Adhikarana vraNasya dvaividhyaM, vAtaja-pittaja-kaphaja-raktaja-dvandvaja-sannipAtajavraNalakShaNaM ca (1-4) · Śloka 5
अथ शारीरव्रणनिदानम् |
द्विधा व्रणः स विज्ञेयः शारीरागन्तुभेदतः |
दोषैराद्यस्तयोरन्यः शस्त्रादिक्षतसम्भवः ||१||
स्तब्धः कठिनसंस्पर्शो मन्दस्रावो महारुजः |
तुद्यते स्फुरति श्यावो व्रणो मारुतसम्भवः ||२||
तृष्णामोहज्वरक्लेददाहदुष्ट्यवदारणैः |
व्रणं पित्तकृतं विद्याद्गन्धैः स्रावैश्च पूतिकैः ||३||
बहुपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः |
पाण्डुवर्णोऽल्पसङ्क्लेदश्चिरपाकी कफव्रणः ||४||
(च. चि. अ. २५) |
रक्तो रक्तस्रुती रक्ताद्द्वित्रिजः स्यात्तदन्वयैः |५|
शोथानामनुपक्रान्तानां व्रणभावापत्तेर्व्रणनिदानमाह– द्विधेत्यादि| ‘व्रण गात्रविचूर्णने’ इत्यस्माद्धातोर्व्रणस्य साधुत्वमुक्तम्| व्रणनिरुक्तिश्च सुश्रुतेन कृता| यथा– “वृणोति यस्माद्रूढेऽपि व्रणवास्तु न नश्यति| आदेहधारणाज्जन्तोर्व्रणस्तस्मान्निरुच्यते||” (सु. सू. अ. २१) इति| अन्य इत्यागन्तुः| आगन्तुव्रणे यद्यपि दोषस्तत्कालं तदात्वेन सञ्चयकोपप्रसरणशाली विकारकरणसमर्थः कल्पयितुं शक्यते, तथाऽपि सप्तरात्रं क्षतोष्मनिर्वापणाय मधुसर्पिरुपयोगात् शीतक्रियाविधानाच्च निजव्रणविलक्षणचिकित्सार्थं व्यपदिश्यते| रक्तस्यैकैकस्मिन् दोषे द्वन्द्वे च प्रसरमाह– द्वित्रिजः स्यात्तदन्वयैरित्यादि| रक्तान्वयैः एकैकदोषैर्द्वन्द्वैश्च; रक्तान्वितैरेकैकदोषैर्द्विजो व्रणः, रक्तान्वितैर्द्वन्द्वत्रयैस्त्रिजः; एवं दोषत्रयेऽपि रक्तसम्बन्ध ऊहनीयः; एवं पञ्चदशधा प्रसरो दोषाणामुपगृहीतो भवति| अथवाऽयमर्थः– तदन्वयैर्दोषद्वन्द्वत्रयान्वयैः, तेन दोषद्वयान्वयेन द्विजो द्वन्द्वजो व्रणः, दोषत्रयान्वयेन त्रिजः सन्निपातजः||१-४||–
Adhikarana vraNasya sAdhyAsAdhyavicAraH (5-6) · Śloka 6
त्वङ्मांसजः सुखे देशे तरुणस्यानुपद्रवः ||५||
धीमतोऽभिनवः काले सुखे साध्यः सुखं व्रणः |
गुणैरन्यतमैर्हीनस्ततः कृच्छ्रो व्रणः स्मृतः ||६||
सर्वैर्विहीनो विज्ञेयस्त्वसाध्यो भूर्युपद्रवः |
(च. चि. अ. २५) |
साध्यत्वादिकमाह– त्वगित्यादि| सुखे देश इति मर्मरहिते देहावयवे| अनुपद्रव इति ज्वरतृष्णाद्युपद्रवरहितः| धीमत इति हिताहितज्ञस्य| काले सुखे इति हेमन्ते शिशिरे च| अन्यतमैरिति उक्तानां गुणानां मध्ये एकतमैर्गुणैः||५-६||–
Adhikarana duShTavraNalakShaNam (7) · Śloka 8
पूतिः पूयातिदुष्टासृक्स्राव्युत्सङ्गी चिरस्थितिः ||७||
दुष्टो व्रणोऽतिगन्धादिः शुद्धलिङ्गविपर्ययः |८|
दुष्टव्रणलिङ्गमाह– पूतिरित्यादि| पूयातिदुष्टासृक्स्रावीति पूययुक्तमतिदुष्टं रक्तं सततं स्रवतीत्यर्थः| उत्सङ्गी कोटरवान्| चिरस्थितिरित्यनेन बहुलदोषसम्बन्धं दर्शयति| तथा चोक्तम्– “अनात्मवतामज्ञैश्चोपक्रान्ता व्रणाः प्रदूष्यन्ति, वृद्धत्वाद्दोषाणाम्||” (सु. सू. अ. २२) इति| दुष्टव्रण इत्यत्र ‘परिभाषित’ इति शेषः| अतिगन्धादिरिति आदिशब्देन वर्णस्राववेदनाकृतयो गृहीताः, अतिशब्देन च विशिष्यन्ते| शुद्धलिङ्गविपर्यय इति वक्ष्यमाणशुद्धलिङ्गविपरीतः पूतित्वादियोगादेव| ‘पूतिपूयातिदुष्टासृक्स्रावि’ इति क्वचित् पाठे पूतिशब्दः पूयदुष्टासृग्विशेषणम्||७||–
Adhikarana shuddhavraNalakShaNam (8) · Śloka 9
जिह्वातलाभोऽतिमृदुः श्लक्ष्णः स्निग्धोऽल्पवेदनः ||८||
सुव्यवस्थो निरास्रावः शुद्धो व्रण इति स्मृतः |९|
