Adhikarana shItapittasya nidAnapUrvikA samprAptiH (1) · Śloka 1
अथ शीतपित्तोदर्द-कोठनिदानम् |
शीतमारुतसंस्पर्शात् प्रदुष्टौ कफमारुतौ |
पित्तेन सह सम्भूय बहिरन्तर्विसर्पतः ||१||
त्वग्दुष्टिदोषत्रयजन्यत्वसामान्यात् कुष्ठानन्तरं शीतपित्तोदर्दादिनिदानम्| तस्य दोषत्रयजन्यत्वमाह– शीतमारुतसंस्पर्शादित्यादि| पित्तेन सह सम्भूयेति स्वहेतूपचितेन पित्तेन सम्भूय मिलित्वा| बहिरन्तरिति बहिस्त्वचि, अन्तः शोणितादौ; विसर्पतः प्रसरतः||१||
Adhikarana shItapittapUrvarUpam (2) · Śloka 2
पिपासारुचिहृल्लासदेहसादाङ्गगौरवम् |
रक्तलोचनता तेषां पूर्वरूपस्य लक्षणम् ||२||
पूर्वरूपमाह– पिपासेत्यादि| रक्तलोचनता प्रभावात्| पूर्वरूपस्य लक्षणमिति पूर्वरूपस्य स्वरूपमित्यर्थः; न तु लक्षणमत्र लिङ्गं, पिपासादिव्यतिरिक्तस्य पूर्वरूपस्याभावात्||२||
Adhikarana shItapittalakShaNam (3-4) · Śloka 4
वरटीदष्टसंस्थानः शोथः सञ्जायते बहिः |
सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवान् ||३||
उदर्दमिति तं विद्याच्छीतपित्तमथापरे |
वाताधिकं शीतपित्तमुदर्दस्तु कफाधिकः ||४||
उदर्दलक्षणमाह– वरटीत्यादि| सकण्डूस्तोदबहुलश्छर्दिज्वरविदाहवानिति अत्र कण्डूः कफात्, तोदो वातात्, छर्दिज्वरविदाहाः पित्तादिति दोषत्रयलिङ्गम्| अनयोः शीतपित्तोदर्दयोः समानसंस्थानत्वेऽपि वाताधिकं शीतपित्तं, कफाधिक उदर्दः||३-४||
Adhikarana udardasya dharmAntaram (5) · Śloka 5
सोत्सङ्गैश्च सरागैश्च कण्डूमद्भिश्च मण्डलैः |
शैशिरः कफजो व्याधिरुदर्द इति कीर्तितः ||५||
उदर्दस्य धर्मान्तरमाह– सोत्सङ्गैरित्यादि| उत्सङ्गैः मध्यनिम्नैः| शैशिर इति शिशिरसम्भवः||५||
Adhikarana koThalakShaNam (6) · Śloka 6
असम्यग्वमनोदीर्णपित्तश्लेष्मान्ननिग्रहैः |
मण्डलानि सकण्डूनि रागवन्ति बहूनि च |
उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते ||६||
त्वग्दुष्टिसाम्यादत्रैव कोठोऽभिधीयते– असम्यग्वमनेत्यादि| असम्यक्त्वं वमनस्यायोगमिथ्यायोगादिना, तथोदीर्णानां पित्तश्लेष्मान्नानां निग्रहो वेगविधारणं, तैर्मण्डलानि जायन्ते, स कोठः| अथवाऽयमर्थः– असम्यग्वमनोदीर्णौ पित्तश्लेष्माणौ, तथाऽन्ननिग्रह उपस्थितवेगस्यान्नस्य निग्रहः छर्दिनिग्रहः इति यावत्, तैर्हेतुभिर्भवन्ति| वमनस्य चासम्यक्त्वमयोगमिथ्यायोगाभ्यां ज्ञेयम्, अतियोगस्य तु पित्तश्लेष्मकोठाकरत्वात्| एतेन हेतुलक्षणभेदाद्भिन्नः कोठ उदर्दात्| कोठो निरनुबन्धः| तथा चोक्तम्– “क्षणिकोत्पादविनाशः कोठ इति निगद्यते तज्ज्ञैः|” इति सानुबन्ध उत्कोठोऽभिधीयते| सानुबन्धता च पुनःपुनर्भवनेन||६||
Adhikarana puShpikA · Śloka 50
इति श्रीमाधवकरविरचिते माधवनिदाने शीतपित्तोदर्दकोठानिदानं समाप्तम् ||५०||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शीतपित्तोदर्दकोठनिदानं समाप्तम्||५०||