Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

27. udāvartānāhanidānam

Adhikarana udAvartanidAnam (1) · Śloka 1

अथोदावर्तानाहनिदानम् | वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः | क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्तसम्भवः ||१||

🔊 Audio coming soon

उदावर्तेऽपि शूलं भवतीति शूलानन्तरमुदावर्तमाह– वातेत्यादि| अस्रमश्रु, इन्द्रियशब्देनात्र शुक्रं, क्षुत् बुभुक्षा| धृत्या वेगविधारणेन| एते वातादयस्त्रयोदश नियमार्थाः; तेनान्येषां क्रोधादीनां वेगविधारणं न तद्धेतुः, स्वास्थ्यहेतुत्वात्| यदाह चरकः– “लोभशोकभयक्रोधमानवेगान् विधारयेत्|” (च. सू. अ. ७) इत्यादि| सर्वोदावर्तेषु च वायुरेव कारणम्| यदाह सुश्रुतः– “सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः| वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये||” (सु. उ. तं. अ. ५५) इत्यादि| उद्भूतेन वेगविधारणेनावृतस्य वायोर्वर्तनमित्युदावर्तनिरुक्तिः; अन्ये तु वायोरूर्ध्वमावर्तो गमनमित्युदावर्तमाहुः; तन्न, अश्रुस्रावादेरव्यापकत्वात्; छत्रिणो गच्छन्तीति न्यायेन वा समाधेयम्||१||

Adhikarana vAtanirodhaja-purIShanirodhaja-mUtranirodhaja-jRumbhopaghAtaja-bAShpanirodhaja-kShavathunirodhaja-udgAranirodhaja-chardinigrahaja-shukranirodhaja-kShudhAnirodhaja-tRuShNAvighAtaja-niHshvAsavinigrahaja-nidrAbhighAtajodAvartalakShaNam (2-12) · Śloka 12

वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा | जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ||२|| (च. सू. अ. ७) | आटोपशूलौ परिकर्तिका च सङ्गः पुरीषस्य तथोर्ध्ववातः | पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ||३|| (सु. उ. तं. अ. ५५) | बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा | विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे ||४|| (च. सू. अ. ७) | मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः | तथाऽक्षिनासावदनामयाश्च भवन्ति तीव्राः सह कर्णरोगैः ||५|| आनन्दजं वाऽप्यथ शोकजं वा नेत्रोदकं प्राप्तममुञ्चतो हि | शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||६|| (सु. उ. तं. अ. ५५) | मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ | इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात् ||७|| (च. सू. अ. ७) | कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथवाऽप्रवृत्तिः | उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः ||८|| (सु. उ. तं. अ. ५५) | कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः | कुष्ठवीसर्पहृल्लासाश्छर्दिनिग्रहजा गदाः ||९|| (च. सू. अ. ७) | मूत्राशये वै गुदमुष्कयोश्च शोथो रुजा मूत्रविनिग्रहश्च | शुक्राश्मरी तत्स्रवणं भवेच्च ते ते विकारा विहते च शुक्रे ||१०|| तन्द्राङ्गमर्दावरुचिः श्रमश्च क्षुधाभिघातात् कृशता च दृष्टेः | कण्ठास्यशोषः श्रवणावरोधस्तृष्णाविघाताद्धृदये व्यथा च ||११|| श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः | जृम्भाऽङ्गमर्दोऽक्षिशिरोऽतिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१२|| (सु. उ. तं. अ. ५५) |

🔊 Audio coming soon

उक्तवाताद्युदावर्तानां क्रमेण लक्षणमाह– वातेत्यादि| अन्ये इति तोदशूलादयः| मेहनं शेफः| विनाम आनाहपीडया (बन्धनवत्पीडया) नतगात्रत्वम्| वङ्क्षणयोरानाहो बन्धनवत्पीडा| नेत्रोदकमश्रु, प्राप्तमागतममुञ्चतो ‘नरस्य’ इति शेषः| चकारात्तन्त्रान्तरोक्तप्रतिश्यायहृद्रोगारुचिप्रभृतीनां ग्रहणम्| अर्धावभेदोऽर्धशिरःशूलम्| कूजोऽव्यक्तभाषणमिति कार्तिकः| वायोरप्रवृत्तिरुच्छ्वासनिरोधः| घोरा विकाराः पवनजा हिक्कादयः| मूत्राशये बस्तौ, ‘मूत्रायन’ इति पाठे स एवार्थः| वैशब्दः पादपूरणे| तत्स्रवणं शुक्रस्य स्यन्दनम्| अतिजाड्यं गौरवम्| ‘शिरोगात्राक्षिगौरवम्’ इति तन्त्रान्तरे पाठः||२-१२||

Adhikarana rUkShAdikupitavAtajodAvartasya nidAna-samprApti-lakShaNAni (13-16) · Śloka 16

वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः | भोजनः कुपितः सद्य उदावर्तं करोति हि ||१३|| वातमूत्रपुरीषासृक्कफमेदोवहानि वै | स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||१४|| ततो हृद्बस्तिशूलार्तो हृल्लासारतिपीडितः | वातमूत्रपुरीषाणि कृच्छ्रेण लभते नरः ||१५|| श्वासकासप्रतिश्यायदाहमोहतृषाज्वरान् | वमिहिक्काशिरोरोगमनःश्रवणविभ्रमान् | बहूनन्यांश्च लभते विकारान् वातकोपजान् ||१६|| (सु. उ. तं. अ. ५५) |

🔊 Audio coming soon

वेगनिरोधजानुदावर्तानभिधाय रूक्षादिकुपितवातजमाह– वायुरित्यादि| उदावर्तयति आवृणोति| अतिवर्तयेत् शोषयेत्| कृच्छ्रेण लभते इति कष्टेन प्रवर्तयति| अत्र केचित् सुश्रुतोक्तमसाध्यलक्षणं पठन्ति– “तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरुपद्रुतम्| शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत्||” (सु. उ. तं. अ. ५५) इति||१३-१६||

Adhikarana AnAhalakShaNam (17-20) · Śloka 20

आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन | प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति ||१७|| तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः | आमाशये शूलमथो गुरुत्वं हृत्स्तम्भ उद्गारविघातनं च ||१८|| स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्छा शकृतश्च छर्दिः | शोथश्च पक्वाशयजे भवन्ति तथाऽलसोक्तानि च लक्षणानि ||१९|| (सु. उ. तं. अ. ५६) | तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् | शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||२०|| (सु. उ. तं. अ. ५५) |

🔊 Audio coming soon

इदानीं विगुणानिलजत्वेन समानचिकित्स्यत्वेनानाहमाह– आममित्यादि| नेति पूर्वेण सम्बध्यते| एवं छर्दिरित्येक एव छकारश्छन्दोऽनुरोधात्| स्तम्भशब्दः कट्यादेः स्तब्धतावाची, मूत्रपुरीषयोश्चाप्रवृत्तिवाची| अलसोक्तानीति आध्मानवातनिरोधादीनि||१७-२०||

Adhikarana puShpikA · Śloka 27

इति श्रीमाधवकरविरचिते माधवनिदाने उदावर्तानाहनिदानं समाप्तम् ||२७||

🔊 Audio coming soon

इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायामुदावर्तानाहनिदानं समाप्तम्||२७||