Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

48. śūkadōṣanidānam

Adhikarana shUkadoShanidAnam (1) · Śloka 1

अथ शूकदोषनिदानम् | अक्रमाच्छेफसो वृद्धिं योऽभिवाञ्छति मूढधीः | व्याधयस्तस्य जायन्ते दश चाष्टौ च शूकजाः ||१||

🔊 Audio coming soon

समानस्थानत्वाच्छूकदोषनिदानमाह– अक्रमादित्यादि| शूको जलशूकः, स तु विषजन्तुर्जलमलोद्भवः सशूकः, तथा शूकप्रधानो लिङ्गवृद्धिकरो वात्स्यायनाद्युक्तो योगः शूक उच्यते; तस्य दोषो वैकृतमसम्यक्करणात्, ततो वा दोषो वातादिः, तत्कृतो वा विकारः, “दोषा अपि व्याध्याख्यां लभन्ते” इत्यागमात्; अत एव शूकदोषविवरणे शूकदोषनिमित्ता व्याधय एव बोद्धव्याः| एवं च यदत्र ‘कुम्भिका रक्तपित्तोत्था’ इत्यादिकारणान्तरोपवर्णनं तत् शूककृतरक्तपित्तादिरूपं ज्ञेयम्| अन्ये त्वादिशब्दलोपात् शूकादिदोषनिदानमाहुः| आदिशब्देन दुष्टयोनिगूढान्तर्लोमदुर्भगागमनादि गृह्यते; तन्न मनोहरं, “वृद्धिं योऽभिवाञ्छति” इत्यनेन विशेषणेन दुष्टयोन्यादेरयोग्यस्य ग्रहीतुमनर्हत्वात्| अन्ये तु दुष्टयोन्यादीन्युपदंशहेतुत्वेनोक्तत्वात् नानुमन्यन्ते; तदनैकान्तिकम्, एकजातीयहेतूनामनेकरोगकरणदर्शनात्| अक्रमादित्यनुचितवृद्धिक्रमात्; अनुचिता च वृद्धिर्भूरिविकारकरजलशूकयोगानामाचारणात्, जलशूकयोगानां वात्स्यायनादौ विस्तरः| यथा– “भल्लातकास्थिजलशूकमथाब्जपत्रमन्तर्विदह्य मतिमान् सह सैन्धवेन| एतद्विरूढबृहतीफलतोयपिष्टमालेपनं महिषविड्विमलीकृतेऽङ्गे|| स्थूलं महत्तरतुरङ्गमतुल्यमाशु शेफं करोत्यभिमतं न हि संशयोऽस्ति||” इत्यादि| यच्च जलशूकरहितमश्वगन्धादितैलं तदुचितमेव लिङ्गवर्धनम्| यदुक्तम्– “अश्वगन्धावरीकुष्ठमांसीसिंहीफलान्वितम्| चतुर्गुणेन दुग्धेन तिलतैलं विपाचयेत्|| स्तनलिङ्गकर्णपालिवर्धनं म्रक्षणादिदम्||” इति| गदाधरस्त्वाह– लिङ्गवृद्धिरेव कामपरायणनिन्दितपुरुषैः क्रियमाणा अक्रमः| दश चाष्टौ चेति अष्टादश; सङ्ख्येयनिर्देशादेव लब्धायां सङ्ख्यायां पुनस्तदुक्तिः सम्मूढपिडकादौ द्वित्वशङ्कानिरासार्थम्||१||

Adhikarana sarShapikAlakShaNam (2) · Śloka 2

गौरसर्षपसंस्थाना शूकदुर्भुग्नहेतुका | पिडका श्लेष्मवाताभ्यां ज्ञेया सर्षपिका तु सा ||२|| (सु. नि. अ. १४) |

🔊 Audio coming soon

सर्षपिकामाह– गौरेत्यादि| शूकदुर्भुग्नहेतुकेति दुर्भुग्नशूकहेतुकेत्यर्थः| पिडकादिषु उभयवचनमिति(?) परनिपातः दुर्भुग्नो दुरवचारितः| ‘शूकदुर्भगहेतुका’ इति पाठान्तरे शूकनिमित्ता, दुष्टयोनिनिमित्ता चेत्यर्थः||२||

Adhikarana aShThIlikAlakShaNam (3) · Śloka 3

कठिना विषमैर्भुग्नैर्वायुनाऽष्ठीलिका भवेत् |३| (सु. नि. अ. १४) |

🔊 Audio coming soon

अष्ठीलिकामाह– कठिनेत्यादि| विषमैर्भुग्नैरिति वक्ष्यमाणशूकैरित्यनेन सम्बध्यते| विषमैरिति अप्रशस्तैः| अष्ठीलिका लौहकारस्य भाण्डीविशेष, तत्तुल्यत्वादष्ठीलिका|३|–

Adhikarana grathitalakShaNam (3) · Śloka 3

शूकैर्यत् पूरितं शश्वद्ग्रथितं नाम तत् कफात् ||३||

🔊 Audio coming soon

ग्रथितमाह– शूकैरित्यादि| शूकैर्यत् पूरितं शश्वद्ग्रथितमिति शूकैः सर्वदा पूरितं लिङ्गं यत् ग्रन्थिलं तत् ग्रथितमित्यर्थः; ग्रन्थितुल्यत्वात् ग्रथितसञ्ज्ञा||३||

