Adhikarana amlapittasya nidAnapUrvakaM svarUpam (1) · Śloka 1
अथाम्लपित्तनिदानम् |
विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम् |
पित्तं स्वहेतूपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः ||१||
कोठहेतौ पित्तश्लेष्मोल्लेखात् पित्तश्लेष्ममिलनरूपस्याम्लपित्तस्य निदानम्| निदानपूर्वकमम्लपित्तस्य स्वरूपमाह– विरुद्धेत्यादि| विरुद्धं क्षीरमत्स्यादि, दुष्टं व्यापन्नमन्नं; विदाहिस्थाने विदग्धेति पाठान्तरे विदग्धं भर्जितं; पित्तप्रकोपिपानान्नभुज इति पित्तप्रकोपि पानं तक्रसुरादि, अन्नमाशुधान्यमाषादि; पित्तप्रकोपिपानान्नग्रहणेनैवाम्लविदाहिनो ग्रहणे सिद्धे तदभिधानं विशेषार्थं; ‘पित्तप्रकोपणाद्यन्नभुज’ इति पाठान्तरे आदिशब्दात् कफादिप्रकोपणमन्नं गृह्यते| एवंविधपानान्नमुपभुञ्जानस्य विदग्धं कुपितं, स्वहेतूपचितं पुरा यदिति वर्षासु जलौषधिगतविदाहादिभिः स्वहेतुभिरुपचितं सञ्चयमापन्नम्| यदुक्तम्– “वर्षास्वम्लविपाकित्वादद्भिरौषधिभिस्तथा|” (च. चि. अ. ३) इति| विदाहाद्यम्लगुणोद्रिक्तं पित्तमम्लपित्तम्||१||
Adhikarana amlapittalakShaNam (2) · Śloka 2
अविपाकक्लमोत्क्लेशतिक्ताम्लोद्गारगौरवैः |
हृत्कण्ठदाहारुचिभिश्चाम्लपित्तं वदेद्भिषक् ||२||
तस्य लिङ्गमाह– अविपाकेत्यादि| अविपाक इत्याहारापाकः, क्लमोऽनायासजः श्रमः| अम्लपित्ते पित्तं प्रधानं, वातकफावप्यत्रानुगौ गौरवोद्गारकम्पादिना ज्ञेयौ||२||
Adhikarana adhogatasyAmlapittasya lakShaNam (3) · Śloka 3
तृड्दाहमूर्छाभ्रममोहकारि प्रयात्यधो वा विविधप्रकारम् |
हृल्लासकोठानलसादहर्षस्वेदाङ्गपीतत्वकरं कदाचित् ||३||
तस्य कदाचिदध-ऊर्ध्वगमनभेदाद्द्विविधस्याधोगतिं तावदाह– तृड्दाहेत्यादि| मूर्छा सर्वथा ज्ञानशून्यत्वं, मोहो विपरीतज्ञानम्| प्रयात्यधो वेत्यत्र वाशब्दो भाव्यूर्ध्वगमनापेक्षया| विविधप्रकारमिति हरित्पीतकृष्णरक्तादिबहुवर्णत्वदुर्गन्धित्वयोगान्नानाविधम्| कदाचिदिति न सर्वकालम्||३||
Adhikarana UrdhvagasyAmlapittasya lakShaNam (4-6) · Śloka 6
वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम् |
मांसोदकाभं त्वतिपिच्छिलाच्छं श्लेष्मानुजातं विविधं रसेन ||४||
भुक्ते विदग्धे त्वथवाऽप्यभुक्ते करोति तिक्ताम्लवमिं कदाचित् |
उद्गारमेवंविधमेव कण्ठहृत्कुक्षिदाहं शिरसो रुजं च ||५||
करचरणदाहमौष्ण्यं महतीमरुचिं ज्वरं च कफपित्तम् |
जनयति कण्डूमण्डलपिडकाशतनिचितगात्ररोगचयम् ||६||
ऊर्ध्वगतिमाह– वान्तमित्यादि| नीलं स्निग्धकृष्णं, कृष्णं मर्दनाञ्जनवद्रूक्षकृष्णम्, आरक्तमीषल्लोहितं, रक्तमन्तर्लोहितम्| मांसोदकाभमिति मांसधावनतोयाभं कृष्णलोहितमित्यर्थः| विविधं रसेनेति रसेन लवणकटुतिक्ताख्येन नानारूपम्| करोति तिक्ताम्लवमिमिति तिक्तस्य अम्लस्य वा वमिं वान्तिं करोति| उद्गारमेवंविधमेवेति अत्र करोतीति सम्बध्यते, एवंविधमिति अम्लतिक्तम्| कण्ठहृत्कुक्षिदाहं शिरसो रुजं चेति अत्रापि करोतीति सम्बध्यते| करचरणेत्यादि– कण्डूमण्डलपिडकाशतनिचितगात्ररोगचयमिति कण्ड्वादिनिचितगात्रं च रोगचयं चेति द्वन्द्वः, तेन कण्ड्वादिनिचितगात्रं रोगचयं करोतीत्यर्थः; रोगचयोऽविपाकोत्क्लेशादिः||४-६||
Adhikarana amlapittasya sAdhyatvAdivicAraH (7) · Śloka 7
रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः |
चिरोत्थितो भवेद्याप्यः, कृच्छ्रसाध्यः स कस्यचित् ||७||
साध्यत्वादिकमाह– रोग इत्यादि| कृच्छ्रसाध्यः स कस्यचिदिति अहिताहाराचारशीलिनः कस्यचिच्चिरोत्थितोऽपि कृच्छ्रसाध्यः||७||
Adhikarana amlapitte doShAntarasaMsargaH, doShabhedenAmlapittalakShaNAni ca (8-12) · Śloka 12
सानिलं सानिलकफं सकफं तच्च लक्षयेत् |
दोषलिङ्गेन मतिमान् भिषङ्मोहकरं हि तत् ||८||
कम्पप्रलापमूर्छाचिमिचिमिगात्रावसादशूलानि |
तमसो दर्शनविभ्रमविमोहहर्षाण्यनिलकोपात् ||९||
कफनिष्ठीवनगौरवजडतारुचिशीतसादवमिलेपाः |
दहनबलसादकण्डूनिद्राश्चिह्नं कफानुगते ||१०||
उभयमिदमेव चिह्नं मारुतकफसम्भवे भवत्यम्ले |
तिक्ताम्लकटुकोद्गारहृत्कुक्षिकण्ठदाहकृत् ||११||
भ्रमो मूर्छारुचिश्छर्दिरालस्यं च शिरोरुजा |
प्रसेको मुखमाधुर्यं श्लेष्मपित्तस्य लक्षणम् ||१२||
तत्रैव केवलानिलकफानिलकफमात्राणां संसर्गमाह– सानिलमित्यादि| भिषङ्मोहकरमिति तस्योर्ध्वाधःप्रवर्तमानत्वेन छर्द्यतीसाराभ्यां सकाशाद्भेदस्य दुर्ज्ञेयत्वात् वैद्यमोहकरत्वम्| कफेत्यादि– सादवमिलेपा इत्यत्र सादोऽङ्गसादः, लेपः श्लेष्मलिप्तास्यता| दहनबलसादेति सादशब्दो दहनबलाभ्यां सम्बध्यते||८-१२||
Adhikarana puShpikA · Śloka 51
इति श्रीमाधवकरविरचिते माधवनिदानेऽम्लपित्तनिदानं समाप्तम् ||५१||
इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायाम्लपित्तनिदानं समाप्तम्||५१||