Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

47. upadaṁśanidānam

Adhikarana upadaMshanidAnam (1) · Śloka 1

अथोपदंशनिदानम् | हस्ताभिघातान्नखदन्तपातादधावनाद्रत्यतिसेवनाद्वा | योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः ||१||

🔊 Audio coming soon

स्थानप्रत्यासत्तेरुपदंशनिदानमाह– हस्तेत्यादि| नखदन्तपातादिति बलवदनुरागोदयात् नखदन्तच्छेदस्थानत्वेनानुक्तेऽपि मेहने नखदन्तपातः; यदुक्तं कामशास्त्रे– “शास्त्रस्य विषयस्तावद्यावन्मन्दरसा नराः| प्रवृत्ते रतिचक्रे तु न शास्त्रं नापि च क्रमः||” (का. सू. सां. अ. २) इति| कलहादिवशाद्वा मेहने नखदन्तपातः| अधावनादप्रक्षालनात्| रत्यतिसेवनादिति व्यवायस्यात्यन्तसेवनात्| योनिप्रदोषादिति दीर्घकर्कशरोमादियोगाद्योनिदुष्टेः| शिश्ने मेहने| विविधापचारैरिति अशुद्धसलिलप्रक्षालनब्रह्मचारिणीगमनादिभिः| उपदंशसञ्ज्ञा च दंशनोपाधिमन्तरेणापि रूढा बोद्धव्या| यद्यप्यभिघातक्षते मेहने उपदंश आगन्तुः षष्ठः सम्भाव्यते, तथाऽपि तस्य दोषलिङ्गयुक्ततया दोषज एवान्तर्भावः||१||

Adhikarana vAtika-paittikopadaMshalakShaNam (2) · Śloka 2

सतोदभेदैः स्फुरणैः सकृष्णैः स्फोटैर्व्यवस्येत् पवनोपदंशम् | पीतैर्बहुक्लेदयुतैः सदाहैः पित्तेन... |२|

🔊 Audio coming soon

पैत्तिकमाह– पीतैरित्यादि| स्फोटैरित्यनुसञ्जनीयम्| एवमुत्तरत्रापि|२|–

Adhikarana raktaja-kaphajopadaMshalakShaNam (2-3) · Śloka 3

...रक्तात् पिशितावभासैः ||२|| स्फोटैः सकृष्णै रुधिरं स्रवन्तं रक्तात्मकं पित्तसमानलिङ्गम् | सकण्डुरैः शोथयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन ||३||

🔊 Audio coming soon

रक्तजमाह– रक्तादित्यादि| रक्तात् पिशितावभासैरिति मांसवत्ताम्रैः स्फोटैः रक्ताच्छोणितात् उपदंशं व्यवस्येत्| ‘रक्तैः’ इति पाठान्तरे रक्तैः शोणितैः||२-३||

Adhikarana sannipAtajopadaMshalakShaNam (4) · Śloka 4

नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम् |४|

🔊 Audio coming soon

सन्निपातजमाह– नानाविधेत्यादि| नानाविधस्रावरुजोपपन्नमिति प्रत्येकदोषोक्तस्राववेदनायुक्तम्| त्रिमलोपदंशमिति त्रिदोषोपदंशम्|४|–

Adhikarana upadaMshasyA sAdhyalakShaNam (4) · Śloka 4

विशीर्णमांसं क्रिमिभिः प्रजग्धं मुष्कावशेषं परिवर्जयेच्च ||४||

🔊 Audio coming soon

असाध्यतामाह– विशीर्णेत्यादि| मुष्कावशेषमिति विशीर्णसमस्तमेहनमांसत्वेनावशिष्टफलकोषमात्रम्||४||

Adhikarana upadaMshasyAsAdhyalakShaNam (5) · Śloka 5

सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः | कालेन शोथक्रिमिदाहपाकैर्विशीर्णशिश्नो म्रियते स तेन ||५||

🔊 Audio coming soon

उपक्रमे चिकित्साकरणार्थमाह– सञ्जातेत्यादि| विषये प्रसक्त इति अतिव्यवायरतः| कालेन चिरकालेन||५||

Adhikarana li~ggArsholakShaNam (6-7) · Śloka 7

अङ्कुरैरिव सङ्घातैरुपर्युपरिसंस्थितैः | क्रमेण जायते वर्तिस्ताम्रचूडशिखोपमा ||६|| कोषस्याभ्यन्तरे सन्धौ सर्वसन्धिगताऽपि वा | (सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा) | लिङ्गवर्तिरभिख्याता लिङ्गार्श इति चापरे ||७||

🔊 Audio coming soon

एकस्थानत्वेनात्र लिङ्गार्श आह– अङ्कुरैरित्यादि| अङ्कुरैरङ्कुरसदृशैरीषद्दीर्घैः, सङ्घातैर्मांसप्रतानैः, ‘सञ्जातैः’ इति पाठे ‘मांसैः’ इति शेषः| ताम्रचूडशिखोपमा इति ताम्रचूडः, कुक्कुटः, तच्चूडातुल्या| सन्धाविति मेढ्ररन्ध्रसन्धौ, सर्वसन्धिगतेत्यनेन सर्वसन्धेरुक्तत्वात्| एषा त्रिदोषजा, वर्तिरिति योज्यम्; अत एव ‘सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा|’ इति क्वचित् पाठः| सुश्रुते क्वचित् स्त्रीणामप्युपदंशः पठ्यते| यथा– “मेढ्रसन्धौ व्रणाः केचित् केचित् सर्वाश्रयास्तथा| कुलत्थाकृतयः केचित् केचित् पद्मदलोपमाः|| रुजादाहार्तिबहुलाः कृष्णास्तोदसमन्विताः| शीघ्रं केचिद्विसर्पन्ति शनैः केचित्तथाऽपरे| स्त्रीणां पुंसां च जायन्ते उपदंशाः सुदारुणाः||” इति| किन्तु समानतन्त्रेष्वदर्शनादेतदनार्षमाहुः||६-७||

Adhikarana puShpikA · Śloka 47

इति श्रीमाधवकरविरचिते माधवनिदाने उपदंशनिदानं समाप्तम् ||४७||

🔊 Audio coming soon

इति श्रीकण्ठदत्तकृतायां मधुकोशव्याख्यायामुपदंशनिदानं समाप्तम्||४७||