Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

40. vidradhinidānam

Adhikarana vidradhisamprAptiH (1-3) · Śloka 3

अथ विद्रधिनिदानम् | त्वग्रक्तमांसमेदांसि सन्दूष्यास्थिसमाश्रिताः | दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||१|| महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् | स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ||२|| पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा | षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||३|| (सु. नि. अ. ९) |

🔊 Audio coming soon

शोथत्वसामान्यात् विद्रधिनिदानम्| तस्य सम्प्राप्तिमाह– त्वग्रक्तमांसमेदांसीत्यादि| घोरमित्यन्येभ्योऽपि शोथसमुत्थानेभ्यो ग्रन्थ्यादिभ्य आशुकारित्वाद्दारुणम्| उच्छ्रिता भृशमिति अत्यर्थं वृद्धाः| अस्थिसमाश्रिता इत्यनेन स्थानसंश्रयोऽभिहितः| उच्छ्रिता भृशमित्यनेन प्रकोप आविष्कृतः, एतेनैवान्तरीयकतया चयप्रसरावप्याक्षिप्तौ मन्तव्यौ| महामूलमस्थ्यादिसमाश्रयणाद्गम्भीरमूलम्| रुजावन्तमिति उत्पत्तावेव रुजाप्रकर्षवन्तम्, अतिशायने मतुप्| वृत्तमित्यादि वृत्तं वर्तुलम्| आयतं दीर्घम्| वृत्तायताभ्यां ग्रन्थ्यादिविलक्षणता| विद्रधिरिति ख्यात इति, इतिशब्देन निरुपाधिसङ्केतमात्रा विद्रधिसञ्ज्ञेति दर्शयति| चरके तु विदाहप्रकर्षाद्विद्रधिसञ्ज्ञा| यदुक्तम्– “स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” (च. सू. अ. १७) इति||१-३||

Adhikarana vAtajavidradhilakShaNam (4) · Śloka 4

कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः | चित्रोत्थानप्रपाकश्च विद्रधिर्वातसम्भवः ||४|| (सु. नि. अ. ९) |

🔊 Audio coming soon

वातिकमाह– कृष्ण इत्यादि| विषमो भृशमिति कदाचिदल्पः, कदाचिन्महान्| चित्रोत्थानप्रपाक इति| चित्रौ नानाविधौ वायोर्विषमक्रियत्वात् उद्गमप्रपाकौ यस्य स तथा||४||

Adhikarana pittajavidradhilakShaNam (5) · Śloka 5

पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् | क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ||५||

🔊 Audio coming soon

पैत्तिकमाह– पक्वेत्यादि| ज्वरदाहावुत्थानकाल एव, पाककाले तु प्रकर्षवन्तौ ताविति विशेषः||५||

Adhikarana kaphajavidradhilakShaNam (6) · Śloka 6

शरावसदृशः पाण्डुः शीतः स्निग्धोऽल्पवेदनः | चिरोत्थानप्रपाकश्च विद्रधिः कफसम्भवः ||६|| (सु. नि. अ. ९) |

🔊 Audio coming soon

कफजमाह– शरावेत्यादि| शरावसदृश इति महत्त्वसूचनपरम्||६||

Adhikarana doShavisheSheNa vidradhInAmAsrAvabhedaH (7) · Śloka 7

तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः |७|

🔊 Audio coming soon

पाकानन्तरं सम्भूतास्रावलिङ्गमाह– तनुपीतसिताश्चैषामित्यादि| क्रमश इति यथाक्रमं; तेन वातेन तनुः, पित्तेन पीतः, कफेन सितः; तनुस्रावे वातानुरूपो वर्णो ज्ञेयः|७|–

Adhikarana sannipAtajavidradhilakShaNam (7) · Śloka 7

नानावर्णरुजास्रावो घाटालो विषमो महान् ||७|| विषमं पच्यते चापि विद्रधिः सान्निपातिकः | (सु. नि. अ. ९) |