Adhikarana kumbhikAlakShaNam (4) · Śloka 4

कुम्भिका रक्तपित्तोत्था जाम्बवास्थिनिभाऽशुभा |४| (सु. नि. अ. १४) |

🔊 Audio coming soon

कुम्भिकामाह– कुम्भिकेत्यादि| कुम्भी कुम्भीलता, तस्याः फलं कुम्भी; तद्धितस्य लुक्; ‘इवे प्रतिकृतौ’ इति कन् कुम्भीफलवत् कुम्भिका| अशुभेति शुभं शुक्लं तद्विरोधे नञ्, कृष्णेत्यर्थः| ‘आशुजा’ इति पाठान्तरम्|४|–

Adhikarana alajIlakShaNam (4) · Śloka 4

तुल्यजां त्वलजीं विद्याद्यथाप्रोक्तां विचक्षणः ||४|| (सु. नि. अ. १४) |

🔊 Audio coming soon

अलजीमाह– तुल्यजामित्यादि| तुल्यजामिति प्रमेहपिडका अलजी तत्तुल्यसम्भवा, सा च रक्ताऽसिता स्फोटचिता| तुल्यत्वमेव विवृणोति– यथाप्रोक्तामिति| अलजी यथाप्रोक्ता यादृशलक्षणा तथेयमपीत्यर्थः| एषा च कारणचिकित्साभेदात् प्रमेहं विना लिङ्ग एव सम्भवाच्च ततः पृथग्भूता ज्ञेया||४||

Adhikarana mRuditalakShaNam (5) · Śloka 5

मृदितं पीडितं यच्च संरब्धं वातकोपतः |५| (सु. नि. अ. १४) |

🔊 Audio coming soon

मृदितमाह– मृदितमित्यादि| पीडितमिति अधिकृतत्वात् शूकपातानन्तरं पीडितमिति ज्ञेयं, पीडितं ‘लिङ्गम्’ इति शेषः| संरब्धं सशोथम्|५|–

Adhikarana sammUDhapiDakAlakShaNam (5) · Śloka 5

पाणिभ्यां भृशसम्मूढे सम्मूढपिडका भवेत् ||५|| (सु. नि. अ. १४) |

🔊 Audio coming soon

सम्मूढपिडकामाह– पाणिभ्यामित्यादि| पाणिभ्यां भृशसम्मूढे इत्यधिकारात् पातितशूके लिङ्गे पाणिभ्यां भृशसम्मूढे पिच्चितावनते, अत्रापि ‘वातकोपात्’ इत्यनुवर्तते||५||

Adhikarana adhimanthalakShaNam (6) · Śloka 6

दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः | सोऽधिमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत् ||६|| (सु. नि. अ. १४) |

🔊 Audio coming soon

अधिमन्थमाह– दीर्घा इत्यादि| कफासृग्भ्यामिति शूकपातकृताभ्याम्| एवमन्यत्रापि सामान्येन शूकदोषाभिहिते शूकपातोऽनुक्तोऽपि ज्ञेयः| वेदनारोमहर्षकृदिति वेदनया रोमहर्षं करोति||६||

Adhikarana puShkarikAlakShaNam (7) · Śloka 7

पिडका पिडकाव्याप्ता पित्तशोणितसम्भवा | पद्मकर्णिकसंस्थाना ज्ञेया पुष्करिका तु सा ||७|| (सु. नि. अ. १४) |

🔊 Audio coming soon

पुष्करिकामाह– पिडेकेत्यादि||७||

Adhikarana sparshahAnilakShaNam (8) · Śloka 8

स्पर्शहानिं तु जनयेच्छोणितं शूकदूषितम् |८| (सु. नि. अ. १४) |

🔊 Audio coming soon

स्पर्शहानिमाह– स्पर्शहानिं त्वित्यादि|८|–

Adhikarana uttamAlakShaNam (8) · Śloka 8

मुद्गमाषोपमा रक्ता रक्तपित्तोद्भवा तु या ||८|| व्याधिरेषोत्तमा नाम शूकाजीर्णनिमित्तजा | (सु. नि. अ. १४) |

🔊 Audio coming soon

उत्तमामाह– मुद्गमाषेत्यादिना| एषोत्तमा व्याधिः शूकाजीर्णनिमित्तजा भवति, शूकाजीर्णं पुनः पुनर्दुरवचारितशूकविकृतिरूपमेव| “व्याधिरेषोत्तमो नाम” इति पाठान्तरे एषोत्तम इति निर्देशः पूर्वत्रासिद्धविधेरनित्यत्वात् साधुः||८||–

Adhikarana shataponakalakShaNam (9) · Śloka 11

छिद्रैरणुमुखैर्लिङ्गं चितं यस्य समन्ततः ||९|| वातशोणितजो व्याधिः स ज्ञेयः शतपोनकः | (सु. नि. १४) ||११||