शुद्धव्रणलक्षणमाह– जिह्वेत्यादि| जिह्वातलाभ इति जिह्वातलवदाभा प्रभा यस्य स तथा; तलशब्दः स्वरूपवचनः| जिह्वातलाभशब्दश्चात्र मृदुश्लक्ष्णस्निग्धशब्दैः प्रत्येकमभिसम्बध्यते; तेन जिह्वातलाभो मृदुः श्लक्ष्णः स्निग्धश्चेत्याहुः| सुव्यवस्थ इति उत्सन्नोत्सङ्गित्वरहितः| निरास्राव इति दोषकृतस्रावरहितः| चरके तु पठ्यते– “नातिरक्तो नातिपाण्डुर्नातिस्रावो न चातिरुक्| न चोत्सन्नो न चोत्सङ्गी शुद्धो रोप्यः परं व्रणः||” (च. चि. अ. २५) इति, तद्दर्शनादत्र निरास्रावत्वं दोषकृतस्रावहीनत्वं, विगतवेदनत्वं च वाताद्युक्तवेदनारहितत्वम्| व्रणस्रावकृतवेदनायुक्तत्वं पुनरस्त्येव, अत एव रूढलिङ्गे अरुजमित्युक्तम्||८||–
Adhikarana ruhyamAnavraNalakShaNam (9) · Śloka 9
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः ||९||
स्थिराश्च पिडकावन्तो रोहतीति तमादिशेत् |
(सु. सू. अ. २३) |
रुह्यमाणलक्षणमाह– कपोतेत्यादि| कपोतवर्णप्रतिमा इति पाण्डुधूसराः, स्थिराः अदरणाः| ‘चिपिटिकावर्ण’ इति पाठान्तरे चिपिटिका मांसचेली, तद्वर्णः||९||–
Adhikarana samyagrUDhavraNalakShaNam (10) · Śloka 10
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् ||१०||
त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् |
(सु. सू. अ. २३) |
सम्यग्रूढलक्षणमाह– रूढवर्त्मानमित्यादि| रूढवर्त्मानमिति वर्त्म व्रणमार्गो व्रणवास्तु रूढो यस्य तम्| अन्तःपूयाभावादशूनमरुजं च| त्वक्सवर्णं त्वचासमानवर्णम्| समतलमिति समं तलेन जिह्वातलेन करतलेन वा| अग्रन्थिमित्यनेन उपरि उच्छूनताया निषेधः, समतलेन त्वधोनिम्नताया निषेधः||१०||–
Adhikarana vyAdhivisheSheNa vraNasya kRucchrasAdhyatvam (11-12) · Śloka 12
कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् ||११||
व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः |
वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् ||१२||
आगन्तुजो व्रणः सिद्ध्येन्न सिद्ध्येद्दोषसम्भवः |
(सु. सू. अ. २३) |
व्याधिविशेषेण व्रणस्य कृच्छ्रसाध्यत्वमाह– कुष्ठिनामित्यादि| कुष्ठविशेषेणात्यन्तदोषदूषितरक्तादिदूष्यत्वेन सर्वदा दुष्टिरधिकेति कृच्छ्रसाध्यत्वम्| विषजुष्टानामिति दूषीविषार्तानाम्| शोषे मधुमेहे च धातुक्षयात्, व्रणे च रक्तस्रावादाहारसंयमनादधिका दुष्टिः| वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेदिति मज्जा अस्थिस्नेहः, मस्तुलुङ्गं घृतिका| न सिध्येद्दोषसम्भव इति दोषैरतिदूषितानां वसादीनां स्रावस्य बहुव्यापत्तिकरत्वात्||११-१२||
Adhikarana vraNAnAM riShTarUpA gandhavikRutiH (13) · Śloka 13
मद्यागुर्वाज्यसुमनःपद्मचन्दनचम्पकैः ||१३||
सगन्धा दिव्यगन्धाश्च मुमूर्षूणां व्रणाः स्मृताः |
(सु. सू. अ. २८) |
रिष्टरूपां गन्धविकृतिमाह– मद्यागुर्वाज्येत्यादि| सुमना जाती, सगन्धाः समानगन्धाः, दिव्यगन्धा अपरिकल्पिताद्भुतपारिजातादिगन्धाः||१३||–
Adhikarana vraNasyAsAdhyalakShaNam (14-17) · Śloka 17
ये च मर्मस्वसम्भूता भवन्त्यत्यर्थवेदनाः ||१४||
दह्यन्ते चान्तरत्यर्थं बहिःशीताश्च ये व्रणाः |
दह्यन्ते बहिरत्यर्थं भवन्त्यन्तश्च शीतलाः ||१५||
प्राणमांसक्षयश्वासकासारोचकपीडिताः |
प्रवृद्धपूयरुधिरा व्रणा येषां च मर्मसु ||१६||
क्रियाभिः सम्यगारब्धा न सिध्यन्ति च ये व्रणाः |
वर्जयेदपि तान् वैद्यः संरक्षन्नात्मनो यशः ||१७||
(सु. सू. अ. २८) |
ये च मर्मस्वसम्भूता इति| मर्मसु न जाता अपि भृशवेदनाः, मर्मजातत्वेन हि भृशवेदनावत्त्वं युक्तम्| प्राणमांसक्षय इति प्राणक्षयेण शक्तिक्षयः, मांसक्षयेण चोपचयक्षयः| अनुक्तमप्यशेषं रिष्टं सङ्गृह्णन्नाह– क्रियाभिरित्यादि||१४-१७||
Adhikarana puShpikA · Śloka 42
इति श्रीमाधवकरविरचिते माधवनिदाने शारीरव्रणनिदानं समाप्तम् ||४२||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शारीरव्रणनिदानं समाप्तम्||४२||