🔊 Audio coming soon

सन्निपातजमाह– नानेत्यादि| नानावर्णरुजास्राव इति नानाशब्दो वर्णादिभिः प्रत्येकमभिसम्बध्यते; नाना बहुविधा वर्णाः कृष्णपीतशुक्लवर्णाः, रुजाः तोददाहकण्ड्वादिकाः, तनुपीतसिता आस्रावाश्च यस्य स तथा| अन्यत्र शोथे पाककाले नानारुजा, अत्र तु सर्वदा| घाटाल इति घाटा अस्यास्ति स घाटाल इति मत्वर्थीयो लच्, अत्युच्छ्रिताग्रत्वेन घाटाल इव| विषमोऽसाध्यत्वात्| विषमं पच्यते इति चिराचिरगम्भीरोत्तानोर्ध्वानूर्ध्वभेदेन विषमं यथा भवति तथा पच्यत इति; विषमम् असमम्| ननु, विषमपाकित्वं वातिके विद्रधावुक्तं, तथाऽनुपक्रान्ते च शोथे; यथा– “योऽभ्युत्थितोऽल्पो यदि वा महान् स्यात् क्रियां विना पाकमुपैति शोथः| विशालमूलो विषमो विदग्धः स कृच्छ्रतां यात्यवगाढदोषः||” (सु. सू. अ. १७) इति| अतः संशये कथं मिथो भेदप्रतीतिः? उच्यते– वातिके अप्रतीकारेणैव विषमपाकित्वम्, प्रतीकारेणैव भेदितम्| इह पुनः प्रतीकारेऽपि वैषम्यं; वातिके तु पाकमात्रवैषम्यं, न तु गाम्भीर्यादिना; अतो वातिकः साध्यः||७||–

Adhikarana AgantuvidradheH samprAptipUrvakaM lakShaNam (8-9) · Śloka 10

तैस्तैर्भावैरभिहते क्षते वाऽपथ्यकारिणः ||८|| क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् | ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ||९|| आगन्तुर्विद्रधिर्ह्येष पित्तविद्रधिलक्षणः |१०| (सु. नि. अ. ९) |

🔊 Audio coming soon

अभिघातजस्यागन्तोः सम्प्राप्तिमाह– तैस्तैरित्यादि| तैस्तैरिति काष्ठलोष्टपाषाणादिभिः| अभिहत इति अस्रुतरक्तस्य मथितपिच्चितादेरुपलक्षणं, क्षत इति स्रुतरक्तस्य छिन्नभिन्नादेः; द्वयोरभिहतयोरपथ्यकारिण इति विशेषणम्| क्षतोष्मेति क्षतशब्दस्य हिंसामात्रपरिग्रहात् क्षताभिहतयोरप्यूष्मा क्षतोष्मशब्देनोच्यते| वायुविसृत इति क्षते रक्तक्षयात् अभिहते अभिघातादेव वातकोपः, कुपितेन वातेन हेतुभूतेन विसृतः प्रसृतो वायुविसृतः| यद्यप्ययं वातपित्तरक्तजस्तथाऽपि प्रागभिघातसम्भवत्वेनागन्तुः, वातपित्तरक्तजानां जनकत्वेनैव विलक्षणाऽस्य सम्प्राप्तिः| पित्तविद्रधिलक्षण इति अत्रोक्तज्वरादिव्यतिरिक्तसंस्थानवर्णवेदनादिपित्तविद्रधिलिङ्गयुक्त इत्यर्थः||८-९||–

Adhikarana raktajavidradhilakShaNam (10) · Śloka 11

कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाकरः ||१०|| पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते |११| (सु. नि. अ. ९) |

🔊 Audio coming soon

रक्तजमाह– कृष्णेत्यादि| पित्तविद्रधिलिङ्गातिदेशेन लब्धावपि दाहज्वरौ तीव्रताविशेषार्थमुक्तौ| श्याव इति पित्तविद्रधिलिङ्गातिदेशेन प्रसक्तस्य पक्वोदुम्बरसङ्काशस्यापवादः| भोजप्रभृतयस्तु धातुरक्तजं विद्रधिं परित्यज्य मक्कल्लसञ्ज्ञयाऽऽर्तवलक्षणरक्तजं पठन्ति| तेषां मते आर्तवजेन सह षड्विद्रधयः, सुश्रुते तु धातुरक्तजोऽपि तथा मक्कल्लसञ्ज्ञकोऽपि विद्रधिः सामान्येन रक्तज एवेति षड्विद्रधय इति बोद्धव्यम्||१०||–

Adhikarana AbhyantaravidradhilakShaNam, AbhyantaravidradheradhiShThAnavisheSheNa visheShali~ggAni ca (11-16) · Śloka 16

पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपिणम् ||११|| वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्रधिम् | गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा ||१२|| वृक्कयोः प्लीह्नि यकृति हृदि वा क्लोम्नि वाऽप्यथ | तेषामुक्तानि लिङ्गानि बाह्यविद्रधिलक्षणैः ||१३|| अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः | गुदे वातनिरोधश्च बस्तौ कृच्छ्राल्पमूत्रता ||१४|| नाभ्यां हिक्का तथाऽऽटोपः कुक्षौ मारुतकोपनम् | कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ ||१५|| वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम् | सर्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते | श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ||१६|| (सु. नि. अ. ९) |