🔊 Audio coming soon

शतपोनकमाह– छिद्रैरणुमुखैरित्यादिना| छिद्रैरिति दुरवचारितशूकदोषजनितवातशोणितजैः, चितमुपचितम्, अत एव चिकित्सायां लेखनोपदेशः| शतपोनकश्चालनिका, तत्तुल्यत्वात् शतपोनकः||९||–

Adhikarana tvakpAkalakShaNam (10) · Śloka 10

वातपित्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहकृत् ||१०|| (सु. नि. अ. १४) |

🔊 Audio coming soon

त्वक्पाकमाह– वातपित्तकृत इत्यादि| शूकदोषेषु क्वचित् कस्यचित् दोषस्याभिधानं शूकविशेषादाहाराचारभेदाच्च समर्थनीयम्||१०||

Adhikarana shoNitArbudalakShaNam (11) · Śloka 11

कृष्णैः स्फोटैः सरक्ताभिः पिडकाभिर्निपीडितम् | यस्य वास्तुरुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम् ||११|| (सु. नि. अ. १४) |

🔊 Audio coming soon

शोणितार्बुदमाह– कृष्णैः स्फोटैरित्यादिना| पिडकाभिरिति स्वल्पाभिर्निपीडितं लिङ्गमिति बोद्धव्यम्| यस्य वास्तुरुज इति वास्तु व्रणाधिष्ठानं, तत्र रुजः, अगाधोच्छ्रितमांसशोथत्वात्| ‘बस्तिरुजश्चोग्रा’ इति पाठान्तरम्| अर्बुदं दुरवचारितशूकजशोणितकृतम्||११||

Adhikarana mAMsArbudalakShaNam (12) · Śloka 12

मांसदोषेण जानीयादर्बुदं मांससम्भवम् |१२| (सु. नि. अ. १४) |

🔊 Audio coming soon

मांसार्बुदमाह– मांसदोषेणेत्यादि| मांसदोषेणेति शूकपातानन्तरं प्रहारादिना कृतेन मांसदोषेण|१२|–

Adhikarana mAMsapAkalakShaNam (12) · Śloka 12

शीर्यन्ते यस्य मांसानि यस्य सर्वाश्च वेदनाः ||१२|| विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक् | (सु. नि. अ. १४) |

🔊 Audio coming soon

मांसपाकमाह– शीर्यन्ते यस्येत्यादि| शीर्यन्ते गलन्ति, सर्वाश्च वेदना इति वातपित्तकफजाः||१२||–

Adhikarana vidradhilakShaNam (13) · Śloka 13

विद्रधिं सन्निपातेन यथोक्तमिति निर्दिशेत् ||१३|| (सु. नि. अ. १४) |

🔊 Audio coming soon

विद्रधिमाह– विद्रधिमित्यादि| सन्निपातेन यथोक्तमिति ‘नानावर्णरुजास्रावः’ इत्यादिना सन्निपातजविद्रधिलक्षणं विद्रधिमिह जानीयादित्यर्थः||१३||

Adhikarana tilakAlakalakShaNam (14-15) · Śloka 15

कृष्णानि चित्राण्यथवा शूकानि सविषाणि वा | पातितानि पचन्त्याशु मेढ्रं निरवशेषतः ||१४|| कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः | सन्निपातसमुत्थांस्तु तान् विद्यात्तिलकालकान् ||१५|| (सु. नि. अ. १४) |

🔊 Audio coming soon

तिलकालकमाह– कृष्णानीत्यादि| चित्राणीति नानावर्णानि| सविषाणीति शूकानां सविषत्वेऽपि विशेषार्थमुक्तम्| कालानीति कृष्णानि, कृष्णतिलतुल्यत्वात् तिलकालकसञ्ज्ञा| शीर्यन्ते गलन्ति||१४-१५||

Adhikarana shUkadoShANAM sAdhyAsAdhyavicAraH (16) · Śloka 16

तत्र मांसार्बुदं यच्च मांसपाकश्च यः स्मृतः | विद्रधिश्च न सिद्ध्यन्ति ये च स्युस्तिलकालकाः ||१६|| (सु. नि. अ. १४) |

🔊 Audio coming soon

शूकदोषेष्वसाध्यानाह– तत्र मांसार्बुदमित्यादि| यच्चेति चकारोऽयं भिन्नक्रमः, स च न सिद्ध्यतीत्यनन्तरं द्रष्टव्यः; तेन साध्यताऽप्येषामचिरत्वादिना भवति, अत एव प्रत्याख्याय चिकित्साविधानमुपपन्नमिति गदाधरः| दुर्ज्ञानात् साध्ये एव असाध्यतारोपादसम्पूर्णावस्थायामसाध्येऽपि क्रियासिद्धेश्च मा निवर्ततां भिषगिति प्रत्याख्याय चिकित्सां कारुणिकतया आचार्य उपदिशतीति मन्तव्यम्||१६||

Adhikarana puShpikA · Śloka 48

इति श्रीमाधवकरविरचिते माधवनिदाने शूकदोषनिदानं समाप्तम् ||४८||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायां शूकदोषनिदानं समाप्तम्||४८||