ववातस्तीव्रा रुजा वातकृताश्च तास्ताः ||१८|| मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तथैव | दशार्धसङ्ख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्तम् ||१९|| (सु. सू. अ. २५) |

🔊 Audio coming soon

मांससिरास्नाय्वस्थिसन्धिमर्मसु पञ्चसु क्षतेषु सामान्यलिङ्गमाह– भ्रम इत्यादि| विचेष्टनं विरुद्धचेष्टनं करचरणादिक्षेपादिकम्| ग्लानिर्बलक्षयः| स्रस्ताङ्गता अङ्गसन्धिविस्रंसवद्व्यथा| मूर्छनमिन्द्रियमोहः| इन्द्रियार्थोपरम इन्द्रियाणां स्वविषयेषु रूपादिषु उपरमो ग्रहणाशक्तिः| दशार्धसङ्ख्येषु पञ्चसु||१८-१९||

Adhikarana marmarahitAnAM sirAdInAM viddhali~ggam (20-23) · Śloka 23

सुरेन्द्रगोपप्रतिमं प्रभूतं रक्तं स्रवेत्तत्क्षयजश्च वायुः | करोति रोगान् विविधान् यथोक्तान् सिरासु विद्धास्वथ वा क्षतासु ||२०|| कौब्ज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च | चिराद्व्रणो रोहति यस्य चापि तं स्नायुविद्धं पुरुषं व्यवस्येत् ||२१|| शोफाभिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्वत एव शोथः | क्षतेषु सन्धिष्वचलाचलेषु स्यात् सर्वकर्मोपरमश्च लिङ्गम् ||२२|| घोरा रुजो यस्य निशादिनेषु सर्वास्ववस्थासु च नैति शान्तिम् | भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं व्यवस्येत् ||२३|| (सु. सू. अ. २५) |

🔊 Audio coming soon

सिरादयो मर्मरूपा अमर्मरूपाश्च सन्ति, तत्र पूर्वं मर्मरहितानां सिरादीनां विद्धलिङ्गमाह– सुरेन्द्रगोपेत्यादि| यथोक्तानिति शोणितवर्णनीयोक्तान्| तत्र चोक्तं– “तदतिप्रवृत्तं शिरोभितापमान्ध्यमाक्षेपादींश्च करोति|” इति| विद्धासु बाणादिना| क्षतासु खड्गादिना| कौब्ज्यं कुब्जता| तुमुला गहनाः| सन्धिष्वचलाचलेष्विति अचलेषु निश्चेष्टेषु, चलेषु चेष्टावत्सु; सन्धयश्चलाचलभेदेन द्विविधाः| तथाच सुश्रुतः– “शाखासु हन्वोः कट्यां च चेष्टावन्तश्च सन्धयः| शेषास्तु सन्धयः सर्वे विज्ञातव्याः स्थिरा बुधैः||” (सु. शा. अ. ५) इति||२०-२३||

Adhikarana sirAdimarmaviddhali~ggam (24) · Śloka 24

यथास्वमेतानि विभावयेच्च लिङ्गानि मर्मस्वभिताडितेषु |२४| (सु. सू. अ. २५) |

🔊 Audio coming soon

मर्मरहितानां सिरादीनां विद्धलक्षणमभिधाय सिरादिमर्मविद्धलिङ्गमतिदेशयन्नाह– यथास्वमेतानीत्यादि| विभावयेच्चेति चकारो भिन्नक्रमे; तेन एतानि लिङ्गानि तथा सामान्यलिङ्गानि च जानीयादित्यर्थः|२४|–

Adhikarana mAMsamarmaNo viddhasya li~ggam (24) · Śloka 24

पाण्डुर्विवर्णः स्पृशितं न वेत्ति यो मांसमर्मण्यभिपीडितः स्यात् ||२४|| (सु. सू. अ. २५) |

🔊 Audio coming soon

अनुक्तमांसमर्मणो विद्धस्य लिङ्गमाह– पाण्डुर्विवर्ण इत्यादि| ननु, सिरादिविद्धलिङ्गवत् मांसविद्धलिङ्गमपि पूर्वं कुतो नोपदिष्टम्? उच्यते– केवलमांसविद्धस्याबहुव्यापत्करत्वात् पूर्वमनुपादानम्||२४||

Adhikarana sarvavraNAnAmupadravAH (25-26) · Śloka 26

विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः | मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः ||२५|| कासश्छर्दिरतीसारो हिक्का श्वासः सवेपथुः | षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ||२६|| (च. चि. अ. २५) |

🔊 Audio coming soon

सर्वव्रणानामुपद्रवानाह– विसर्प इत्यादि||२५-२६||

Adhikarana puShpikA · Śloka 43

इति श्रीमाधवकरविरचिते माधवनिदाने सद्योव्रणनिदानं समाप्तम् ||४३||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां सद्योव्रणनिदानं समाप्तम्||४३||