🔊 Audio coming soon

अधिष्ठानविशेषेण लिङ्गविशेषं साध्यतामसाध्यतां च प्रतिपादयितुमाभ्यन्तरविद्रधिमाह– पृथगित्यादि| इयमधिकविधानार्थमुक्ताऽपि सम्प्राप्तिर्विद्रधेः पुनरुच्यते| आभ्यन्तरस्य रक्तजस्य तथाऽऽगन्तोश्च विद्रधेर्दोषेण व्यपदेशादियमेव तत्रापि सम्प्राप्तिर्ज्ञेयेति कश्चित्| बाह्यागन्तुवदाभ्यन्तरागन्तुसम्प्राप्तिरित्यर्थः| क्षतजस्याभ्यन्तराभावान्न निर्दिष्टः क्षतज इति तु जेज्जटः| गुल्मरूपिणमिति गुल्मवत् संहतम्| एतदाभ्यन्तरविद्रधीनां सामान्यरूपं; विशेषलक्षणं तु बाह्यविद्रधिलक्षणैरेव ज्ञेयम्| वल्मीकवत् समुन्नद्धं समन्तादुन्नतम्; एतदपि पच्यमानावस्थायां सर्वेषां समानम्| बस्तिमुख इति बस्तिमुख एव, विद्रध्याधारभूतमांसादिसम्भवात्; न बस्तौ, तस्य तनुत्वात्| आटोपो रुजापूर्वकक्षोभः| मारुतकोपनमिति मार्गावरोधाद्वायोः कोपः| वृक्कयोरिति वृक्कमग्रमांसम्| सर्वाङ्गप्रग्रहः प्रत्यङ्गव्यथा, सर्वसिराधिष्ठानत्वात् हृदयस्य| क्लोम्नीति क्लोम वृक्कादूर्ध्वं पिपासास्थानम्| पेपीयते पयः इति पुनः पुनर्जलं पातुमिच्छतीत्यर्थः||११-१६||

Adhikarana vidradhInAM srAvanirgamamArgaH (17) · Śloka 17

नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः |१७| (सु. नि. अ. ९) |

🔊 Audio coming soon

स्रावनिर्गममार्गमाह– नाभेरित्यादि| उपरिजा वृक्कप्लीहादिजाः| यान्ति स्रवन्ति| नाभिजस्तूभयमार्गस्रावी, ऊर्ध्वाधःस्रावश्च तथागतित्वात् वातस्य| यदाह हारीतः– “ऊर्ध्वं प्रभिन्नेषु मुखान्नराणां प्रवर्ततेऽसृक्सहितोऽपि पूयः| अधःप्रभिन्नेषु च पायुमार्गात्, द्वाभ्यां प्रवृत्तिस्त्विह नाभिजेषु||” इति| इतर इति नाभिबस्तिवङ्क्षणजाः|१७|–

Adhikarana vidradheH sAdhyAsAdhyavicAraH (17-20) · Śloka 20

अधःस्रुतेषु जीवेत्तु स्रुतेषूर्ध्वं न जीवति ||१७|| हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः | जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ||१८|| (सु. नि. अ. ९) | साध्या विद्रधयः पञ्च विवर्ज्यः सान्निपातिकः | आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ||१९|| (वा. नि. अ. ११) | आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम् | रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ||२०|| (सु. सू. अ. ३३) |

🔊 Audio coming soon

साध्यत्वादिकमाह– अध इत्यादि| अधःस्रुतेष्विति स्वयमेव यदा नाभ्यादिजा भिन्ना अधः स्रवन्ति तदा जीवति| स्रुतेषूर्ध्वं न जीवतीति ऊर्ध्वं पूयस्यासम्यङ्निर्गमान्न जीवनम्| हृन्नाभिबस्तिवर्ज्या इति प्लीहक्लोमादिजाः| भिन्नेषु बाह्यत इति वैद्यव्यापारेण भिन्नेषु; अन्ये मर्माद्याशयजेषु स्वयमेव भिन्नेष्विति व्याचक्षते, अन्तर्भिन्नेष्वप्यधःस्राविषु जीवनोक्तेः| नेतरेष्विति हृन्नाभिबस्तिजेषु भिन्नेषु तेषां मर्मत्वाद् बाह्या आभ्यन्तरा वा वर्ज्याः| कदाचनेति पाके अपाके वा| तथा च भोजः– “असाध्यो मर्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः| सन्निपातोत्थितोऽप्येवं पक्व एव तु बस्तिजः|| त्वग्जो नाभेरधो यश्च साध्यो मर्मसमीपजः| अपक्वश्चैव पक्वश्च साध्यो नोपरि नाभिजः||” इति| अत्र मर्मजशब्देन हृदयनाभिजावुच्येते| बद्धनिष्यन्दमिति बद्धमूत्रम्| एतद्बस्तिजे प्रायः||१७-२०||

Adhikarana puShpikA · Śloka 40

इति श्रीमाधवकरविरचिते माधवनिदाने विद्रधिनिदानं समाप्तम् ||४०||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां विद्रधिनिदानं समाप्तम्||४०||